#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00061 Uniform title: prāṇatoṣiṇī part 6 Author : rāmatoṣaṇa compiler Description: Compiled by rāmatoṣaṇa bhaṭṭācārya Originally published by kalikātā in Bengali script in the tantrasārādivividhatantrasaṃgraha Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0 : Feb. 18, 2009 . Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### Pराणतोषिणी श्रीरामतोषण भट्टाचर्ययेण टन्त्रशास्त्रात् संकलयय विरचिता | Vइ, ए उपाधिधारिणा पण्डितकुलपतिना श्रीजीवानन्दविद्यासागरभट्टाअचर्ययेण प्रकाशिता | Kअलिकातानगरे Kअलिकाता यन्त्रे मुद्रिता १८९८ आड् अथ द्वारकाशिलालक्षणम् || स्कन्दपुराणे || चक्रे तु दृश्यते लिङ्गं शिलायां नारद ! क्वचित् | श्रीधरः स तु विज्ञेयः सर्वकामफलप्रदः इति श्रीधरलक्षणम् || १ || पुराणसारे || द्वारकाकार्त्तिकमाहात्म्ये || चक्रमेकं मध्यभागे श्वेता भागे खुरान्विता | शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा | खुरान्विता वीथियुता | ब्रह्माण्डपुराणे || कूर्माकृतिरधोभागे लिङ्गभागे खुरान्वितः | शिवनाभिरिति ख्यातो भुक्तिमुक्तिफलप्रदः || नृसिंहपुराणे || कूर्मचक्रमधोभागे श्वेता भागे खुरान्विता | शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा | यवमात्रन्तु गर्त्तं स्याद् यवार्द्धं लिङ्गमुच्यते | शिवनाभिरिति ख्यातस्त्रिषु लोकेषु दुर्लभः || इति शिवनाभिलक्षणम् || २ || ब्रह्माण्डपूराणे || जटापाशी अघोरा सा गृहिभिर्यदि पूजिता | हेमवर्णजटायुक्ता प्. ६९१) हेमविन्दुसमन्विता | मस्तके गोखुरा तावदञ्जनाचलसन्निभा | सद्योजाताभिधा श्रेष्ठा पुत्रपौत्रधनप्रदा || इति सद्योजातलक्षणम् || ३ || तत्रैव || शिरोमध्ये रक्तवर्णा श्वेतचन्द्रजटायुता | वामदेवाभिधा श्रेष्ठा गृहिभिः पूजिता सदा || इति वामदेवलक्षणम् || ४ || तत्रैव || किञ्चित्कपिलसंयुक्ता कृष्णनीलजटायुता | पार्श्वरेखासमोपेता ईशानी मुक्तिदा भवेत् || इति ईशानलक्षणम् || ५ || सूययविद्युत्तमनिभा पार्श्वदेशे जटा शशी | तत्पुरुषाभिधाना स्याद् दुर्लभा सर्वकामदा || इति तत्पुरुषलक्षणम् || ६ || द्विलिङ्गो वा त्रिलिङ्गो वा चतुःपञ्चादिलिङ्गवान् | तापिञ्छकोरकाकारो देवदेवः सदाशिवः || इति सदाशिवलक्षणम् || ७ || इत्यघोरादिपञ्चकलणम् || प्रयोगपारिजाते || द्विनाभिश्चक्ररूपा या भवेद्धरिहरात्मिका | नाभौ लिङ्गेन युक्ता वा श्वेताभा वै खुरान्विता | शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा | वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् | तस्माद्धरिहरक्षेत्रे पूजयेच्छङ्कराच्युतम् | भवेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा || अथ द्वारकाशिलामाहात्म्यम् || स्कन्दपुराणे || द्वाराचक्रशिला देवि ! भद्रा पाशसमुद्रिता | तत्पात्रसहितं तत् स्यात्तीर्थं द्वादशयोजनम् | म्लेच्छदेशे शुचौ वापि चक्राङ्को यत्र तिष्ठति | योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ! | तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः | शतबाधाविनिर्मुक्तो न पुनः सोऽपि जायते | चक्राङ्कितस्य सान्निध्ये यत्कर्म क्रियते नरैः | स्नानं दानं जपो होमः सर्वं भवति चाक्षयम् | संवत्सरन्तु यत् पापं मनसा कर्मणा कृतम् | प्. ६९२) तत्सर्वं नश्यते पुंसां सकृच्चक्राङ्कदानतः | ज्वरदाहो विषञ्चैव अग्निश्चौरभयं तथा | सर्वे ते प्रशमं यान्ति सकृच्चक्राङ्कमार्जनात् | भूतप्रेतपिशाचाश्च डाकिन्यश्च वसुन्धरे ! | सर्वे ते प्रलयं यान्ति पञ्चचक्रान्वितं न्यसेत् | भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन्नरः | अपि चेत् स दुराचारो मुच्यते नात्र संशयः | संवत्सरन्तु यः कुर्यात् पूजास्पर्शनदर्शनम् | विनाशाख्येन योगेन मुच्यते नात्र संशयः | अथ द्वारकाशिलावर्णविशेषलक्षणम् || पद्मपुराणे || कृष्णा मृत्युप्रदा नित्यं कपिला तु भयावहा | औन्मत्त्यं कर्वुरा दद्यात् पीता धनविनाशिनी | धूम्राभा पुत्रनाशाय भग्ना भार्याधनापहा | श्वेतास्तिलाः सुसम्पूर्णाः सर्वकामार्थ दायिकाः | अच्छिद्रचक्रा सा पूज्या दुःखदारिद्र्यनाशिनी | वर्त्तुला चतुरस्रा च पूजिता सिद्धिदायिका | सुखदा समचक्रा च विषमा दुःखदा भवेत् || निषिद्धशिलापि तत्रैव || छिद्रा भग्ना विकोणा च तथा विषमचक्रिका | अर्द्धचन्द्राकृतिर्या च पूज्यास्ता न भवन्ति हि | योगपारिजाते तु विशेषः || भिन्नश्चैवार्थनाशाय स्थूलो बुद्धिविनाशकः | दीर्घश्चायुर्हरो ज्ञेयो रूक्ष ऋद्धिविनाशकृत् | शुक्लवर्णा शुभा ज्ञेया दन्तचक्रा तथैव च || चक्रभेदे मूर्त्तिभेदोऽग्नि पुराणे उक्तो यथा || सुदर्शनस्त्वेकचक्रे लक्ष्मीनारायणो द्वये | अच्युतः स्यात्तत्त्रिके च युतो देवस्त्रिविक्रमः | चकारो वार्थे त्रिचक्रोऽच्युतस्त्रिविक्रमो वेत्यर्थः | जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः | षट्चक्रश्चैव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः | पुरुषोत्तमश्चाष्टचक्रो नवव्यूहो नवात्मकः | दशावतारो दशभिर्दशैकेनानिरुद्धकः | द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनङ्गकः || गरुडपुराणे तु चतुश्चक्रश्चतुर्भुज इति विशेषः | प्. ६९३) चक्रभेदेन विशेषोऽपि तत्रैव || एकचक्रशिला पूज्या भुक्तिमुक्तिफलप्रदा | द्विचक्रश्चाच्युतो देवो देवेन्द्रत्वफलप्रदः | श्रीप्रदो रिपुहन्ता च चतुश्चक्रो जनार्दनः | पूजयेद्भक्तिसंयुक्तः सुगन्धैः कुसुमादिभिः | पञ्चभिर्वासुदेवः स्यात् प्रभुश्चक्रैः सदार्च्चितः | जन्ममृत्युभयात्त्राता भवेन्नैवात्र संशयः | षड्भिश्चक्रैश्च प्रद्युम्नो लक्ष्मीकीर्त्तिप्रदो भवेत् | पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः | बलभद्रशिला ज्ञेया सप्तचङ्काङ्किता खग ! | पूजितस्तुष्यते देवः पुत्रपौत्रप्रदो भवेत् | वाञ्छितं वसुभिश्चक्रैर्ददाति पुरुषोत्तमः | नवव्यूहो नवचक्रो दुर्लभं यत् सुरैरपि | पूजितः केशवस्तस्य ददाति स्थानमुत्तमम् | राज्यदो दशभिश्चक्रैर्दशावतारसंज्ञकः | दशावतारपूजा स्याच्चक्राङ्कस्यास्य पूजनात् | एकादशभिरैश्वर्यमधिकञ्च प्रयच्छति | पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः | तत्रैव प्राप्यते देवश्चक्रैर्द्वादशभिश्चितः | पूजितः सर्वकामाणामनन्तफलदायकः | द्वादशात्मा स विज्ञेयो भुक्तिमुक्तिप्रदोऽर्च्चितः | अत ऊर्द्ध्वं परात्मासौ सदा प्रीतिविवर्द्धनः | पूजितः सर्वलोकात्मा विष्णुलोकप्रदायकः | इति चक्राङ्कितशिलाः कथिताः कुलनामतः || एकचक्रविषये विशेषस्तु || प्रयोगपारिजाते || एकचक्रविशेषोऽस्ति न विशेषस्तथोच्यते | शुक्लरक्तं रथा रक्तं द्विवर्णं बहुवर्णकम् | यद्येकचक्रिणः स्युश्च तेषां संज्ञा भवेत् क्रमात् | पुण्डरीकः प्रलम्बघ्नो रामो वैकुण्ठ एव च | विश्वेश्वर इति ब्रह्मन् ! तेषां पूजाफलं शृणु | मोक्षं मृत्युं विवादञ्च दारिद्र्यं परतन्त्रताम् | ददाति पूजकस्यासौ तस्मात्तां परिवर्जयेत् || इति द्वारकाशिलालक्षणम् || ब्रह्माण्डपुराणे || सर्वत्र लोहिताकारा मूर्द्ध्निरक्तप्रभा मता | अपीठे पीठमाविश्य कृत्वा सम्प्रोक्षणं विधिम् | त्यजेत्तत्र शिवं तेषां प्रतिष्ठा न प्. ६९४) च सीयते | दग्धं श्लक्षणं क्षताङ्गञ्च क्षिपेल्लिङ्गं जलाशय | सन्धानयोग्यं सन्धाय प्रतिष्ठादिकमाचरेत् | वराद्वाविकलं लिङ्गं देवं पूजापुरःसरम् | आदाय हृदि सन्धानं प्राणञ्चाप्युक्तमाचरेत् | पृष्ठ लिङ्गे चावरे वा शूद्रौघैरप्रितिष्ठिते | रुद्राभासे वृते धीमान् विशोध्यात्र समर्च्चयेत् || सिद्धान्तशेखरे || लिङ्गादीनाञ्च वीजानां प्रोच्यते विधिरूर्द्धतः | सर्वारिष्टविनाशार्थं सर्वप्राणिहितार्थकम् | लिङ्गस्य पण्डिकायाश्च प्रतिमा मुखलिङ्गयोः | सर्वेषां परिवाराणां हर्म्यप्रासादयोस्तथा | उद्धारश्चोद्धृतिः प्रोक्ता चोद्धारे हेतुरुच्यते | स्फुटिते खण्डिते भिन्ने दग्धे वा सति चाग्निना | उन्मत्तैः शत्रुभिश्चीरैः करिणाम्भोजमाहृते | लिङ्गे पीठादिके वापि विशीर्णे कालपर्ययात् | देहे जीर्ण यथा देही त्यक्त्वान्यमुपगच्छति | लिङ्गादीनि तु जीर्णानि तथा मुञ्चन्ति देवताः | ततः प्रेताश्च वेताला जीर्णं दृष्ट्वाश्रयन्ति च | लिङ्गादि सत्त्वशून्यत्वात्तथा च ब्रह्मराक्षसाः | कर्त्तुर्नृपाणां राष्ट्रस्य तद्ग्रामस्य विशेषतः | पीडां कुर्वन्ति तेऽप्युग्रां दुर्भिक्षमरणादिकम् | तस्मात् सर्वप्रयत्नेन कुर्यादुद्धारणक्रियाम् || इति लिङ्गाद्युद्धारविधिः || तत्प्रतिप्रसवस्तु तत्रैव || स्वयम्भुवे च पीठे च वाणलिङ्गे तथैव च | ऋषिभिश्चासुरैर्देवैस्तत्त्वविद्भिः प्रतिष्ठिते | लिङ्गे जीर्णादिदुष्टेऽपि नोद्धारं तत्र कारयेत् | स्वयम्भुवादिलिङ्गानां लिङ्गपीठे परित्यजेत् | उक्तैर्दोषादिभिर्दुष्टं मानुषेषु परित्यजेत् | चौराद्यैश्चालितं लिङ्गं स्थापयेन्निर्व्रणं पुनः | यदि पुनस्तल्लिङ्गं निर्व्रणं भवेत् तदा तदेव पुनः स्थापयेत् || तथा | बाहुपादशिरोहीनां कर्णनासास्यहीनकाम् | तादृशीं परिवाराणां प्रतिमां परिवर्जयेत् | यद्द्रव्यं परिमाणञ्च लिङ्गं वा प्रतिमापि वा | त्यक्तं तत्तेन मानेन तद्द्रव्यण प्रकल्पयेत् | कारयेन्नान्यमानेन नान्यद्रव्येण तद्बुधः | नान्याकारञ्च नामन्त्रं स्थापयेत् प्. ६९५) पुनरुत्तमाम् | स्रोतसापहृते लिङ्गे प्रासादे वा तदन्यतः | तत्समीपगते देशे स्थापयेद्बाधवर्जिते | प्राकारे पतिते हर्म्ये गोपुरे मण्डपादिके | तदाकारञ्च तद्द्रव्यं तन्मानं तत्र कारयेत् | कथं योग्यशिला ग्राह्या अदुष्टाश्च तथाविधाः | हीनद्रव्यकृतं हर्म्यं श्रेष्ठैर्द्रव्यैः समाचरेत् | हीनं व्याप्यधिकं मानमाकारं वा न कारयेत् | एवमुक्तेन मार्गेण दोषैरुक्तैर्विचारयेत् | लिङ्गपीठादिकं जीर्णं तदुद्धारं तदाचरेत् | तिथिनक्षत्रवारादींस्तदर्थं न विचारयेत् | जीर्णं चोद्धारयेज्जीर्णमजीर्णं रक्षयेद् बुधः || अग्निपुराणे || सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् | शतेन स्थापनं कुर्यात् सहस्रेण तु वाणजम् | सुस्थितदुःस्थितलक्षणमपि तत्रैव | पूजितादिभिश्च संयुक्तं जीर्णाद्यमांप सुस्थितम् | पूजया रहितं यत्तददुष्टमपि दुःस्थितम् || अथ शालग्रामपूजा || ओं सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् | स भूमिं सर्वतो वृत्य अत्यतिष्ठद्दशाङ्गुलम् || इत्यादिना पुरुषसूक्तमन्त्रैरेकेन द्वाभ्यां त्रिभिर्वा शङ्खजलेन जलान्तरेण वा शालग्रामं स्नापयित्वा नववस्त्रेण कराभ्यां वा जलमपनीय सचन्दनतुलसीपत्रोपरि निधाय तस्योपरि सचन्दनतुलसीपत्रं दत्त्वा ताम्रादिपात्रे संस्थाप्य सामान्यार्घ्यं संस्थाप्य गणेशादित्यादिनवग्रहेन्द्रादिदशदिक्-पालान् सम्पूज्य पुनरर्घ्य स्थापनं कृत्वा | नां हृदयाय नम इत्यादिना अङ्गन्यासं करन्यासञ्च विधाय शालग्रामस्य पूर्वाद्यैशान्यन्तं कर्त्रे हर्त्रे धात्रे विधात्रे सामवेदाय यजुर्वेदाय ऋग्वेदाय अथर्ववेदाय प्रणवादिनमोऽन्तेन पूजयेत् | ततः पुष्पं गृहीत्वा ध्यायेद्यथा | ओं ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः | केयरवान् कनककुण्डलवान किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः || इत्यनेन ध्यात्वा प्. ६९६) स्वशिरसि पुष्पं दत्त्वा मानसोपचारेण सम्पूज्य पुनर्ध्यात्वा एतत्पाद्यं ओं नमो नारायणाय नमः | एषोऽर्घ इति यजुर्वेदी | ऋग्वेदी तु एषोऽर्घ्यः | सामगश्चेदिदमर्घ्यं इति वदेत् | अर्घ्यः पुमान् यजुःष्वेव निर्यकारो विधीयते | छन्दोगानां क्लीवलिङ्गं पिण्डे लिङ्गविपर्ययः || इति वचनात् | तत एतदाचमनीयम् | एष गन्धः | एतत् पुष्पम् | एतत् तुलसीपत्रम् | एष धूपः | एष दीपः | एतन्नैवेद्यम् | एतत्पानार्थजलम् | एतत् पुनराचमनीयम् | एतत्ताम्बूलम् | इत्यादि यथाशक्ति सम्पूज्याक्षरपूजां कुर्याद् यथा | ओं ओं नमः | ओं न नमः | ओं मो नमः | ओं ना नमः | ओं रा नमः | ओं य नमः | ओं णा नमः | ओं य नमः ततश्चक्रं पूजयेत् | चक्रपूजाप्रमाणमग्रे वक्ष्यते | पूजाक्रमो यथा | ओं आचक्राय नमः | एवं विचक्राय | सुचक्राय त्रैलोक्यरक्षणचक्राय | सुदर्शनचक्राय | दैत्यान्तकचक्राय | असुरान्तकचक्राय | जगच्चक्राय | परमचक्राय | शालग्रामशिलाधिष्ठातृवासुदेवाय | प्रणवादिनमोऽन्तेन पूजयित्वा यथाशक्ति जप्त्वा गुह्यादिना जपं समर्प्य | ओं अविनयमपनय विष्णो ! दमय मनः शमय विषयरसतृणाम् | भूतदयां विस्तारय तारय संसारसागरतः || १ || दिव्यधुनीमकरन्दपरिमलपरिभोगसच्चिदानन्दे | श्रीपतिपदारविन्दे भवखेदच्छिदेऽरविन्दे || २ || सत्यपि भेदापगमे नाथ ! तवाहं न मामकीनस्त्वम् | सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः || ३ || उद्धृतनगनगभिदनुजकुलामित्रशशि-दृष्टे | दृष्टे प्रभवति न भवति भवतिरस्कारः || ४ || मत्स्यादिभिरवतारैरवतारय तां सुधाम् | परमेश्वर ! परिपाल्यो भवतापभीतोऽहम् || ५ || दामोदर ! गुणमन्दिर ! सुन्दरवदनारविन्द ! गोविन्द | भवजलधिमथनमन्दर ! परमं दरमपनयत्वं मे | नारायण ! करुणामय ! शरणं करवाणि तावक्रौ प्. ६९७) चरणौ | इति षट्पदी मदीये वदनसरोजे सदा वसतु || ६ || इति यमेनोक्ता षट्पदी समाप्ता || इत्यनेनार्घ्य पात्रं गृहीत्वा प्रदक्षिणत्रयं कुर्यात् | ततः शङ्खं शिरसि भ्रामयित्वा त्रिभिरष्टाङ्गं पञ्चाङ्गं वा प्रणमेत् || यथा | ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् | भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ! ते चरणारविन्दम् || १ || त्यक्त्वा सुदुस्त्यजसुरेप्सितराजलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम् | मायामृगं दयितयेप्सितमन्वधावद्वन्दे महापुरुष ! ते चरणारविन्दम् || २ || ओं नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च | जगद्धिताय कृष्णाय गोविन्दाय नमो नमः || इति प्रणम्य प्रार्थयेद्यथा | नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् | तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि || या प्रीतिरतिरेकाणां विषयेष्वनपायिनी | त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु || युवतीनां यथा यूनि यूनाञ्च युवती यथा | मनोऽभिरमते तद्वन्मनो मे रमतां त्वयि || ततः कृतार्थोऽस्मीत्युक्त्वा तथा विभाव्य च नृत्यगीतादिकं कृत्वा | ओं कृष्ण ! कृष्ण ! महाबाहो ! भक्तानामार्त्तिनाशन ! || सर्वपापप्रशमनं पादोदकं प्रयच्छ मे | इत्यनेन चरणामृतं पीत्वा तच्छेषम् | ओं अकालमृत्युहरणं सर्वव्याधिविनाशनम् | विष्णुपादोदकं पुण्यं शिरसा धारयाम्यहम् | इत्यनेन शिरसि धारयेत् | शिरसि धारणफलन्तु || अकालमृत्युहरणं सर्वव्याधिविनाशनम् | शालग्रामशिलातोयं योऽभिषेकं समाचरेत् | स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः | पीत्वा शीर्षे धारयेद्यो विष्णुलोकं स गच्छति || वीरमित्रोदयधृतवृहन्नारदीये || हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः | पादोदकञ्च निर्माल्यं मस्तके यस्य सोऽच्युतः | मृत्युकाले तु यस्यास्ये दीयते पादयोर्जलम् | अपि पापसमाचारः स गच्छेद्विष्णुमव्ययम् इति मृत्यु काले प्. ६९८) विष्णुपादोदकभक्षणफलम् || तोयञ्च तुलसीञ्चैव चन्दनं द्विजमब्जकम् | घण्टा ऋचा शिला ताम्रं नवभिश्चरणोदकम् | ऋचा पुरुषसुक्तमन्त्र इति चरणोदकलक्षणम् | वशिष्ठसंहितायाम् | शालग्रामशिलातोयमपीत्वा यस्तु मस्तके | प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते | विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् | तदैवाष्टगुणं पापं भूमौ विन्दुनिपातनात् | विष्णुपादोदकात्पूर्वं विप्रपादोदकं विबेत् | विरुद्धमाचरन्मोहादात्महा स निगद्यते | पृथिव्यां यानि तीर्थानि तानितीर्थानि सागरे | सागरे यानि तीर्थानि पदे विप्रस्य दक्षिणे | इति विष्णुपादोदकमाहात्म्यगर्भपान-मन्त्रः | वत्स ! तुभ्यं मया दत्तं पिब शेषं जरामृतम् | सर्वदा सुखदं देव ! जयं देहि रिपुं दह || इति पादोदकदानमन्त्र इति प्रसङ्गाल्लिखितम् || नैवेद्यभक्षणमन्त्रः | ओं उच्छिष्टभोजनं तस्य वयमुच्छिष्टकाङ्छिणः | येन नीलवराहेण हिरण्याक्षो निपातितः दधिवामनादेमन्त्रविशेषादयस्तु तन्त्रसारेऽनुसन्धेयाः || इति प्राचीनपद्धतिधृतशालग्रामपूजा || अथ विष्णुपूजा || सनत्कुमारतन्त्रे द्वितीयपटले || ब्राह्मे मुहूर्त्ते उत्थाय शुचिर्भूत्वा समाहितः | आसने उपविश्याथ गुरुं नत्वा पुटाञ्जलिः | आत्मानं ब्रह्मणो रूपं चिन्तयेच्च मुहुर्मुहुः | जप्त्वा मन्त्रञ्च सर्वेषां वादिनां विजयी भवेत् | ततः स्नात्वा शुचिर्भूत्वा सन्ध्यादीन् वैदिकांस्तथा | कुर्याद् गुरूपदेशेन लौकिकानपि देशिकः | श्रीकृष्णं तर्पयामीति मूलमुच्चार्य तर्पयेत् | पूजाद्वारे चोपविश्य पादप्रक्षालनं सुधीः | शिखाया बन्धनञ्चैव चास्त्रमन्त्रेण मन्त्रवित् | आचम्य द्वारदेवांस्तु पूजयेत् साधकोत्तमः | द्वारदेवतापूजा तु पूर्वमुक्ता | विघ्नानुच्चाटयित्वा तु हस्तभूम्योर्विशोधनम् | गुरुं नत्वा गणेशञ्च वास्तुपूजां समाचरेत् | प्. ६९९) ब्रह्माणं पूजयित्वा तु आत्मासनमतः परत् | भूतशुद्धिं विधायाथ देवोऽहं चिन्तयेद्बुधः | ऋष्यादीन् न्यस्य सर्वत्र मातृकार्णान् ततः परम् | प्राणायामत्रयं कुर्यादङ्गन्यासञ्च मन्त्रवित् | आचक्रञ्च विचक्रञ्च सुचक्रञ्च द्विजोत्तमः | त्रैलोक्यरक्षणं चक्रमसुरान्तकमेव च सुदर्शनं जगच्चक्रं दैत्यान्तं परमं महत् | एकैकं पूर्वतः कृत्वा चक्रशब्दं नियोजयेत् | चतुर्थ्यन्तञ्च संमाध्य स्वाहाशब्दमनन्तरम् | तथा चाङ्गं समुच्चार्य प्रत्येकैकं नियोजयेत् | नमः स्वाहा वषट् कवचाय हुं मन्त्रकम् | हृदि मूर्ध्नि शिखादेशे तनौ दिक्षु यथाक्रमम् | सशक्तिभिः कुशवाद्यैर्न्यासं कुर्याद् विचक्षणः | विभूतिपञ्जरं न्यस्य न्यसेत्तु मूर्त्तिपञ्जरम् | तत्त्वन्यासं प्रकुर्वीत करन्यासं तथा बुधः | मन्त्रन्यासं प्रकुर्वीत व्यापञ्च त्रिधा न्यसेत् | विभूतिपञ्जरन्यासं यत्र यत्र दशाक्षरम् | एवं कल्पोक्तकान् न्यासान् क्रमेण परिकल्पयेत् || न्यासस्तु तन्त्रसारकारेणैव धृत इति || तथा | शङ्खस्थापनकञ्चापि कुर्याद् गुरूपदेशतः | अर्घ्यञ्चापि तथा कृत्वा द्रव्यमभ्युक्ष्य यत्नतः | पीठं प्रकल्प्य देहेषु धर्मादीन् पूजयेत्ततः | हृदि चैव अनन्तादीन् पूजयच्च यथाविधि | वाह्यं मुखं गृहस्थस्य वर्णिनोऽन्ते प्रपूजनम् | भास्करञ्च गणेशञ्च शिवं दुर्गां प्रपूजयेत् | यन्त्रं निर्माय ताम्रे तु अनन्तादीन् प्रपूजयेत् | अस्य कोणेषु धर्मादीन् तत्पार्श्वेऽधर्मपूर्वकान् | मध्येऽपि पूजयेन्नित्यमनन्तादीन् चतुर्दश | केशरेषु च पूज्या वै विमलाद्याश्च देवताः | आत्मानं देवतां भाव्य स्वनासापुटकेन तु | निःसार्य पूजयेद्देवं सदावाह्य प्रयत्नतः | अनन्ताद्यैश्च वीजैश्च प्राणस्थापनमाचरेत् | पद्गादींश्चैव यत्नेन पूजयेदावृतीगणान् | धूपदीपौ समासाद्य नैवेद्यञ्च निवेदयेत् | जप्त्वा मन्त्रञ्च तन्त्रोक्तं पूजयेद्देववत् स्वयम् | प्. ७००) श्रीकृष्णं तर्पयामीति मूलमुच्चार्य यत्नतः | वारत्रयार्घ्यतोयेन तर्पयेन्मन्त्रमस्तके | प्राणायामत्रयं कृत्वा व्यापकञ्च त्रयं न्यसेत् | स्वतन्त्रोक्तेन विधिना प्रयोगं कुरुते सुधीः || इति विष्णुपूजा सूत्रम् || अथ विष्णोरुपचारमन्त्रः || योगिनीपटले || मीनरूपो वराहश्च नरसिंहोऽथ वामनः | आयातु देवो वरदो मम नारायणोऽग्रतः || इत्यावाहनम् | सुरेशस्य पादपीठे पद्मकल्पितमासनम् | सर्वतत्त्वहितार्थाय तिष्ठस्व मधुसूदन ! | इत्यासनम् | पाद्यञ्च पादयोर्द्देव ! पाद्मनाभ ! सनातन ! | विष्णो ! कमलपत्राक्ष ! गृहाण मधुसूदन ! || इति पाद्यम् | त्रैलोक्यपतीनां पतये देवदेवाय एव च | आर्याय हृषीकेशाय तस्मै श्रीविष्णवे नमः | इत्यर्घ्यम् | मन्दाकिन्यास्तुते वारि जय पापं हराशुभम् | गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् || इत्याचमनीयम् || त्वमापः पृथिवी चैव ज्योतिस्त्वं वह्निरेव च | लोकसंवित्तिमात्रेण वारिणा स्नापयाम्यहम् || इति स्नानम् | देव ! वस्त्रं समायुक्तं यज्ञवर्णविभूषितम् | स्वर्णवर्णप्रभेदेन वाससी तव केशव ! || इति वस्त्रम् | शरीरं ते लेपयामि चेष्टा सैव च केशव ! | मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् || इति गन्धः | ऋग्वेदादिषु मन्त्रेण शोधितं पद्मयोनिना | सावित्रीग्रन्थिसंयुक्तमुपवीतमथाक्ष-यम् || इत्युपवीतम् | दिव्यवर्णसमायुक्ता वह्निभानुसमन्विताः गात्राणि शोभयन्त्येते अलङ्कारास्तु मानवाः | इत्यलङ्कारः | वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च भोः ! | मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् || इति धूपः | सूर्यश्चन्द्रश्च विद्युच्च त्वमेवाग्निस्तथैव च | त्वमेव ज्योतिषां देव ! दीपोऽयं प्रतिगृह्यताम् || इति दीपः | अन्नं पञ्चविधं देव ! रसैः षड्भिः समन्वितम् | मया निवेदितं भक्त्या नैवेद्यं तव केशव ! || मत्स्यसूक्ते उपरिभागे अष्टचत्वारिंशत्पटले विशेषः | सुमेरोः प्. ७०१) पादपीठान्ते पद्मकल्पितमासनम् | सर्वसत्त्वहितार्थाय गृहाण मधुसूदन ! || इत्यासनम् | सुपाद्यं पादयोर्देव ! पद्मनाभ ! सनातन ! | विष्णो ! कमलपत्राक्ष ! गृहाण मधुसूदन ! || इति पाद्यम् || २ || त्रैलोक्यपतीनां पते ! देवदेव ! जनार्दन ! | गृहाणार्घ्यं जगन्नाथ ! नानामलयजं प्रभो ! || इत्यर्घ्यम् || ३ || मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् | गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् || इत्याचमनीयम् || ४ || मधुपर्कं महादेव ! ब्रह्माद्यैः परिकल्पितम् ! मया निवेदितं भक्त्या गृहाण मधुसूदन ! || इति मधुपकम् || ५ || दिव्यवस्त्रसमायुक्ते बहुतन्तुविनिर्मिते | सुवर्णप्रभवे देव ! वाससी तव केशव ! || इति वस्त्रम् | ६ | ऋग्यजुःसाममन्त्रेण निर्मितं पद्मयोनिना | सावित्रीग्रन्थिसंयुक्तमुपवीतं तवाच्युत ! || इत्युपवीतम् | ७ | वनस्पतिरसोत्पन्नो गन्धाढ्यः सुरसम्मतः | आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् || इति धूपः | ८ | सूर्याचन्द्रमसोर्ज्योतिर्विद्युदग्न्योस्तथैव च | त्वमेव र्ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् || इति दीपः | ९ | अन्नं चतुर्विधञ्चैव रसैः षड्भिः समन्वितम् | मया निवेदितं भक्त्या नैवेद्यं तव केशव ! | इति नैवेद्यम् | १० | दिव्यतन्तुसमायुक्ता वह्निभानुसमन्विताः | गात्राणि तव शोभन्तामलङ्काराः शुभा इमे | इत्यवङ्काराः || ११ || नारदपञ्चरात्रे तृतीयरात्रे पञ्चदशाध्याये || व्यास उवाच || वक्ष्येऽक्षयधनावाप्त्यै प्रतिपत्तिं श्रियः पतेः | सुगुप्तां धननाथाद्यैर्यद्देवैः श्रीयते सदा | द्वारावत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः | अनल्पैः कल्पदृक्षैश्च वाते तु मण्डपे तथा | गलद्रत्नमयस्तम्भद्वारतोरणकुड्यके | फुल्लस्रगुल्लसच्चित्रवितानालम्बिमौक्तिके | पद्मरागस्थनीराजदत्रनद्योश्च मध्यतः | प्. ७०२) अनावृतगलद्रत्नमणिकल्पतरोरधः | रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे | उद्यदादित्यसङ्काशमानसिंहासनाम्बुजे | समासीनोऽच्युतो ध्येयो द्रुतहाटकसन्निभः | समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः | सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः | पीतवासाश्चक्रशङ्खगदापद्मोज्ज्वलद्- भुजः | अनावृतोज्ज्वलद्रत्नधारो मुकुलसंस्पृशन् | वामपादाम्बु जाग्रेण अच्युतां पल्लवच्छविम् | रुक्मिणी सत्यभामास्य मूर्द्ध्नि रत्नौघ धारया | सिञ्चन्त्यो दक्षवामस्थे स्वदोःस्थकलसोत्थया | लग्ने ज्योतिःसुनन्दा वा शान्त्योदकलसौ तयोः | ताभ्याञ्च दक्षवामस्थे मित्रवृन्दासुलक्षणे | रत्ननद्याः समुद्धृत्य रसपूर्णौ घटौ तयोः | जाम्बूवती सुशीला च दिशन्त्यौ दश वामने | हरेः षोडशसाहस्रसंख्याताः परितः प्रियाः | ध्येयाः कनकरत्नौघधारायुक्कलसोज्ज्वलाः | तद्वहिश्चाष्टनिधयः पूरयन्तो धनैर्धराम् | तद्वहिर्वृष्?णयः सर्वे पुरोवच्च सुरादयः | ध्यात्वैवं परमात्मानं विंशत्यन्तं मनुं जपेत् | चतुर्लक्षं हुमेदाज्यैर्द्वाविंशतिसहस्रकम् | शक्तिः श्रीपूर्वकोण्ठादशान्नो विंशतिरम्भकः | मन्त्रेण न सदृक्षोऽन्यो मनुर्न हि जगत्त्रये | ऋषिर्ब्रह्मास्य गायत्री छन्दः कृष्णस्तु देवता | पूर्वप्रोक्तवदेवास्य वीजशक्त्यादिकल्पना | कल्पः सनत्कुमारोक्तो मन्त्रस्यास्योच्यतेऽधुना | पीठन्यासान्तिकं कृत्वा पूर्वोक्तकमतः सुधीः | करद्वन्द्वाङ्गुलितलेष्वङ्गषट्कं प्रविन्यसेत् | मन्त्रेण व्यापकं कृत्वा मातृकां मनुसम्पुटाम् | संहारसृष्टिमार्गेण दश तत्त्वानि विन्यसेत् | पुनश्च व्यापकं कृत्वा मन्त्रवर्णांस्तनौ न्यसेत् | मूर्द्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः कर्णयोर्नसोः | अनेन चिबुके कण्ठे दोर्मूले हृदि तुन्दके | नाभौ लि * * तथाधारे कट्यां जान्वोश्च जङ्घयोः | गुल्फयोः पादयोर्न्यस्येत् सृ?ष्टिरेषा पेमरिता? | स्थितिर्हृदादिनासान्ता संहतिश्चरणादिकं विधायैवं पञ्चकृत्वः स्थित्यन्तं मूर्त्तिपञ्जरम् | प्. ७०३) सृष्टिस्थिती च विन्यस्य षडङ्गन्यासमाचरेत् | गुणाग्निवेदकरणाद्यक्षरैर्मध्यमाः स्मृताः | मुद्रां बद्ध्वा किरीटाख्यां दिग्बन्धं पूर्ववच्चरेत् | एवं ध्यात्वार्च्चयेद् गेहं मूर्त्तिपञ्जरपूर्वकम् | अथवाभ्यर्च्चयेद्विष्णुं तदर्थं मन्त्रमुच्यते | गोमयेनोपलिप्यार्च्चां तत्र पीठं निधापयेत् | विलिप्य गन्धपङ्केन लिखेदष्टदलाम्बुजम् | कर्णिकायान्तु षट्कोणं स साध्यस्तत्र तन्मुखम् शिष्टैस्तं सप्तदशभिरक्षरैर्वेष्टयेत् स्वयम् | प्रागक्षरादिकोणेषु श्रियं शिष्टे सुसंविदम् | षडक्षरं सन्धिषु च केशरेषु त्रिशस्त्रिशः | विलिखेत् स्मरगायत्रीं मालामन्त्रं दलाष्टके | षट्शः संलिख्य तद्वाह्ये वेष्टयेन्मातृकाक्षरैः | भूविम्बञ्च लिखेद्वाह्ये दिग्विदिक्षु समाहितः | एतन्मन्त्रं हाटकादिपात्रेष्वालिख्य पूर्ववत् | साधितं धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि | स्याद्गायत्री कामदेवपुष्पवाणौ च ङेऽन्तकौ | विद्महे धीमहियुतैस्तहोऽनङ्गः प्रचोदयात् | जप्त्वास्य पादौ गोपालं मनूनां जनरञ्जनम् | नृत्यं ते कामदेवाय ङेऽन्तं सर्वजनप्रियम् | उक्त्वा मवजनान्ते तु सम्मोहनपदं तथा | ज्वलज्वलप्रज्वलेति प्रोच्य मवजनस्य च | हृदयञ्च मम ब्रूयाद्वशं कुष युग शिव ! | प्रोक्तो मदनमन्त्रोऽयं चत्वारिंशद्भिरक्षरैः | जपादौ मारवीजाद्यो जगत्त्रयवशाकरः | भूगृहं चतुरस्रं स्यादऽष्टवज्र?विभूषितम् | पीठं पूर्ववदभ्यर्च्य मूर्त्तिं सङ्कल्प्य पौरुषीम् | तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् | आसनादिविभूषान्तं न च न्यासं क्रमान्न्यसेत् | सृष्टिस्थितिं षडङ्गञ्च किरीटं कुण्डलद्वयम् | शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभम् | गन्धाक्षतप्रसूनैश्च मूलेनाभ्यर्च्य पूर्ववत् | आदौ वह्निपुरद्वन्द्वकोणेष्वङ्गानि पूजयेत् | सकृच्छिरःशिखावर्मनेत्रमन्त्रमिति क्रमात् | वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः | अग्न्यादिदलमूलेषु शान्तिर्लक्ष्मीः सरस्वती | प्. ७०४) रतीश्चादिश्च ते षष्ठास्ततोऽष्टौ महिषी र्यजेत् | तद्वहिश्चन्द्रवज्राद्या आवृतीः सम्प्रपूजयेत् | इति सप्तावृतिवृतमभ्यर्च्याच्युतमादरात् | प्रीणयेद्दधिखण्दाज्यमिश्रेण तु पयोऽम्भसा | जाजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् | उद्वास्यास्य स्वहृदये परिवारगणैः सह | नत्वात्मानं समभ्यर्च्य तन्मयः प्रजपेन्मनुम् | रत्नाभिषेकध्याने ह्याविंशत्यन्ता श्रिये ततः | जपहोमार्च्चनैर्ध्यानैर्योऽसुं प्रजपते मनुम् | तद्वेश्म पूर्यते रत्नस्वर्णधान्यैरनावृतम् | वृथ्वी करतले तस्य सर्वशस्यकुलाकुला | पुत्रैर्मित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिम् | वह्नावभ्यर्च्य गोविन्दं सपुष्पैः सिततण्डुलैः | आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्द्ध्नि धापयेत् | तस्यान्नानां समृद्धिः स्यात्तद्वशे सर्वयोषितः | आज्यैर्लक्षं हुमेद्रक्तपद्मैर्वा मधुराप्लुतैः | श्रिया तस्यैन्द्रमैश्वर्यं कृपा नाशिक्षिते ध्रुवम् | शुक्लादिवस्त्रलाभाय सुशुक्लकुसुमैर्हुमेत् | तवाकृतिं ब्रुवन्तो वा चक्राद्यङ्गाङ्गनां विना | विंशत्यन्तोक्तयज्जलधिया ध्यायेदथाच्युतम् | वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गके प्रिये ! | पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रधरोज्ज्वलम् | दशलक्षं जपेदाज्यैस्तावत् साहस्रहोमतः | सिद्धाविमौ मनू सम्पत्सखसौभाग्यदौ नृणाम् | मारशक्तिवशापूर्वशक्तिः श्रीमान् मनुत्रयम् | एतेषां मनुवर्णानां नाम कुर्याद्दशान्तवत् | शङ्खचक्रधनुर्वाणपाशाङ्कुश-धरोरगाः | वेणुधमनं धृष्णं दोर्भ्यां ध्येयः कृष्णोदिवाकरे | आद्यगणो ध्यानमेवं द्वितीये विशतस्तु तत् | दशान्तरतृतीये स्यात् दिक्पादैश्च समर्च्चना | पञ्चलक्षं जपेत्तावदयुतं पायसैर्हुमेत् | ततः सिद्धास्तु मनवो मृणां सम्पत्तिकान्तिदाः || अथ विष्णुनाममाहात्म्यम् || मत्स्यसूक्ते महातन्त्रे षोडशपटले || विष्णुनामानि पुण्यानि कीर्त्तयन् प्रहरे प्रिये ! | कोटिकल्पसहस्राणि वैकुण्ठे वसते ७०५) नरः | नामैकं वै द्वितीयञ्च तृतीयं हि क्षणे क्षणे | कीर्त्तयन् भक्तिभावेन विष्णुलोकं व्रजेत् प्रिये ! | कीर्त्तयन् हरिनामानि भक्त्या पुण्यानि वै शुभे ! | महाभयेषु सर्वेषु न भयं विद्यते क्वचित् | कुर्वन् वा कारयेद्वापि अहोरात्रञ्च वै प्रिये ! | नीत्वा कुलसहस्राणि मामाप्नोत्येव तत्त्वतः | नामाक्षरं गुणयुतं भावमन्त्रेण सम्मितम् | त्रिसन्ध्यं कीर्तयेद्यस्तु स गच्छेद्वैष्णवं पुरम् | वैष्णवानां नराणाञ्च अर्च्चयन्ति सदा प्रिये ! | सर्वपापविनिर्मुक्ताः शिवलोकं प्रयान्ति ते | आं नमो नारायणायेति ये वदन्ति मनीषिणः | किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः || अथ श्रीकृष्णशतनामस्तोत्रम् || नारदपञ्चरात्रे चतुर्थरात्रे प्रथमाध्याये उमामाहेश्वरसंवादे || श्रीकृष्ण उवाच वसुन्धरे ! वरारोहे ! नाम्नामष्टोत्तरं शतम् | सर्वमङ्गलमङ्गल्यमणिमाद्यष्टसिद्धि-दम् || महापातककोटिघ्नं सर्वतीर्थफलप्रदम् | समस्तजपयज्ञानां फलदं पापनाशनम् || शृणु देवि ! प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् | सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत् फलम् || एकावृत्त्या तु कृष्णस्य नाम्नैकं तत् प्रयच्छति | तस्मात् पुण्यतमञ्चैतत् स्तोत्रं पापप्रणाशनम् || श्रीकृष्णस्याष्टोत्तरशतनाम्नां श्रीशेष ऋषिरनुष्टुप् छन्दः श्रीकृष्णो देवता श्रीकृष्णाष्टोत्तरशतनाम्नः पाठे विनियोगः || ओं श्रीकृष्णः कमलानाथो वासुदेवः सनातनः | वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः || श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः | चतुर्भुजस्तु चक्रासिगदाशङ्खाम्बुजायुधः || देवकी नन्दनः श्रीशो नन्दगोपप्रियात्मजः | यमुनाकेलिसंहारी सुचुकुन्दप्रसादकः || षोडशस्त्रीसहस्रेशस्त्रिभङ्गीमधुरा-कृतिः | शुकवागमृतावर्द्धी गोविन्दो गोविदां पतिः || वत्सपालनसञ्चारी प्. ७०६) धेनुकासुरभञ्जनः | उत्तानतालभेत्ता च तमालश्यामलाकृतिः || गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः | इलापतिः परं ज्योतिर्यादवेन्द्रो यदूद्वहः || वनमाली पीतवासाः पारिजातापहारकः | गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः || अजो निरञ्जनः कामजनकः कञ्जलोचनः | मधुहा मथुरानाथो द्वारकानायको बला || वृन्दावनान्तसञ्चारी तुलसीदामभूषणः | स्यमन्तकमर्णेहर्त्ता नरनारायणात्मकः || कुब्जाकृष्णाम्बरधरो मायो परमपूरुषः | मुष्टिकासुरचाणूरमहायज्ञविशारदः || संसारवैरीकंसारिर्मुरारिनरकान्तकः | अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः || शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकृत् | विदुराक्रूरवरदो विश्वरूपप्रदर्शकः || वृषभासुरविध्वंसी वाणासुरबलान्तकृत् | युधिष्ठिरप्रतिष्ठाता वर्हिबर्हावतंसकः || जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः | पार्थमारथिरव्यक्तो गीतामृतमहोदधिः | कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बु-जः दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः | नारायणः परं ब्रह्म पन्नगाशनवाहनः | जलक्रीडासमासक्तगोपीवस्त्रापहारकः | पुण्यश्लोकस्तीर्थवेद्यो वेदवेद्यो दयानिधिः | सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः || १०८ || इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् | कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा || स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् | कृष्णनामामृतं नाम परमानन्ददायकम् | अनुपद्रवदुःखघ्नं परमायुष्यवर्द्धनम् | दानं श्रुतं तपस्तीर्थं यत्कतं त्विह जन्मनि | पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् | पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् | धनावहं दरिद्राणां जयेच्छूणां जयावहम् शिशूनां गोकुलानाञ्च पुष्टिदं पुण्यवर्द्धनम् || वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् | समस्तकामदं सद्यः कोटिजन्माघनाशनम् | अन्ते तु कृष्णस्मरणं प्. ७०७) भवतापभयापहम् | कृष्णाय यादवेन्द्राय ज्ञानशुद्धाय योगिने | नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने | इमं मन्त्रं महादेवि ! जपेन्नरो दिवानिशम् | सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् | पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् | निवेश्य गोपानन्तेऽपि कृष्णसायुज्यमाप्नुयात् || इति नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामाहेश्वरसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् || अथ काष्ठपात्रादौ विष्णुपूजानिषेधः || मत्स्यसूक्ते षोडशपटले || स्वयं देवस्य वहनं काष्ठपात्रे च पूजनम् | स्थापनं मृत्तिकापात्रे त्रयं दारिद्र्यकारणम् | हस्ते च वदले कांस्ये शङ्खे च रीतिसम्भवे | तृणे च नेत्रपात्रे च त्वचि रौप्ये न चार्च्चयेत् || इति काष्ठादिपात्रे विष्णुपूजादिनिषेधः || स्वर्णपात्रे तथा ताम्रे शिलायां नारिकेलके | फले च वा पद्मपत्रे किंशुकस्य छदेऽथवा | चलदलस्य छदे पूजा यज्ञायुतफलप्रदा || किंशुकस्य पलाशस्य | चलदलोऽश्वत्थः || इति स्वर्णादिपात्रे विष्णुपूजाफलम् पञ्चदशपटले || दद्यात् पुरुषसूक्ते न यः पुष्पाण्ये कमेव वा | अर्च्चितं स्याज्जगदिदं तेन सर्वं चराचरम् | एकया वा ऋचा देवि ! ज्ञात्वा दत्त्वा जलाञ्जलिम् | पौरुषेण च सूक्तेन मुच्यते सर्वकिल्विषात् | अन्तर्जलगतो जप्त्वा तथा सूक्तञ्च पौरुषम् | सर्वकर्मविनिर्मुक्तः सर्वपापैः प्रमुच्यते | ज्ञातस्तु पौरुषं सूक्तं जपेन्नित्यमतन्द्रितः | संवत्सरेण देवेशं वासुदेवं प्रपश्यति || इति पुरुषसुक्तमाहात्म्यम् || षोडशपटले || सुशीतलेन तोयेन स्नापयेज्जलशायिनम् | ब्रह्मलोकमवाप्नोति यावदिन्द्राश्चतुर्द्दश | कुशपुष्पोदकस्नानाद् ब्रह्मलोकमवाप्नुयात् | प्. ७०८) रत्नोदकेन सावित्रं कौवेरं हेमवारिणा | सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् || इति द्रव्यविशेषेण विष्णु स्नापनफलम् || तथा || कलायस्य तु चूर्णेन यवचूर्णेन वा पुनः | हरिद्रामाषचूर्णेन तथा तण्डुलजेन वा | एकेनोद्वर्त्तनं कुर्याद्विष्णुलोकमवाप्नुयात् || इत्युद्वर्त्तनफलम् || तथा || यवगोधूमलेपेन तथा चोष्णेन वारिणा | प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् || इति द्रव्यविशेषेण देवगात्रप्रक्षालनफलम् || तथा || पादपीठन्तु यो दद्यान्मुखप्रक्षालनं तथा | घर्षयेद्विल्वपत्रेण सर्वपापैः प्रमुच्यते || अथ विष्णोर्महास्नानं तत्रैव || तुलामकरमेषेषु महास्नानं करोति यः | षष्टियुगसहस्राणि ब्रह्मलोके वसेच्चिरम् | पञ्चामृतस्य प्रत्येकं पलानाञ्च शतं शतम् | तदर्द्धञ्च तदर्द्धं वा ततो हीनं न कारयेत् | तथा तैलस्य देवेशि ! सहस्रेण घटेन च | शतेन च तदर्द्धेन तथा च शतधारया | सहस्रधारया स्नानं महापातकनाशनम् | तदर्द्धेन महेशानि ! तदर्द्धेन कलौ युगे | पञ्चविंशपलान्येव कषायस्य च संख्यया | उष्णोदकस्य च तथा घटसंख्या महेश्वरि ! | एवं यः कुरुते स्नानं कारयेद्वा महेश्वरि ! | सप्तजन्मार्जितं पापं तत्क्षणादेव नश्यति | चतुस्तोलकमानेन द्रव्याणाञ्च पृथक् पृथक् | चतुस्तोलकया वाथ हीने स्नानं न योजयेत् | तथा | शङ्खस्थितेन तोयेन यः स्नापयति केशवम् | विष्णुमन्त्रेण देवेशि ! कुलानां तारयेच्छतम् | कपिलाक्षीरमादाय शङ्खे कृत्वा यशस्विनि ! | कन्यादानसहस्रस्य स्नापयित्वा फलं लभेत् | तदर्द्धञ्चान्यगोक्षीरं द्विगुणं कुशवारिणा | महापूजा त्रिलक्षेण पुष्पपत्रेण चार्च्चयेत् | कलौ लक्षेण देवेशि ! यथाप्त न विशेषटः | तदर्द्धे मध्यमं ज्ञेयं तदर्द्धेन कनिष्ठकम् || प्. ७०९) इति महास्नानादिमहापूजाकथनम् || अथ शङ्खमाहात्म्यम् || पद्मपुराणे || त्रैलोक्ये यानि तीर्थानि वासुदेवस्य सेवया | पापं सङ्ख्याति विप्रेन्द्र ! तस्माच्छङ्खं प्रपूजयेत् | शङ्खश्च सागरोत्पन्नो विष्णुना विधृतः करे | निर्मितः सर्वदेवेषु पाञ्चजन्य ! नमोऽस्तु ते | दर्शनादेव शङ्खस्य किं पुनः स्पर्शने कृते | विलयं यान्ति पापानि हिमवद्भास्करोदये | पुरतो वासुदेवस्य पुष्पसज्जनलक्षणम् | शङ्खमभ्यर्च्चितं तिष्ठेत्तस्य लक्ष्मीर्न दुर्लभा | शङ्खे कृत्वा तु पानीयं सपुष्पं सजलाक्षतम् | अर्घ्यं ददाति देवस्य ससागरमहीफलम् | प्राप्नुयादिति शेषः | अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् | प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा | तीर्थोदकं हरेर्मूर्द्ध्नि भ्रामयेत् शङ्खसंस्थितम् | भुक्तिं ददाति वै तस्य क्षीरसागरजा प्रिये ! | शङ्खलग्नं तथा तोयं भ्रामितं केशवोपरि | वहते शिरसा गङ्गा गङ्गास्रोतेन तस्य किम् || अथ शङ्खलक्षणं क्रियासारे || प्रस्थानन्तु प्रतिश्रितः शङ्खः श्रेष्ठतमो मतः | स्तनांशपूर्णको मध्यः कनिष्ठः क्रमशो भवेत् | सुश्रोणः पांशुशिखरः स्निग्धो दीर्घः सुपद्धतिः | शङ्खः स्यादर्चनायोग्यो योऽसावलिकचक्षुषः | अलिकचक्षुषस्त्रिपञ्चकः || मलिनो निम्नशिखरः सरक्तः क्रिमिदष्टकः | ह्रस्वः प्राणालिकः शङ्खो न स्याद्योग्यः सुरार्चने | गोक्षीरधवलः स्निग्धोदीर्घनालो वृहत्तरः | वृतो यो दक्षिणावर्त्तः स द्विजः शङ्खसंज्ञकः | पूर्वोक्तलक्षणोपेतो वामावर्त्तोऽथवान्वितः | शङ्खोऽयं नातिसुलभः सोऽपि मुख्यः सुरार्चने | दक्षिणावर्त्तं विशेषयति कल्पतरौ | दक्षिणावर्त्तशङ्खेन पात्रे औडुम्बरे स्थितम् | उदकं यः प्रतीच्छेत्तु शिरसा हृष्टमानसः | सप्तजन्मार्जितं पापं तत्क्षणादेव नश्यति || स्कान्दे || प्. ७१०) दक्षिणावर्त्तशङ्खस्य तोयेन योऽर्चयेद्धरिम् | सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति || क्रियासारे || ताम्रस्फटिकशङ्खेषु सुवर्णकलधौतयोः | न विद्यते भिन्नदोषो द्रव्येष्वन्येषु विद्यते | शङ्खः शुद्धो भवेत्तत्र तुषाभिघर्षणेन च || तुषो धान्यत्वक् || मत्स्यसूक्ते षोडशपटले || नदीतडागसम्भूतं वापीकूपह्रदोद्भवम् | गङ्गोदकं भवेत् सर्वं शङ्खेनैव समुद्धृतम् | त्रैलोक्ये यानि तीर्थानि वासुदेवकपूजने | शङ्खे तीर्थानि देवेशि ! तस्मात् शङ्खं समर्च्चयेत् | दर्शनादेव शङ्खस्य किं पुनः स्पर्शने कृते | विलयं यान्ति पापानि भास्करेण हिमं यथा | पुरतो वासुदेवस्य सपुष्पं सजलाक्षतम् | शङ्खमभ्यर्चितं येन तस्य लक्ष्मीर्न दुर्लभा | अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् | प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा | क्षिप्त्वा शङ्खोदकं शङ्खेयः स्नापयति केशवम् | अष्टाक्षरेण मन्त्रेण मुच्यते सोऽपि सङ्कटात् | न भूमौ स्थापयेत् शङ्खं स्थापिते क्षालयेत् पुनः | चन्दनोदकेन दुग्धेन सूदकेनापि शोधयेत् | ओं त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे | निर्मितः सर्वदेवैश्च पाञ्चजन्य ! नमोऽस्तु ते || अथ त्रिपदीलक्षणम् || वीरमित्रोदयधृतसिद्धान्तशेखरे || चतुःषष्टिभिर्मात्रैरुत्तमा त्रिवृता त्रिधा | उत्तमादिकभेदेन यन्त्रिका त्रिपदो मता | त्रिचक्रपादसंयुक्तं पादार्द्धे सिंहचक्रकम् | पादमध्येऽसंवृतं स्यात् सिंहास्यञ्च पदोऽप्यधः | शेषं कुर्याद् यथाशोभं त्रिपदी परिकीर्त्तिता | अर्घ्यसंस्थादिनैवेद्यपात्राधारा त्रिपादिका || इति || अथ तुलसीमाहात्म्यम् || मत्स्यसूक्ते षोडशपटले || सर्वेभ्यः पत्रपुष्पेभ्यो वरिष्ठा तुलसी प्रेये ! | सर्वकामप्रदा शुद्धा वैष्णवी विष्णुवल्लभा | भुक्तिमुक्तिप्रदा देवि ! सर्वलोकहिता परा | या मातृत्वगता स्वर्गमक्षयं परमेश्वरि ! | हितार्थं सर्वलोकानां पृथिव्यां रोपिता पुरा | यथा विष्णुप्रिया प्. ७११) लक्ष्मी र्यथा त्वं हरवल्लभा | तथेयं तुलसी देवी चतुर्थी नोपपद्यते | यथा गङ्गा पवित्रा हि सर्वलोकविमोक्षदा | तथेयं सर्वपापाणां तुलसी पापहारिणी | समञ्जरीदलैर्येन तुलस्या विष्णुरर्चितः | तस्य पुण्यफलं देवि ! कथितुं नैव शक्यते | तुलस्याः कुसुमेनैव नार्चयेद्गरुडध्वजम् | करपत्रसमं यस्माद्वीर्ययुक्तं वरानने ! || तथा | त्रिषु लोकेषु विख्याता सर्वपापप्रणाशिनी | सर्वकामप्रदा देवी सर्वमङ्गलकारिणी | संसारसागरे घोरे तुलसी नौस्वरूपिणी | देवानां शिवदुर्गायाः परं तुष्टिप्रदायिणी | कल्मषौघातुराणाञ्च सेयमेका महौषधिः | तत्रैवोदाहरन्तीममितिहासं पुरातनम् | मरीचिरामसंवादं तच्छृणुष्व वरानने ! | पुरा रघुकुलाधीशो वेदवेदाङ्गपारगम् | पूजयित्वा यथान्यायं मनश्चक्रे महामतिः | एवं प्रतिदिनं तत्र यथाकालं समाचरेत् | अचिरेणैव कालेन तुष्टोऽभून्मुनिसत्तमः | स ददौ च स्रजं दिव्यं श्रीरामाय परात्पराम् | तुलसीवनजाताञ्च मञ्जरीपुष्पधारिणीम् | चतुर्वेदमयीं दिव्यां ददौ रामस्य मूर्द्धनि | तामादाय ततस्तूर्णं मञ्जरीपत्रशालिनीम् | दृष्ट्वा चुक्रोध भगवानुवाच मुनिपुङ्गवम् | अहो ! किमवलेपोऽयं ब्राह्मणस्य महात्मनः | वनस्पतेः पत्रजातं कथं दत्तं ममोपरि | आशीर्वादो द्विजातीनां ग्राह्यो मतिमतामिति | अतोऽहं मुनिशार्दूल ! अवलेपं वहामि ते | एतच्छ्रुत्वा तु वचनं रामस्याशु रुषान्वितम् | शशाप तुलसी देवी राजानं रघुनन्दनम् | यस्मान्मदापलेपेन शिरसो मां विमुक्तवान् | तस्माद्राजेन्द्र ! वैदेह्या वियोगस्ते भविष्यति | शपन्तीं तां ततो दृष्ट्वा सीता हृदयवल्लभम् | स क्रोधनयनं देवमिदमाह महामतिः | मरीचिरुवाच || सुप्रसीद महाराज ! व्रजामि शरणं तव | कथयामि पुरावृत्तं विचित्रं मुनिभाषितम् | एषा हि तुलसीमाला मया दत्ता सुरेश्वर ! | प्. ७१२) अस्या विचित्र माहात्म्यं मत्तः सर्वं निशामय | इयं हि वृक्षरूपेण महालक्ष्मीः प्रतिष्ठिता | ब्राह्मीयं परमा शक्तिर्ब्रह्मणो रोमसम्भवा | ऋग्यजुःसामवेदाद्याः शाखाचरणसम्मिताः | यथा गङ्गा यथा गीता गायत्री च यथा मता | पद्मयोनेः समुद्भूता तथेयं लोकपावनी | यत्रैषा तिष्ठते सम्यक् तत्र लक्ष्मीः प्रतिष्ठिता | इमां विना तथा लक्ष्मीर्विनाशायोपजायते | एवं सृष्टा जगन्माता तुलसी ब्रह्मणा स्वयम् | लोकानां पालनार्थाय पृथिव्यामवतारिता | एनामाराध्य देवेशो महादेवो जपत्पतिः | असुरं घोरनामानमजयद्रणसङ्कुले | घोरासुरसंग्रामोपाख्यानं ग्रन्थगौरवभिया न लिखितम् | तथा || एवमेषा महादेवी तुलसी विश्वरूपिणी | त्वमप्याराधयस्वैनां विजयं प्राप्स्यसि ध्रुवम् | एतच्छ्रुत्वा तु वचनं महर्षेर्मधुसूदनः | जयाय शिरसा मालां प्रणिपत्य च सादरम् | जग्राह विटपं तस्याः सर्वकामफलप्रदम् | ततस्तं धर्ममास्थाय जगाम स्वगृहं प्रति | रोपयित्वा यथान्यायं पूजयामास राघवः | ततस्तस्याः प्रभावेण भगवान् रघुनन्दनः | यातुधानं महावीर्यं जितवान् रावणं रणे | ये चार्च्चयन्ति मनुजा रोपयन्ति यथाविधि | कीर्त्तयन्ति च ये लोकास्तेषां सिद्धिर्भविष्यति | सजलं तुलसीपत्रं शिरसा धारयन्ति ये | अर्घ्यं दत्त्वा नमस्कृत्य मुक्तिस्तेषां करे स्थिता | नदीतीरे श्मशाने च ऊषरे म्लेच्छसन्निधौ | एषु वै रोपणं कृत्वा याति कर्त्ता यमालयम् || अथ तुलसीरोपणविधिः | तत्रैव || गृहस्यैशान्यपुरतः खनित्वा तालमात्रकम् | पञ्चगव्यमयूराण्डं क्षिप्त्वा तत्र दिनागमे || रोपयित्वा निशाभागे सूत्रेणावेष्ट्य सप्तधा | तन्मूले पिण्डिकां कृत्वा हस्तमात्रं सुवर्त्तुलाम् | ततश्चतुष्कोणवेद्यपि कार्या | वारिधाराञ्च निक्षिप्य पूजयेन्मतिमान्नरः | प्. ७१३) गन्धपुष्पैस्तथा धूपैः प्रदीपैश्च घृतप्लुतैः | पायसैर्दधिभक्तैश्च पूजयित्वा यथाविधि | तुलस्यै नम इत्युक्त्वा दद्यादर्घ्यं विभूतये | शङ्खस्थितं तोयपूर्णं दुर्वाक्षतसचन्दनम् | कुशाग्रञ्च सपुष्पञ्च एतदर्घ्यं मुदीरितम् || अथ तुलसीध्यानं तत्रैव || ध्यायेद्देवीं नवशशिमुखीं पक्वविम्बाधरौष्ठीं विद्योतन्तीं कुचयुगभरानम्रकल्पाङ्गयष्टिम् | ईषद्वास्योल्लसितवदनां चन्द्रसूर्याग्निनेत्रां श्वेताङ्गीं तामभयवरदां श्वेतपद्मासनस्थाम् || अथ स्तुतिस्तत्रैव | ईश्वर उवाच || इन्द्राद्यैः सकलैर्देवै रर्च्चितां सुरसुन्दरीम् | भक्तानां वरदां वन्दे तुलसीं सौम्यरूपिणीम् || १ || नादविन्दुकलातीतां मुण्डमालां तपस्विनीं | वासुदेवरतां वन्दे तुलसीं सौम्यरूपिणीम् || २ || सर्वदेवमयीं देवी वेदगर्भां मनोरमाम् | योगगम्यामहं वन्दे तुलसीं सौम्यरूपिणीम् || ३ || सुरासुरविशेषज्ञां सर्वालङ्कारभूषिताम् | त्रिजगज्जननीं वन्दे तुलसीं सौम्यरूपिणीम् || ४ || पद्महस्तां पद्ममुखीं पद्मस्थां पद्मलोचनाम् | लक्ष्मीरूपामहं वन्दे तुलसीं सौम्यरूपिणीम् || ५ || संक्रान्त्याञ्चैव पक्षान्ते ग्रहणे चन्द्रसूर्ययोः | यः पठेत् संयतो भूत्वा सर्वसिद्धिमवाप्नुयात् | विना मन्त्र विना जप्यं विना यज्ञं विना क्रियाम् | विना ध्यानं विना तीर्थं सर्वसिद्धिकरं भवेत् | इदं गुरुकृतं स्तोत्रं यः पठेत् शृणुयादपि | मुक्तिः करतले तस्य मुक्तश्चैव न संशयः || इति मत्स्यं सूक्ते षोडशपटले तुलसीस्तोत्रं समाप्तम् || प्रणाममन्त्रस्तु || श्रियं देहि यशो देहि कीर्त्तिमायुस्तथा सुखम् | बलं पुष्टिं तथा धर्मं तुलसि ! त्वं प्रयच्छ मे || इत्यनेन तु मन्त्रेण नतिं कुर्यात् समाहितः || प्. ७१४) अथ मालादिधारणम् || भगवद्भक्तिविलासधृतम् || ततः कृष्णार्पिता माला धारयेत्तुलसीदलैः | पद्माक्षैस्तुलसीकाष्ठैः फलैर्धात्र्याश्च निर्मिताः | धारयेत्तुलसीकाष्ठभूषणानि च वैष्णवः | मस्तके कर्णयोर्बाह्वोः करयोश्च यथारुचि || अथ मालाधारणविधिः || स्कान्दे || सन्निवेद्यैव हरये तुलसीकाष्ठसम्भवाम् | मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः || कृष्णानर्पितमालाधारणनिन्दापि तत्रैव || हरये नार्पयेद् यस्तु तुलसीकाष्ठसम्भवाम् | मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् | क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् | गायत्र्या चाष्टकृत्वो वै मन्त्रितां धूपयेच्च ताम् | विधिवत् परया भक्त्या सद्योजातेन पूजयेत् | तुलसीकाष्ठसम्भूते ! माले ! कृष्णजनप्रिये ! | बिभर्मित्वामहं कण्ठे कुरु मां कृष्णवल्लभम् | यस्मात्तं वल्लभा विष्णोर्नित्यं विष्णुजनप्रिया | तथा मां कुरु देवेशि ! नित्यं विष्णुजनप्रियम् | माले ! नाधातुरुद्दिष्टो नासि मां हरिवल्लभे ! | भक्तेभ्यश्च समस्तेभ्यस्तेन मालानिगद्यते | एवं स प्रार्थ्यं विधिवन्मालां कृष्णगलेऽर्पिताम् | धारयेद्वैष्णवो यो वै स गच्छेद्वैष्णवं पदम् || मालाधारणस्य नित्यता || तत्रैव कार्त्तिकप्रसङ्गे || धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि | वैष्णवो न स मनुजो विष्णुपूजाकृतो यदि || गारुडे || धारयन्ति न ये मालां हैतुकाः पापबुद्धयः | नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः || अत-एव स्कन्दपुराणे || तत्रैव || न जह्यास्तुलसीमालां युक्तो यश्चार्च्चयेद्धरिम् | यद्यत् करोति तत्सर्वमनन्तफलदं भवेत् || नारदीये || ये कण्ठसक्ततुलसीनलिनाक्षमाला ये बाहुमूलपरिचिह्नितशङ्खचक्राः | ये वा ललाटफलके लसदूर्द्धपुण्ड्रास्ते वैष्णवा भुवनमाशु पवित्रयन्ति || किञ्च || भुजयुगमपि चिह्नैरङ्कितो यस्य विष्णोः प्. ७१५) परमपुरुषनाम्नां कीर्त्तनं यस्य वाचि | ऋजुतममपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिजमणिमाला यस्य तस्यास्मिदासः || विष्णुधर्मोत्तरे श्रीभगवदुक्तौ || तुलसीकाष्ठमालाञ्च कण्ठस्थां वहते तु यः | अप्यसौ चाप्यनाचारो मानवो वै न संशयः || स्कन्दपुराणे || धात्रीफलकृता माला तुलसीकाष्ठ सम्भवा | दृश्यते यस्य देहे तु स वै भागवतोत्तमः | तुलसीदलजां मालां कण्ठस्थां वहते तु यः | विष्णुवर्णाविशेषेण स नमस्यो दिवौकसाम् | तुलसीदलजा माला धात्रीफलकृतापि वा | ददाति पापिनां मुक्तिं किं पुनर्विष्णुसेविनाम् || तत्रैव || कार्त्तिकप्रसङ्गे || यः पुनस्तुलसीमालाम् कृत्वा कण्ठे जनार्द्दनम् | पूजयेत् पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् || यावल्लठति कण्ठस्था धात्रीमाला नरस्य हि | तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः | स्पृशेच्च यानि लोमानि धात्रीमाला करे नृणाम् | तावद्वर्षसहस्राणि वसते केशवालये || यावद्दिनानि वहते धात्रीमालां कलौ नरः | तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् | मालायुग्मञ्च यो नित्यं तुलसीधात्रीसम्भवम् | वहते कण्ठदेशे च कल्पकोटिं दिवं वसेत् || गारुडे च || मार्कण्डेयोक्तौ || तुलसीदलजां मालां कृष्णोत्तीर्णां वहेत्तु यः | पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् | तुलसी काष्ठसम्भूतां यो मालां वहते नरः | फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम् | वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् | सदा प्रीतमनास्तस्य कृष्णो देवकिनन्दनः | तुलसीकाष्ठसम्भूतां यो मालां वहते नरः | प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे | तुलसीकाष्ठसम्भूतां यो मालां वहते नरः | तुलसीकाष्ठसम्भूतां शिरसो वहुभूषणम् | बाह्वोः? करे च मर्त्त्यस्य देहे तस्य सदा हरिः | तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् || पितॄणां प्. ७१६) देवतानाञ्च कृतं कोटिगुणं कलो | तुलसीकाष्ठमालान्तु प्रेतराजस्य दूतकाः | दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् | तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि | दुःस्वप्नं दुर्निमित्तञ्च न भयं शस्त्रजं क्वचित् || अथ वैष्णवप्रशंसा || नारदपञ्चरात्रस्य प्रथमरात्रे नवमाध्याये || अहो ! अनन्तदासानां महात्म्यं परमाद्भुतम् | कुर्वन्त्यहैतुकीं भक्तिं ये च शश्वद्धरेः पदे | पद्मनाभपादपद्मं पद्मे पद्मेश्वरार्चिते | दिवानिशं ये ध्यायन्ति शेषादिसुरवन्दिते | आलापं यत्र संस्पर्शं पादा वसुमतीप्सितम् | वाञ्छन्त्येव हितार्थानि वसुवाचात्मशुद्धये | कृष्णमन्त्रोपासकानां शुद्धं पादोदकं स्मृतम् | पुनाति सर्वतीर्थानि वसुधामपि पार्वति ! | कृष्णमन्त्रो द्विजमुखाद् यस्य कर्णं प्रयाति च | तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः || मन्त्रग्रहणमात्रेण नरो नारायणात्मकः | पुनाति लीलामात्रेण पुरुषाणां शतं शतम् | तज्जन्ममात्रात् पूतञ्च तत्पितॄणां शतं शतम् | प्रयाति सद्यो गोलोकं कर्मयोगात् प्रमुच्यते | मातामहादिकान् सप्त जन्ममात्रं समुद्धरेत् | यत्कन्यां प्रतिगृह्णाति तस्य सप्त च लीलया | मातरं तत्प्रसूं भार्यां पुत्राच्च सप्तपूरुषम् | भ्रातरं भगिनीं कन्यां कृष्णभक्तः समुद्धरेत् | स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः | फलं स लेभे पूजानां व्रती सर्वव्रतेषु च | विष्णुमन्त्रं यो लभेच्च वैष्णवाच्च द्विजोत्तमात् | कोटिजन्मार्जितात् पापान्मुच्यते नात्र संशयः | कृष्णमन्त्रोपासकानां सद्यो दर्शनमात्रतः | शतजन्मार्जितात् पापान्मुच्यते नात्र संशयः | वैष्णवानां दर्शनेन स्पर्शनेन च पार्वति ! | सद्यः पूतो जलं वह्निर्जगत्पूतः समीरणः | दर्शनं वैष्णवानाञ्च देवा वाञ्छन्ति नित्यशः | न वैष्णवात् परः पूतो विश्वषु निखिलेषु च || प्. ७१७) दशमाध्याये ब्रह्मवचनम् || अहो ! वैष्णवसङ्गश्च क्षणमेव सुदुर्लभः | भवाब्धिघोरतरणं भुक्तिमुक्तिफलप्रदम् || इति वैष्णवप्रशंसा || अथ दशावताराणामाविर्भावकालमाह स्वतन्त्रतन्त्रे || चैत्रशुक्लप्रतिपदि रेवत्यां सोमवासरे ! द्वादशनाडिकामध्ये हरिर्मत्स्योऽभवद्दिवा | ज्यैष्ठशुक्लद्वितीयायां रोहिण्यां बुधवासरे | दिवाघटीचतुष्केऽभूद्धरिः कूर्मस्वरूपवान् | शुक्लायां सप्तमी माघे तत्राश्विन्याञ्च भास्करे | दिवाष्टघटिकामध्ये वराहोऽभूद्धरिः प्रभुः | राधे सितचतुर्दश्यां स्वात्याञ्च शनिवासरे | मध्याह्ने च ततो जज्ञे नृहरिः कमलापतिः | भाद्रे च द्वादशी शुक्ला श्रवणासंयुता भृगौ | दशपञ्चघटीमध्ये दिवाभूद्वामनो हरिः | तृतीया माधवे शुक्ला रोहिण्यां शनिवासरे | एकादशघटीमध्ये नक्तं रामोऽभवद्धरिः | चैत्रशुक्लनवम्यान्तु सोमवारे पुनर्वसौ | पूर्वाह्णे चाभवद्रामः स्वयं देवो जनार्दनः | कृष्णाष्टम्यान्तु भाद्रस्य रोहिण्यां बुधवासरे | मध्यरात्रेऽभवद्विष्णुः कृष्णस्तु भगवान् स्वयम् | आषाढे शुक्लनवमी विशाखायाञ्च भास्करे | दिवानाडीषट्कमध्ये बौद्धोऽभूदंशजो हरेः | मार्गशुक्लतृतीयायां पूर्वाषाढर्क्षके शनौ | नक्तं त्रिघटिकामध्ये कल्किरूपोऽभूद्धरिः || विष्णुपूजायां विशेषस्तन्त्रसारे सर्वो द्रष्टव्यो ग्रन्थगौरवभिया न लिखितः || इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे विष्णुपूजादिकथनरूपः पञ्चमपरिच्छेदः || अथ महाविद्यानिरूपणम् || चामुण्डातन्त्रे || काली तारामहाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती तथा | वगला सिद्धविद्या च मातङ्गी कमलात्मिका | एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः | एता दश महाविद्या इत्यनेन सर्वासां महाविद्यात्वसिद्धी काली तारा ७१८) महाविद्येति यन्महाविद्योपादानं तत् कालीतारयोर्महाविद्यात्वार्थम् | अत-एव महाविद्या महापूर्वेति विश्वसारोक्तम् | अथ सिद्धविद्याः प्रकीर्त्तिता इत्यनेन सर्वासां सिद्धविद्यात्वे वगला सिद्धविद्या चेति कथमुक्तमिति चेत्तत्रापि झटिति सिद्धिप्रदानार्थमिति || अथ महाविद्यादीनां माहात्म्यम् || कुब्जिकातन्त्रे प्रथमपटले || कलौ कृष्णत्वमाद्य शुक्लापि नीलरूपिणी | लीलया वाक्प्रदा चेति तेन नीलसरस्वती | तारकत्वात् सदा तारा तारिणी च प्रक्रीर्त्तिता | भुवनानां पालकत्वाद्भुवनेशी प्रकीर्त्तिता | सृष्टिस्थितिकरी देवी भुवनेशी प्रकीर्त्तिता | श्रीदारी च सदा विद्या स्रीविद्या च प्रकीर्त्तिता | निर्गुणा च महादेवी षोडशी परिकीर्त्तिता | भैरवी दुःखसंहन्त्री यमदुःखविनाऽऽइनी | कालभैरवभार्या च भैरवी परिकीर्त्तिता | त्रिशक्तिकालदा देवि ! छिन्ना चैव सुरेश्वरि ! | त्रिगुणा च महादेवि ! मोहिनी मोक्षदा ध्रुवम् | धूमावती महामाया धूम्रासुरनिसूदनी | धूमरूपा महादेवी चतुर्वर्गप्रदायिणी | जगन्माता जगद्धात्री जगतामुपकारिणी | वकारे वारुणी देवी गकारे सिद्धिदा स्मृता | लकारे पृथिवी चैव चैतन्या या प्रकीर्त्तिता | मातङ्गी मदशीलत्वान्मातङ्गासुरनाशिनी | सर्वापत्तारिणी देवी मातङ्गी परिकीर्त्तिता | वैकुण्ठवासिनी देवी कमला च प्रकीर्त्तिता | पातालवासिनी देवी लक्ष्मीरूपा च सुन्दरी | एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः | धर्मार्थमोक्षदा नित्यं चतुर्वर्गफलप्रदाः | येन तेन प्रकारेण कलौ पूर्णफलप्रदाः | निर्द्धने कृपणे चैव विशेषात् परयोनिषु | पाषण्डे च शठे चैव निन्दके चैव निर्गुणे | अभक्तेषु च पुत्रेषु आस्थाहीने च सुन्दरि ! | न प्रकाश्यमिदं भद्रे ! शपथं मे ध्रुवं सदा | सर्वलक्षणयुक्ताय दद्याच्चैव प्. ७१९) महेश्वरि ! | आसाञ्चैव समाना हि नास्ति त्रिभुवने ध्रुवम् | एकोच्चारणमात्रेण सर्वपापात् प्रमुच्यते | स्मरणेनैव देवेशि ! मुच्यते भवबन्धनात् || अथ महाविद्यादीनां भैरवनिरूपणम् || तोडलतन्त्रे प्रथमपटले || शिव उवाच || शृणु चार्वङ्गि ! सुभगे ! कालिकायाश्च भैरवम् | महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् | महाकालेन वै सार्द्धं दक्षिणा रमते सदा | ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् | समुद्रमथने देवि ! कालकूटं समुत्थितम् | सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः | क्षोभादिरहितं यस्मात् पीतं हलाहलं विषम् | अत एव महेशानि ! अक्षोभ्यं परिकीर्त्तितः | तेन सार्द्धं महामाया तारिणी रमते सदा | महात्रिपुरसुन्दर्या दक्षिणे पूजयेत् शिवम् | पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रे सुरेश्वरि ! | तेन सार्द्धं महादेवी सदा कामकुतूहला | अत एव महेशानि ! पञ्चमीति प्रकीर्त्तिता | श्रीमद्भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् | स्वर्गे मर्त्त्ये च पाताले या चाद्या भुवनेश्वरी | एतया रमते तेन त्र्यम्बकस्तेन कथ्यते | सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः | भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिसंज्ञकम् | पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि | छिन्नमस्तादक्षिणांशे कबन्धं पूजयेच्छिवम् | कबन्धपूजनाद्देवि ! सर्वसिद्धीश्वरो भवेत् | धूमावती महाविद्या विधवारूपधारिणी | वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् | महारुद्रेति विख्यातं जगत्संहारकारकम् | मातङ्गीदक्षिणांशे च मतङ्गं पूजयेच्छिवम् | तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम् | कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् | पूजयेत् परमेशानि ! स सिद्धो नात्र संशयः | पूजयेदन्नपूर्णाया दक्षिणांशे च रूपकम् | महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् | दुर्गाया प्. ७२०) दक्षिणे देशे नारदं परिपूजयेत् | नकारः सृष्टिकर्त्ता च दकारः पालकः सदा | रेफः संहाररूपत्वान्नारदः परिकीर्त्तितः | अन्यासु सर्वविद्यासु ऋषिर्यः परिकीर्त्तितः | स एव तस्य भर्त्ता च दक्षभागे प्रपूजयेत् || महाविद्यादीनामाविर्भावकालनिरू-पणाय महारात्र्यादिरुक्तः || स्वतन्त्रतन्त्रे यथा || फाल्गुने च महारात्रिः कृष्नैकादशिका तिथिः | ज्येष्ठे या दशमी शुक्ला देवि ! वारयुता भृगोः | रात्रावेकादशी चेत् स्यात् दिव्यरात्रिः प्रकीर्त्तिता | अमा भौमे संक्रमश्च कुलर्क्षग्रहणं यदि | भावरात्रिस्तु सम्प्रोक्ता भाग्यादेव तु लभ्यते | सिद्धरात्रिरष्टमी स्याच्चैत्रसंक्रमणान्विता | तृतीया माधवे शुक्ला कुलर्क्षे दारुणा तिथिः | दीपोत्सवचतुर्दश्याममया योग एव च | कालरात्रिर्महेशानि ! तारा काली प्रियङ्करी | कृष्णजन्माष्टमी देवि ! मोहरात्रिः प्रकीर्त्तिता | चैत्रशुक्लनवम्यान्तु क्रोधरात्रिः प्रकीर्त्तिता | घोररात्रिर्मार्गशीर्षे कृष्णाष्टम्यां महेश्वरि ! | चतुर्दशी भौमयुता मकारेण समन्विता | कुलऋक्षसमायुक्ता वीररात्रिः प्रकीर्त्तिता | विद्योत्पत्तिस्तु नारदपञ्चरात्रे तृतीयरात्रे तृतीयाध्याये || ब्रह्मोवाच || दक्षगेहे समुद्भूता या सती लोकविश्रुता | कुपित्वा दक्षराजर्षिं सती त्यक्त्वा कलेवरम् | अनुगृह्य च मेनायां जाता तस्यान्तु सा तदा | कालीनाम्नेति विख्याता सर्वशास्त्रे प्रतिष्ठिता || स्वतन्त्रतत्रे || महारात्रिदिनेऽवन्त्यां नगर्यां जातमेव तत् | कालीरूपं महेशानि ! साक्षात् कैवल्यदायकम् || एतस्या माहात्म्यमुक्तं नारदपञ्चरात्रे || विश्वामित्रो मुनिश्रेष्ठ आराध्य कमलासनम् | नवापब्राह्मणत्वं हि ततो विष्णुं जगाम सः | तस्मादपि न चावाप ब्रह्मत्वं क्षत्रियोत्तमः | एवं सर्वान् सुरान् गत्वा आराध्य च मुहुर्मुहुः | प्. ७२१) वृहस्पतेरूपादेशादाराध्य वृषभध्वजम् | महेशदर्शनं लब्ध्वा कृतकृत्योऽभवत्तदा | देवदेव ! महादेव ! भगवंस्त्वं कृपामय ! | ब्राह्मणत्वं देहि मह्यं यदि ज्ञातासि मे वरम् || ईश्वर उवाच || एकाक्षरी महाविद्या कालिकायाः सुदुर्लभा | जपं कुरु महाबाहो ! ततः प्राप्स्यसि विप्रताम् | एवमुक्त्वा महादेवाऽप्यन्तर्द्धानं जगाम सः | विश्वामित्रोऽपि विधिना आराध्य तां जगन्मयीम् | मन्त्रसिद्धिं न चावाप क्रोधेन च शशाप ताम् | अनाराध्या भवेति त्वं आगम्य तु ततः शिवम् | निर्भर्त्स्य बहुधा तन्तु इदमाह महेश्वरः || ईश्वर उवाच || किमर्थं शप्तवान् विद्यां शृणु यत्नेन पार्थिव ! | रेफारूढककारेण सिद्धिमाप्स्यसि नान्यथा || ब्रह्मोवाच || अन्तर्द्धानं गतः शम्भुर्विश्वामित्रोऽपि नारद ! | तथा विधानं जप्त्वा तु यदुक्तं शम्भुना पुरा | साक्षाद्बभूव सा काली सह रुद्रेण तत्क्षणात् || देव्युवाच || वरं वरय राजेन्द्र ! ददामि ते वरं शिवम् | यदिच्छसि प्रदास्यामि सत्यं सत्यं न संशयः || विश्वामित्र उवाच || आराधिता मया सर्वे ब्रह्माद्या देवतागणाः | विप्रत्वं केन मे देवि ! न दत्तं त्वं प्रदेहि मे | श्रुत्वा वाक्यं नृपस्याशु सा देवी स्वामिनो मुखम् | निरीक्षेद्धितभावेन सङ्केतेन उवाच तम् | महादेवोऽपि तज्ज्ञात्वा प्रीतिभावेन शङ्करः | हस्ताभ्यामपि चालिङ्ग्य विप्रत्वं प्रददौ ततः | तत्क्षणादपि राजासौ विप्रत्वं गतवान् ध्रुवम् | सर्वशास्त्रैकनिपुणः सर्वशास्त्रैकपारगः || इति कालीमाहात्म्यम् || नारदपञ्चरात्रस्य तृतीयरात्रं द्विविधं दृश्यते | तयोरेकस्मिन् विद्यात्पत्तिशिवलिङ्गाभिर्भावप्रभृति द्वाविंशत्यध्यायात्मके वर्त्तते तस्माद्विद्योत्पत्त्याद्याहृत्य लिखितम् | अपरस्मिंस्तु पञ्चादशाध्यायात्मके प्रातःकृत्यादिपूजाविध्यन्तकर्माणि सन्ति किन्तु प्. ७२२) क्रमदीपिकावचनान्येव प्रायेणेति तत्र तत्र सन्देहः || नारदपञ्चरात्रे तृतीयरात्रे द्वितीयाध्याये || यथा || दक्षगेहे च योत्पन्ना सतीनाम्नेति कीर्त्तिता | कैवल्यदायिनी यस्मात्तस्मादेकजटा स्मृता | तारकत्वात् सदा तारा लीलया वाक्प्रदायतः | नीलसरस्वती प्रोक्ता उग्रत्वादुग्रतारिणी | उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्त्तिता || स्वतन्त्रतन्त्रे || कालरात्रिदिने प्राप्ते निशायां मध्यभागके | उग्रापत्तारणार्थन्तु उग्रतारा स्वयं कला | मेरोः पश्चिमकूले तु चोलनाख्यो ह्रदो महान् | तत्र जज्ञे स्वयं देवि ! माता नीलसरस्वती | तत्र जप्यन्तु प्रजपंस्त्रियुगं समवर्त्तत | ममोर्द्धवक्त्रान्निःसृत्य तेजोराशिर्विनिर्गतः | ह्रदे चोले निपत्यैव नीलवर्णाभवत्तदा | ह्रदस्य चोत्तरे भागे ऋषिरेको महोत्तमः | मदंशोऽक्षोभ्यनामासौ तदाराधनतत्परः | कूर्चबीजस्वरूपा सा प्रत्यालीढपदाभवत् || नारदपञ्चरात्रे || सप्तकोटिर्महाविद्या उपविद्याश्च तादृश | तासां मूर्त्तिर्मुनिश्रेष्ठ ! संख्यातुं नैव शक्यते | एकदा हरिरैशान्यां नैरृत्यामागतः किल | नीलाचलशरीरेस आगतो गरुडध्वजः | तत्रस्थाश्च महात्मानः सिद्धाः परमतेजसः | ऊचुर्देवं जगन्नाथं तं वारयितुमीश्वरम् | सर्वेषामादिभूतेयं विश्वरूपा सनातनी | तस्या उपरिदेशेन गन्तुमर्हसि केशव ! | त्वञ्च सर्वगुरुः साक्षी सर्वेषाञ्च सभापतिः | न हि गन्तासि भगवन् ! पथान्येन गतिं कुरु | न गृह्णन् तद्वचस्तेषां जगाम मधुसूदनः | जगाम गरुडस्तेन पथा तेनैव केशवः | स्तम्भीभूतस्तदा विष्णुर्गन्तुं तस्मान्न शक्नुवन् | ततो भूमिमुपागम्य त्वभूदष्टभुजो हरिः | अवष्टभ्य गिरिं नीलं सर्वप्राणेन विश्वभृत् | तमुत्थातुमशक्तो वै भ्रान्तोऽभूज्जगदीश्वरः | भ्राम्यमाणे हृषीकेशे सहस्रद्वयवत्सरम् | ततः क्रुद्धा भगवती वामहस्तेन चेश्वरी | प्. ७२३) सिद्धसूत्रेण संवेष्ट्य चिक्षेप लवणाम्भसि | अपश्यत् केशवं तोयपतितं प्राह विस्मितः | किमिदं कथ्यतां शीघ्रं विस्मयं मम नाशय | उवाच विष्णुरादौ मामुद्धारं कुरु सत्वरम् | अवष्टभ्य तदा विष्णुमुद्धर्त्तुमुद्यतो विधिः | सोऽपि बद्धो महातेजा ब्रह्मा कमलसम्भवः | एवमिन्द्रादयः सर्वे बद्धत्वं समुपागताः | अथ काले व्यतीते तु जीवो देवगुरुर्वरः | वभ्राम लोकांस्त्रीन् सर्वान्नापश्यद्देवताः क्वचित् | शून्यां सर्वां पूरीं दृष्ट्वा जगाम शङ्करालयम् | सम्पूर्णां वसतिं तत्र दृष्ट्वा हृष्टोऽभवद्गुरुः | स्तुतिभिर्नुतिभिर्देवं सम्प्रसाद्य महेश्वरम् | पपात दण्डवद्भूमौ दृष्ट्वा देवं सनातनम् | उवाच देवदेवेशं प्रणिपत्य कृताञ्जलिः || वृहस्पतिरुवाच || क्वगतो भगवन् ! ब्रह्मा विष्णुश्चेन्द्रादयः सुराः | असुराणां भयेनैव मन्त्रस्तं मम मानसम् || ईश्वर उवाच || अवमन्ये च कामाख्यां विष्णुब्रह्मादयः सुराः | दुःखमापुः सदोद्विग्ना लवणाम्भसि पीडिताः || वृहस्पतिरुवाच || तेषामेव प्रतीकारं चिन्तय त्वं जगत्पते ! | क्षिप्रप्रहारिणो दैत्याः शून्या देवपुरी शिव ! || ईश्वर उवाच || एष गच्छामि वै क्षिप्रं समुद्धर्त्तुं सुरान् किल | एष गच्छ मया सार्द्धं लवणाम्भसि मानद ! | इत्युक्त्वा जग्मतुस्तौ तु लवणाम्भोनिधेस्तटम् | समर्थोऽपि शिवस्तेषामुद्धर्त्तुं जगदीश्वरः | मर्यादार्थं हरेस्तेषां कामाख्याकवचं शिवः | सुरसंख्यं वपुः कृत्वा धारयामास कण्ठतः | प्रसार्य वामहस्तञ्च सुरान् संवेष्ट्य शङ्करः | उत्थापयामास तदा देवान् देवो जगत्पतिः | ततो देवगणाः सर्वे वेपमाना इव द्रुमाः | पेतुर्भूमौ महादेवं प्रणेमुस्ते मुहुर्मुहुः | तत आश्वास्य भगवानुवाच तान् यथायथम् | प्रसादयत कामाख्यां जगन्मातरमम्बिकाम् | गत्वा विष्णुमुखस्तत्र कामाख्यां परमेश्वरीम् | ननाम तुष्टाव तदा नतिभिः स्तुतिभिः पराम् | साश्रुकण्ठो हृषीकेशो वेपमानश्च भक्तिमान् | सा क्रुद्धा दूरतः प्राह जगद्योनिः प्. ७२४) सनातनी | दुर्बुद्धे ! मामवज्ञाय किं कृतं गौरवं त्वया | किमिच्छसि वरं मत्तो व्रियतां यत्तवेप्सितम् || विष्णुरुवाच || तव क्षेत्रे महापुण्ये अष्टदिक्षु सशक्तिकः | तिष्ठाम्यहर्निशं मातस्तवाज्ञावशगः सदा | इति श्रुत्वा वचो विष्णोर्जगन्माता जगन्मयी | तथेत्युक्त्वा च वरदा चकारानुग्रहं हरौ | इति ते कथितं पुत्र ! किञ्चिन्माहात्म्यमुत्तमम् | रहस्यं तारिणीदेव्या न समर्थोऽस्मि विस्तरात् || इति तारामाहात्म्यम् || तत्रैव पञ्चमाध्याये || ब्रह्मोवाच || भूयः शृणु मुनिश्रेष्ठ ! रहस्यं परमाद्भुतम् | येन काली महामाया सुन्दरीत्वमुपागता | कैलासशिखरे रम्ये वसमाने च शङ्करे | इन्द्रश्च प्रेषयामास सर्वाश्चाप्सरसो मुदा | आगतास्ता महादेवं तुष्टुवुस्तं महेश्वरम् || ब्रह्मोवाच || इत्येवं वचनं श्रुत्वा तासां स वृसभध्वजः | आभाष्य श्लक्ष्णया वाचा करुणामृतया ततः || ईश्वर उवाच || पुरुषस्यातिथिर्ज्ञेयः पुरुषो नात्र संशयः | स्त्रीणां स्त्री चातिथिर्ज्ञेया तस्माद्गच्छत कालिकाम् | इत्युक्त्वा तत्पुरं रम्यं विवेश परमेश्वरः | उवाच कालीं भगवानीश्वरीं परमेश्वरीम् | ता अप्यवापुः परमां प्रीतिं परमदुर्लभाम् || षष्ठाध्याये || ततो देवी महाकाली चिन्तयित्वा मुहुर्मुहुः | एतद्रूपमपाहाय शुद्धगौरी भवाम्यहम् | यस्मात् कालीति कालीति महादेवः समाह्वयेत् | इति सञ्चिन्त्य मनसा अन्तर्द्धानं गता परा | महादेवोऽपि कालेन गतो ह्यस्तः पुरं शिवः | नापश्यच्च तदा कालीं तस्थौ तस्मिन् पुरे हरः | अथ काले कदाचित्तु आगतस्तत्र नारदः | प्रणम्य शिरसा देवं महादेवं महेश्वरम् | कृताञ्जलिपुटस्तथौ ततो देवाग्रतो मुनिः | महादेवोऽपि वामेन पाणिना मुनिसत्तमम् | उपस्पृश्य समाश्वास्य चक्रे पुण्यवतीं कथाम् | कालेन कियता तत्र कथान्ते प्. ७२५) मुनिसत्तमः | उवाच सादरं वाक्यं प्रणम्य जगदीश्वरम् || नारद उवाच || क्वगता त्वां परित्यज्य काली कालविनाशिनी | प्रत्युवाच महादेवस्तं मुनिं नारदं ततः | अन्तर्द्धानं गता देवी मां हित्वा मुनिसत्तम ! || ब्रह्मोवाच || इति श्रुत्वा वचस्तस्य नारदो हर्षमागतः | विवादसमयश्चायं महाकाल्याश्च शूलिनः | इति सञ्चिन्त्य मनसा ध्यानमाश्रित्य नारदः | ददर्श तां महाकालीं ध्यानचक्षुःसमाश्रितः | सुमेरोरुत्तरे पार्श्वे स्थिता सा परमेश्वरी | प्रणम्य परया भक्त्या उपतस्थे जगन्मयीम् | नारदस्तुत्यनन्तरम् || देव्युवाच || विदूरेण मदीयेन किं करोति महेश्वरः | तस्यैव कुशलं सर्वं कथयस्व मुनीश्वर ! | नारद उवाच || उद्योगं परमं चक्रे विवाहार्थं महेश्वरः | देवदेवो गिरिसुते ! तं निवारय सुव्रते ! || ब्रह्मोवाच || इति श्रुत्वा वचस्तस्य सक्रोधा परमेश्वरी | जाज्वल्यमाना रक्ताक्षी रूपमन्यद्दधौ परा | यन्नास्ति त्रिषु लोकेषु सौन्दर्यमपि कुत्रचित् | दधौ तद्रूपमतुलं सर्वेषामधिकं परम् | यत्रास्ते भगवान् देवो देवदेवो महेश्वरः | समागता क्षणेनैव ततः सा परमेश्वरी | ददर्श हृदये शम्भोः स्यच्छायां परमेश्वरी | उवाच सा महादेवं क्रोधेन महता वृता | कृतघ्नस्त्वं महादेव ! मया यः समयः कृतः | तत् त्वं लङ्घितवान् देव ! किमर्थं परमेश्वर ! || कृत्वा विवाहं हृदये स्थानं दत्तं मया शिव ! | एतच्छ्रुत्वा वचस्तस्याः प्रहस्य परमेश्वरः | उवाच स प्रियां साध्वीं प्रेमगद्गदया गिरा || ईश्वर उवाच || नाहं कृतघ्नः कल्याणि ! नाहं समयलङ्घकः | हृदये मे त्वया दृष्टा स्वच्छाया नात्र संशयः | ध्यानं कुरु महाभागे ! पश्यत्वं ज्ञानचक्षुषा | स्वछाया सैव देवेशि ! ततः सुस्थाभवत् परा | उवाच परमेशानं देवदेवं महेश्वरम् | परेण प्रेमभावेण जगदीशं जगन्मयम् | का छाया हृदि प्. ७२६) दृष्टा सा तन्मे ब्रूहि जगत्पते ! || ब्रह्मोवाच इति श्रुत्वा महादेवः कालिकावचनं परम् | उवाच प्रेमभावेण देवदेवः सनातनः || ईश्वर उवाच || यस्मात्त्रिभुवने रूपं श्रेष्ठं कृतवती शिवे ! | तस्मात् स्वर्गे च मर्त्त्ये च पातालेऽन्यत्र पार्वति ! | सुन्दरी पञ्चमी श्रीश्च ख्याता त्रिपुरसुन्दरी | सदा षोडशवर्षीया विख्याता षोडशी ततः | यां छायां हृदये मेऽद्यदृष्ट्वा भीता सुरेश्वरि ! यस्मात् सा त्रिषु लोकेषु ख्याता त्रिपुरभैरवी | यावस्था भगवत्याश्च सुस्थचित्ता कृपामयी | ततस्तां भुवनेशानीं राजराजेश्वरीं विदुः | या चोग्रतारिणी प्रोक्ता या च दिक्करवासिनी | यैषा ललितकान्ताख्या ख्याता मङ्गलचण्डिका | कौषिकी देवदूती च याश्चान्या मूर्त्तयः स्मृताः | या ख्याता भुवनेशानी तस्या भेदा ह्यनेकधा | त्रिपुटा जयदुर्गा च वनदुर्गा त्रिकण्टकी | कात्यायनी महिषघ्नी दुर्गा च वनदेवता | श्रीरामदेवता वज्रप्रस्तारिणी च शूलिनी | गृहदेवी गृहारूढा मेधा राधा च कालिका | कथिताश्च समासेन तासां भेदाश्च नारद ! | विस्तारेण तु केनैव शक्यते गदितुं मुने ! || इति षोडशीमाहात्म्यं तद्भेदाश्च || तथा || सा काली जगतां माता पतिं प्राह सनातनी | आज्ञापय महादेव ! रूपमन्यद्धराम्यहम् || ईश्वर उवाच || अधुनैव जगद्धात्रि ! यद्रूपं कर्तुमिच्छसि | करिष्यामि च तत् सर्वं यत्र प्रीतिस्तवाचला || देव्युवाच || सर्वकर्त्तासि देवेश ! तव शक्त्या जगत्पते ! | किन्तु वाक्यं तव विभो ! श्रूयतां परमेश्वर ! | मर्यादां स्थापयिष्यामि तपः कृत्वा सुदुष्करम् | त्वत्प्रीतये महाभाग ! प्रीतस्तु कुरु तन्मयि | गौरं वा रक्तगौरं वा श्यामं शुक्लमथापि वा | यदन्यद्वा स्वरूपं मे तत् कुरुष्व जगत्पते ! | ईश्वर उवाच || तवेच्छा या महाभागे ! तां कुरुष्व प्. ७२७) जगद्धिते | किन्तु ते विरहेणैव मम दुःखं सुदुष्करम् || ब्रह्मोवाच || सान्त्वयित्वा निजं कान्तं नदीं मन्दाकिनीं ययौ | दिव्यं वर्षशतं तत्र तपस्तेपे सुदुष्करम् | प्रत्यक्षं भगवान् तस्या देवेशो वृषभध्वजः | वामेन पाणिना साध्वीमुत्थाप्य परमेश्वरः | मार्जयित्वा प्रियादेहं निर्मलं क्टवान् हरः | मन्दाकिन्या जले रम्ये स्नापयामास पार्वतीम् | विद्युद्रूपाभवद्गौरी विद्युद्गौरीति विश्रुता | स्वाहागौरीति श्यामा च शुक्ला च रक्तगौरिका | अनन्तरूपिणी मूर्त्तिः कोटिकोटिस्वरूपिणी | शाकम्भर्यमला सूक्ष्मा षट्पदी भ्रामरी तथा | अनेकवर्णा गन्तव्यानन्तरूपा सनातनी || इति विद्युद्गौर्याद्युत्पत्तिः || दशमाध्याये || स्वच्छाया हृदये शम्भोर्दृष्ट्वा देवी सनातनी | उवाच प्रेमभावेण देवदेवं निजं पतिम् | तवैव हृदये देव दृष्ट्वा छायां सुनिर्मलाम् | मदीयां देवदेवेश ! विकलास्मि जगत्पते ! | तद्देहे देहि मे स्थानं यदि स्नेहोऽस्ति मां प्रति | ईश्वर उवाच || अधुनैव तदर्द्धाङ्गं हरिष्यामि वरानने ! | ममापि प्रीतिरतुला अङ्गाहरणदानयोः | इत्युक्त्वात्मनखेनैव द्विधा कृत्वा तनुं हरः | आत्मनश्चैव पार्वत्याः कृतवानेकतो वपुः | ताभ्यां वै हरगौरीभ्यामर्द्धनारीश्वरो हरः | अवशिष्टौ तु यौ भागौ एकीकृत्य महेश्वरः | हस्ताभ्यां पिण्डवत् कृत्वा वैकुण्ठे क्षिप्तवान् पुरे | अद्यापि तेजोरूपञ्च मूर्त्तिमान् वा महेश्वरः | वैकुण्ठवासिनः सर्वे ददृशुस्ते तपोगुणैः || इति अर्द्धनारीश्वराद्युत्पत्तिः || तत्रैव || एकदा पार्वती देवी स्नानार्थं गतवत्यपि | सार्द्धं सहचरीभ्याञ्च मन्दाकिन्या जले मुदा | तत्र स्नात्वा कामवाणपीडिता च जगन्मयी | बभूव कृष्णा सा देवी जगदानन्दकारिणी | अथ काले कदाचित्तु ताभ्यां पृष्टा महेश्वरी | देहि भक्ष्यं प्. ७२८) क्षुधार्त्ताभ्यामावाभ्यां परमेश्वरि ! | अत्र तै च प्रदास्यामि कुरुतां मे प्रतीक्षणम् | क्षणादूर्द्धं पुनः पृष्टा देहि भक्ष्यमथावयोः | प्रतीक्षणं प्रकुरुतां किञ्चित्कालं स्मरामि च | क्षणात् परमूचतुस्ते देहि भक्ष्यमथावयोः | माता त्वं सर्वजगतां मातरं प्रार्थयेच्छिशुम् | माता ददाति सर्वेषां भोजनाच्छादनादिकम् | अतस्त्वां प्रार्थये भक्ष्यं भक्षार्थं करुणामयि ! | इति श्रुत्वा महेशानी मधुरं वचनं तयोः | गृहे गत्वा प्रदास्यामि इत्यूचे वचनं तयोः | ऊचतुस्ते पुनस्तां वै डाकिनी वर्णिनी परे | जया च विजया ये तु आवां क्षुत्परिपीडिते | देहि भक्ष्यं जगन्मात ! यथा तृप्ये कृपामयि ! | तथा कुरु जगन्मातर्वरदे ! देवि ! वाञ्छितम् | इति श्रुत्वा वचः श्लक्ष्णं कृपामयी शुचिस्मिता | नखाग्रेण च चिच्छेद वामेन स्वशिरस्तदा | छिन्नमात्रन्तु तच्छोषं वामहस्ते पपात च | कण्ठाद्विनिःसृतं रक्तं त्रिधारेण तपोधन ! | वामदक्षिणभेदेन ते धारे च विनिर्गते | सखीमुखे तु संयोज्य मध्यधारा स्वकानने | एवं कृत्वा तु तास्तत्र गताः सर्वा यथागतम् | छिन्नं तस्या यतो मुण्डं छिन्नमस्ता ततः स्मृता || स्वतन्त्रतन्त्रे || छिन्नोत्पत्तिं प्रवक्ष्यामि तारा सैव च कालिका | पुरा कृतयुगे चैव कैलासे पर्वतोत्तमे | महामाया मया सार्द्धं महारतपरायणा | शुक्रोत्सारणकाले तु चण्डमूर्त्तिरभूत्तदा | तदा स्वदेहसम्भूते द्वे शक्ती सम्बभूवतुः | डाकिनी वर्णिनी नाम्ना सख्यौ ताभ्यां सहाम्बिका | पुष्पभद्रानदीकूलं जगाम चण्डनायिका | मध्याह्ने च क्षुधार्त्त च चण्डिकां पृच्छतस्ततः | भक्षणं देहि तच्छ्रुत्वा विहस्य चण्डिका शुभा | चिच्छेद निजमूर्द्धानं निरीक्ष्य सकला दिशः | वामनासागलद्रक्तैर्डाकिनी पर्यतोषयत् | दक्षिणा वर्णिनीं देवामपाययत शोणितम् | प्. ७२९) ग्रीवामूलाद्गलद्रक्तैर्मस्तकं पर्यतोषयत् | एवं क्रीडां तदा कृत्वा सन्ध्यायां गृहमागता | आधाय निजमूर्द्धानं कबन्धोपरि पार्वती | निजमूर्त्तिं समासाद्य या पुरा परिकीर्त्तिता | विवर्णां तान्तु दृष्ट्वाहं सहसा क्रोधमागतः | अन्यैः कृतमिदं मत्वा ततः शुश्राव तद्यथा | तदाभूत् क्रोधजो | देवि ! मदंशः क्रोधभैरवः | वीररात्रिदिने जाता दिनान्ते परमा कला | सखीभ्यां सह देवेशि ! नद्यां तस्यां प्रचण्डिका || इति छिन्नमस्ताद्युत्पत्तिः || नारदपञ्चरात्रे द्वादशाध्याये || ब्रह्मोवाच || कैलासशिखरे रम्ये नानारत्नविभूषिते | उपविष्टा महादेवी शभोरङ्के प्रिया सती | उवाच प्रेमभावेण स्वपतिं परमेश्वरी || देव्युवाच || त्वत्प्रसादाज्जगन्नाथ ! न किञ्चिद्दुर्लभं मम | यतस्त्वं सर्वदोऽसीति सर्वेष प्रियकारकः | किन्त्वहं गन्तुमिच्छामि मातापित्रोः शुभालये || ईश्वर उवाच || प्रियं ममैतद्देवेशि ! ममापि गमनं शिवे ! | सन्देहः किन्तु मे देवि ! गन्तासि ह्यनिमन्त्रिता | इति श्रुत्वा वचः पत्युर्वाचमित्याह हृष्टवत् | गतायां मयि तत्रैव ततो गन्तामि शङ्कर ! || ईश्वर उवाच || एतत्ते समयं भद्रे ! कृतवा नस्म्यहं शिवे ! | गतायां त्वयि गच्छामि तवानयनहेतुना || ब्रह्मोवाच || एतस्मिन्नन्तरे मेना चकारोत्सवमुत्तमम् | क्रौञ्चमाप्रेषयामास यत्र देवः सदाशिवः | वायुवेगरथेनैव शीघ्रमायाद्गिरेः सुतः | यत्रास्ते भगवानीशः साक्षाद्ब्रह्मस्वरूपधृक् | दूरादेव म मैनाको रथोपस्थादवातरत् | आगत्य भूमौ स क्रौञ्चो दण्डवन्निपपात ह | प्रेमवाष्पप्रपूर्णाक्षः पुलकोद्गमविग्रहः | वेपमानो महाबाहुर्भक्तिनम्रात्मकन्धरः ततो दृष्ट्वा महादेवः क्रौञ्चं तं धरणीगतम् | वामेन पाणिनोत्थाप्य समालिङ्ग्य गिरेः सुतम् | चुचुम्बे तस्य मूर्द्धानं नेत्राम्भः शिरसि क्षिपन् | स्वाङ्के निवेशयामास पृष्ट्वा कुशलमव्ययम् | उवाच प्. ७३०) श्लक्ष्णया वाचा किमर्थमिह चागतः || क्रौञ्च उवाच || यदि तेऽस्ति कृपा नाथ ! मयि दासे जगत्पते ! | हिमालयसुतां गौरीं तत्र नेतुं समुत्सहे | उषित्वा कतिचिन्मासानागमिष्यति निश्चितम् | तदाज्ञया जगन्नाथ ! समाधानं कुरु प्रभो ! || ईश्वर उवाच || पार्वतीं याहि शीघ्रं त्वं तस्यै सर्वं निवेदय || ब्रह्मोवाच || श्रुत्वेदं वचनं क्रौञ्चस्तस्य देवस्य शूलिनः | अनुज्ञाप्य जगन्नाथं जगाम यत्र पार्वती | दूरं दृष्ट्वा धरण्यां स पपात गिरिनन्दनः | प्रणम्य शिरसा भूमौ स्तुत्वा च परमेश्वरीम् | स्पृष्ट्वा पादौ महाबाहुस्तस्थौ प्रविनयान्वितः | गिरिजापि तमादाय वामेन पाणिना ततः | तञ्चोपवेशयामास साङ्गे पर्वतनन्दिनी | आशीर्भिस्तं समभ्यर्च्च पप्रच्छ कुशलं गिरेः || देव्युवाच || किमर्थमागतो वत्स ! कथयस्व ममाग्रतः | चिराद्दृष्टोऽसि भद्रन्ते करिष्यामि यथोदितम् || क्रौञ्च उवाच || त्वां द्रष्टुमपि वाञ्छन्ति प्रजाः सर्वा जगद्धिते | हिमवान् गिरिराजश्च मेना च परमेश्वरि ! | अनुज्ञाता महेशेन शीघ्रमायाहि पार्वति ! | मया सार्द्धं पितुर्गेहे गत्वा तान् परिहर्षय | त्वद्दर्शनोत्सुकाः सर्वे कृपां कुरु जगद्धिते || देव्युवाच || क्षणं प्रतीक्ष भद्रन्ते पत्यौ यावन्निवेदये | इत्युक्त्वा सा जगामाशु यत्रास्ते वृषभध्वजः | प्रणम्य शिरसा भक्त्या उपतस्थे पतिव्रता | अनुज्ञां देहि मे नाथ ! कृपां कुरु सदाशिव ! | त्वत्प्रसादात् प्रपश्यामि पितृमातृमुखान् जनान् | त्वयानीता जगन्नाथ ! आगमिष्यामि शङ्कर ! || शङ्कर उवाच || शीघ्रं गच्छ वरारोहे ! क्रौञ्चेन सह पार्वति ! | न चेद्गच्छसि शप्तव्या देवि ! ताभ्यां न संशयः | पुनः प्रणम्य सा देवी देवदेवं महेश्वरम् | कृच्छ्रेण रथमारूह्य मैनाकेन समं ययौ | क्षणात् पितृगृहं प्राप्य उत्तीर्य च रथात्ततः | जगाम वायुवेगेन प्. ७३१) क्रौञ्चेन सह सत्वरा | यत्रास्ते हिमवान् राजा मेना च वरवर्णिनी | पस्पर्श च तयोः पादौ तस्थौ मधुरभाषिणी | हिमवानपि शैलेन्द्रः समभ्यर्च्य च तां पराम् | कुशलानामयं पृष्ट्वा समालिङ्ग्य महामतिः | चिरं तस्थौ महातेजा धनं प्राप्यैव दुर्गतः || गिरिराज उवाच || याहि शीघ्रं महाभागे ! मेनकां परितोषय | इत्युक्ता सा गता पित्रा जगाम मातुरन्तिकम् | अभिवाद्य जगद्धात्री तस्थौ सा मातुरग्रतः | मेनका कुशलं पृष्ट्वा हर्षगद्गदभाषिणी | चिरेण दृष्टा सुभगा मात्रानन्दविवर्द्धिनी | एवं सुखोषिता तत्र पार्वती पितृमन्दिरे | उवाच कतिचिन्मासान् तेषां हर्षं प्रवर्द्ध्य च | एतस्मिन्नन्तरे शम्भुः शङ्खमादाय देवराट् | सुलक्षणं सुलावण्यं चारुचुम्बं मनोहरम् | शङ्खकारस्य वेशेन जगाम हिमवद्गृहम् | विक्रेतुकामः शङ्खानां छलेन त्रिपुरान्तकः | नारीभ्यः प्रददौ शङ्खंपार्वत्यै न ददाति च | पार्वती प्रणयाविष्टा कृत्वा तस्य च सम्मतिम् | दास्यामि ते महाभागे ! चारुशङ्खं महेश्वरि ! | मया यद्याचितं भद्रे ! दातव्यं मूल्यमेव तत् || वाढमुक्त्वा जगद्धात्री परिधाय सुनिर्मलम् | दिव्यं मनोहरं शङ्खं चारुरूपं सुशोभनम् | शङ्खकारस्तदा प्राह मूल्यं देहि पतिव्रते ! || देव्युवाच || पिता मे हिमवानद्रिर्भर्त्ता शम्भुः कृपामयः | पुत्रा मे गणनाथाद्या भ्राता मैनाक एव च | भ्रातृपुत्रः स्वयं क्रौञ्चो माता च मम मेनका | यत्प्रार्थयसि भद्रन्ते तद्दास्यासि न संशयः || शङ्खकार उवाच || पीडितः कामवाणेन त्वया सार्द्धं वरानने ! | शीग्रं वरय मां भद्रे ! नान्यत् पुण्यं ममेप्सितम् | इति श्रुत्वा वचस्तस्य शङ्खकारस्य पार्वती | मामेवं वचनं रूक्षं कः शक्नोति जगत्त्रये | गदितुं दुष्टभावोऽसौ शम्भुं चक्रे मनस्ततः | ततो ध्यानं प्. ७३२) समास्थाय धैर्यमालम्ब्य पार्वति | ददर्श चेष्टितं शम्भोः प्रहस्य परमेश्वरी | उवाच शङ्खकारं तं स्मितपूर्वानना ततः | अधुना गच्छ भद्रन्ते पूरयामि मनोरथम् | दिनान्तरे महाबहो ! विसृज्य सा जगद्धिता ! | किरातवेशमास्थाय सखीभिः परिवारिता | जगाम यत्र देवेशः सन्ध्यां चक्रे महेश्वरः | नृत्यगीतैः कामवेशः पानभोजनविस्तरैः | उवास तत्र रमणवेशेन परमेश्वरी | एतस्मिनन्तरे शम्भुः सन्ध्यां कर्त्तुं जगाम सः | मानसाख्यसरस्तीरे गत्वा सन्ध्यां महेश्वरः | ददर्श तां सखीभिश्च कामवेशोज्ज्वलां पराम् | रक्तवर्णां रक्तवस्त्रपरीधानां सुनिर्म्मलाम् | तन्वीं विशालनयनां पीनोन्नतघटस्तनीम् | आगत्य सन्निधौ तस्याः प्राह देवः कृपामयः || ईश्वर उवाच || का त्वं सुभ्र ! वरारोहे ! किमर्थमिह वागता | मनोरथं ते दास्यामि सत्यं सत्यं कृपां कुरु || चाण्डाल्यु वाच || चाण्डाल्यम्मि सुरश्रेष्ठ ! तपोऽर्थमिह चागता | देवत्वमभिलाषं मे मा विघ्नं कुरु पण्डित ! || ईश्वर उवाच || शिवोऽहं देवदेवेशि ! तपस्विफलदायकः | अधुना पार्वतीतुल्यां करिष्ये नात्र संशयः | तदेव कामभावेन तत्कल्याणि ! भजस्व मां | कथं विलम्बसे देवि ! देवत्वं यदि वाञ्छसि || चाण्डाल्युवाच || तपोऽर्थमागता अत्र देवदेव ! जगत्पते ! | देवतात्वमवाप्तं वै मा विघ्नं कुरु धर्मराट् ! || ईश्वर उवाच || भविष्यति न ते विघ्नं कायक्लेशेन किं तव | अधुना भव देवी त्वम् मद्वाक्यं विफलं न हि | इत्युक्त्वा हस्तमादाय हस्तेन परमेश्वरः | उपविष्टो महादेवस्तस्या आसनमुत्तमम् | तया सार्द्धं महादेवः समाश्लिष्य च तां शिवः | चुचुम्बे वदनं तस्या मैथुनायोपचक्रमे | रममाणस्तया सार्द्धं कालेन कियता हरः | चण्डालवेशमगमत्ततः प्राह प्रिया सती | नाहं छलयितुं शक्या केनोपायेन कुत्रचित् | त्वं हि देवगुरुर्देव ! प्. ७३३) देवदेव ! जगत्पते ! | एवं नानाप्रकारेण तयोस्तु रममाणयोः | अभवच्च तयोः प्रीतिरतुला मुनिसत्तम ! | रत्यन्ते चोपविष्टौ तु ततः प्राह परं सती | जपं कुरु जगन्नाथ ! देहि मे वाञ्छितं वरम् || ईश्वर उवाच || यस्माच्चण्डालवेशेन मामेवं समुपागता | तस्मान्मूर्त्तिरियं भद्रे ! भविष्यति न संशयः | उच्छिष्टचाण्डाली ख्याता सर्वशास्त्रेषु गोपिता | कृतायां तव पूजायां पूजान्ते परमेश्वरि ! | साङ्गा भविष्यति शिवे ! अन्यथा नैव पार्वति ! | मातङ्गी नाम मूर्त्तिस्ते भविष्यति न संशयः | सिद्धविद्या महाविद्या तथा त्रिपुरसुन्दरी | त्रिपुरभैरवी देवी यथा च भुवनेश्वरी | काली तारा महाविद्या यथा ते उत्तमा तनुः | भैरवी छिन्नमस्ता च तथा धूमावती तनुः | वगला सिद्धविद्या च मातङ्गी ते तनूरियम् || ब्रह्मोवाच इति दत्त्वा वरं तस्यै पुनः प्राह प्रियां सतीम् | गच्छ त्वं हिमवद्गेहे कैलासमहमीश्वरः | तत्र गत्वा महामायां समानय मदालयम् | इति श्रुत्वा वचः पत्युः प्रणिपत्य निजः पतिम् | अभिवाद्य ह्यनुज्ञाता गता सापि यथागतम् | मायया मोहितास्ते तु बुबुधुर्नहि किञ्चन || इति उच्छिष्टचाण्डाल्या उत्पत्तिः || प्रकारान्तरन्तु स्वतन्त्रतन्त्रे || अथोच्छिष्टचाण्डालिनीं वक्ष्ये शृणुष्व सावधानतः | नारदः पृष्टवान् विष्णुं गीतज्ञानं वद प्रभो ! | तमुवाच हरिः पूर्वं गतोऽहं शङ्करं प्रति | तत्र दृष्टं शिवं शान्तं मारीचगणसङ्कुलम् | अनेकरससंयुक्तं विविधास्वादनैर्युतम् | सामरस्यं तदा जातमुच्छिष्टं गलितं मुदा | अनेकगुणसम्पन्ना प्रत्युत्पन्ना कुमारिका | उच्छिष्टं देहि देहीति पार्वती शङ्करेण च | उभाभ्यां दत्तमुच्छिष्टं प्रसादं प्रीतिपूर्वकम् | शिवशक्ती ऊचतुस्तां कन्ये ! त्वां प्रभजन्ति ये | जपहोमादिभिस्तेषां सिध्यन्ति च मनोरथाः | तदा प्रभृति प्. ७३४) चोच्छिष्टमातङ्गीति निगद्यते || इत्युच्छिष्टचाण्डालिन्युत्पत्तिः || नारदपञ्चरात्रे त्रयोदशाध्याये || ब्रह्मोवाच || एकदा वसमानस्तु कैलासशिखरे हरः | अङ्कस्था गिरिजा तत्र पप्रच्छ वृषभध्वजम् | क्षुधया पीड्यमानास्मि देहि भोक्तुं यथोचितम् || ईश्वर उवाच || क्षणं प्रतीक्ष भद्रं ते दास्यामि भोजनं ततः | इत्युक्त्वा विररामाशु देवदेवो वृषध्वजः || देव्युवाच || देहि भक्ष्यं महादेव ! क्षुधितास्मि जपत्पते ! | विलम्बितुं न शक्नोमि पीडितास्मि महेश्वर ! | इति श्रुत्वा प्रियावाक्यं पुनः प्राह कृपानिधिः | क्षणं प्रतीक्ष दास्यामि भक्षणं चाभिवाञ्छितम् | पुनः प्रतीक्ष्य मा देवी पुनः प्राह त्विदं वचः | देहि भक्ष्यं जगन्नाथ ! न शक्नोमि विलम्बितुम् | इत्युक्त्वा पतिमादाय मुखे चिक्षेप मा तदा | क्षणेन तस्या देहात्तु धूमसङ्घो व्यजायत | ततो देहे समुत्पन्ने शम्भुस्तु निजमायया | उवाच परमेशानः स्वां प्रियां शृणु शोभने ! | पश्य भद्रे ! महाभागे ! पुरुषो नास्ति मां विना | त्वदन्या वनिता नास्ति पश्य त्वं ज्ञानचक्षुषा | विधवासि कुरु त्यागं शङ्खं सिन्दूरमेव च | साधव्यं लक्षणं देवि ! कुरु त्यागं पतिव्रते ! | एषा मूर्त्तिस्तव परा विख्याता वगलामुखी | धूमव्याप्तशरीरात्तु ततो धूमावती स्मृता | एते मूर्त्ती तव परे सिद्धिविद्ये प्रकीर्त्तिते | यथोग्रतारिणी मूर्त्तिर्यथा काली पुरा सती | यथा च भुवनेशानी यथा त्रिपुरभैरवी | छिन्नमस्ता यथा मूर्त्तिस्तथा त्वं परमेश्वरि ! || इति धूमावत्युत्पत्तिः || प्रकारान्तरेणोत्पत्तिस्तस्याः स्वतन्त्रतन्त्रे || दक्षप्रजापतेर्यज्ञे सर्वसंहारचञ्चला क्रुद्धा देहं विनिक्षिप्य ततो धूमोऽभवन्महान् | तस्माद्धूमावती जाता सर्वशत्रुविनाशिनी | काली कालाकालवक्त्रा भौमवारे निशामुखे | प्राप्तेऽक्षयतृतीयायां जाता प्. ७३५) धूमावती शिवा || इति प्रकारान्तरधूमावत्युत्पत्तिः || स्वतन्त्रतन्त्रे || अथ वक्ष्यामि देवेशि ! वगलोत्पत्तिकारणम् | पुरा कृतयुगे देवि ! वातक्षोभ उपस्थिते | चराचरविनाशाय विष्णुश्चिन्तापरायणः | तपस्यया च सन्तुष्टा महाश्रीत्रिपुराम्बिका | हरिद्राख्यं सरो दृष्ट्वा जलक्रीडापरायणा | महापीतह्रदस्यान्ते सौराष्ट्रे वगलाम्बिका | श्रीविद्यासम्भवं तेजो विजृम्भति इतस्ततः | चतुर्दशी भौमयुता मकारेण समन्विता | कुलऋक्षसमायुक्ता वीररात्रिः प्रकीर्त्तिता | तस्यामेवार्द्धरात्रौ तु पीतह्रदनिवासिनी | ब्रह्मास्त्रविद्या सञ्जाता त्रैलोक्यस्तम्भिनी परा | तत्तेजो विष्णुजं तेजो विद्यानुविद्ययोर्गतम् || इति वगलामुख्युत्पत्तिः || तत्रैव || अथ मातङ्गिनीं वक्ष्ये क्रूरभूतभयङ्करीम् | पुरा कदम्बविपिने नानावृक्षसमाकुले | वश्यार्थं सर्वभूतानां मतङ्गो नामतो मुनिः | शतवर्षसहस्राणि तपोऽतप्यत सन्ततम् | तत्र तेजः समुत्पन्नं सुन्दरीनेत्रतः शुभे ! | तेजोराशिरभूत्तत्र स्वयं श्रीकालिकाम्बिका | श्यामलं रूपमास्थाय राजमातङ्गिनी भवेत् || इति मातङ्गिन्युत्पत्तिः || स्वतन्त्रतन्त्रे || अथ श्रीभुवनां वक्ष्ये त्रैलोक्योत्पत्तिमातृकाम् | पुरा ब्रह्मा जगत् स्रष्टुं तपोऽतप्यत दारुणम् | तपसा तस्य सन्तुष्टा शक्तिः सा परमेश्वरी | चैत्रशुक्लनवम्यान्तु उत्पन्ना तारिणी स्वयम् | क्रोधरात्रिः समाख्याता सर्वशक्तिमयी शिवा | क्षीरोदार्णवसम्भूता मथनादुदधेः पुरा | विष्णोर्वक्षःस्थलस्था च पद्मासनगता रमा | कृष्णाष्टम्यां भाद्रपदे कोलासुरनिकृन्तनी | तस्यां तिथौ समुत्पन्ना महामातङ्गिनी कला | फाल्गुनैकादशीयुक्ता भृगौ भौमे च या तिथिः | जाता तस्यां महालक्ष्मीः प्. ७३६) सर्वसौभाग्यदायिनी || इति महालक्ष्म्युत्पत्तिः || तत्रैव || कृष्णाष्टम्यां मार्गशीर्षे घोररात्रिः प्रकीर्त्तिता | महाकालः समुत्पन्नस्तस्याञ्च भगवान् स्वयम् || इति महाकालोत्पत्तिः || ज्येष्ठशुक्लदशम्यान्तु वटुकोत्पत्तिरीरिता | मार्गशुक्लचतुर्दश्यां दन्तोत्पत्तिः प्रकीर्त्तिता | महामहिषमर्दिन्या महादुर्गाष्टमी स्मृता || अथ कालीप्रकरणम् || महानिर्वाणतन्त्रे चतुर्थोल्लासे सदाशिववाक्यम् || तव रूपं महाकालो जगत्संहारकारकः | महासंहारसमये कालः सर्वं ग्रसिष्यति | कलनात् सर्वभूतानां महाकालः प्रकीर्त्तितः | महाकालस्य कलनात् त्वमाद्या कालिका परा | कालसङ्कलनात् काली सर्वेषामादिरूपिणी | कालत्वादादिभूतत्वादाद्या कालीति गीयते | पुनः स्वरूपमासाद्य तमोरूपं निराकृति | वाचातीतं मनोऽगम्यं त्वमेकैवावशिष्यते | साकारापि निराकारा मायया बहुरूपिणी | त्वं सर्वादिरनादिस्त्वं कर्त्री हर्त्री च पालिका | अतस्ते कथितं भद्रे ! ब्रह्ममन्त्रेण दीक्षितः | यत् फलं समवाप्नोति तथैव फलसाधनात् || गुप्तसाधनतन्त्रे षष्ठपटले || आलीढं कीदृशं नाथ ! प्रत्यालीढन्तु कीदृशम् | कथं सा दक्षिणाकाली श्मशानालयवासिनी || इति देवीप्रश्नोत्तरम् || आलीढं वामपादन्तु प्रत्यालीढन्तु दक्षिणम् | संहाररूपिणी काली जगन्मोहनकारिणी | वह्निरूपा महामाया सत्यं सत्यं न संशयः | अत एव महेशानि ! श्मशानालयवासिनी | आलीढपादा सा देवी प्रत्यालीढा क्षणे क्षणे | अनन्तरूपिणी श्यामा को वक्तुं शक्यते प्रिये ! | अनन्तरूपिणी श्यामा चतुर्वर्गप्रदायिणी || पिच्छिलातन्त्रे द्वितीयपटले || प्. ७३७) ब्रह्मविष्णुशिवादीनां शिरोरत्नपदाम्बुजा | कलौ काली कलौ काली नान्यदेवः कलौयुगे | शान्त्यादावपि सा काली पूजनीया विशेषतः | कालिकापूजने श्रद्धा यदा सञ्जायते हृदि | न तदा ग्रहरोगाणां भयमस्ति कदाचन | सर्वेषां देवि ! मन्त्राणां श्रेष्ठोऽत्र कालिकामनुः | यस्य ग्रहणमात्रेण जीवन्मुक्तोऽधमोऽपि च | कुब्जिकातन्त्रे प्रथमपटले || के मे गोत्रे समुत्पन्नाः कालीं साधितुमुद्यताः | तच्छ्रुत्वा पितरः सर्वे नृत्यन्ति हृष्टमानसाः | तथा || अदेया परमा विद्या कलौ पूर्णफलप्रदा | कालिका मोक्षदा देवि ! कलौ शीघ्रफलप्रदा | गुरोर्मुखान्महाविद्यां गृह्णीयात् पापनाशिनीम् || तथा || धर्माधर्मादिकं यत्तु कुरुते साधकोत्तमः | तत् सर्वमनुगृह्णाति कालिकापूजने ध्रुवम् | सम्प्रदायविधानेन कर्त्तव्यञ्च महेश्वरि ! | सम्प्रदायविहीनानां फलं न स्यात् सुरेश्वरि ! || इत्याद्याप्रशंसा | पिच्छिलातन्त्रे || कालीनिन्दाकरा लोके भविष्यन्ति गतायुषः | तेषां पुत्त्रकलत्राणां नाशोऽन्ते नरकं व्रजेत् || इत्याद्यानिन्दादोषः || तथा | एकादशपटले || अथ कालीमनुं वक्ष्ये येन सर्वार्थसाधकः | सर्वसिद्धिश्व्रो वीरः सर्वलोकप्रपूजितः | यस्य विज्ञानमात्रेण चतुर्वर्गफलं लभेत् | सर्वासु देवदेवीषु दक्षिणा प्रकृतिः प्रिये ! | तस्या मन्त्रं प्रवक्ष्यामि दुर्लभं भुवनत्रये | यक्षस्कन्दं समुद्धृत्य वह्निवामाक्षिसंयुतम् | इन्दुविन्दुसमायुक्तं कालीवीजमिदं स्मृतम् | प्राप्यैतं परमं गुह्यं सारात्सारं परात्परम् | चतुर्वर्गं लभेन्मन्त्री हेलया हरभाविनि ! | त्रिगुणं चेन्महेशानि ! बीजं सारतरं भवेत् | नैवास्याः सदृशी विद्या काचिदस्ति महेश्वरि ! | शान्तिपुष्ट्यादिकमपि साधयेदनयाचिरात् | महापदि महात्रासे प्. ७३८) महादारिद्र्यसङ्कटे | वैरिवृद्धौ व्याधिवृद्धौ महाघोरे भयङ्करे | राजादिभयमापन्ने राजचक्रे विशेषतः | उक्तं मन्त्रमिमं देवि ! लक्षमात्रं समभ्यसेत् | देवक्रोधे भये भीमे गृहदोषे भयानके | प्रान्तरे भूमिसंस्थेषु दस्युभिर्वाथ संवृते | शान्तिकार्येषु सर्वत्र धननाश उपस्थिते | स्वजनानान्तु विद्वेषे अयुतं प्रजपेन्मनुम् | जापिनं पाति सा काली भयेभ्यः स्कन्दवत् सदा | तस्मात् परमयत्नेन कालिकां भज सुन्दरि ! | विना जपान्महाविद्या सिद्धिविद्यापि हानिदा | विना होमैर्न चैश्वर्यं न सिद्धिर्जपनं विना | पूजां विना न पूजास्ति सर्वत्र परमेश्वरि ! || तथा | एतन्मन्त्रद्वयं देवि ! न देयं प्राणसङ्कटे | स्नेहेन यदि तद्दद्यादयुतं जपमाचरेत् | ज्ञात्वा मन्त्रं महेशानि ! सर्वशास्त्रार्थविद्भवेत् | कविर्वाग्मी भवेच्छूरः सर्वेषां प्रियदर्शनः | विख्यातिञ्चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् || गुप्तसाधनतन्त्रे षष्ठपटले || शृणु देवि ! प्रवक्ष्यामि दक्षिणाकल्पमुत्तमम् | यस्याः प्रसादमात्रेण भवाब्धौ न निमज्जति | स्वरान्तं वह्निसंयुक्तं वामनेत्रविभूषितम् | विन्दुनादकलायुक्तं मन्त्रं त्रैलोक्यमोहनम् || स्वरान्तं ककारः || भैरवोऽस्य ऋषिः प्रोक्त उष्णिक्छन्द उदाहृतम् | दक्षिणाकालिका प्रोक्ता देवता सर्वसिद्धिदा | मायावीजं वीजमस्याः कूर्च्चवीजन्तु शक्तिकम् | निजवीजं महेशानि ! कीलकं सर्वमोहनम् | धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः || तथा | पूजायाः पूर्वदिवसे आदौ क्षौरादिकं चरेत् | हविष्यान्नं महेशानि ! भोजनं वा निरामिषम् | ततः परस्मिन् दिवसे प्रातः स्नात्वा तु साधकः | नित्यपूजां समाप्यादौ देववत् शुद्धमानसः | गुरुर्वा गुरुपुत्रो वा गुरुपत्नी च सुव्रते ! | आगमोक्तपूजने तु अधिकारी गुरुः स्वयम् | गुरोर्भावे देवेशि ! स्वयं पूजादिकं चरेत् || वरदातन्त्रे प्. ७३९) दशमपटले तु यत् || तन्त्रोक्तानि स्वकल्पोक्तकर्माणि स्वयमाचरेत् | गुरुणा कारयेद्वापि पुत्रवत्या स्त्रिआ तथा | अन्यथानुष्ठितं सर्वे भवत्येव निरर्थकम् || इत्यनेन विकल्पितं तदनेनैकवाक्यतया गुरोरभावे स्वयं करणमिति व्यवस्थितम् मुख्यापेक्षया प्रतिनिधेः प्राधान्यं वचनबलात् || स्वयमसामर्थ्ये तु पुत्रवत्या स्त्रिया कारयितव्यमित्यपि सुतरामायातम् || अन्यद्वारा तान्त्रिकपूजादिकरणे दोषमाह || गुप्तसाधनतन्त्रे || एभिर्विना महेशानि ! तान्त्रिकैर्देशिकैर्यदि | तस्य पूजाफलं सर्वं ग्रस्यते यक्षराक्षसैः | अत एव महेशानि ! गुरुः कर्त्ता विधीयते | ब्रह्मरूपो गुरुः साक्षाद् यदि पूजादिकं चरेत् | तत्तत् सर्वं महेशानि ! शतकोटिगुणं भवेत् | अथ वा परमेशानि ! स्वयं पूजादिकं चरेत् | स्वयं पूजादिकं कृत्वा पूजाद्रव्यादिकञ्च यत् | तत् सर्वं परमेशानि ! गुरोरग्रे निवेदयेत् | गुरौ दत्तं महेशानि ! सर्वं कोटिगुणं भवेत् || गुरुपत्न्या पूजादिकरणे होमादि नास्ति तदुक्तं तत्रैव || गुरुपत्नी महेशानि ! यदि पूजादिकं चरेत् | बलिदानादिकं कार्यं तत्र होमं विवर्ज्जयेत् | होमीयद्रव्यमानीय देव्यग्रे स्थापयेद्बुधः | मूलमन्त्रं समुच्चार्य महादेव्यै निवेदयेत् | तेन होमफलं जातं न वह्नौ होमयेद्बुधः || तथा | गुरुणा यत् छतं देवि ! तत् सर्वमक्षयं भवेत् | ऋत्विक्पुत्रादयो देवि ! स्मृत्युक्ता बहवः प्रिये ! | तन्त्रोक्ते परमेशानि ! पूजादौ नैव कारयेत् | पुरोहितं समानीय यदि पूजादि कारयेत् | तस्य सर्वार्थहानिः स्यात् क्रुद्धा भवति कालिका | पूजाकाले महेशानि ! नान्यवक्त्रं विलोकयेत् | इष्टपूजादिकं सर्वं यः कुर्याज्जनसन्निधौ | तस्य सर्वार्थहानिः स्यात् क्रुद्धा भवति कालिका | वरं पूजा न कर्त्तव्या न कुर्यादन्यसन्निधौ | प्. ७४०) अन्यसन्निहिते देवि ! यदि पूजापरो भवेत् | विष्णुतन्त्रोक्तपूजादि तत्तन्मुद्रां प्रदर्शयेत् | तेन पूजादिकं जातं न च व्यक्तं कदाचन || वरदातन्त्रे || विशेषकर्म गोप्तव्यं मन्त्रवत् परमेश्वरि ! || दीपान्वितादिपूजासु परमोत्सवमाचरेत् | भवानीप्रीतये सर्वं कर्मकुर्यात् प्रसन्नधीः || तत्र भक्तिः सदा कार्या यस्य या इष्टदेवता | तत्राभक्तिर्महादुःखदायिनी कुष्ठकारिणी | निजदेवीं परित्यज्य तथैव च निजं गुरुम् | योऽन्यत्र भक्तिमान् देवि ! तस्य सर्वं विनश्यति | नान्यनिन्दा प्रकर्त्तव्या कदाचिदपि साधकैः | एकं ब्रह्मैवाद्वितीयं सर्वत्र कथितं मया | उपाधिभावभेदेन नानात्वं भजते सति ! | एकं पूजयते यस्तु सर्वानर्चयतिस्म सः || अथ पूजा सा तु त्रिविधा मानसान्तर्यागात्मिका वाह्या च | यथा मुण्डमालातन्त्रे पञ्चमपटले || महासिद्धिकरी पूजा मानसी मुक्तिदायिनी | अन्तर्यागात्मिका सर्वजीवत्वपरिणाशिनी | वाह्यपूजा राजसी च सर्वसौभाग्यदायिनी | भुक्तिमुक्तिप्रदा चैव सर्वापत्परिणाशिनी | सर्वदोषक्षयकरी सर्वशत्रुनिपातिनी | सर्वरोगक्षयकरी सर्वबन्धनमोचनी | न वीराणां पशूनाञ्च वाह्यपूजाधमा प्रिये ! | केवलानाञ्च दिव्यानां वाह्यपूजाधमा स्मृता || तोडलतन्त्रे तृतीयपटले || सूत्राकारेण देवेशि ! पूजाविधिरिहोच्यते ! स्वस्ति वाच्य च सङ्कल्प्य घटं संस्थाप्य यत्नतः | मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् | तज्जलैर्द्वारमभ्युक्ष्य द्वारपूजां समाचरेत् | त्रिविधं विघ्नमुत्सार्य भूतापसरणं ततः | आसनञ्च समभ्यर्च्च्य गुरुदेवं नमेत् सुधीः | करशुद्धिञ्च तालञ्च त्रयं दिग्बन्धनं ततः | वह्निना वेष्टनं कार्यं भूतशुद्धिमथाचरेत् | मातृकायाः षडङ्गञ्च कुर्यादन्तरमातृकाम् | मातृकाध्यानमाचर्य वाह्ये तु मातृकां न्यसेत् | पीठन्यासं ततः कृत्वा प्. ७४१) प्राणायामं समाचरेत् | ऋष्यादिकं कराङ्गञ्च वर्णन्यासं समाचरेत् | षोढा न्यासं ततो देवि ! व्यापकं तदनन्तरम् | एवं समाहितमनास्तत्त्वन्यासं समाचरेत् | वीजन्यासं ततो देवि ! व्यापकं विन्यसेत् सुधीः | मूलेन सप्तधा न्यासं मानसैः पूजनं चरेत् | विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् | मुद्रादिदर्शनं कार्यमावाहनषडङ्गकम् | धेन्वादिकं ततः प्राणप्रतिष्ठां मूलपूजनम् | आज्ञाप्रार्थनमङ्गानि काखादींश्च प्रपूजयेत् | बाह्म्यादीरसिताङ्गादीन् महाकालं प्रपूजयेत् | खड्गादीन् गुरुपङ्क्तिञ्च पुनर्देवीं प्रपूजयेत् | बलिदानं ततो होमं प्राणायामं ततो जपम् | जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत् | स्तुतिञ्च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः | शिवोऽहमिति सञ्चिन्त्य संहारेण विसर्जयेत् | ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विका | अर्घ्यं सन्धार्य शिरसि चन्दनन्तु ललाटके | नैवेद्यं किञ्चित् स्वीकृत्य विहरेच्च निजेच्छया || महाकालध्यानं निरुत्तरतन्त्रे तृतीयपटले || यथा | धूम्रवर्णं महाकालं जटाभारान्वितं यजेत् | त्रिनेत्रं शिवरूपञ्च शक्तियुक्तं निरामयम् | दिगम्बरं घोररूपं नीलाञ्जनचयप्रभम् | निर्गुणञ्च गुणाधारं कालीस्थानं पुनः पुनः || खड्गादिपूजाक्रमस्तु निरूत्तरे | तथा || खड्गं मुण्डं यजेद्वामे हस्ते च कुलसुन्दरि ! | पूजयेद्दक्षिणे हस्ते अभयञ्च वरं तथा || एवमसिताङ्गादिपूजाक्रमोऽपि तत्रैव || चतुर्द्वारे यजेद्देवि ! असिताङ्गादिभैरवान् | पूर्वादिक्रमतो देवि ! द्वारि द्वारि द्वयं द्वयमिति || संक्षेपपूजासूत्रन्तु तोडलतन्त्रे तृतीयपटले || संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः | आदावृष्यादि विन्यस्य करशुद्धिस्ततः परम् | अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च | तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् | ध्यानं मानसयागञ्च अर्घ्यस्थापनमेव च | पीठपूजां प्. ७४२) पुनर्ध्यानं ततश्चावाहनं चरेत् | जीवन्यासं ततः कृत्वा पूजयेत् परदेवताम् | अङ्गपूजाञ्च काल्यादिं ब्राह्म्यादिञ्चाष्टभैरवान् | महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः | खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् | प्राणायामं ततः कृत्वा प्रजपेत्साधकाग्रणीः | देव्या हस्ते जपफलसमर्पणमथाचरेत् | प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः | स्तुतिञ्च कवचं स्मृत्वा विशेषार्घ्य प्रदापयेत् | आत्मसमर्पणं कृत्वा संहारेण विसर्जयेत् | ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विका | नैवेद्यं किञ्चित् स्वीकृत्य विहरेच्च निजेच्छया || पिच्छिलातन्त्रे द्वादशपटले || नित्यपूजाविधिं वक्ष्ये शृणुष्व प्राणवल्लभे ! | यतः पूजादिकं देवि ! न ददाति फलं क्वचित् | पूजया लभते पूजां तस्मात् पूजापरो भवेत् | नित्यपूजाविहीनस्य न काम्यं सिध्यते क्वचित् || तथा | आचम्य द्वारदेशे तु सामान्यार्घ्यं समाचरेत् | लिपिऋष्यादिविन्यासो मूलेन करशोधनम् | करव्यापकविन्यासं कृत्वाङ्गानि न्यसेत् सुधीः | तालत्रयं दिशां बन्धः प्राणायामत्रयं तथा | ध्यानमिष्टस्यैव पूजा जपश्च कालिकार्च्चनम् | अयमेव विधिः प्रोक्तः सर्वेषां यजनक्रमः | उपचारैः षोडशैस्तु तद्भवेत् पूजनं महत् | नित्ये दशोपचारास्तु पञ्च वा विचरेत् शिवे ! | अभावे गन्धपुष्पाभ्यां पुष्पेण तदभावतः | तदभावे यजेत् पत्रैस्तण्डुलेन जलेन वा | मानसीं तदभावेऽपि पूजां न लङ्घयेत् क्वचित् | लङ्घने सर्वनाशः स्यादापदश्च पदे पदे | एतयोः पुरश्चरणं लक्षजपः || कालीतन्त्रे द्वितीयपटले || आदौ पुरस्क्रियां कुर्यान्नियमेन यथास्थितः | लक्षमेकं जपेद्विद्यां हविष्याशो? दिवा शुचिः | रात्रौ ताम्बूलपूरास्यः शययायां लक्षमानतः | ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा | एतद्वचनं तन्त्रसारेऽपि धृतमस्ति किन्तु अर्वाचीना एतद्वचने प्. ७४३) लक्षद्वयदर्शनात् तन्त्रसारकारलिखितानिरुद्धसरस्वतीप्र- करणीयलक्षद्वयजपदर्शनाच्चैतयोरपि लक्षद्वयजपेन दिवारात्रिभेदकृतेन पुरश्चरणं वदन्ति | तन्न | तन्त्रसारकारेणापि एतयोर्लक्षजपेन पुरश्चरणं स्पष्टमुक्तम् | तत्प्रमाणं तद्धृतसिद्धेश्वरीयवचनं द्रष्टव्यम् | वस्तुतस्तु एतयोरनिरुद्धसरस्वत्याश्च लक्षद्वयेन यत् परश्चरणमुक्तं तत् पशुकल्पवीरकल्पभेदेन | तदुक्तं श्यामारहस्यधृतस्वतन्त्रतन्त्रे || यथा || दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः | ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये ! | तर्पयेत्तीर्थतोयेन पयसा हविषा तथा | मधुना वा सितामिश्रतोयेन परमेश्वरि ! देवीञ्चाभिषिचेत्तोयैस्तर्पणस्य दशांशतः | तद्दशांशं हविष्यान्नैर्भोजयेद्भक्तितः प्रिये ! | कालीतन्त्रविदो विप्रान् गुरवे दक्षिणां ददेत् | पाशवं कथितं कल्पं शृणु वैरं ततः प्रिये ! || इति || निरुत्तरतन्त्रे चतुर्थपटलेऽपि || दिवा लक्षं जपेद्विद्यां हविष्याशी सदा शुचिः | दशांशं जुहुयाद्वह्नौ तद्दशांशञ्च तर्पणम् | तद्दशांशाभिषेकञ्च तीर्थतोयेन पार्वति ! | तद्दशांशं विष्यान्नैर्भक्तितो भोजयेद्द्विजान् | पाशवं कथितं कल्पं शृणु वैरमतः परम् | नक्तं यामगते देवि ! स्वकुलं परिचिन्तयेत् || इत्युपक्रम्य | तत्त्वचिन्तापरो मन्त्री जपेल्लक्षं कुलाकुलम् | तद्दशांशं जुहुयादग्नावासवैः पललान्वितैः | तद्दशांशं तर्पणञ्चं सुधापललसंयुतम् | अभिषेकं तद्दशांशं तीर्थतोयेन पार्वति ! | कुलद्रव्यैस्तद्दशांशं भक्तितो भोजयेद् द्विजान् | आदावन्ते च मध्ये च शक्तीनां भोजयेत् कुलम् | तदभावे महेशानि ! शक्तिमात्रं प्रपूजयेत् | पुरश्चरणकाले हि यदि शक्तिं न पूजयेत् | तस्य पूजा जपो होमो ह्यभिचाराय कल्पते || प्रथमपटलेऽपि || दिवा च पाशवं कर्म रात्रिकर्म च कौलिकम् | पुरश्चर्यादिकं प्. ७४४) कर्म द्विविधं भावभेदतः || इति | तस्मात् पशुकल्पे पुरश्चरणं दिवा लक्षजपः | वीरकल्पे तु रात्रौ लक्षजप इति सिद्धम् | यदि वा कालीतन्त्रलिखनानुसारेण पशुकल्पेऽपि दिवारात्रिभेदेन लक्षद्वयजपेन पुरश्चरणमङ्गीक्रियते तदा तत्तन्त्रोक्तम् | नानाचारं न कर्त्तव्यं न चारणमितस्ततः | भूतहिंसा न कर्त्तव्या पशुहिंसा विशेषतः | बलिदानं विना देवि ! हिंसा सर्वत्र गर्हितम् || इति वचनेन नानाचारनिषेधस्य वैयर्थ्यापत्तिरत-एवं कर्पूरादिस्तवे | वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः | परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं सम्यक् स्मरहरसमानः क्षितितले || इत्यत्र परमित्यनेन निधुवनविनोदेनेत्यनेन च वीरकल्प एव रात्रिपुरश्चरणमुक्तम् | निधुवनविनोदेन रतिक्रीडानन्देन तेषां मन्त्राणां यजनविधिस्तन्त्रसारकारेणैव बहुधा लिखितस्तत्र सर्वं द्रष्टव्यम् || अथ कालीशतनामस्तोत्रम् || शिव उवाच || करालवदना काली कामिनी कमला कला | क्रियावती कोटराक्षी कामाख्या कामसुन्दरी | कपोला च कराला च काशी कात्यायनी कुहुः | कङ्काली कालदमनी करुणा कमलार्च्चिता | कादम्बरी कालहरा कौतुका कारणप्रिया | कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा | कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिणी | कालिका कालरात्रिश्च कुलजा कुलपण्डिता | कुलधर्मप्रिया कामा काम्यकर्मविभूषिता | कुलप्रिया कुलरता कुलीनपरिपूजिता | कुलज्ञा कमला पूज्या कैलासनगभूषिता | कूटजा केशिनी कामा कामदा कामपण्डिता | करालास्या च कन्दर्पकामिनी रूपशोभिता | केलम्बका केलरता केलिनी केलभूषिता | केशवस्य प्रिया प्. ७४५) केशा काश्मीरा केशवार्च्चिता | कामेश्वरी कामरूपा कामदानविभूषिता | कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता | केलिनी करकाकारा कटकूर्मनिषेविणी | कटकेशरमध्यस्था कटकी कटकार्च्चिता | कटप्रिया कटरता कटकूर्मनिषेविणी | कुमारीपूजनरता कुमारीगणसेविता कुलाचारप्रिया कौलप्रिया कुलनिषेविणी | कुलीना कुलधर्मज्ञा कुलभीतिविमर्दिनी | कामधर्मप्रिया काम्या नित्या कामस्वरूपिणी | कामरूपा कामहरा काममन्दिरपूजिता | कामागारस्वरूपा च कामाख्या कामभूषिता | क्रियाभक्तिरता काम्या काञ्चनी चैव कामदा | कोलपुष्पाम्बरा कोला निष्कोला कलहान्तका | कौषिकी केतकी कुन्ती कुन्तलादिविभूषिता || इत्येवं शृणु चार्वङ्गि ! रहस्यं सर्वमङ्गलम् | यः पठेत् परया भक्त्या स शिवो नात्र संशयः | शतनामप्रसादेन किं न सिध्यति भूतले | ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः | रहस्यपठनाद्देवि ! सर्वे च विगतज्वराः | त्रिषु लोकेषु विश्वेशि ! सत्यं सत्यमतः परम् | नास्ति नास्ति महामाये ! तन्त्रमध्ये कथञ्चन | क्रियया च विना देवि ! विना भक्त्या महेश्वरि ! | प्रसन्ना स्यात् करालास्या स्तवपाठाद्दिगम्बरा | सत्यं वच्मि महेशानि ! अतः परतरं न हि | न गोलके न वैकुण्ठे न च कैलासमन्दिरे | अतः परतरा विद्या स्तोत्रं कवचमेव च | त्रिलोकेषु जगद्धात्रि ! नास्ति नास्ति कदाचन | रात्रावपि दिवाभागे सन्ध्यायां वा सुरेश्वरि ! | प्रजपेद्भक्तिभावेन रहस्यं स्तवमुत्तमम् | शतनामप्रसादेन मन्त्रसिद्धिः प्रजायते | कुजवारे चतुर्दश्यां निशाभागे पठेत्तु यः | स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः | स कुलज्ञः स कलज्ञः स धर्मज्ञो महीतले | रहस्यपठनात् कोटिपुरश्चरणजं फलम् | प्राप्नोति देवदेवेशि ! सत्यं प्. ७४६) परमसुन्दरि ! | स्तवपाठाद्वरारोहे ! किं न सिध्यति भूतले | अणिमाद्यष्टसिद्धीशो भवत्येव न संशयः | रात्रौ विल्वतलेऽश्वत्थमूलेऽपराजितातले | प्रपठेत् कालिकास्तोत्रं यथाशक्त्या महेश्वरि ! | शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद्- ध्रुवम् || इति मुण्डमालातन्त्रे अष्टमपटले कालीशतनामस्तोत्रं समाप्तम् || अथ महाविद्यास्तोत्रम् || शिव उवाच || दुर्ल्लभं तारिणीमार्गं दुर्लभं तारिणीपदम् | मन्त्रार्थं मन्त्रचैतन्यं दुर्लभं शवसाधनम् | श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम् | क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम् | स्तवप्रसादाद्देवेशि ! सर्वाः सिध्यन्ति सिद्धयः | नमस्ते चण्डिके ! चण्डि ! चण्डमुण्डविनाशिनि ! | नमस्ते कालिके ! कालमहाभयविनाशिनि ! | शिवे ! रक्ष जगद्धात्रि ! प्रसीद हरवल्लभे ! | प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् | जगत्क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् | करालां विकटां घोरां मुण्डमालाविभूषिताम् | हरार्चितां हराराध्यां नमामि हरवल्लभाम् | गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् | हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् | सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् | मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् | प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् | उग्रामुग्रमयीमुग्रकारामुग्रगणैर्यु-ताम् | नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् | श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् | प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् | विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् | आद्यामाद्यगुरोराद्यामाद्यनाथप्रपू-जिताम् | श्रीदुर्गां धनदामन्नपूर्णां पाद्मां सुरेश्वरीम् | प्रणमामि प्. ७४७) जगद्धात्रीं चन्द्रशेखरवल्लभाम् | त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् | शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् | सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् | नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् | सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् | सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् | विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् | महेशभक्तां माहेशीं महाकालप्रपूजिताम् | प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् | रक्तप्रियां रक्तवर्णां रक्तवीजविमर्दिनीम् | भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम् | चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् | त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् | अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् | कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् | षोडशीं विजयां भीमां धूमाञ्च बगलामुखीम् | सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् | प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये | इत्येवञ्च वरारोहे ! स्तोत्रं सिद्धिकरं परम् | पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ! | कुजवारे चतुर्दश्याममायां जीववासरे | शुक्रे निशि गते स्तोत्रं पठित्वा मोक्षमाप्नुयात् | त्रिपक्षे मन्त्रसिद्धिः स्यात् स्तोत्रपाठाद्धि शङ्करि ! | चतुर्दश्यां निशाभागे शनिभौमदिने तथा | निशामुखे पठेत् स्तोत्रं मन्त्रसिद्धिमवाप्नुयात् | केवलं स्तोत्रपाठाद्धि मन्त्रसिद्धिरनुत्तमा | जागर्त्ति सततं चण्डि ! स्तोत्रपाठाद्भुजङ्गिनी || इति मुण्डमालातन्त्रे एकादशपटले महाविद्यास्तोत्रं समाप्तम् || अथ कवचम् || सदाशिव ऋषिर्देवि ! उष्णिक् छन्द उदीरितम् | विनियोगश्च देवेशि ! सततं मन्त्रसिद्धये | मस्तकं पार्वती पातु पातु पञ्चाननप्रिया | केशं मुखं पातु चण्डी भारती रुधिरप्रिया | कण्ठं पातु प्. ७४८) स्तनं पातु कपालं पातु चैव हि | काली करालवदना विचित्रा चित्रघण्टिनी | वक्षोमूलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी | समस्तं पातु मे तारा सर्वाङ्गी सर्वमेव च | विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी | हृत्पद्मं कालिका पातु कण्ठं पातु नभोगतम् | नारायणी गुह्यदेशं मेढ्रं मेढ्रेश्वरी तथा | पादयुग्मं जया पातु नित्यं मां चण्डिकावतु | जीवं मां पार्वती पातु मातङ्गी पातु सर्वदा | छिन्ना धूमा च भीमा च भये पातु जले वने | कौमारी चैव वाराही नारसिंही यशो मम | पातु नित्यं भद्रकाली श्मशानालयवासिनी | उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला | जगन्माता जयं पातु नित्यं कैलासवासिनी | शिवप्रिया सुतं पातु सुतं पर्वतनन्दिनी | त्रैलोक्यं पातु बगला भुवनं भुवनुश्वरी | सर्वाङ्गं सर्वनिलया पातु नित्यञ्च पार्वती | चामुण्डा पातु मे रोमकूपं सर्वार्थसाधिनी | ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा | लिङ्गं लिङ्गेश्वरी पातु महापीठे महेश्वरी | सदाशिवप्रिया पातु नित्यं पातु सुरेश्वरी | गौरी मे सन्धिदेशञ्च पातु वै त्रिपुरेश्वरी | सुरेश्वरी सदा पातु श्मशाने च शवेऽवतु | कुम्भके रेचके चैव पूरके काममन्दिरे | कामाख्या कामनिलयं पातु दुर्गा महेश्वरी | डाकिनी काकिनी पातु नित्यं मे शाकिनी तथा | हाकिनी लाकिनी पातु राकिणी पातु सर्वदा | ज्वालामुखी सदा पातु मुखमध्ये शिवावतु | तारिणी विभवे पातु भवानी च भवेऽवतु | त्रैलोक्यमोहिनी पातु सर्वाङ्गं विजनेऽवतु | राजकुले महाघाते संग्रामे शत्रुसङ्कटे | प्रचण्डा साधकं माञ्च पातु भैरवमोहिनी | श्रीराजमोहिना पातु राजद्वारे विपत्तिषु | सम्पत्प्रदा भैरवी च पातु बाला बलं मम | नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका | इत्येवं कथितं देवि ! रहस्यं सर्वकालिकम् | भुक्तिदं मुक्तिदं प्. ७४९) सौख्यसर्वसम्पत्प्रदायकम् | यः पथेत् प्रातरुत्थाय साधकेन्द्रो भवेद्भुवि | कुजवारे चतुर्दश्याममायां मन्दवासरे | गुरौ गुरुं समभ्यर्च्च्य यः पठेत् साधकोत्तमः | स याति भवनं देव्याः सत्यं सत्यं न संशयः | एवं यदि वरारोहे ! पठेद्भक्तिपरायः | मन्त्रसिद्धिर्भवेत्तस्य चाचिरान्नात्र संशयः | सत्यं लक्षपुरश्चर्ययाफलं प्राप्य शिवां व्रजेत् | शिवमार्गं राजमार्गं प्राप्य जीवः शिवो भवेत् | पठित्वा कवचं स्तोत्रं मुक्तिमाप्नोति निश्चितम् | पठित्वा कवचं स्तोत्रं दशविद्या यजेद् यदि | विद्यासिद्धिर्मन्त्रसिद्धिर्भवत्येव न संशयः | खरसिद्धिश्चितासिद्धिर्दुर्लभा धरणोतले | अयत्नसुलभा सिद्धिस्ताम्बूलान्नात्र संशयः | निशामुखे निशायाञ्च महाकाले निशान्तके | पठेद्भक्त्या महेशानि ! गाणपत्यं लभेत्तु सः || इति मुण्डमालातन्त्रे एकादशपटले महाविद्याकवचं समाप्तम् || श्मशानकालिकादीनां पूजादिकन्तु तन्त्रसारेऽनुसन्धेयम् || अथ श्मशानकालिकाकवचम् || कैलासशिखरारुढं शङ्करं वरदं शिवम् | देवी पप्रच्छ सर्वज्ञं सर्वदेवमहेश्वरम् | भगवन् ! सर्वदेवेश ! देवानां भोगद ! प्रभो ! | प्रब्रूहि मे महादेव ! गोप्यं यद्यपि च प्रभो ! | शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् | परमैश्वर्यमतुलं लभेद् येन हि तद्वद || श्रीभैरव उवाच वक्ष्यामि ते महादेवि ! सर्वधर्मविदां वरे | अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् | विशेषतः शत्रुनाशकरं रक्षाकरं नृणाम् | सर्वानिष्टप्रशमनमभिचारविनाशकम् | सुखदं भोगदञ्चैव वशीकरणमुत्तमम् | शत्रुसङ्घाः क्षयं यान्ति भवन्ति व्याधिपीडिताः | दुःखिनो ज्वरिणश्चैव स्वाभीष्टप्रच्युतास्तथा || अस्य श्रीकालिकाकवचस्य भैरव ऋषिर्गायत्री चह्न्दः श्रीकालिका देवता प्. ७५०) शत्रुसङ्घनाशे विनियोगः | ओं ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीम् | चतुर्भुजां लोलजिह्वां पूर्णचन्द्रनिभाननाम् | नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् | नरमुण्डं तथा खड्गं कमलञ्च वरं तथा | बिभ्राणां रक्तवदनां दंष्ट्रालीघोररूपिणीम् | अट्टाट्टहासनिरतां सर्वदा च दिगम्बरीम् | शवासनस्थितां देवीं मुण्डमालाविभूषिताम् | इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत् | ओं कालिका घोररूपाढ्या सर्वकामप्रदा शुभा | सर्वतः संस्तुता देवी शत्रुनाशं करोतु मे | ह्रीं ह्रींस्वरूपिणी चैव ह्रां ह्रां हुं रूपिणी तथा | हीं हां क्षौं क्षौंस्वरूपा सा सदा शत्रून् प्रशास्तु मे | श्रीं ह्रीं ऐंरूपिणी देवी भवबन्धविमोचिनी | हसकलह्रींस्वरूपासौ रिपून् सा हन्तु सर्वदा | यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः | वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् | ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका | कौमार्यैन्दी च चामुण्डा खादयन्तु मम द्विषः | सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी | मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा | ह्रीं ह्रीं कालिके ! घोरदंष्ट्रे ! रुधिरप्रिये ! रुधिररुचिरपूर्णवक्त्रे ! रुधिरावृतस्तनि ! | ममामुकशत्रून् खादय खादय च्छेदय च्छेदय हिंसय हिंसय मारय मारय भिन्दि भिन्दि छिन्दि छिन्दि उच्चाटय उच्चाटय द्रावय द्रावय स्वाहा || वां वीं कालिकायै मदीयशत्रुं समर्पयामि स्वाहा | ओं जय जय किरि किरि किटि किटि कट्ट कट्ट मर्दय मर्दय मोहय मोहय हर हर ममामुकरिपून् ध्वंसय ध्वंसय भक्ष भक्ष त्रोटय त्रोटय यातुधानि ! चामुण्डे ! सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो मम वश्याः कुरु कुरु तनु तनु धान्यं धनमश्वान् गजान् रत्नानि दिव्यकामिनीः पुत्रान् राजश्रियं देहि देहि यच्छ यच्छ क्षां क्षीं क्षूं क्षैं प्. ७५१) क्षौं क्षः स्वाहा | इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा | ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः | वैरिणः प्रलयं यान्ति व्याधिताश्च भवन्ति हि | धनहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा | सहस्रपठनात् सिद्धिः कवचस्य भवेत्तदा | ततः कार्याणि सिद्ध्यन्ति तद्धि शङ्करभाषितम् | श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्नतः | पादोदकेन पिष्ट्वा च लिखेल्लौहशलाकया | भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा | हस्तं दत्त्वा तद्धृदये कवचन्तु स्वयं पठेत् | शत्रोः प्राणप्रतिष्ठान्तु कुर्यान्मन्त्रेण मन्त्रवित् | हन्यादस्त्रप्रहारेण शत्रुर्गच्छेद् यमक्षयम् | ज्वलिताङ्गारतापेण ज्वरी भवति तादृशः | प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् | वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् | परमैश्वर्यदञ्चैव पुत्रपौत्रादिवृद्धिदम् | प्रभातसमये चैव पूजाकाले विशेषतः | सायंकाले तथा पाठात् सर्वसिद्धिर्भवेद्ध्रुवम् || शत्रुरुच्चाटनं याति देशाच्च विच्युतो भवेत् | पश्चात् किङ्करतामेति सत्यं सत्यं न संशयः || शत्रुनाशकरे ! देवि ! सर्वसम्पत्करे ! शुभे ! | सर्वदेवस्तुते ! देवि ! कालिके ! त्वां नमाम्यहम् || इति रुद्रजामले वैरिहरणं नाम श्मशानकालिकाकवचं समाप्तम् || दक्षिणाचारस्यापि शाक्तविषयकत्वात् शाक्तप्रशंसा उच्यते || अथ शाक्तप्रशंसा || मुण्डमालातन्त्रे द्वितीयपटले || स्वर्गे मर्त्त्ये च पाताले नास्ति शाक्तात् परः प्रियः | सौराणां गाणपत्यानां वैष्णवानां तथैव च | तदन्ते चैव शाक्ताः स्युः क्रमशः क्रमशः प्रिये ! | शृणु देवि ! वरारोहे ! नास्ति शाक्तात् परो जनः | शाक्तोऽपि शङ्करः साक्षात् परंब्रह्मस्वरूपभाक् | आराधिता येन काली तारा त्रिभुवनेश्वरी | षोडशी चैव मातङ्गी छिन्ना च बगलामुखी | आराधिता महेशानि ! स शिवो नात्र संशयः | प्. ७५२) अतिगोप्यं महेशानि ! शाक्तानां परमं पदम् | यो जानाति महीमध्ये स शिवो नात्र संशयः | ब्रह्माद्यर्च्चितपादाब्जं यो भजेत् सततं मुदा | सयात्यचिरकालेन मुक्तिमन्दिरमेव हि || तृतीयपटले || पार्वतीचरणद्वन्द्वभजनात् किङ्करो भवेत् | स्वर्गभोगश्च मोक्षश्च शाक्तानां न भवेत् किमु | शाक्तानाञ्चैव निन्दां ये कुर्वन्ति हि नराधमाः | तेषां लोहितपानं वै कुर्वन्ति भैरवीगणाः | भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान् | शाक्तान् हिंसन्ति गर्जन्ति निन्दन्ति बहुजल्पकाः | छिनत्ति तेषां देवेशि ! शिरांसि हरवल्लभा | शाक्तानामुत्तमो नास्ति स्वर्गे मर्त्त्ये रसातले | शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः | स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले || चतुर्थपटले || देवीं प्रति शिववाक्यम् || मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः | त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि ! | बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः | शाक्ताश्च शङ्करा देवि ! यस्य कस्य कुलोद्भवाः | चाण्डाला ब्राह्मणाः शूद्राः क्षत्रिया वैश्यसम्भवाः | एते शाक्ता जगद्धात्रि ! न मनुष्याः कदाचन | पश्यन्ति मानुषान् लोके केवलं चर्मचक्षुषा || तथा सप्तमपटलेऽपि || शिव उवाच || ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरेव च जातिभिः | वाममार्गप्रभावेण कर्त्तव्यं जपपूजनम् | ये शाक्ता ब्राह्मणा देवि ! क्षत्रिया ब्राह्मणाः स्मृताः | वेश्याश्च ब्राह्मणा देवि ! सर्वे शुद्राश्च ब्राह्मणाः | ब्राह्मणाः शङ्कराश्चण्डि ! त्रिनेत्राश्चन्द्रशेखराः || निर्वाणतन्त्रे तृतीयपटले || शाक्ता एव द्विजाः सर्वे न शैवा न च वैष्णवाः | उपासते यतो देवीं गायत्रीं परमाक्षरीम् | गन्धर्वतन्त्रे द्वितीयपटले || शक्त्युपासनानन्तरमन्योपासननिषेधो यथा || त्रिपुरामधिकृत्य | अस्याश्चाराधनं कृत्वा प्. ७५३) नान्यस्याराधनं चरेत् | अन्यस्य स्मरणाद्देवि ! योगिनी शापमालभेत् || इति शाक्तप्रशंसा || इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे महाविद्यादिकथनरूपः षष्ठः परिच्छेदः | कुमारीपूजनरतेत्यादिना पूर्वलिखितं कुमारीपूजाविधिना चाकाङ्क्षितं प्राप्तावसरेणेदानीं तदुच्यते मया | अथ कुमारीपूजा || तत्र कुमारीनिरूपणं रुद्रजामलोत्तरखण्डीयषष्ठपटले || एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती | त्रिवर्षा च त्रिधा मूर्त्तिश्चतुर्वर्षा च कालिका | सुभगा पञ्चवर्षा तु षष्ठवर्षा भवेदुमा | सप्तभिर्मालिनी साक्षादष्टवर्षा तु कुब्जिका | नवभिः कालसन्दर्भा दशभिश्चापराजिता | एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी | त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका | क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका मता | एवं क्रमेण संगृह्य यावत् पुष्पं न जायते | प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् || एकवर्षेत्यादिसर्वं वृहन्नीलतन्त्रेऽपि केवलं षड्वर्षा च उमा भवेत् | द्विसप्ता नायिका स्मृता | षोडशे चर्चका मतेति पाठभेदो नामभेदश्चेति | कुब्जिकातन्त्रे सप्तमपटले तु विशेष उक्तो यथा || पञ्चवर्षां समारभ्य यावद् द्वादशवार्षिकी | कुमारी सा भवेद्देवि ! निजरूपप्रकाशिनी | षड्वर्षाञ्च समारभ्य यावत् सा नववार्षिकी | तावच्चैव महेशानि ! साधकाभीष्टसिद्धये | अष्टवर्षां समारभ्य यावत्त्रयोदशाब्दिकी | कुलजां तां विजानीयात्तत्र पूजां समाचरेत् | दशवर्षां समारभ्य यावत् षोडशवार्षिकी | युवतीं तां विजानीयाद्देवतां तां विचिन्तयेत् | अन्नं वस्त्रं तथा नीरं कुमार्यै यो ददाति हि | अन्नं मेरुसमं देवि ! जलञ्च सागरोपमम् | वस्त्रैः कोटिमहस्राब्दं शिवलोके महीयते | पूजोपकरणानीह कुमार्यै यो ददाति हि | सन्तुष्टा देवता तस्य पुत्रत्वेनानुकल्प्यते || विश्वसारे प्. ७५४) तु || अष्टवर्षा तु सा कन्या भवेद्गौरी वरानने ! | नववर्षा रोहिणी सा दशवर्षा तु कन्यका | अत ऊर्द्धं महामाया भवेत् सैव रजस्वला | आरभ्य द्वादशाब्दाच्च यावद्विंशतिसंख्यकम् | सुकुमारा च सा प्रोक्ता सर्वतन्त्रसमन्विता | यानपाषाणधातूनां तेजोरूपेण संस्थिता | जीवजन्तुषु देवेशि | किं वक्तव्यमतः परम् | यत्र नास्ति महामाया तत्र किञ्चिन्न विद्यते || इत्युक्तम् || तत् पूजाफलं योगिनीतन्त्रे पूर्वखण्डे सप्तदशपटले || कुमारीपूजनफलं वक्तुं नार्हामि सुन्दरि ! | जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि | तस्मात्तां पूजयेद्बालां सर्वजातिसमुद्भवाम् | जातिभेदो न कर्त्तव्यः कुमारीपूजने शिवे ! | जातिभेदान्महेशानि ! नरकान्न निवर्त्तते | विचिकित्सापरो मन्त्री ध्रुवं स पातकी भवेत् | देवीबुद्ध्या महाभक्तस्तस्मात्तां परिपूजयेत् | सर्वविद्यास्वरूपा हि कुमारी नात्र संशयः | यदि भाग्यवशाद्देवि ! वेश्याकुलसमुद्भवाम् | कुमारीं लभते कान्ते | सर्वस्वेनापि साधकः | यत्नतः पूजयेत्तान्तु स्वर्णरौप्यादिभिर्मुदा | तदा तस्य महासिद्धिर्जायते नात्र संशयः || कुमारीपूजास्थानं फलमपि तत्रैव || कुमारीपूज्यते यत्र स देशः क्षितिपावनः | महापुण्यतमो भूयात् समन्तात् क्रोशपञ्चकम् | जामले तत्रैव || महापर्वसु सर्वेषु विशेषाच्च पवित्रके | महानवम्यां देवेशि ! कुमारीञ्च प्रपूजयेत् | तस्मात् षोडशपर्यन्तं युवतीति प्रचक्षते | तत्र भावप्रकाशः स्यात् स भावः परमो मतः | रक्षितव्याः प्रयत्नेन अक्षतास्ताः प्रचिन्तयेत् | महापूजादिकं कृत्वा वस्त्रालङ्कारभोजनैः | पूजयेन्मन्दभाग्योऽपि लभते जयमङ्गलम् | अन्येषां कथनेनाथ प्रयोजनमहाफलम् | विधिना पूजयेद् यस्तु दिव्यवीरपशुस्थितः | भावत्रये महासौख्यं दिव्यकर्मणि सत्फलम् || तथा || अशेषकुलसम्पन्नां नानाजातिसमुद्भवाम् | नानादेशोद्भवां वापि सगुणागुणसंयुताम् | द्वितीयवत्सरादूर्द्धं यावत् स्यादष्टमाब्दकम् | तावज्जप्त्वा पूजयित्वा कन्यां सुन्दरमोहिनीम् | दिव्यभावस्थितः साक्षात्तन्त्रमन्त्रफलं लभेत् | कुमारी पूजनादेव कुमारीभोजनादिभिः | एकद्वित्र्यादिवीजानां फलदा नात्र संशयः | ताभ्यः पुष्पं फलं दत्त्वा अनुलेपादिकं तथा | बालप्रियञ्च नैवेद्यं दत्त्वा तद्भावभावितः | मृदा तदङ्गमात्मानं बालभावविचेष्टितः | अतिप्रियकथालापक्रीडाकौतूहलान्वितः | यथार्थं तत् प्रियं तत्र कृत्वा सिद्धीश्वरो भवेत् | कन्या सर्वसमृद्धिः स्यात् कन्या सर्वं परं तपः | होमं मन्त्रार्चनं नित्यक्रियां कौलिकसत्क्रियाम् | नानाफलमहाधर्मं कुमारीपूजनं विना | तत्तत्कर्मफलं नाथ प्राप्नोति साधकोत्तमः | फलं कोटिगुणं वीरः कुमारी पूजया लभेत् | कुसुमाञ्जलिपूर्णञ्च कन्यायै कुलपण्डितः | ददाति यदि तत् पुष्पं कोटिमेरुहिरण्यवत् | तद्दानजं महापुण्यं क्षणादेव समालभेत् | कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् || कालीतन्त्रे एकादशपटले || कुमारीपूजनं कुर्यात् सर्वकर्मफलाप्तये || रुद्रजामले उत्तरखण्डे सप्तमपटले || अथ पूजां प्रवक्ष्यामि कुमार्या अतिदुर्ल्लभम् | इत्यभिधाय || पूजास्थानं महापीठं देवालयमथापि वा | नटीकन्यां हीनकन्यां तथा कापालिकन्यकाम् | रजकस्यापि कन्याञ्च तथा नापितकन्यकाम् | गोपालकन्यकाञ्चैव ब्राह्मणस्यापि कन्यकाम् | शूद्रकन्यां वैद्यकन्यां तथा वणिककन्यकाम् | चण्डालकन्यकां वापि यत्र कुत्राश्रमे स्थिताम् | सुहृद्वर्गस्य कन्याञ्च समानीय प्रयत्नतः | पूजयेत् परमानन्दैरात्मध्यानपरायणः | मम पूजां यः करोति प्रत्यहं शुद्धभक्तितः | तस्या वश्यं प्. ७५६) कुमारीणां पूजनं भोजनं रवेः | तेजोरूपं विधोश्चाग्नेः सर्वभावे प्रकाशते | तत्पूजनात्तदालापात् भोजनादपि तच्छभात् | मम प्रीतिर्भवेत् साक्षाद्देवता गुप्तसंस्थिता | बालभैरवदेवस्य कामिनी वटुकस्य च | मत्पुत्त्रस्य सर्वलोकपूजितस्य महौजसः | पूजाभिर्विविधैर्द्रव्यैः कुमारि देवपूजिता | कुमारी देवता प्रोक्ता सर्वतो जगदीश्वरी | पूजार्थं सर्वलोकस्य समानीय सुरेश्वराः पूजयन्ति महादेवीं गुप्तभावनिवासिनीम् | सदा भोजनवाञ्छाढ्या मान्या सन्तुष्टहासिनी | वृथा न रौति सा देवी कुमारी देवनायिका | सरस्वतीस्वरूपा सा पूज्यते सर्वनायकैः | शिवभक्तैर्विष्णुभक्तैस्तथान्यदेवपूज-कैः | सर्वलोकैः पूजिता सा चावश्यं पूज्यते वुधैः | पूजया लभते पूजां पूजया लभते श्रियम् | पूजया धनमाप्नोति पूजया लभते महीम् | पूजया लभते लक्ष्मीं सरस्वतीं महौजसम् | महाविद्या प्रसीदन्ति सर्वे देवा न संशयः | कालभैरवब्रह्मेन्द्रा ब्राह्मणा ब्रह्मवेदिनः | रुद्राश्च देववर्गाश्च वैष्णवा ब्रह्मरूपिणः | अवताराश्च द्विभुजा वैष्णवाश्च चतुर्भुजाः | अन्ये दिक्पालदेवाश्च चराचरगुरुस्तथा | नानाविद्यारताः सर्वे दानवाः कूटशालिनः | उपसर्गस्थिता ये ये ते ते तुष्टा न संशयः | यद्यहं शुद्धिरूपा हि अन्यलोके च का कथा | कुमारीपूजनं कृत्वा त्रैलोक्यं वशमानयेत् | महाशान्तिर्भवेत् क्षिप्रं सर्वपुण्यफलप्रदम् || वृहन्नीलतन्त्रे || महाभयानि दुर्भिक्षाद्युत्पातानि कुलेश्वरि ! | दुःस्वप्नमपमृत्युञ्च यच्चान्यत् दुःखदं नॄणाम् | कुमारीपूजनादेव न तानि प्रभवन्ति हि | नित्यं क्रमेण देवेशि ! पूजयेद्विधिपूर्वकम् | घ्नन्ति विघ्नान् पूजिताश्च भयं शत्रून् महोत्कटान् | ग्रहा रोगाः क्षयं यान्ति भूतवेतालपन्नगाः || रुद्रजामले तथा || तत्तन्मन्त्रसमुल्लेखात् क्षणात् पुण्यायुतं लभेत् | मन्त्रेण प्. ७५७) पुटितं कृत्वा जप्त्वा सिद्धिश्वरो भवेत् | यद्यत् प्रकारमुद्दिश्य वदामि सुरसुन्दर ! | तत्तत् कार्यञ्च कर्त्तव्यं भिन्नबुद्धिं न कारयेत् | तथा | शृणु नाथ ! कुलार्थं मे कुमारीपूजने मनुम् | महाविद्यामहामन्त्रं सिद्धिमन्त्रं न संशयः | एतन्मन्त्रप्रभावेण जीवन्मुक्तो भवेत् सुधीः | अन्ते देवीपदं याति सत्यमानन्दभैरव ! | ऐहिके सुखसम्पत्तिं मधुमत्याः प्रसादकम् | अवश्यं प्राप्नुयान्मर्त्त्यो विश्रामं कुरु शङ्कर ! | वाग्भवेन वपुःक्षोभं मायावीजे गुणाष्टकम् | श्रियो वीजे श्रियो लाभो मायावीजे रिपोः क्षयः | भैरवेण तु वीजेन खेचरत्वं सुरादिभिः | कुमारिका ह्यहं नाथ ! सदा त्वं हि कुमारकः | शतमष्टोत्तरां वापि एकां वा परिपूजयेत् | पूजिताः प्रतिपूज्यन्ते निर्वहन्त्यवमानिताः | कुमारी योगिनी साक्षात् कुमारी परदेवता | असुरा दुष्टनागाश्च ये ये दुष्टग्रहा अपि | भूतवेतालगन्धर्वा डाकिनी यक्षराक्षसाः | याश्चान्या देवताः सर्वा भूर्भुवः स्वश्च भैरवाः | पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् | विधियुक्तां कुमारीं तु भोजयेच्चैव भैरव ! | पाद्यार्घ्यञ्च तथा धूपं कुङ्कुमं चन्दनं शुभम् | भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् || कुमारीपूजाक्रमस्तु || तथा || आनीय सुन्दरीं नारीं कुमारीं वरनायिकाम् | रत्नालङ्कारसंयुक्तां शङ्खवस्त्रादिशोभिताम् | वाग्भवेन जलं नाथ तन्नाम्ना परिदापयेत् | देवीबुद्ध्या सदा ध्यात्वा पूजयेत् साधकोत्तमः | मायावीजेन तन्नाम्ना पाद्यं दद्यात्तथा प्रभो ! | लक्ष्मीवीजेन चार्घ्यन्तु कूर्च्चवीजेन चन्दनम् | मायावीजेन पुष्पाणि कुमार्यै दापयेत् सुधीः | सदाशिवेन मन्त्रेण धूपदीपौ महत्तमौ | दत्त्वा षडङ्गमन्त्रेण पूजयेद्देवनायकम् | तत्प्रकारं प्. ७५८) महादेव ! शृणुष्वानन्दरूपधृक् | महातेजोमयं शुभ्रं हृदयं हस्तदक्षिणैः | विभाव्य प्रपठेद् नत्वा तन्मन्त्रं शृणु शङ्कर ! | आदौ वाग्भवमुच्चार्य मायां लक्ष्मीञ्च कूर्च्चकम् | प्रेतवीजं ततो ब्रूयात् सविसर्गेन्दुकीलकम् | कुलशब्दं समुच्चार्यं कुमारिके ततो वदेत् | हृदयाय नमः प्रोच्य ततः शिरसि भावयेत् | शुक्लवर्णं सर्वमयं वीजमुच्चार्य संन्यसेत् | हकारं वाग्भवाद्यञ्च वकारं वाग्भवात्मकम् | मायां लक्ष्मीं वाग्भवञ्च द्विठान्तं शिरसे पदम् | वह्निजायावधिर्मन्त्रो न्यसेत् शिरसि साधकः | शिखामध्ये कृष्णवर्णं नीलाञ्जनचयप्रभम् | विभाव्य सन्यसेन्मन्त्री कुमारीकुलसिद्धये | आदौ प्रणवमुद्धृत्य तदन्ते विष्णुसुन्दरी | शिखायै पदमुद्धृत्य वषट्कारं ततो वदेत् | ततः कवचमध्ये च बलवन्तं सुतेजसम् | प्रथमारुणसङ्काशं ध्यात्वा चारु कलेवरम् | वाग्भवञ्च समुच्चार्य कुलशब्दं ततो वदेत् | वागीश्वरिपदं पश्चात् कवचाय ततो वदेत् | तारकब्रह्मशब्दञ्च कवचन्यासजालकम् | ततो नेत्रत्रये ध्यात्वा महावीजं महाप्रभम् | रक्तवर्णं कोटिकोटि जवामण्डलमण्डितम् | विराजितं कोटिपुण्यार्जिततेजसि भास्करे | वाग्भवं हि समुच्चार्य कुलेश्वरिपदं ततः | नेत्रत्रयाय शब्दान्ते वौषड् लोचनमन्त्रकम् | ततः साधकमन्त्रो च वामहस्ततले तथा | मध्यमातर्जनीभ्याञ्च तालद्वयमुपाचरेत् | तन्मन्त्रं कोटिसूर्योग्रज्योत्स्नाजालसमप्रभम् | महाकाशोद्भवं शब्दमहोग्रपरिपीडनम् | मायावीजं तथास्त्राय पदमुद्धृत्य यत्नतः | फडन्ते चान्तमुद्धृत्य महामन्त्रं प्रकीर्त्तितम् | ततस्तस्याः कुण्डविलेध्यात्वा च परिवारवान् | पूजयेद् यत्नतो मन्त्री तेजसाऽमृतवारया | तर्पयेत् पूजयेद्भक्त्या भैरवं बालभैरवम् | देवताभिः पूजयित्वा परिवारान् क्रमेण तु | ततो वाग्भवमुच्चार्य प्. ७५९) सिद्धजयाय शब्दतः | पूर्वं पदं समुच्चार्य वक्त्राय नम ईरितम् | ततो वाग्भवमुच्चार्य जयाय शब्दमुद्धरेत् | उत्तरे वक्त्रमुद्धृत्य चतुर्थ्यन्तं नमः पदम् | ततो वाग्भवमायाश्रीवीजमुच्चार्य यत्नतः | कुब्जिके पश्चिमान्ते च वक्त्राय नम ईरितम् | ततो वाग्भवमुच्चार्य कालिकेपदमुच्चरेत् | दक्षवक्त्राय शब्दान्ते नमो मन्त्रः प्रकीर्त्तितः | एतन्मन्त्राक्षरान्नाथ ! समुच्चार्य कुलेश्वर ! | पूजयित्वा क्रमेणैव भास्करं परिपूजयेत् | चण्डं दिक्पालदेवञ्च सन्ध्यादीन् परिपूजयेत् | वीरभद्रा महाकन्या कौलिनीं कुलगामिनीम् | अष्टादशभुजां कालीं चण्डदुर्गां प्रपूजयेत् | नैवेद्यादीन् समानीय नानाभक्त्यानुराजितम् | दुग्धं घनावृतं क्षीरं पक्वान्नं पक्वसत्फलम् | यद्यत्कालोपयोग्यञ्च सर्वदा मधुमिश्रितम् | पञ्चतत्त्वं कुलद्रव्यं निजकल्याणवर्द्धनम् | नानाद्रव्यञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् | कुमारीभ्यो निवेद्यैवं नानासौरभशोभितम् | शीतलं जलमानीय दद्यात्ताभ्यो महासुधीः | ततो हितं महामन्त्रं कुमार्याश्चाति दुर्लभम् | अध वाग्मी समूलञ्च जप्त्वा सिद्धीश्वरो भवेत् | समर्प्य प्राणवायूनां धारणं कारयेत् स्वयम् | अष्टाङ्गादिप्रणामञ्च कुर्वन् स्तोत्रं पठन्नमेत् || प्रणाममन्त्रोऽपि तत्रैव || नमामि कुलकामिनीं परमभाग्यसन्दायिनीम् | कुमाररतिचातुरीं सकलसिद्धिमानन्दिनीम् | प्रवालगुटिकास्रजं रजतरागवस्त्रान्विताम् | हिरण्यतुलभूषणां भुवनवाक् कुमारीं भजे | इति मन्त्रेण सन्नम्य तारिणीं परिपूजयेत् | शिवं गणेशं सम्पूज्य प्रणमेत् साधकोत्तमः | दक्षिणां विधिवद्दत्वा कुमारीभ्यः क्रमेण तु | विवाहयेत् स्वयं कन्यां ब्रह्महत्यां विनश्यति | यो यश्च पुण्यकाले तु कन्यादानं समापयेत् | भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः | रुद्रलोके प्. ७६०) वसेन्नित्यं त्रिनेत्रो भगवान् हरः | तीर्थकोटिसहस्राणि अश्वमेधशतानि च | तत्फलं लभते मर्त्त्यो यस्तु कन्यां विवाहयेत् | बालुका सागरे यावत् तावदब्दसहस्रकम् | एकैकं कुलमुधृत्य रुद्रलोके महीयते | तत्तदिष्टदेवतायाः प्रीतये तुष्टये सुधीः | कन्यादानं समाहृत्य मुक्तिमाप्नोति भैरव ! | तत्तद्द्वितीयकन्यायास्तत्तद्बुद्ध्या च साधकः | विभाव्य शिवरूपत्वं सम्प्रदानीयकन्यके | पूर्णरूपं शिवं ध्यात्वा वरं सर्वाङ्गसुन्दरम् | तेजोमयं यशःकान्तं कालभैरवरूपिणम् | वटुकेशं महादेवं वरयेत् साधकाग्रणीः | बालरूपाञ्च त्रैलोक्यसुन्दरीं वरवर्णिनीम् | नानालङ्कारनम्राङ्गीं भद्रविद्याप्रकाशिनीम् | चारुहास्यां महानन्दहृदयां शुभदां शुभाम् | ध्यात्वा द्वादशपत्राब्जे पूर्णचन्द्रनिभाननाम् | सम्प्रदानं समानीय तत्तन्मन्त्रेण दापयेत् | इति कुमारीदानक्रमफलम् || अथ कुमारीमन्त्रपुरश्चरणम् || अष्टमपटले || अथ वक्ष्ये महादेव्याः कुमार्या जपहोमकम् | लक्षसंख्यं जपं कृत्वा मायां वावाग्भवं मनुम् | कालीवीजं वापि नाथ ! अथवा कामवीजकम् | सदाशिवेन पुटितं विन्दुचन्द्रविभूषितम् | अथवा प्रणवेनापि पुटितं त्रिदशेश्वर ! | लक्षसंख्यं क्रमेणैव जप्त्वा सिद्धीश्वरो भवेत् | जपेत्तन्मन्त्रं देवेश ! लक्षसंख्याविधानतः | तद्दशांशेन जुहुयाद् घृताक्तविल्वपत्रकैः | अथवा श्वेतपुष्पैश्च कुन्दपुष्पैर्महाफलम् | एवं क्रमेण जुहुयात् करवीरप्रसूनकैः | घृताक्तैः केवलैर्वापि चन्दनागुरुमिश्रितैः | हविष्याशी दिवाभागे रात्रौ पूजापरो भवेत् | निजपूजामशेषैस्तु कुलद्रव्यैः प्रपूजयेत् | रविसंख्यं जपेत्तत्र परमानन्दरूपधृक् | जपान्ते जुहुयान्मन्त्रीमदुक्तद्रव्यसंयुतैः | ततः प्राणात्मकं वायुं शोधयित्वा पुनः पुनः | प्राणायामत्रयं कृत्वा चाष्टाङ्गैः प्रणमेन्मुदा | प्. ७६१) प्रणामसमये नाथ ! इदं स्तोत्रं पठेद् यदि | कवचस्य तथा पाठ्यं कुमारीणामथापि वा | निजदेव्या महास्तोत्रं पीठाङ्गं कवचं ततः | कुमारीणामहंदेव ! सहस्रं नाम साष्टकम् | पठित्वा सिद्धिमाप्नोति नात्र कार्या विचारणा | तदशक्तौ निजदेव्याः सहस्रनाममङ्गलम् | अष्टोत्तरं पठेन्नाथ ! सिद्धिकाङ्क्षी न संशयः | तासां स्तोत्रं दिव्यनाथ ! शृणुसर्वत्र मङ्गलम् | अकस्मात् सिद्धिमाप्नोति पठित्वा साधकोत्तमः | अग्रे संस्थाप्य ताः सर्वा रत्नकोटिसुशीतलाः | ततस्तोत्रं पठेद्धीमान् समाहितमना वशी | महादिव्याचाररतो वीरभावोल्वणोऽपि वा | एवं क्रमेण प्रपठेद्भक्तिभावपरायणः | महाविद्या महासेवा भक्तिश्रद्धाप्लुतार्पितः | महाज्ञानी भवेत् क्षिप्रं वाञ्छासिद्धिमवाप्नुयात् || अथ कुमारीपूजाप्रयोगः || तत्र एकवर्षावधि षोडशवर्षपर्यन्तमजातपुष्पा कुमारीसंज्ञा तत्र वर्षक्रमेण नामानि यथा || सन्ध्या || १ || सरस्वती || २ || त्रिधा मूर्त्तिः || ३ || कालिका || ४ || सुभगा || ५ || उमा || ६ || मालिनी || ७ || कुब्जिका || ८ || कालसन्दर्भा || ९ || अपराजिता || १० || रुद्राणी || ११ || भैरवी || १२ || महालक्ष्मीः || १३ || पीठनायिका || १४ || क्षेत्रज्ञा || १५ || अम्बिका || १६ || प्रतिपदादिपञ्चदश्यन्तं वृद्धिक्रमेण पूजनीयाः | कुमारी तु सर्वजातीयैव प्रशस्या | नटीकन्या कापालिककन्या रजककन्या नापितकन्या गोपालकन्या ब्राह्मणकन्या शूद्रकन्या वैद्यकन्या वणिक्कन्या चण्डालकन्या सुहृद्वर्गकन्या | कुमारीमासने समुपवेश्य ध्यायेद् यथा || बालरूपाञ्च त्रैलोक्यसुन्दरीं वरवर्णिनीम् | नानालङ्कारनम्राङ्गीं भद्रविद्याप्रकाशिनीम् | चारुहास्यां महानन्दहृदयां शुभदां शुभाम् | एवं ध्यात्वात्मशिरसि पुष्पं दत्त्वा मानसोपचारेण सम्पूज्य पुनर्ध्यात्वा कुमार्यङ्गे दत्त्वा इदमासनम् ऐं ह्रीं श्रीं हुं प्. ७६२) ह्सौः सन्ध्यायै कुमार्यै नमः || एवं पूर्ववीजान्युच्चार्य सरस्वत्यै कुमार्यै नम इत्यादिवत्सरानुक्रमेण चतुर्थ्यन्ते न नाम्रा आसनादिभिः षोडशैरुपचारैः सम्पूजयेत् | एतज्जलं ऐं सन्ध्यायै नमः | एतत्पाद्यं ह्रीं सन्ध्यायै नमः | एवमाभरणम् | एव गन्धः हुं सन्ध्यायै नमः | एतानि पुष्पाणि ह्रीं सन्ध्यायै वौषट् | एष धूपः ह्सौः सन्ध्यायै नमः | एवं दीपः | एतन्नैवेद्यं ऐं ह्री/ श्री/ हु/ हौः सन्ध्यायै निवेदयामि | शङ्खमाल्यकज्ज्वल कुङ्कुमादिकमनेन नमोऽन्तेन मन्त्रेण देयम् | सर्वत्र चतुर्थ्यन्तनामान्ते कुमार्यै इति विशेषणं दातव्यम् | ततः षडङ्गपूजा तत्क्रमस्तु कुमार्या हृदयं दक्षिणहस्तेन धृत्वा महातेजोमयं शुक्लवर्णं विभाव्य ऐं ह्रीं श्रीं हु/ ह्सौः कुलकुमारिके हृदयाय नमः | शिरः शुक्लवर्णं सर्वमयं विभाव्य हैं वैं ह्रीं श्रीं ऐं शिरसे स्वाहा | शिखां नीलाञ्जनचयप्रभां विभाव्य ओं श्रीं शिखायै वषट् | कवचं प्रथमारुणसङ्काशं सुतेजस्कं विभाव्य ऐं कुलवागीश्वरि कवचाय हु/ | ततो नेत्रत्रयं सर्ववीजमयं महाप्रभं रक्तवर्णं कोटि कोटि जवापुष्पोज्ज्वलं विभाव्य ऐं कुलेश्वरि नेत्रत्रयाय वौषट् | ह्रीं अस्त्राय फडिति वामहस्ततले तर्जनीमध्यमाभ्यां तालद्वयं दद्यात् | ततस्तस्याः कुण्ड विले सपरिवारं बालभैरवं ध्यात्वा एते गन्धपुष्पे ओं सपरिवारबालभैरवाय नमः इति पूजयेत् | एते गन्धपुष्पे ऐं सिद्धजयाय पूर्ववक्त्राय नमः | एवं जयायोत्तरवक्त्राय | ऐं ह्रीं श्रीं कुब्जिके पश्चिमवक्त्राय | ऐं कालिके दक्षिणवक्त्राय | ओं भास्कराय प्रत्येकं दिक्पालेभ्यः वीरभद्रायै महाकन्यायै कौलिन्यै कलनामिन्यै अष्टादशभुजायै काल्यै चण्डदुर्गायै ओंकारादिनमोऽन्तेन पूजयेत् | ततः कुमारीमूलमन्त्रं स्वीयमन्त्रं वा यथाशक्ति जप्त्वा प्. ७६३) प्राणायाम कृत्वा जपं समर्प्य स्तवकवचादिकं पठित्वा अष्टाङ्गं पञ्चाङ्गं वा प्रणम्य दक्षिणां दद्यात् || अथ कुमारीस्तोत्रम् || भैरव्यु वाच || देवेन्द्रादय इन्दुकोटिकिरणां वाराणसीवासिनीं विद्यां वाग्भवकामिनीं त्रिनयना सूक्ष्मक्रियागामिनीम् || चण्डोद्वेगनिकृन्तनीं त्रिजगतां धात्रीं कुमारी वरां मूलाम्भोरुहवासिनीं शशिमुखीं सम्पूजयन्ति श्रियै || १ || भाव्यां देवगणैः शिवेन्द्रयतिभिर्मोक्षार्थिभिर्वालिकां सन्ध्यां नित्यगुणोदयां द्विजगणश्रेष्ठोदयांश्वारुहाम् | शुक्लाभां परमेश्वरीं शुभकरीं भद्रां विशालाननां गायत्रीं गणमातरं दिनगतिं कृष्णाञ्च वृद्धां भजे || २ || बालां बालकपूजितां गुणयुतां विद्यावतां मोक्षदां धात्रीं शुक्लसरस्वतीं सुरवरां वाग्वादिनीं चण्डिकाम् | स्वाधिष्ठानहरप्रियां प्रियकरीं वेदान्तविद्याप्रदां नित्यं मोक्षहिताय योगवपुषा चैतन्यरूपां भजे || ३ || नानारत्नसमूहनिर्मितगृहे पूज्यां सुरैर्बालिकां वन्दे नन्दनकानने मनसि संसिद्धान्तवीजात्मके | अर्थं देहि निरर्थकाय वपुषे हित्वा कुमारीकलां मह्यं मातृकुमारिके च त्रिविधा मूर्त्या च तेजोमयी || ४ || हालाहालकरालिकां कुलपथोल्लासैकवीजोद्वहां मांसामोदकरालिनीं हि भजतां कामातिरिक्तप्रदाम् | बालोऽहं वटुकेश्वरस्य चरणाम्भोजाश्रितोऽहं सदा हित्वा वलकुमारिके ! शिरसि शुक्लाम्भोरुहे सम्भजे || ५ || सूर्याह्लादबलाकिनीं कलिमहापापादितापापहां तेजोगां भुवि सूर्यगां भयहरां तेजोमयीं कालिकाम् | वन्दे हृत्कमले सदा रविदले बालेन्द्रविद्यां सतीं साक्षात् सिद्धिकरीं कुमारि विमले त्वामाद्यरूपेश्वरीम् || ६ || नित्यं श्रीकुलकामिनीं कुलवतीं कौलामुमामम्बिकां नानायोगविलासिनीं सुरमणी नित्यां तपस्यान्विताम् | वेदान्तार्थविशेषदेशवसनाभाषाविशेषस्थितां वन्दे प्. ७६४) पर्वतराजराजतनयां कालप्रिये त्वामहम् || ७ || कौमारीं कुलमालिनीं रिपुगणक्षोभाग्निसन्दायिनीं रक्ताभानयना शुभां परममार्गान्मुक्तिसंज्ञाप्रदाम् | भार्यां भोगवतीं पतिं त्रिभुवनेष्वामीदपञ्चाननां पञ्चास्यप्रियकामिनीं भयहरां सर्पादिहारां भजे || ८ || चन्द्रास्यां चरणद्वयाम्बुजमहाशोभाविनोदीं नदीं मोहादिक्षयकारिणीं वरकरां श्रीकुब्जिकां सुन्दरीम् | ये नित्यं परिपूजयन्ति सहसा राजेन्द्रचूडामणिं तेषां हि धनमायुषं त्रिजगतां व्याप्येश्वरत्वं जगुः || ९ || योगीशं भुवनेश्वरं प्रियकरं श्रीकालसन्दर्भदं शोभासागरगामिनं सुरतरोर्वाञ्छाफलोद्दीपनम् | लोकानामघनाशनाय शिवया श्रीसंज्ञया विद्यया धर्मप्राणसदैवतं प्रणमतां कल्पद्रुमं भावये || १० || विद्यान्तामपराजितां मदनमोदमत्ताननां हृत्पद्मस्थितपादुकां कुलकलां कात्यायनीं भैरवीम् | ये ये पुण्यधियो भजन्ति परमानन्दाब्धिमध्ये मुदा सर्वाच्छादिततेजसा भयकरीं मोक्षाय सत्कीर्त्तये || ११ || रुद्राणीं प्रणमामि पद्मवदनां कोट्यर्कतेजोमयीं नानालङ्कृतभूषणां कुलभुजामानन्दसन्दायिनीम् | श्रीमायां कमलान्वितां हृदिगतां सन्तानवीजक्रियां वन्दे वाग्भवरूपिणीं कुलबधूं हु/कारवीजोद्भवाम् || १२ || नमामि वरभैरवीं क्षितितलाघकालानलां मृणालकुसुमारुणां भुवनदोषसंशोधिनीम् | जगद्भयहरां परां तरति या च योगेश्वरी ममापदसहस्रकं सकलभोगदां तामहम् || १३ || साम्राज्यं प्रददाति या भगवती विद्या महालक्षणा साक्षादष्टसमृद्धिदा भुवि महालक्ष्मीः कुलक्षोभहा | स्वाधिष्ठानसुपङ्कजे विवसिता विष्णोरनन्तश्रिये वन्दे राजपदप्रदां शुभकरीं कौलेश्वरीं सर्वदा || १४ || पीठानामधिपाधिपामसुरहां विद्यां शुभां नायिकां सर्वालङ्करणान्वितां त्रिजगतां क्षोभापहां वारुणीम् | वन्दे पीठगनायिकां त्रिभुवनच्छायाभिराच्छादितां प्. ७६५) सर्वेषां हितकारिणीं जयवतामानन्दरूपेश्वरीम् || १५ || क्षेत्रज्ञां मदविह्वलां कुलवतीं सिद्धिप्रियां प्रेयसीं शम्भोः श्रीवटुकेश्वरस्य महतामानन्दसञ्चारिणीम् | साक्षादात्मपरोद्गमां निजमनःक्षोभापहां शाकिनीम् | वाक्यार्थप्रकटामहं रजतभां वन्दे महाभैरवीम् || १६ || सम्पूर्णविधुवन्मुखीं कमलमध्यसम्भाविनीं शिरोदशशते दलेऽमृतमहाब्धिधाराधराम् | प्रणामफलदायिनीं सकलराज्यवश्यां गुणां नमामि परमाम्बिकां विषयपाशसंहारिणीम् || १७ || साक्षादहं त्रिभुवनेऽमृतपूर्णदेहां सन्ध्यादिदेविकमलां कुलपण्डितेन्द्राम् | तन्नो भजे दशशते दलमध्यमध्ये कौलेश्वरीं सकलदिव्यजनाश्रयां त्वाम् || १८ || विश्वेश्वरीं सुरकुले वरकालिके त्वां सिद्धानले प्रतिदिनं प्रणमामि भक्त्या | भक्तिं धनं जयपद यदि देहि दास्यं तस्मिन् महामधुमती लघुगेहभार्याम् || १९ || एतत् स्तोत्रप्रसादेन कवितावाक्पतिर्भवेत् | महासिद्धीश्वरो दिव्यो वीरभावपरायणः || सर्वत्र जयमाप्नोति सहि स्याद्धरवल्लभः | वाचामीशो भवेत् क्षिप्रं कामरूपी भवेन्नरः | पशुरेव महावीरो दिव्यो भवति निश्चितम् | क्रमशो ह्यष्टसिद्धिः स्याद्वाग्मी भवति नश्चितिम् | सर्वा विद्याः प्रसीदन्ति तुष्टाः सर्वदिगीश्वराः | वह्निः शीतलतां याति जलस्तम्भं स कारयेत् | धनवान् पुत्रवान् राजा इहलोके भवेन्नरः | स गच्छति च वैकुण्ठे कैलासे शिवसन्निधौ | मुक्तिरेव महादेव ! यो नित्यं सर्वदा पठेत् | महाविद्यापदाम्भोजं स हि पश्यति निश्चितम् || शृणु नाथ ! प्रवक्ष्यामि कुमारीतर्पणादिकम् | यासां तर्पणमात्रेण कुलसिद्धिर्भवेत् ध्रुवम् | कुलवालां मूलपद्मस्थितां कामविहारिणीम् | शतधा मूलमन्त्रेण तर्पयामि तव प्रिये || ११ || मूलाधारमहातेजश्छटामण्डल-मण्डिताम् | सन्ध्यादेवीं तर्पयामि कामवीजेन मे शुभे || २ || प्. ७६६) मूलपङ्कजयोगाङ्गी कुमारीं श्रीसरस्वतीम् | तर्पयामि कुलद्रव्यैस्तव सन्तोषहेतुना || २ || चारुमूलाधारपद्मे त्रिमूर्त्तिं वालनायिकाम् | सर्वकल्याणदा देवीं तर्पयामि परामृतैः || ४ || स्वाधिष्ठानमहापद्मषड्दलान्तःप्र-काशिनीम् | श्रीवीजेन तर्पयामि भोगमोक्षाय केवलम् || ५ || स्वाधिष्ठान कुलोल्लासविष्णुसङ्केतगामिनीम् | कालिकां निजवीजेन तर्पयामि कुलामृतैः || ६ || स्वाधिष्ठानाख्यपद्मस्था महातेजोमयीं शिवाम् | सूर्याणां शीर्षमधुना तर्पयामि कुलेश्वरीम् || ७ || मणिपुराब्जमध्येषु मनोहरकलेवराम् | उमादेवीं तर्पयामि मायावीजेन पार्वतीम् || ८ || मणिपूराम्भोजमध्ये त्रैलोक्यपरिपूजिताम् | मालिनीं मलचित्तस्य सद्वुद्धेस्तर्पयाम्यहम् || ९ || मणिपूरस्थितां रौद्री परमानन्दवर्द्धिनीम् | आकाशगामिनी देवीं कुब्जिकां तर्पयाम्यहम् || १० || तर्पयामि महादेवीं मन्त्रसाधनतत्पराम् | योगिनीं कालसन्दर्भां तर्पयामि कुलाननाम् || ११ || शक्तिमन्त्रप्रदां रौद्रीं लोलजिह्वासमाकुलाम् | अपराजितां महादेवीं तर्पयामि कुलेश्वरीम् || १२ || महाकौलप्रियां सिद्धां रुद्रलोकसुखप्रदाम् | रुद्राणीं रुद्रकिरणां तर्पयामि मधुप्रियाम् || १३ || षोडशस्वरसंसिद्धिं महारौरवनाशिनीम् | महामद्यपानचित्तां भैरवीं तर्पयाम्यहम् || १४ || त्रैलोक्यवरदां देवीं श्रीवीजमालयावृताम् | महालक्ष्मीं भवैश्वर्यां तर्पयाम्यहमम्बिके || १५ || लोकानां हितकर्त्रीञ्च हिताहितजनप्रियाम् | तर्पयामि रमावीजं पीठाद्यां पीठनायिकाम् || १६ || जयन्तीं वेदवेदाङ्गमातरं सूर्यमातरम् | तर्पयामि सुधाभिश्च क्षेत्रज्ञां माययावृताम् || १७ || तर्पयामि कुलानन्दपारगां परमाननाम् | तर्पयाम्यम्बिकां देवीं महालक्ष्मीं हृदि स्थिताम् || १८ || सर्वेषां चरणद्वयाम्बुजतलं चैतन्यमिद्यावतां सौख्यार्थं शुभषोडशस्वरयुतं श्रीषोडशीमङ्गलम् | प्. ७६७) आनन्दार्णवपद्मरागखचिते सिंहासने शोभिते त्वां नित्यं परितर्पयामि सकलश्वेताब्जमध्यासने || १९ || ये नित्यं सुप्रतिष्ठितचारुसकलस्तोत्राङ्गसन्तर्प-णं विद्यादाननिदानमोक्षपरमं मायामयं या न्तिवै | नो सन्ति क्षितिमण्डलेष्वरिगणाः सर्वे विपत्कारकाः | राजानं वशयन्ति योगसकलैर्नित्या भवन्ति क्षणात् || २० || तर्पणात्मकमोक्षाख्यं पठन्ति यदि मानुषाः | अष्टैश्वर्ययुतो भूत्वा वत्सरात् च प्रपश्यति | महायोगी भवेन्नाथ ! मासादभ्यासतः प्रभो ! || त्रैलोक्यं क्षोभयेत् क्षिप्रं वाञ्छाफलमवाप्नुयात् | यः पठेदेकभावेन स तर्पणफलं लभेत् | पूजाफलमवाप्नोति कुमारीस्तोत्रपाठतः | यो न कुर्यात् कुमार्यर्चां स्तोत्रञ्च नित्यमङ्गलम् | स भवेत्पशुकल्पो हि मृत्युस्तस्य पदे पदे || इति रुद्रजामले उत्तरखण्डे महाकुलोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये भैरवभैरवीसंवादे कुमारीस्तोत्रं समाप्तम् || अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् | त्रैलोक्यमङ्गलं नाम महापातकनाशनम् | पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः | शक्रो देवाधिपः श्रीमान् देवगुरुर्वृहस्प्ततिः | सम्यक्तेजोमयो वह्निधर्मराजो भयानकः | वरुणो देवपूज्यो हि जलानामधिपः स्वयम् | सर्वहर्त्ता महावायुः कुमारः कुञ्जरेश्वरः | धनाधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वराः | त्वमेकः प्रभुरेकात्मा सर्वेशो निर्मलोदयः | एतत् कवचपाठेन सर्वे भूपा धनाधिपाः | प्रणवो मे शिरः पातु मायासन्ध्यात्मिका सती | ललाटोर्द्धं महामाया पातु मे श्रीसरस्वती | कामाख्या वटुकेशानी त्रिमूर्त्तिर्भालमेव तु | चामुण्डावीजरूपा च वदनं कालिका मम | पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम | कर्णयुग्मं प्. ७६८) कामवीजस्वरूपा मां तपस्विनी | रसनाग्रं तथा पातु वाग्देवी मालिनी मम | ताल्वग्रं कामरूपा च दन्ताग्रं कुब्जिकाऽवतु | देवी प्रणवरूपा सा पातु नित्यं शिरो मम | ओष्ठाधरं शक्तिवीजात्मिका स्वाहा स्वरूपिणी गलदेशं महारौद्री पातु मे चापराजिता | क्ष्रौंवीजं मे सदा कण्ठं रुद्राणी स्वाहयान्विता | हृदयं षोडशी विद्या पातु षोडशसुस्वरा | दौ वाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका | सर्वमन्त्रस्वरूपा मे चोदरं पीठनायिका | पार्श्वयुग्मं तथा पातु हृद्देवी वाग्भवात्मिका | कैशोरी कटिदेशं मे मायावीजस्वरूपिणी | जङ्घायुग्मं जयन्ती मे योगिनी कल्लुकावृता | सर्वाङ्गमम्बिका देवी पातु मन्त्रार्थगामिनी | केशाग्रं कमला देव ! नासाग्रं नरमोहिनी | चिवुकं चण्डिकादेवी कुमरी पातु मे सदा | हृदयं ललितादेवी पृष्ठं पर्वतवासिनी | त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदाव तु | श्मशाने चाम्बिका देवी गङ्गागर्भे च भैरवी | शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी | चतुष्पथे सदा पातु मामेव वज्रधारिणी | शवासनगता चण्डा मुण्डमालाविभूषिता | पातु मामेव लिङ्गे च ईश्वरी शक्तिरूपिणी | वने पातु महाबाला महारण्ये रणप्रिया | महाजले तडागे च शत्रुमध्ये सरस्वती | महाकाशपथे पृथ्वी पातु मां शीतला सदा | रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी | अर्द्धनारीश्वरा पातु मम पादतलं मही | नवलक्षमहाविद्या कुमारीरूपधारिणी | कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला | पातु मां वरदा वाणी वटुकेश्वरकामिनी | इति ते कथितं नाथ ! कवचं परमाद्भुतम् | कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारगम् | यो यजेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च | आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः | वज्रदेहि भवेत् क्षिप्रं प्. ७६९) कवचस्य प्रसादतः | सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् | विवादे व्यवहारं च संग्रामे कुलमण्डले | महापथे श्मशाने च योगसिद्ध्युद्भवेषु च | पठित्वा फलमाप्नोति सत्यं सत्यं कुलेश्वर ! | वशीकरणकवचं सर्वत्र जयदं शुभम् | पुण्यव्रती पठेन्नित्यं यतिः श्रीमान् भवेद्ध्रुवम् | सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् | पठेद् यः शृणुयाद्वापि स भवेत् कल्पपादपः | भुक्तिमुक्तितुष्टिपुष्टिं राजलक्ष्मीं सुसम्पदम् | प्राप्नोति साधकश्रेष्ठो धारयित्वा भवेज्जयी | असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् | कुलीलानां महासौख्यं धर्मार्थकाममोक्षदम् | योगिनीं दिवसे नित्यं कुमारीं पूजयेन्निशि | उपचारविशेषेण त्रैलोक्यं वशमानयेत् | पललस्याशनेनापि मत्स्येन मुद्रया सह | नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः | माल्येन स्वर्णरजतालङ्कारेण सुचेलकैः | पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् | यज्ञदानतपस्याभिः प्रयोगेन महेश्वर ! | स्तुत्वा कुमारीकवचं यः पठेदेकभावतः | तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् | वाञ्छाफलमवाप्नोति यद्यन्मनसि वर्त्तते | भूर्जपत्रे लिखित्वा च कवचं धारयेद् यदि | शनिमङ्गलवारे च नवम्याष्टमीदिने | चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः | लिखित्वा धारयेद्विद्वान् उत्तराभिमुखो भवन् | महापातकयुक्तोऽपि मुक्तः स्यात् सर्वपातकैः | योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् | बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता | तथा श्रीपुरुषश्रेष्ठो दक्षिणे धारयेद्भुजे | ऐहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः | शिवलोके परे याति वायुवेगी निरामयः | सूर्यमण्डलमाभिद्य परं मोक्षमवाप्नुयात् | लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रदं मोक्षार्थं कवचं शुभं प्. ७७०) प्रपठनामानन्दसिन्धूद्भवम् | लोकानां कलिकालघोरकलुषध्वंसैकहेतुं जयं ये लोकाः प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् || इति रुद्रजामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे कुमारीकवचोल्लासे सिद्धमन्त्रप्रकरणे भावनिर्णयकुमारीकवचं समाप्तम् || शक्तश्चेत् तदा दशमपटलोक्तं कुमारीसहस्रनाम पठेत् तदत्र ग्रन्थगौरवभिया न लिखितम् || अथ ब्राह्मणप्रशंसा || मत्स्यसूक्ते तृतीयचरणे प्रथमपटले || ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकालिकम् | येषां वाक्योदकेनैव शुध्यन्ति मलिना जनाः || योगिनीतन्त्रे पूर्वखण्डे त्रयोदशपटले || सर्वदेवमयो विप्रो ब्रह्मविष्णुशिवात्मकः | ब्रह्मतेजः समुद्भूतः सदाप्राकृतिको द्विजः | ब्राह्मणैर्भुज्यते यत्र तत्र भुङ्क्ते हरिः स्वयम् | तत्र ब्रह्मा च रुद्रश्च खचरा ऋषयो मुनिः | पितरो देवताः सर्वे भुञ्जते नात्र संशयः | सर्वदेवमयो विप्रस्तस्मात्तं नावमानयेत् || सप्तमपटले || अतोऽविद्यं सविद्यं वा ब्राह्मणं सर्वदा भजेत् | सन्तुष्टे ब्राह्मणे देवि ! सन्तुष्टाः सर्वदा सुराः | वितुष्टे ब्राह्मणे देवि ! वितुष्टा वयमेव हि | यद्य कार्यशतं देवि ! ब्राह्मणः समुपाचरेत् | आत्मनो हितकामेन तथापि तं न चोद्विजेत् | नावमानञ्च कर्त्तव्यं सर्वदा सुरसुन्दरि ! ब्राह्मणः सर्वदेवात्मा साक्षात्तेजोमयो हि सः || त्रयोदशपटले || ब्राह्मणञ्च कुमारीञ्च शक्तिमग्निं श्रुतिञ्च गाम् | नित्यमिच्छन्ति ते देवाः यजितुं कर्मभूमिषु || वृहन्नीलतन्त्रे सप्तमपटले || अध्यापकाय यो वृत्तिं दत्त्वाध्यापयति द्विजान् | किं न त्यक्तं भवेत्तेन धर्मार्थकाममिच्छता | पुण्यात् पुण्यतरं पुण्यं जानीहि सर्वसम्मतम् || योगिनीतन्त्रे तथा || ब्रह्मशापो प्. ७७१) दुराधर्षः कोऽप्यतस्तं न कोपयेत् | वाग्वज्रं ब्राह्मणानां हि सदा जानीहि कामिनि ! || त्रयोदशपटले || भवेद्यस्य ब्रह्मशापो निष्कृतिस्तस्य दूरतः | तक्षकेणापि दष्टस्य प्रतिकारो हि तत्क्षणात् | ब्रह्मशापप्रशप्तस्य कल्पान्ते स्यात् प्रतिक्रिया || कल्पसंख्या तु तत्रैवोक्ता || कल्पमेकं महेशानि ! कलो वर्षशतत्रयम् | नरकान्निष्कृतिर्नास्ति तस्य भावान्नसंशयः | एवं तद्वंशजाः सर्वे पीड्यन्तेऽहर्निशं प्रिये ! | नानाविधमहोत्पातैर्यावत् स्यात् साप्तपौरुषम् | तस्मात्तु ब्राह्मणं देवि ! नावमन्येत् कुत्रचित् || इति ब्राह्मणप्रशंसा || अथ तीर्थयात्रा || योगिनीतन्त्रे मध्यभागे द्वितीयपटले || श्रीभगवानुवाच || नित्यं निर्वर्त्त्य स्वगृहे पितॄन्नान्दीमुखामपि | अभ्यर्च्य विधिवद्भक्त्या पश्चाद्यात्रां समाचरेत् | उत्तरे च गते शुक्रे सानुकूले शुभग्रहे | गुरुपित्रोरनुज्ञातो ब्राह्मणानां विशेषतः || भोजयित्वा द्विजान् सप्त ततो यात्रां समाचरेत् | सिंहे धनुषि मेषे च न गच्छेत् पूर्वपीठकम् | घटे च मन्मथे कुम्भे न गच्छेत् पश्चिमं बुधः | वृषेऽङ्गनायां मकरे न गच्छेद्दक्षिणालयम् || कर्कटे कीटमीने च न गच्छेदुत्तरं सुधीः | चाप-गोकन्यकायाञ्च न गच्छेद्वह्निकोणकम् || मकरे कर्कटे मीने नैरृत्यां परिवर्ज्जयेत् | वायव्यां कुम्भमेषे च चापे चैव विवर्जयेत् | सिंहे मीने कर्कटे च ऐशान्याञ्च विवर्ज्जयेत् || एतत् शूलं विजानीयाद् योगिनीं शृणु शङ्करि ! | न गच्छेन्मन्दवारे च पूर्वदेशं मम प्रिये | पश्चिमं सवितुर्वारे दक्षिणं बुधवासरे || कुजाहे चोत्तरं देशं चन्द्रे चाग्निदिशं प्रिये ! | जीववारे च नैऋत्यां वायव्यां भृगुवासरे | शनिवारे तथैशान्यां सोमे चैव विशेषतः | पूर्वदेशं महेशानि ! प्रतिपन्नवमीषु च || न गच्छेद् यात्रिको यात्रां योगिनीसम्मुखी यतः | चतुर्द्दशीं तथा षष्ठीं पश्चिमे तु विवर्जयेत् || त्रयोदशीं पञ्चमीञ्च न गच्छेद्दक्षिणां दिशम् | द्वितीयां दशमीञ्चैव यक्षदेशं विवर्जयेत् | पूर्णिमां सप्तमीञ्चैव वायव्यां सर्वथा त्यजेत् | न गच्छेच्च तथैशान्याममावास्यां तथाष्टमीम् || विष्कुम्भः प्रीतिरायुष्मान् प्रतिपत्सु विवर्जयेत् | सौभाग्यं शोभनञ्चैव द्वितीयामतिगण्डकम् | सुकर्मा च धृतिश्चैव तृतीयां परिवर्जयेत् | गण्डो वृद्धिर्ध्रुवश्चैव व्याघातश्च तथैव च || चतुर्थां वर्जयेद्देवि पञ्चम्यां दूषणं तथा | वज्रसिद्धिव्यतीपाते षष्ठ्यां जानीहि शङ्करि ! || वरीयान् परिघश्चैव सप्तम्यां परिवर्जयेत् | अष्टम्यां शिवसिद्धिञ्च साध्यञ्च परिवर्जयेत् || नवम्यां शुभशक्रञ्च दशम्यां ब्रह्ममेव वा | एकादश्यां तथैन्द्रन्तु द्वादश्यां वैधृतिं त्यजेत् | प्रतिपदि कृत्तिकाञ्च द्वितीयां ज्येष्ठसंज्ञिताम् || अयात्रिके तु नक्षत्रे प्रस्थानं न कदाचन | यात्रायान्तु न दुष्येत करणस्य च चिन्तनम् || जन्ममासे जन्मदिने जन्मनक्षत्रके तथा | अष्टम्याञ्च नवम्याञ्च सदा यात्रां विवर्जयेत् || आपत्काले च यात्रायां उषासम्पद्धि पश्चिमे || गोधुलीसमये चैव पूर्वदेशे महेश्वरि ! | मध्याह्ने दक्षिणे चैव चापराह्णे तथोत्तरे | ऐशान्याञ्च तथा रात्रौ नैऋत्यां सन्ध्ययोर्द्वयोः | मध्यन्दिने तथाग्नेये वायव्यां प्रातरेव हि | वारुणादिषु योगे वा यथाकाले समाचरेत् | विना जातदिनं तत्र अष्टमीं नवमीं विना | प्राचीदिशं समागच्छन् यात्रां कुर्यादुदङ्मुखः | पश्चिमे प्राङ्मुखः कुर्यात् दक्षिणे पश्चिमामुखः | उत्तरे दक्षिणमुखो यात्रां कुर्यात् सुसिद्धये | कुसुमं यावकः शङ्खो भेरी भूदेवभूमिपाः | गावश्छत्रं रथो यानं दक्षिणे सुभगाः स्मृताः | सिद्धान्नं मांसपिण्डञ्च भक्तभाजनजन्तवः | मृत्पिण्डं कुणपाहाराः सर्वाश्च दक्षिणे शुभाः | कन्या वै मिथुने वेश्या पूर्णकुम्भास्त्रियस्तथा | पक्षिणः प्. ७७३) पशवश्चैव चरन्तो वामतः शुभाः | अग्रे दधिफले यात्रा शुभदा परिकीर्त्तिता | तथा क्रौञ्चमयूराश्च युग्मं गच्छन्ति गच्छतः | तदा सिद्धिं विजानीयादन्यथा विघ्नमादिशेत् | गृध्राः श्येनाश्च चिल्लाश्च पार्श्वे गच्छन्ति वै यदा | न कुर्याद् यात्रिको यात्रां बाधके वचसि स्थिते || पञ्चमपटले || कामरूपमध्ये || जनार्दनचिह्नशैलं निरूप्य || उत्तरे तस्य शैलस्य ऐशान्यां विरजस्य च | दक्षिणे चैव शैलस्य पश्चिमे शौभ्रलिङ्गकम् | एतन्मध्यतमं क्षेत्रं आगस्त्यं नाम वै परम् | त्रयं शतमितं क्षेत्रमशाम्भवमिदं स्मृतम् | एतद्गयां विजानीयादन्यल्लोहित्यमुच्यते | तत्र पिण्डप्रदानेन पितॄणां परमा गतिः | जनार्दनस्य हस्ते च स्वादु पिण्डं समर्पयेत् | एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ! | परलोके प्रभो ! मह्यं त्वं हि दाता भविष्यसि | कलिशेषस्य पूर्वे तु धनुरष्टप्रमाणतः | सा शिला प्रेतभावेन पितॄणां तारणाय च | तत्र पिण्डप्रदानेन न प्रेतो जायते क्वचित् | चक्रतीर्थस्य चाग्नेये धनुर्द्वन्द्वप्रमाणतः | लिङ्गं लोलं परं तीर्थं तिलदुग्धैः प्रतर्पयेत् | जनार्दनं ततो वीक्ष्य मुच्यते वै ऋणत्रयात् | कलिद्वापरयोः सन्धौ धनुरर्द्धप्रमाणतः | शुक्रेण स्थापितं लिङ्गं शुक्रेशं नामतः श्रुतम् | देवं शुक्रेश्वरं दृष्ट्वा को न मुच्येत बन्धनात् | गोलेश्वरं तथा दृष्ट्वा मुच्यते ब्रह्महत्यया | अङ्गारेशञ्च सिद्धेशं गजादित्यं गजं तथा | मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत् | गयागोलेश्वरं दृष्ट्वा स्नात्वा देवं जनार्दनम् | एतेन किं न विहितं नृणां सुकृतिकारणम् | ब्रह्मलोकं नयन्तीह पुरुषानेक विंशतिम् | पृथिव्यां यानि तीर्थानि चासमुद्रसरांसि च | चक्रतीर्थे च गच्छन्ति वारमेकं दिने दिने | पृथिव्याञ्च गया पुण्यं गयायां कूपकं तथा | कूपादष्टगुणा देवि ! श्रेष्ठा मातृगया प्. ७७४) शुभे ! | पुत्रो मातृगयां गत्वा ह्यनृणो भवति क्षणान् | गयायां पिण्डदानेन पितॄणामनृणो भवेत् | गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव च || तथा || अत्रागस्त्ये महाक्षेत्रे स्वकं पिण्डं ददेत्तुयः | मासद्वयाधिकं वर्षमायुषो वर्द्धते क्रमात् | पित्रोश्च जीवतोः पुत्रो न कुर्यादौर्द्धदेहिकम् | बहुपुत्रे त्वेकपुत्रे पुत्रे वा योगसेविते | जन्मकुष्ठयुते पुत्रे अपुत्रे वा महेश्वरि! | चत्वारिंशत्परे देवि ! स्वयमात्मक्रियां चरेत् | स्वहस्ते तु वृषोत्सर्गं यः करोत्यौर्द्धदेहिकम् | परलोकगते देवि ! अक्षयं तदपि स्मृतम् | दम्पत्योर्जीवतोः कुर्यात् वृषोत्सर्गद्वयं सदा | पित्रोश्च जीवतोः पुत्रो न कुर्यादौर्द्धदेहिकाम् | उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः | विधाय कर्पटीवेशं ग्रामस्य च प्रदक्षिणम् | ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् | कृत्वा प्रदक्षिणं गच्छेत् प्रतिग्रहविवर्जितः | गृहाच्चारत्निमात्रञ्च अगस्त्यगमनं प्रति | स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे | दिवा रात्रौ सर्वदा च आगस्त्ये श्राद्धकृद् भवेत् | निरामिषं कृतं श्राद्धं तथा च विष्णुवर्जितम् | शपन्ति पितरस्तस्य निराशाः पितरो गताः | आमश्राद्धे चाममांसं प्रदद्यादविचारयन् | पितरोऽधोमुखास्तस्य तिष्ठन्ति नियतं प्रिये ! | समिषञ्च कृतं श्राद्धं भुङ्क्ते यस्तु निरामिषम् | तामिस्रनरकं गच्छेत् पितृभिः सह नान्यथा | निरामिषम् कृतं येन कुर्यात् श्राद्धं निरामिषम् | कुर्यादामिषभुक् श्राद्धं सामिषन्तु वरानने ! || मत्स्यसूक्ते षड्विंशतिपटलेऽपि || न कुर्यादामिषैर्हीनं वर्षश्राद्धं महेश्वरि ! | पर्वश्राद्धं गयाश्राद्धमामिषेण प्रशस्यते | तीर्थश्राद्धं नान्दीमुखं कुर्यादामिषवर्जितम् | निरामिषकृतं श्राद्धं यस्त्वश्नीयाच्च सामिषम् | निराशाः पितरो यान्ति शापं दत्वा मुदारुणम् | शूद्रैर्निमन्त्रिते विप्रे श्राद्धयज्ञोत्सवेषु च | प्. ७७५) ब्राह्मणं भोजयेद्यस्तु भुङ्क्ते विष्टां स शङ्करि ! | माहिषं वृहदाजञ्च ऐणञ्च चमरं तथा | गोधां कूर्मञ्च शल्लञ्च शाशकं शौकरं तथा | वाराहञ्च तथा मेषं श्राद्धे देयानि सर्वशः | अकलौ तु गवां मांसं सारमेयञ्च तद्द्वयम् | हीनेन्द्रियञ्च छगलमकृष्णं तञ्च वर्जयेत् | कृष्णछागस्य मांसेन मार्गेणैकेन षट्समाः | चामरेण शतं वर्षं सहस्रं गोधिका प्रिये ! | षण्मासञ्च वरारोहे ! कुर्मण मासमात्रकम् | शौकरेण तु षण्मासं शाशकेन नवैव तु | द्वाविंशच्छाल्वकेनैव क्षुद्रवाराहकैस्तथा | शताब्दं चामरेणैव स्थूलमांसन्तु वर्जयेत् | यत्र वर्ज्यं भवेत् पुंभिश्चतुर्भिः षड्भिरेव च | अतिस्थूलमिति प्रोक्तं तस्मात्तत् पूर्वसूरिभिः | महिषस्य च गव्यस्य वराहस्य मम प्रिये ! | मार्गस्य वृहदाजस्य स्थूलञ्चापि प्रशस्यते | खड्गं पाञ्चनखं भक्ष्यं कापोतं खड्गसंयुतम् | चतुर्मुखं चाविशालं वर्जयेच्च मम प्रिये ! | गोधिकां स्वर्णखड्गञ्च चामरं कृष्णमेव च | वर्जयेत् कूर्मकं विद्वान् यदि चक्रेण चिह्नितम् | सिंहतुण्डं रोहितञ्च राजीवं चित्रकं तथा | महाशङ्कं प्रौष्ठिकञ्च मत्स्यञ्च पार्वतीयकम् | वृहद्रोहितमत्स्यञ्च वृहत्प्रौष्ठीकमेव च | वृहच्छल्लञ्च चित्रञ्च श्राद्धे यत्नेन योजयेत् | मत्स्यांश्च शल्कहीनांश्च सर्पाकारांश्च वर्जयेत् | शल्कहीनस्य मध्ये तु प्रदेयं कवचद्वयम् | पोतोधानादिकं यच्च विकृताकारकञ्च यत् | सर्पास्यान् पीवरांश्चैव वडालीञ्च विवर्जयेत् | तथा | धूमपक्वञ्च कदलं शर्करां कीटसंयुताम् | महिषस्य घृतं क्षीरमाजं श्राद्धे विवर्जयेत् | नारिकेलञ्च तालञ्च खर्जरं पीनकं तथा | तक्रं घृतं विना क्षीरं प्रयत्नेन विवर्जयेत् | दीपं त्यजेत् वस्त्रवर्त्त्या प्रत्यक्षं तैलमेव च | कुसुम्भं नालिकाशाकं मालतीकुसुमं तथा | वृद्धिश्राद्धे पङ्कजञ्च करवीराणिवर्जयेत् | एकजातीयपात्रे तु दद्यादन्नं समाहितः | दैवे तु प्रथमं दद्यात् पितृपात्रे तदन्तरम् | प्. ७७६) पितृशेषन्तु दैवेऽन्नं नव दद्यात् कदाचन | अन्नं न क्षालयेत् क्वापि आमश्राद्धे निरग्निके | वृद्धौ तु क्षालयेदन्नं संक्रमे ग्रहणेषु च | एतद्वचनं स्मार्त्तेनापि धृतम् | अष्टमुष्टिप्रमाणेन ब्राह्मणे नैव संक्रमात् | ततोऽधिकञ्च न्यूनञ्च न दद्यात् श्राद्धकर्मणि | यः श्राद्धं पद्मपात्रे च करोति सुमनोहरे | वर्षाणान्तु शतं साग्रं तृप्तिर्भवति निश्चितम् | अश्वत्थस्य च्छदे देवि ! ब्रह्मपत्रे च शङ्करि ! | षण्मासं जायते तृप्तिरनन्तां शतपत्रके | मासैकं ताम्रपात्रे च रुक्मपात्रे तु वत्सरम् | रौप्ये दशगुणं प्रोक्तं खड्गपात्रे शतोत्तरम् | एकजातीयपात्रे तु मृताहे श्राद्धकर्मणि | पार्वणे च तथा वृद्धौ पृथग्जातिञ्च योजयेत् | संवत्सरं भवेत्तावद् ब्रीहींश्चैव नियोजयेत् | वर्षाद्भवति यो व्रीहिव्रते श्राद्धे विवर्जयेत् | धान्यं वर्षासमुद्भूतं तिलं श्रावणिकञ्च यत् | यज्ञादौ च तथाश्राद्धे द्विस्विन्नं परिवर्जयेत् | षष्टि धान्यं राजधान्यं वृहद्धान्यञ्च बल्लभम् | सोमधान्यं शीघ्रधान्यं वङ्गानिरक्तपाणिकम् | केतकींकलविङ्कञ्च धान्यं नारायणं तथा | माधवञ्च प्रदीपञ्च विष्णुधान्यञ्च वल्लभम् | भोगधान्यमशोकञ्च नागाख्यं पञ्चकं तथा | धान्यानि श्राद्धयोग्यानि देवेषु च नियोजयेत् | गोधूमैश्च यवैश्चैव चापूपैश्च महेश्वरि ! | नीवारांश्च तथा श्राद्धे देवधान्यं तथा परम् | वसन्ते रोपितं धान्यं यत्नेन च विवर्जयेत् | तदन्नभक्षणादेव पापं संक्रमते नृणाम् | भक्षणे श्रावणान्नस्य दरिद्रश्चाभिजायते | भक्षणे सोमधान्यस्य व्रतं चान्द्रायणं चरेत् | भक्षणे वृद्धधान्यस्य विभवो जायते किल | राजधान्यश्लक्ष्णधान्य भक्षणाद्विष्णुलोकभाक् रक्तधान्यौदनं भुक्त्वा विजयश्रीमवाप्नुयात् | नारायणं माधवस्य भओगश्च मम सुन्दरि ! | धान्यत्रयोदशं भुक्त्वा नरः ख्यातिमवाप्नुयात् | प्. ७७७) निमन्त्रितो ब्राह्मणश्च यदि श्राद्धे नहि व्रजेत् | दारुणं नरकं याति पितृभिः सह शाश्वतम् || इति तीर्थयात्रादिश्राद्धकथनम् || अथ काशीमाहात्म्यम् || योगिनीतन्त्रे पूर्वखण्डे षोडशपटले || त्रिपुरासुरजन्यतत्पराजितनिर्जरस्तवानन्तरम् | पृथिवीञ्च रथं कृत्वा चक्रे चन्द्रदिवाकरौ | ब्रह्माणं सारथिं कृत्वा वेदान्न्रज्जुंस्तथैव च | देवान् कृत्वा रथाङ्गानि अमांश्चैव तथा पुनः | धनुः कृत्वा सुमेरुञ्च ज्याञ्च कृत्वा तु वासुकिम् | विश्वञ्च सकलं कृत्वा रथस्थं स चराचरम् | वाणं विष्णुं विधायैव त्रिपुरं भस्मसात् कृतम् | चराचरेण सहितं देवदैत्यादिभिः सह | मया तत्र महेशानि ! पुनःसृष्टिः कृता ततः | यत्र भस्मकृतं देवि ! जगदेतच्चराचरम् | महाश्मशानं तद्विद्धि सर्वेषां लयकारणम् | मृतानां सर्वदेवानां तेजस्तत्र व्यवस्थितम् | पञ्चक्रोशात्मकं भूत्वा तेजस्तु जगतां तथा | निर्माय मायया देहं त्रैपुरं भस्म वक्षसि | तत्र मृत्युच्छलेनाहं तुष्टाव परमेश्वरीम् | तत्तेजसि महाकाल्यां परां चैतन्यरूपीणीम् | ततस्तेजसि काली सा प्रादुर्भूता परा कला | महसा दीप्यमानन्तु तेजः कालीति कीर्त्तितम् | मुखमात्रं समादृष्टं महाकाल्यास्तु तेजसि | अतो गौरीमुखं नाम मुनिभिः परिगीयते | तद्दृष्ट्वा परमेशानि ! आनन्दो मम जायते ! आनन्दकाननं तस्माद्गीयते देवतादिभिः | कालीमयं हि तत्तेजः सकलं सं वभूव ह | यथा सागरजातोऽम्भःशीकरः सागरो भवेत् | तथामरादितेजो हि कालीतेजो वभुव ह | यथा नानाजलं देवि ! गङ्गायां पतितं यदि | गङ्गैव जायते सर्वं तथा तेजः सुरेश्वरि ! | सर्वं काल्यभवत् पूर्णं नास्ति भेदो महेश्वरि ! | अतः काशी भवेत् काली निश्चितं नात्र संशयः | पञ्चक्रोशात्मिका काशीब्रह्मतेजोमयी श्रिता | अर्द्धचन्द्रात्मिका देवि ! दृश्यते प्. ७७८) सर्वजातिभिः | इयं त्वमाकला काशी क्षयोदयविवर्जिता | तत्र विन्दु महादेवि ! मणिकर्णि विराजते | तच्चन्द्रामृतमेवात्र गङ्गां जानीहि कामिनि ! | यानि कानि च तीर्थानि तत्र काल्यां महेश्वरि ! | सर्वं तदमृतं देवि ! जानीहि सुरसुन्दरि ! | तामसोमनिशं देवि ! शिरसा धारयाम्यहम् | अतो हि शङ्करत्वं मे निश्चितं सत्यमेव हि | तां कालीं शिरसाधाय पञ्चक्रोशमयीं सदा | अहर्निशं पूजयामि परमानन्दवृंहितः | अतोविश्वेश्वरत्वं मे सदैव नात्र संशयः | ब्रह्मविष्ण्वादिकानाञ्च य ईश्वरः सुरेश्वरि ! | विश्वेश्वरः स एव स्यान्नापरः परमेश्वरि ! | केवलानन्दवान् भूत्वा पूजयामि परां सदा | तत्र तस्याः कृपा जाता वाच्यमाना शरीरिणाम् | देव्युवाच | भो देव ! परमानन्द ! ममानन्दः कृतस्त्वया | अतः काश्यां मृतानां त्वमानन्दं देहि सर्वदा | ईश्वर उवाच || इति श्रुत्वा वचस्तस्या मग्नोऽहममृतार्णवे | ददामि परमं ब्रह्म मुमूर्षोः कर्णगोचरे | वाराणस्यां सदा देवि ! स्थित्वा ध्यायन् परां शिवे ! | जले स्हले चान्तरीक्षे वाराणस्यां मृतास्तु ये | ददामि परमं ब्रह्म तेषां हि कर्णगोचरे | हित्वा हि सकलं कर्म सुकृतं दुष्कृतं हि ते || प्रयान्ति ब्रह्म निर्वाणं ममोपदेशतः क्षणात् | तत्सर्वं सुकृतं कर्म दुष्कृतं वा महेश्वरि ! | भवेद्भस्म महाकाल्याः प्रसादाज्ज्ञानयोगतः | काशीलग्नं हि यत्किञ्चित् काशी भवति तत्क्षणात् | काशीस्पर्शनमात्रेण काश्यान्तु मृत्युमेति सः | तज्जन्मनि महादेवि ! अथवा परजन्मनि | सत्यं सत्यं पुनः सत्यं सत्यमेव सुरेश्वरि ! | वह्नितेजो दहेत् तूलं स्पर्शमात्रात् क्षणं यथा | शूलो कर्म दहेत्काशीतेजःस्पर्शात् क्षणात्तथा | तूलराशिं दहेद्वह्निः किञ्चित्कालाद् यथा शिवे ! | तथा प्. ७७९) दहेत्कर्मराशिं काशीजन्मैकतो नृणाम् | काशीस्थानं पुण्यचयं किं वाहं कथयामि ते | अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् | अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जरायुजाः | ते सर्वे मुक्तिमायान्ति काश्याञ्चेद्भाग्यतोमृताः | इयं वाराणसी देवि ! महातेजोमयी शुभा | युगभेदाज्जनैरेव दृश्यते हि चतुर्विधा ! कृते रत्नमयी काशी त्रेतायां स्वर्णजा स्मृता | द्वापरे सा शिलारूपा कलौ भूमिमयी शुभा | नातः परतरं क्षेत्रं त्रिषु लोकेषु विद्यते | सत्यं सत्यं महादेवि ! शपथेन वदामि ते | संसारबहुलो देवि ! मुक्तिमिच्छति यः पुनः | मामेव शरणं गत्वा तिष्ठेत् काश्यां स यन्त्रितः | स एव पतितो ज्ञानी स एव कुलपावनः | प्राणान्तेऽपि महादेवि ! काश्या न निःसरेद्द्विजः | स एव परमो मूर्खः स एव कुलनाशनः | वृथैव मूर्खलोकेन काशीं प्राप्य त्यजेद् यदि | बहुभिर्जन्मभिः पुण्यैर्यदि काशीं लभेत् पुनः | तदा नैव त्यजेत् काशीं प्राणान्तेऽपि कदाचन | अनायासेन संसारसागरं यस्तितीर्षति | स गच्छेत् खलु केनापि मम वाराणसीं पुरीम् | अन्नं दद्यादन्नपूर्णा ज्ञानं दद्यात् सरस्वती | प्राणान्ते मुक्तिदाताहं काश्यान्यं भावना किमु || वृन्दावनकाञ्च्यादिमाहात्म्यस्त्वत्र ग्रन्थगौरवभिया न लिखितम् | अन्वेषकैर्योगिनीतन्त्रे पूर्वखण्डे पञ्चदशपटलादिषु तदन्नेष्यमिति || श्रीप्राणतोषण्यां भक्तिकाण्डाभिधानं सप्तपरिच्छेदान्वितं पञ्चमकाण्डं समाप्तम् || षष्ठस्य ज्ञानकाण्डस्य निर्घण्टोऽत्र विधीयते | आदौ पञ्चमहायोगो यमादिस्तदनन्तरम् | षडङ्गयोगकथनं प्. ७८०) यमानां मुख्यकीर्त्तनम् | नियमानां तथा मुख्यमासनं तदनन्तरम् | योगविद्या योगविघ्ना मठक्रिया ततः परम् | प्राणायामस्य भेदश्च कुम्भकस्य ततः परम् | प्राणायमक्रियाकालाश्चत्वारः परिकीर्त्तिताः | श्रेष्ठमध्याधमत्वेन प्राणसिद्धेश्च लक्षणम् | श्रमोदकेन तेनैव तनुमार्जनजं फलम् | नाडीशुद्धेश्च चिह्नानि कुम्भसिद्धिफलं ततः | वर्जनीयानि योगे च ततः सिद्धिकराणि च | अपथ्यपथ्ये योगस्य ततोऽवस्था मनोन्मनी | कुम्भकाः सप्तधा भिन्ना नेत्यादि तदनन्तरम् | कर्माणि फलयुक्तानि धौत्यादीनि ततः परम् | साधकाभ्यासजफलं तद्विघ्नकीर्त्तनं ततः | घटावस्था तत्फलञ्च तद्विघ्नञ्च ततः परम् | ततश्च मुद्रादशकं सफलञ्च निरूपितम् | एतदाद्यपरिच्छेदसमापनमतः परम् | पृथ्व्यादिधारणं तस्य फलं ध्यानं ततः परम् | समाधिस्तस्यापि फलं प्राणायामफलान्तरम् | तिथिभेदे वामदक्षनासावायुगतिक्रमः | विपरीतगतेर्दोषो निर्गमे चोपवेशने | वायोः कर्मविशेषे तु फलञ्च वामदक्षयोः | वायोः कर्मविशेषेऽपि फलं प्रश्ने च दिक्स्थितेः | फलं पूर्णशून्यभेदाद्गतिर्नाड्यास्तथैव च | अङ्गभेदे कार्यभेदे पञ्चभूतादयस्ततः | तेषां शुभाशुभे चैव तत्कालस्य निरूपणम् | भूतज्ञानं तदवस्थाः पञ्च बाल्यादिभेदतः | तत्फलञ्च वारभेदे वामदक्षफलं ततः | दिग्गतिर्धमनी वायौ स्वस्वनाडीफलं ततः | विपरीते वैपरीत्यं फलस्य तदनन्तरम् | वृहन्नाडीपदे यात्रा शुभदा वातवेदतः | यात्रापदानि च वहन्नाडीहस्तस्य मार्जनम् | तत्फलं पूर्णरिक्ताङ्गभेदे कर्मनिरूपणम् | वामनासाश्रितं कर्म दक्षनासाश्रितं तथा || सुषुम्नाश्रितकार्याणि भूतरूपादिवेदनम् | भूतगतिः पञ्चभूतभेदे कार्यस्य निर्णयः | प्रश्नस्य निर्णयो भूतैः शुभाशुभनिरूपणम् | मूलादि चिन्ताविज्ञानं भूतैस्तात्कालिकी तथा | अवस्थेन्दोः प्. ७८१) सिद्धिकालः पृथ्व्यवस्थानिरूपणम् | तत्त्वैर्नक्षत्रविज्ञानं निसर्गगतिनिर्णयः | गमनाद्यैर्गतेर्भेदो वायोस्तत् न्यूनकारणाम् | फलञ्च तद्वदूर्द्ध्वादौ श्वासभेदे जयाजयौ | तत्त्वेनास्त्रस्य घटनं तत्त्वैर्युद्धे जयादिकम् | प्रवेशकाले लाभादिर्हानिर्निःसरणे तथा | शून्ये न घातनिर्णातिर्भूतेन स्थाननिर्णयः | जयादिनिर्णयश्चैव वशीकरणमेव च | गर्भज्ञानं वत्सरस्य शुभाशुभफलं ततः | निदानादिपरिज्ञानं रोगस्य निर्णयस्ततः | मृत्युजीवनविज्ञानं कालज्ञानं ततः परम् | वर्षत्रयादिविज्ञानं जीवनस्य स्वकस्य च | अरुन्धत्यादिविज्ञानमायुर्वृद्धिक्रिया ततः | स्वरज्ञानप्रशंसेति परिच्छेदद्वितीयकम् || राजयोगप्रशंसा च तद्भेदस्तिथिसंख्यकः | भेदानां लक्षणञ्चैव लक्षयोगस्ततः परम् | तस्य पञ्चविधो भेदो राजयोगस्य लक्षणम् | हटयोगश्च द्विविधो ज्ञानयोगस्तदन्तरम् | वाह्यलक्षं तत्फलञ्चाकाशपञ्चकलक्षणम् | षोडशाधारनिर्णीतिरष्टाङ्गविवृतिस्ततः | पिण्डब्रह्माण्डयोरैक्यं पिण्डमध्ये जगत्स्थितिः | राजयोगसिद्धिफलं पद्मसङ्केतमद्भुतम् | अव्यक्तादेर्गुणाश्चैव योगादेशस्ततः परम् | योगाधिकारी योगस्य सिद्धिकारणमेव च | योगभेदान्मन्त्रयोगो लययोगस्य विस्तृतिः | कालपुरुषविज्ञानं तत्फलं तदनन्तरम् | रसनासाधनं तस्य फलं नानाविधं ततः | परिच्छेदतृतीयस्य समाप्तिकीर्त्तनं ततः | स्थूलसूक्ष्मक्रमेणैव ब्रह्माण्डस्य निरूपणम् | सर्वदेवाश्रयो मेरुः सत्यलोकस्तदूर्द्ध्वतः | अधो रसातलं तस्य भुवनान्येवमेव च | आधारपद्मविस्तारः स्वाधिष्ठानस्य वर्णनम् | तत्र वैकुण्ठगोलोकवर्णनं तदनन्तरम् | मणिपूरवर्णनञ्चानाहतस्य च वर्णनम् | विशुद्धवर्णनं तस्मादाज्ञाख्यवर्णनं ततः | सहस्रारवर्णनञ्चाधो वक्त्रे गुरुदेवयोः | स्थितिवीजञ्च षट्चक्रप्रकारान्तरवर्णनम् | प्. ७८२) परिच्छेदचतुर्थस्य समापनमिति स्मृतम् || ज्ञानप्रकारं ज्ञानस्य द्वैविध्यं द्वैतवर्जितम् | ज्ञानं तत्फलनिर्देशोऽद्वैतज्ञानाकृतिस्ततः | तत्त्वज्ञानं तत्प्रशंसात्मनः साक्षित्वनिर्णयः | रथित्वञ्च रथादित्वं शरीरादेस्ततः परम् | भोक्तृमुक्तत्वनिर्णीतिरुत्तमादिनिरूपणम् | ब्रह्मज्ञस्य ध्यानपूजाद्यभावस्तदनन्तरम् | आत्मनिरूपणं ज्ञानं त्रिविधं ज्ञानकारणम् | निर्वाणसाधकं कर्म शिववीजनिरूपणम् | पाशनिरूपणं जीवात्माभेददर्शनं ततः | आत्मनो जन्ममरणाद्यभावदर्शनं पुनः | पिण्डपदादिनिर्णीतिस्तन्त्र श्रवणजं फलम् | विद्यातत्त्वं ब्रह्मविद्या प्रशंसार्जितपुण्यतः | ब्रह्मज्ञानं परमात्मनिर्णयस्तदनन्तरम् | भिक्षुनिष्ठैव सा विद्या ब्रह्मणो जगदुद्भवः | ब्रह्मज्ञानप्राप्तिफलं ब्रह्ममन्त्रप्रशंसनम् | ब्रह्ममन्त्रोद्धृतिर्मन्त्रार्थचैतन्ये तदर्चना | ब्रह्मस्तोत्रं तत्कवचं तन्नैवेद्यफलं ततः | तदर्चकप्रशंसा च तन्मन्त्रस्य पुरस्क्रिया | अन्यान्यपि च वेद्यानि यथास्थानं मनीषिभिः | परिच्छेदपञ्चमस्य समापनमिति स्मृतम् | मात्रादिचक्रविंशञ्च बालादिचक्रमध्यगम् | तस्य व्याख्यानमेतद्धि षष्ठच्छेदसमापनम् | सर्वतोभद्रचक्रञ्च तद्व्याख्या प्रक्रियायुता | चक्रं शतपदं तस्मात् तद्व्याख्या तदनन्तरम् | प्रश्नप्रवचने वाणी प्रणामो मन्त्र एव च | प्रश्नस्य कथने तस्य सङ्केतस्तदनन्तरम् | प्रस्तारचक्रं तस्यापि व्याख्यानं तदनन्तरम् | परिच्छेदसप्तमस्य समापनमिदं कृतम् | यथास्थानमन्यदपि ज्ञेयं धीमद्भिरत्र तु || इदं विस्तृतसप्तभिर्ज्ञानकाण्डं परिच्छेदरूपैः प्रसूनैः सुरम्यम् | बुधालोकतां गन्धमुग्धोऽनुवारं फलं किन्तु गुर्वास्यलभ्यं नु विविद्धि | क्षमध्वं पण्डिता ! दोषं परपिण्डोपजीविनः | ममाशुधादिकं सर्वं शोध्यं युष्माभिरुत्तमः || आदेष्ट्टसत्वरतया पुनरीक्षितुं नैतच्छक्यमुत्तमवचो रचितं ममेदम् | विज्ञापयानि सततं प्. ७८३) परिविक्ष्य सर्वं घोरा ! भवद्भिरतिसूक्ष्मधिया विशोध्यम् || रुद्रजामले उत्तरखण्डे षट्त्रिंशत्पटले | यथा || श्री-आनन्दभैरव्युवाच || त्रिगुणज्ञानविकलो न पश्यति दिवानिशम् | दिवा रात्रौ ज्ञानहेतौ न पश्यति कलेवरम् | इति कृत्या हि मरणं नृणां जन्मनि जन्मनि | तज्जन्मक्षयहेतोश्च मम योगं समभ्यसेत् | पञ्चामरामहायोगं कृत्वा स्यादमरो नरः | तत् प्रकारं शृणु प्राणवल्लभ ! प्रियदशन ! | तव भावेन कथये न कुत्रवद शङ्कर ! | यदि नो कस्य निकटे कथ्यते योगसाधनम् | विघ्ना घोरा वसन्त्ये व गात्रे योगादिकं कथम् | योगयोगाद्भवेन्मोक्षस्तत्प्रकाशाद्धि नाशनम् | अतो न दर्शयेद् योगं यदीच्छेदात्मनो हितम् | कृत्वा पञ्चामरायोगं प्रत्यहं भक्तिसंयुतः | पठेत् श्रीकुण्डलीदेवीसहस्रनाम चाष्टकम् | महायोगी भवेन्नाथ ! श्वासेन नात्र संशयः | पञ्चामरायोगविद्या सर्वविद्याप्रकाशिनी कृत्वा पञ्चामरासिद्धिं ततोऽष्टाङ्गादिधारणा | आदौ पञ्चामरासिद्धिस्ततोऽल्पयोगसाधनम् | तत्प्रकारं प्रवक्ष्यामि सावधानावधारय | अहं जानामि संसारे केवलं योगपण्डिता | तत्साक्षिणी ह्यहं नाथ ! भक्तानामुदयाय च | इदानीं कथये तेऽहममरायोगसाधनम् | एवं कृत्वा नित्यरूपी योगानामङ्कुरायते | योगकालेन पुरुषः सिद्धिमाप्नोति निश्चितम् | पञ्चामराविधानानि क्रमेण शृणु शङ्कर ! | नेतीयोगं हि सिद्धानां महाकफविनाशनम् | दन्तीयोगं प्रवक्ष्यामि हृदयग्रन्थिभेदनम् | धौतीयोगं ततः पश्चात् सर्वं मलविनाशनम् | नेतीयोगं हि परमं सर्वाङ्गोदरचालनम् | क्षालनं परमं योगं नाडीनां क्षालनं स्मृतम् | एवं पञ्चामरायोगं यमिनामतिगोचरम् | यमनियमकाले तु पञ्चामराक्रियां यजेत् | अमरासाधनादेव अमरत्वं प्. ७८४) भवेद्वरम् | एतत्करणकाले च तथा पञ्चामराशनम् | पञ्चामराभक्षणेन अमरो योगसिद्धिभाक् | तानि द्रव्याणि वक्ष्यामि तवाग्रे परमेश्वर ! | येन हीना न सिध्यन्ति कल्पकोटिशतेन च | एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् | अन्या तु विजयादेवी सिद्धिरूपा सरस्वती | अन्या तु विल्वपत्रस्था शिवसन्तोषकारिणी | अन्य तु योगसिद्धार्थे निर्गुणी चामरा मता | अन्या तु कालतुलसी श्रीविष्णोः प्रियतोषणी | एताः पञ्चामरा ज्ञेया योगसाधनकर्मणि | एतासां द्विगुणं ग्राह्यं विजयापत्रमुत्तमम् | ब्राह्मणी क्षत्रिया वैश्या शूद्रा सर्वत्र पूजिता | एतद्द्रव्याणि संगृह्य भक्षयेच्चूर्णमुत्तमम् | तच्चूर्णभक्षसमये एतन्मन्त्रादिपञ्चकम् | पठित्वा भक्षणं कृत्वा नरो मुच्येत सङ्कटात् | ओं हरे अमरपुष्टे ! त्वममृतोद्भवसम्भवे ! | अमरं मां सदा भद्रे ! कुरुष्व त्वं हरप्रिये ! | ओं दूर्वायै स्वाहा | इति दूर्वायाः || पुनर्विजयामन्त्रेण शोधयेत् सर्वकन्यकाः || ओं संविदे ब्रह्म इत्यादि || ओं ब्राह्मण्यै नमः स्वाहा || ओं सिद्धिमूलकरे ! देवीत्यादि | अर्द्धं राजपुत्त्रवशङ्करि ! राजकन्ये ! त्रिशूलिनि! | ऐ/ क्षत्त्रियायै नमः स्वाहा | ओं अज्ञानेन्धनेत्यादि | ह्रीं वैश्यायै नमः स्वाहा | ओं नमस्यामीत्यादि | श्रीं शूद्रायै नमः स्वाहा | ओं कायसिद्धिकरे ! देवि! विल्वपत्रनिवासिनि ! | अमरत्वं सदा देहि शिवतुल्यं कुरुष्व माम् | ओं शिवदायै नमः स्वाहा | ओं निर्गुण्डि ! परमेशानि ! योगानामधिदेवते ! | सा मां रक्षतु अमरे ! भावसिद्धिप्रदे ! नमः | ओं शोकापहायै नमः स्वाहा | ओं विष्णोः प्रिये ! महामाये ! कालज्वालनिवासिनि ! | तुलसि ! मां सदा रक्ष मामेकममरं कुरु | ओं ह्रीं श्रीं ऐं ह्रीं अमरायै नमः स्वाहा | पुनरेकत्र आहृत्य सर्वासां शोधनं चरेत् | ओं अमृते ! अमृतोद्भवे ! इत्यादि | धेनुमुद्रां प्. ७८५) योनिमुद्रां मत्स्यमुद्रां प्रदर्शयेत् | तत्त्वमुद्राक्रमेणैव तर्पणं कारयेद्बुधः | अमन्त्रकं सप्तवारं गुरुनाम्ना शिरेऽर्पयेत् | सप्तवारमिष्टदेव्या नाम्ना मूर्ध्नि प्रदापयेत् | ततस्तर्पणमाकुर्यात् तर्पयामि नमो नमः | एतद्वाक्यस्य पूर्वे तु इष्टमन्त्रं समुच्चरेत् | परदेवतां समुद्धृत्य सर्वाद्यप्रणवं स्मृतम् | ततो मुखे प्रजुहुयात् कुण्डानां नामपूर्वकम् | ओं वद वदेत्यादि सर्वसत्त्ववशङ्करि | शत्रुकण्ठत्रिशूलिनि ! स्वाहा | एतदुक्त्वा आश्रमौ च वशी साधकसत्तमः | पञ्चामरारसानन्दः कुलाचारविधिप्रियः | स्थिरचेता भवेद् योगो यदि पञ्चामरागतः | दत्तात्रेयसंहितायां प्रथमाध्याये || यमश्च नियमश्चैव आसनञ्च ततः परम् | प्राणायामश्चतुर्थः स्यात् प्रत्याहारश्च पञ्चमः | षष्ठी तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते | समाधिरष्टमः प्रोक्तः सर्वपुण्यफलप्रदः | एवमष्टाङ्गयोगञ्च याज्ञवल्क्यादयो विदुः | कलसाद्यास्तथा सिद्धा हटं कुर्युस्तथा यथा || निरुत्तरतन्त्रे चतुर्थपटले || आसनं प्राणसंरोधः प्रत्याहारश्च धारणा | ध्यानं समाधिरेतानि योगाङ्गानि वदन्ति षट् | प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्त्तितः | प्रत्याहारद्विषट्केन जायते धारणा शुभा | धारणाद्वादशप्रोक्तं ध्यानं ध्यानविशारदैः | ध्यानद्वादशकैरेव समाधिरभिधीयते | यत् समाधौ परं ज्योतिरुत्तरं विश्वतोमुखम् | तस्मिन् दृष्टे क्रिया काचिद् यातायातं न विद्यते || दत्तात्रेयसंहितायाम् | यमा ये दश सम्प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः | लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे | अहिंसा नियमेष्वेको मुख्यो भवति नापरे | चतुरशीतिलक्षेषु त्वासनेषूत्तमं शुऋणु | आदिनाथेन सम्प्रोक्तं पद्मासनमिहोच्यते | उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः | प्. ७८६) ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ | नासाग्रे विन्यसेद्वक्त्रं दन्तमूलञ्च जिह्वया | उत्तोल्य चिवुकं वक्षः संस्थाप्य पवनं शनैः | यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः | यथाशक्त्या समाकृष्य धारयेदुदरं शनैः | यथाशक्त्या ततः पश्चाद्रेचयेदुदरं शनैः | इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् || ग्रहजामले त्रयोदशपटले || ऊर्वोरुपरि मेढ्रान्ते उभे पादतले तथा | पद्मासनं भवेदेतत् सर्वपापप्रणाशनम् | तथा | युवावस्थोऽपि वृद्धोऽपि व्याधितो वा शनैः शनैः | अभ्यासात् सिद्धिमाप्नोति योगे सर्वस्य तन्त्रता | ब्राह्मणः श्रमणो वापि वृद्धो वाप्यहितोऽपि वा | कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः | योगाभ्यासरतो नित्यं सर्वसिद्धिमवाप्नुयात् | क्रियायुक्तः स सिद्धः स्यादक्रियस्य कथं भवेत् | शास्त्रस्य पाठमात्रेण कथं सिद्धिः प्रजायते | मुण्डो वा दण्डधारी वा काषायवसनोऽपि वा | नारायणवदो वापि जटिलो भस्मलेपनः | नमः शिवायवादी वा ब्रह्वर्च्चापूजकोऽपि वा | स्थानद्वादशपूज्यो वा बहुवत्सलभाषितः | क्रियाहीनोऽथवा क्रूरः कथं सिद्धिमवाप्नुयात् | न वेशधारणं सिद्धेः कारणं न च तत्तथा | क्रियैव कारणं सिद्धेः सत्यमेतत्तु साङ्कृते | शिश्नोदरार्थं योगस्य कथं वा वेशधारिणः | अन्नपानविहीनास्तु वञ्चयन्ति जनान् किल | उच्चावचैर्विप्रलम्भैर्यजन्ते कृशमानवाः | योगिनी वयमित्येवं मुखभोगपरायणाः | शनैस्तथाविधानज्ञान् योगाभ्यासविवर्जितान् | कृतार्थान् वचनैरेव वर्जयेद्वेशधारिणः | एते चाविष्टभूताः स्युर्योगाभ्यासस्य सर्वदा | वर्जयेत्तान् प्रयत्नेन न ईदृशी सिद्धिदा क्रिया | प्रथमाभ्यासकालेषु प्रवेशस्य सदा मुने ! | आलस्यं प्रथमो विघ्नो द्वितीयस्तु प्रकथ्यते | पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम् | प्. ७८७) चतुर्थो धातुवादश्च पञ्चमः पापवादकः | एवं बहुविधा विघ्ना मृगतृष्णासमा मुखे | स्थिरा मनसि जायन्ते तास्तु ज्ञात्वा त्यजेत् सुधीः | तथा | सुशोभनं मठं कुर्यात् सूक्ष्मद्वारन्तु निर्व्रणम् | सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः | दिने दिने सुसंमृष्टं सम्मार्जन्याप्यतन्द्रितैः | वासितञ्च सुगन्धेन धूपितं गुग्गुलादिभिः || ग्रहजामले द्वादशपटले || ईश्वर उवाच || हटविद्या परा गोप्या योगिनां सिद्धिमिच्छताम् | देवी वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता | सुवाह्ये धार्मिके देशे सुभिक्षे निरुपद्रवे | एकान्तं मठमध्ये च स्थातव्यं हटयोगिनाम् | स्वल्पद्वारमरन्ध्रगर्त्तपिटकं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेषवाह्योज्झितम् | वाह्ये मण्डपकूपवेदिरचितं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं संसारनिस्तारिणि ! || एवंविधमठे स्थित्वा सर्वचिन्ताविवर्जितः | गुरुपदिष्टमार्गेण हटयोगं समभ्यसेत् || दत्तात्रेयसंहितायाम् || मलमूत्रादिभिर्दोषैरष्टादशभिरेव च | वर्जितो दारसम्बन्धं वस्त्रं वाऽजिनमेव च | नान्यत्रास्तरणासीनः परशङ्काविवर्जितः | तस्मिन् शस्तं समास्तीर्य आसनं विष्टरादिकम् | तत्रोपविश्य भेधावी पद्मासनसमन्वितः | समकायः प्राञ्जलिश्च प्रणम्य चेष्टदेवताम् | ततो दक्षिणहस्तस्याप्यङ्गष्ठेन तु पिङ्गलाम् | निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः | यथाशक्त्या निरोधेन ततः कुर्याच्च कुम्भकम् | ततस्त्यजेत् पिङ्गलया शनैरेव न वेगतः | पुनः पिङ्गलयाकृष्.य पूरयेदुदरं शनैः | धारयित्वा यथाशक्ति रेचयेन्मारुतं शनैः | यया त्यजेत्तयापूर्य धारयेदविरोधतः | एवं प्रातः समासीनः कुर्याद्विंशतिकुम्भकान् | कुम्भकः सहितो नाम सर्वग्रहविवर्जितः | मध्याह्नेऽपि तथा कुर्यात् पुनर्विंशतिकुम्भकान् | एवं सायं प्रकुर्वीत प्. ७८८) पुनविंशतिकुम्भकान् | कुर्वीत रेककुम्भाभ्यां सहितान् प्रतिवासरम् | कुर्यादेवं चतुर्वारमनालस्यो दिने दिने | एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत् || ग्रहजामले त्रयोदशपटले || प्राणायामस्त्रिधा प्रोक्तो रेचकुम्भकपूरकैः | सहितः केवलश्चेति कुम्भको द्विविधो मतः | रेचश्चापूर्य यः कार्यः स वै सहितकुम्भकः | यावत्केवलसिद्धिः स्यात् सहितः तावदभ्यसेत् | रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् | प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः | गुरुपदिष्टमार्गेण प्राणायामं समाचरेत् | यावद्वायुः स्थितो देहे तावज्जीवितमुच्यते | मरणं तस्य निष्क्रान्तिस्ततो वायुं निबन्धयेत् | मलाकुलासुनाडीषु मारुतो नैव मध्यगः | कथं स्यात्तन्मलीभावः कायशुद्धिः कथं भवेत् | शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् | तदैव जायते योगी प्राणसंग्रहणे क्षमः | प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया | तथा सुषुम्नापार्श्वस्था मलाः शोषं प्रयान्ति हि | बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् | धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत् | प्राणं सूर्येण चाकृष्य पूजयेदुदरं शनैः | विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् | येन त्यजेच्च तेनैव पूरयेदनिरोधतः | रेचयेच्च ततोऽन्येन रेचयेच्च न वेगतः | चन्द्रेण वामनासया सूर्येण दक्षिणनासया इत्यर्थः | प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया | सूर्याचन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यामिनो मासत्रयादूर्द्ध्वतः || प्रातर्मध्यन्दिनं सायं मध्यरात्रे च कुम्भकान् | चतुरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् | प्राणायामे महाधर्मो योगिनो मोक्षदायकः | प्राणायामो दिवारात्रौ देवि ! जलं परित्यजेत् | अधमे द्वादशी मात्रा मध्यमे द्विगुणा स्मृता | उत्तमे त्रिगुणा ज्ञेया प्. ७८९) प्राणायामस्य निर्णये | कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे | उत्तिष्ठत्युत्तमे प्राणी बद्धपद्मासनो मुहुः | जलेन श्रमजातेन गात्रमार्जनमाचरेत् | दृढतालयुता दीप्तिस्तेन गात्रस्य जायते | यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि वाह्यतः | जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः | शरीरलघुता दीप्तिर्जठराग्निविवर्द्धनम् | कृशत्वञ्च शरीरस्य तस्य जायेत निश्चितम् | पूर्वोक्तकाले कुर्वन्ति परमाभ्यासमेव च | ततः परं यथेष्टन्तु शक्तिः स्याद्वायुधारणे | यथेष्टधारणाद्वायोः सिद्धिः कुम्भस्य केवला | केवले कुम्भके सिद्धे रेचपूरकवर्जिते | न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु दिद्यते || अथ कुम्भकसिद्धिफलम् || प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् | ततस्तु धारणाद्वायोः क्रमेणैव शनैः शनैः | कम्पो भवति देहस्य आसनस्थस्य योगिनः | ततोऽधिकतराभ्यासाद्दार्दुरी जायते ध्रुवम् | यथैव दर्दुरो गच्छेदुत्पत्योत्प्लुत्य भूतले | पद्मासनस्थितो योगी तथा गच्छति भूतले | ततोऽधिकतराभ्यासाद्भूमित्यागश्च जायते | पद्मासनस्थितो वासौ भूमिमुत्सृज्य वर्त्तते | निराधारो विचित्रं हि तदा सामर्थ्यमुद्वहेत् | अल्पं वा बहु वा भुक्त्वा योगौ न व्यथते क्वचित् | अल्पमूत्रपुरीषे तु अल्पनिद्रा च जायते | क्रिमयो वृश्चिका नानास्वेदो दुर्गन्धता तनोः | एतानि सर्वख्यातस्य न जायते कदाचन | अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् | ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः | यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः | तथैव सेवितो वायुरन्यथा हन्ति साधकम् | प्राणायामेण युक्तेन सर्वरोगक्षयो भवेत् | अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः | हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदना | भवन्ति विविधा दोषाः पवनस्य व्यतिक्रमात् || इति वायुव्यतिक्रमदोषः || दत्तात्रेयसंहितायाम् || तथा वर्ज्यानि वक्ष्यामि योगविघ्नकराणि च | लवणं सर्षपञ्चान्नमुष्णं रूक्षञ्च निन्दकम् | अतीव भोजनं त्याज्यं स्त्रिया सङ्गमनं बहु | अग्निसेवा तु सन्त्याज्या धूर्त्तगोष्ठो विशेषतः || ग्रहजामले | अत्याहारः प्रवासश्च प्रजल्पो नियमग्रहः | जनसङ्गश्च लौल्यञ्च षड्भिर्योगः प्रणश्यति || इति वर्जनीयानि || उत्साहान्निश्चयाद्धैर्यात्तत्त्वज्ञानाच्च साहसात् | जनसङ्गपरित्यागात् षड्भिर्योगो हि सिध्यति | तथा | कट्वम्लतिक्तलवणोष्णहरीतशाकाः सौवीरतैलबहुसर्षपमत्स्यमद्याः | आजादिमांसदधितक्रकुलत्थकोलाः पिन्याकहिङ्गुलसुनादिमपथ्यमस्मिन् || भोजनसहितं विद्यात् पुनरप्युष्णीकृतं भोज्यम् | अतिलवणाशनपललकन्दशाकोत्कटं दुष्टम् || वर्जयेद् दुर्जनप्रीतिं वह्नितापस्य सेवनम् | प्रातः स्नानोपवासादि कायक्लेशविधिं तथा || इत्यपथ्यानि || तथा | गोधूमशालिकलाययवषष्टिकान्नं क्षीराज्यखण्डनवनीतसितामधूनि | शुण्ठीकणाकणफलादिकपञ्चशाकं दुग्धादिदिव्यमुदकञ्च यमीन्द्रपथ्यम् || मिष्टं सुमधुरं स्निग्धं रम्यं धातुप्ररोहणम् | मनोऽभिलषितं भोज्यं योगी भोजनमाचरेत् || इति पथ्यानि || दत्तात्रेयसंहितायाम् || उपायञ्च प्रवक्ष्यामि शीघ्रं योगस्य सिद्धये | क्षीरं घृतञ्च मिष्टान्नं मिताहारश्च शस्यते | षट्कर्मभिर्गतस्थौल्यः कफमेदोमलार्त्तिगः | प्राणायामं ततः कुर्यादनायासेन सिध्यति | प्राणायामैरेव सर्वे विशुष्यन्ति मलाः प्रिये ! | मेदःश्लेष्मादिकं न्यस्य कर्मषट्कं न सम्मतम् | सुमनस्कात्मको भावो यदि वायुं प्. ७९१) समभ्यसेत् | षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः | ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः | अतः सिद्धिं गतास्ते च तस्मात्पवनमभ्यसेत् | यावद्बद्धो मरुद्देहे तावच्चित्तं निराशयम् | त्राटकञ्चेद्भ्रुवोर्मध्ये तावत्कालभयं कुतः | विधिवत् प्राणसंरोधान्नाडीचक्रे विशोषिते | सुषुम्नावदनं भित्त्वा मुखाद्विशति मारुतः | मारुते मध्यसञ्चारे मनःस्थैर्यं प्रजायते | यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी | तत्सिद्धये विशेषज्ञश्चित्रान् कुर्वीत कुम्भकान् | विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् || अथ त्राटकम् || निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं प्रयत्नतः | अश्रुसम्पातपर्यन्तं त्राटकं तन्महेश्वरि ! | यत्नतस्त्राटकं गोप्यं तथा हाटकपेटिका || विचित्रकुम्भकास्तु | सूर्यभेदनमुड्डाख्यं तमा शीत्कारशीतली | भस्त्रिका भ्रामरी मूर्च्छा प्लावनी सप्त कुम्भकाः | आदौ सूर्यभेदनम् || आसने सुखदे योगी बद्ध्वा मुक्तासनं ततः | दक्षनाड्या समाकृष्य वह्निस्थं पवनं शनैः | आकेशाग्रान्नखाग्राद्वा निरोधावधि कुम्भयेत् | ततः शनैः सव्यनाड्या रेचयेत् पवनं सुधीः || अस्य फलम् || कपालशोधनं वातदोषघ्नं कृमिदोषहम् | पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् || १ || अथ उड्डाख्यम् || मुखं संयम्य नासाभ्यां चाकृष्य पवनं शनैः | यथा लगति कण्ठान्ते हृदयावधि सस्वनः | पूर्ववत् कुम्भयेत् प्राणं रेचयेदिडया ततः || फलम् || स्लेष्मरोगहरञ्चैतदनलैर्दीप्तबन्धनम् | नाडीजलोदराधातुगण्डादोषविनाशनम् | गच्छता तिष्ठता कार्यमुड्डाख्यं कुम्भकन्त्विदम् || २ || अथ शीत्कारः || शीत्कारञ्च सदा वक्त्रे घ्राणे चैव विजृम्भकम् | एवमभ्यासयोगेन कामदेवो द्वितीयकः || फलम् || योगिनीचक्रमासाद्य सृष्टिसंहारकारकः | न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते | भवेत् स्वच्छन्ददेहश्च प्. ७९२) सर्वोपद्रववर्जितः | अनेन च विना सत्यं योगीन्द्रो भूमिमण्डले | रसनातालुमूलेन यः प्राणं सततं पिबेत् | यत्नादूर्द्ध्वं भवेत् सिद्धिः सर्वरोगक्षयो भवेत् || ३ || अथ शीतली || जिह्वया वायुमाकृष्.य पूर्ववत् कुम्भकादितः | शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं प्रिये ! || फलम् || गुल्मप्लीहादिकान् दोषान् ज्वरं रेतःक्षयं सुधाम् | तृष्णाञ्च शीतली नाम कुम्भकोऽयं निहन्ति वै || ४ || अथ भस्त्रिका || सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरं प्रिये ! | मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् | तथैव स्वशरीरस्थं पवनं चालयेत् स्फुटम् | तथा लगति हृत्कण्ठकपाले श्वसनस्ततः | वेगेन पूरयेत् किञ्चित् हृत्पद्मावधि मारुतम् | पुनर्विरेचयेत्तद्वत् पूरयेच्च पुनः पुनः | यथैव लौहकारस्य भस्त्रां वेगेन चालयेत् | तथैव स्वशरीरस्थं पवनं चालयेच्छनैः | यदा श्रमो भवेत् पूर्णो बन्धने च तदा लघु | कारयेन्नासिकामध्यं तर्जनीभ्यां विना दृढम् | कुम्भकं पूर्ववत् कृत्वा रेचयेदिडयानिलम् || फलम् || वातपित्तश्लेष्महरं शरीराग्निविवर्द्धनम् | कुण्डलीरोधनञ्चक्रे भारघ्नं शुभदं शुचि | ब्रह्मनाडीमुखे संस्थकफघ्नं मलनाशनम् | सभ्यङ्मात्रं समुद्भूतं ग्रन्थित्रयविभेदनम् | विशेषेणैव कर्त्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || ५ || अथ भ्रामरी || वेदोद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् | योगीन्द्राणामेवमभ्यासयोगाच्चिते जाता काचिदानन्दवल्ली || ६ | अथ मूर्च्छा || पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः | रेचयेन्मूर्च्छनाख्योऽयं मनोमूर्च्छा सुखप्रदा || ७ || अथ प्लावनी || अन्तःप्रवर्त्तिताधारमरुता पूरितोदरम् | साक्षात्पयस्यगाधेऽपि प्लवते पद्मपत्रवत् || ८ || रुद्रजामले उत्तरखण्डे || नेतीयोगविधानानि शृणुष्व प्. ७९३) वीरपूजित! | येन सर्वमस्तकस्थकफानां दाहनं भवेत् | सूक्ष्मसूत्रं दृढतरं प्रदद्यान्नासिकाविले | मुखरन्ध्रे समानीय सन्धायैनं समाश्रयेत् | पुनः पुनः सदा योगी यातायातेन घर्षयेत् | क्रमेण वर्द्धनं कुर्यात् सूत्रस्य परमेश्वर ! | नेतीयोगेन नासाया रन्ध्रं निर्मलकं भवेत् | वायोर्गमनकाले तु महासुखमिति प्रभो ! || १ || दन्तीयोगं ततः पश्चात् कुर्यात् साधकसत्तमः | दन्तधावनकाले तु योगमेतं प्रकाशयेत् | दन्तधावनकाष्ठन्तु सार्द्धहस्तैकसम्भवम् | नातिस्थूलं नातिसूक्ष्मं नवीनं नम्रमुत्तमम् | अपक्वं यत्नतो ग्राह्यं मृणालसदृशं तरुम् | गृहीत्वा दन्तकाष्ठं वत् प्रातःकाले प्रभक्षयेत् | दन्तकाष्ठाग्रभागञ्च कनिष्ठाङ्गुलिपर्व च | एवं दन्तावलीभ्याञ्च चर्वणं सुन्दरञ्चरेत् | तत् प्रक्षाल्य च नीरेण शनैर्निर्गममाचरेत् | शनैः शनैः प्रकर्त्तव्यं कायवाक्चित्तशोधनम् | यावन्न याति काष्ठाग्रं नाभिमूले त्वनाकुलम् | तावत् सूक्ष्मतरं ग्राह्यमवश्यं प्रत्यहञ्चरेत् | हृदये जलचक्रञ्च यावत् खण्डं न जायते | तावत्कालं सर्वदिने प्रभाते रदसाधनम् | हृदये कफभाण्डस्यं खण्डनं जायते ध्रुवम् | पवनागमने सौख्यं प्राप्नोति योगनिर्भरम् | खेचरत्वं लवणजमम्लत्वं कुम्भकोद्भवम् | मिष्टत्वं शाकदध्यन्नं द्विवारं रात्रिभोजनम् | अवश्यं योजयेद् योगी यदि योगमिहेच्छति | एकभागं स्वस्ववीजं द्विभागं तण्डुलं मतम् | उत्तमं पक्वमाहृत्य घृतदुग्धेन भक्षयेत् | अथवा केवलं दुग्धं तर्पणं कारयेद्बुधः | कुण्डलीं कुलरूपाञ्च दुग्धेन परितर्पयेत् | कुण्डलीतर्पणं योगी यदि जानाति शङ्कर ! | अनायासेन योगी स्यात् स ज्ञानीन्द्रो भवेद्ध्रुवम् || सप्तत्रिंशत्पटले || आनन्दभैरव्युवाच धौतीयोगं प्रवख्यामि यत् कृत्वा निर्मलो भवेत् | अत्यन्तगुह्यं योगञ्च समाप्तिकारणं नृणाम् | यदि नो कुरुते योगं तदा मरणमाप्नुयात् | धौतीयोगं विना नाथ ! कः सिध्यति महीतले | सूक्ष्मात् सूक्ष्मतरं वस्त्रं द्वात्रिंशद्धस्तमानतः | एकहस्तक्रमेणैव यः करोति शनैः शनैः | यावद्द्वात्रिंशद्धस्तञ्च तावत्कालं क्रियाञ्चरेत् | एतत्क्रियाप्रयोगेण योगी भवति तत्क्षणात् | क्रमेण मन्त्री सिद्धः स्यात् कालजालं वशं नयेत् | एतन्मध्ये चासनानि शरीरस्थानि चाचरेत् | दृढासने योगसिद्धिरिति तन्त्रार्थनिर्णयः | सिद्धे मनौ परावाप्तिः पञ्चयोगासनेन च | पार्श्वे चाष्टाङ्गुलं वस्त्रं दीर्घं द्वात्रिंशदीश्वर ! | एतत् सूक्ष्मं सुवसनं गृहीत्वा कारयेद् यती | जितेन्द्रियः सदा कुर्यात् ज्ञानध्याननिषेवणम् | अनाचारेण हानिः स्यादिन्द्रियाणां बलेन च | महापातकमुख्यानां सङ्गदोषेण हानयः | सम्भवन्ति महादेव ! तव योग्यं सुकर्म च | वृद्धो वा यौवनस्थो वा बालो वा यत्र तत्र वा एकवर्णाद्दीर्घजीवौ स्यादमरो लोकवल्लभः | मन्त्रसिद्धिरिष्टसिद्धिः स सिद्धीनामधीश्वरः | शनैः शनैः सदा कुर्यात् कालदोषविनाशनम् | हृदयग्रन्थिभेदेन सर्वावयववर्द्धनम् | धौतीयोगोद्भवं कामं महामरणकारणम् | तस्य त्यागं यः करोति सदैव देवविक्रमः | दौतीयोगानन्तरं हि नेडणीकर्म चाचरेत् | नेडणीयोगमात्रेण आसने नेडणोपमः | नेडणीसाधनादेव चिरजीवी निरामयः | तत्कारणं प्रवक्ष्यामि सावधानाऽवधारय | भुक्त्वा मुद्गान्नपक्वञ्च वारैकं प्रतिपालयेत् | प्रतिपालयेत् स्वोदरञ्च कठिनाशाविवर्जितः | पुनः पुनश्चालनञ्च कुर्यात् स्वोदरमध्यकम् | कुलालचक्रवत् कुर्याद् भ्रमणञ्चोदरस्य च | सर्वाङ्गचालनादेव कुण्डलीशक्तिचालनम् | चालनात् कुण्डलीदेव्याश्चेतना सा भवेत् प्रभो ! | एतस्यानन्तरं देव ! प्. ७९५) क्षालनं परिकीर्त्तितम् | नाडीनां क्षालनादेव सर्वविद्यानिधिर्भवेत् | वायुसिद्धिर्भवेत्तस्य पञ्चभूतस्य सिद्धिभाक् | मुण्डासनं हि सर्वत्र सर्वदा कारयेद्बुधः | ऊर्द्ध्वपद्मासनं कृत्वा अधोहस्ते जपं चरेत् | तदा त्रिदिनमाकर्त्तुं समर्थो मुण्डिकासनम् | तदा हि सर्वनाड्यश्च वशीभूता न संशयः | नाडीक्षालनयोगेन सिद्धिमाप्नोति साधकः नेडणीं यो न जानाति स कथं कर्त्तुमुद्यतः | स धीरो मानसचरो मतिमान् स जितेन्द्रियः | यो नेडणीयोगसारं कर्त्तुमुद्यमपारगः | स चावश्यं क्षालनञ्च कुर्यान्नाड्यादिसाधनम् | नेडणीयोगमार्गेण नाडीक्षालनतत्परः | भवत्येव महाकाल ! राजराजेश्वरो यथा | केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् | विना क्षालनयोगेन देहशुद्धिर्न जायते | क्षालनं नाडिकादीनां कफपित्तादिनाशनम् | करोति यत्नतो योगी मुण्डासनानिलाशनात् | वायुग्रहणमेवं हि नेडणीवशकालके | न कुर्यात् केवलं नाथ ! अन्यकाले सदाचरेत् | यावन्नेडणीं न जानाति तवद्वायुं न सम्पिबेत् | बहुतरं न संग्राह्यं वायोरोगमलादिकृत् | केवलं श्वासगणनं यावन्नेडणी न सिद्ध्यति | पञ्चामरासाधनाच्च पञ्चवायुवशो भवेत् || ग्रहजामले || मेदःश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् | अन्यथा नाचरेत्तानि दोषाणामप्यभावतः | धौती च गजकरिणी वस्ती लौली नती तहा | कपालभाती चैतानि षट् कर्माणि महेश्वरि! | कर्मषट्कमिदं गोप्यं घटशोधनकारणम् | विचित्रगुणमाधाय पूज्यते योगिपुङ्गवः || तत्र धौती || चतुरङ्गुलविस्तारं हस्तपञ्चदशेन तु | गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् | ततः प्रत्याहरेच्चैतत् क्षालनं धौतकर्म तत् | कासः श्वासः प्लीहा कुष्ठं कफरोगाश्च विंशतिः | धौतीकर्मप्रसादेन शुध्यन्ते च न संशयः || १ || प्. ७९६) अथ गजकरिणी || उदरगतपदार्थमुद्वमन्ती पवनमपानमुदीर्य कण्ठकाले | क्रमपरिचयस्य पायुमार्गाद्गजकरिणीति निगद्यते सा || २ || अथ वस्ती || नाभिनिम्नजले पायुं न्यस्य चलोत्कटासनम् | आधारानञ्जनं कुर्यात् क्षालनं वस्तिकर्म तत् | गुल्मप्लीहोदरा रोगा वातपित्तकफोद्भवाः | वस्तिकर्मप्रभावेण सर्वरोगक्षयो भवेत् | धात्विन्द्रियान्तःकरणप्रसादं दद्याच्च कान्तिं दहनप्रदीप्तिम् | अशेषदोषोपचयं निहन्यादभ्यस्यमानं जनवस्तिकर्म || ३ || अथ लौली || भूम्यादावतिवेगेन तुन्दं सव्यापसव्यतः | नतांसो भ्रामयेदेषा लौली स्यात् परमेश्वरि ! || फलम् || मन्दाग्निसन्दीपनपाचकादिसन्दीपकानन्दकरी सदैव | अशेषदोषामयशोषणी च हठक्रिया मौलिरियञ्च लौली || ४ || अथ नती || सूत्रं वितस्तिमात्रन्तु नासानाले प्रवेशयेत् | मुखेन गणयेच्चैषा नती स्यात् परमेश्वरि ! || फलम् || कपालशोधनी कण्ठ्या दिव्यदृष्टिप्रदायिनी | य ऊर्द्ध्वं जायते रोगो नमयत्याशु तं नती || एवञ्च नेती नतीति नाममात्रभेदः | नेती तु पूर्वमुक्ता || ५ || अथ कपालभाती || भस्त्रेव लौहकारे च कर्णपूरौ ससम्भ्रमौ | कपालभाती विख्याता कफदोषव्निनाशिनी | इति कपालभाती || ६ || दत्तात्रेयसंहितायाम् || ततोऽधिकतराभ्यासाद्बलमुत्पद्यते भृशम् | येन भूचरसिद्धिः स्याद् भूचराणां जये क्षमः | व्याघ्रो लुलापो वन्यो वा ऋक्षो वा गज एव वा | सिंहो वा म्रियते तेन योगिनो हस्तताडनात् | कन्दर्पस्य यथा रूपं तथा तस्यापि योगिनः | तस्मिन् काले महाविघो योगिनः स्यात् प्रमादतः | तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् | यदि सङ्गं करोत्येव विन्दुस्तस्य विनश्यति | आत्मक्षयो विन्दुहीनादसामर्थ्यञ्च जायते | प्. ७९७) तस्मात् स्त्रीणां सङ्गवर्जं कुर्यादत्यन्तमादरात् | योगिनस्तस्य सिद्धिः स्यात् सततं विन्दुधारणात् | तस्मात् सर्वप्रयत्नेन रक्ष्यो विन्दुर्हियोगिना | ततो रहस्यमाविष्टः प्रणवं प्लुतमात्रया | जपेत् पूर्वार्जितानां हि पापानां नाशहेतवे | सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा | एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा | ततो भवेद् घटावस्था पवनाभ्यासिनः सदा | प्राणापानौ मनो वायु र्जीवात्मपरमात्मकौ | अन्योन्यस्याविरोधेन एवं सङ्घटते यथा | तद्वद् घटद्वयावस्था प्रसिद्धा योगिनां स्मृता | तत्र चिह्नानि यानि स्युस्तानि वक्ष्यामि कानिचित् | पूर्वं यः कथितोऽभ्यासश्चतुर्द्धा तं परित्यजेत् | दिवा वा यदि वा रात्रौ मासमात्रं समभ्यसेत् | एकवारं प्रतिदिनं कुर्यात् केवलकुम्भकम् | प्रत्याहारो हि एवं स्यादेवं कुर्युर्हि योगिनः | इन्द्रियाणीन्द्रियार्थेभ्यो यत् प्रत्याहरते स्फुटम् | योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते | यद्यत् पश्यति चक्षुर्भ्यां तत्तदात्मनि भावयेत् | यद्यत् शृणोति कर्णाभ्यां तत्तदात्मनि भावयेत् | जिह्वया यद्रसयति तत्तदात्मनि भावयेत् | त्वचा यदङ्गं स्पृशति तत्तदात्मनि भावयेत् | एवं ज्ञानेन्द्रियाणां हि तत्संख्याभिस्तु सङ्क्षयेत् | यामं यामं प्रतिदिनं योगी यत्नादतन्द्रितः | तदा विचित्रसामर्थ्यं जायते योगिनो ध्रुवम् | दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगतिस्तथा | वाक्सिद्धिः कामचारत्वं तथाऽदृश्यपदं भवेत् | मलमूत्रोपलेपेन लौहानां स्वर्णता तथा | खेचरत्वं तथा स्याच्च सतताभ्यासयोगतः | तदा बुद्धिमता भाव्यं योगिना योगसिद्धये | एते विघ्ना महासिद्ध्यै न रमेत्तेषु बुद्धिमान् | न शीलयेत्तु कस्मैचित् स्वसामर्थ्यं हि सर्वदा | कदाचिद्दर्शयेन्मर्त्त्यो भक्तियुक्ताय वा पुनः | यथा मूर्खो यथा मूढो यथा वधिर एव वा | तथा वर्त्तेत लोकेषु प्. ७९८) स्वसामर्थस्य गुप्तये | नोचेत् शिष्या हि बहवो भवन्त्येव न संशयः | स्वस्वकार्येषु योगीन्द्रं प्रार्थयन्ते जनाः सदा | तत्कर्मकरणव्यग्रः स्वाभ्यासे शिथिलो भवेत् | अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत् | अविस्मृत्य गुरोर्वाक्यमभ्यासात्तदहर्निशम् | एवं भवेद्घटावस्था सहजाभ्यासयोगतः | अनभ्यासेन योगोऽयं वृथा गोष्ठ्या न सिध्यति | तस्मात् सर्वप्रयत्नेन योगमेतं समभ्यसेत् | ततः परिचयावस्था जायतेऽभ्यासयोगतः | वायुः परिचितो यत्नादात्मना सह कुण्डलीन् | बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः | वायुना सह चित्तन्तु प्रविशेत्तु महापथम् | महापथं श्मशानञ्च सुषुम्नाप्येकमेव हि | नाना मतान्तरे भेदाः फलभेदो न विद्यते | वर्त्तमानं भविष्यञ्च भूतार्थञ्चापि वेत्यसौ | यस्य चित्तं सपवनं सुषुम्नां प्रविशेद्दिवा | भव्याभव्ये च विज्ञाय योगी रहसि यत्नतः | पञ्चधा धारणं कुर्यात् तत्तद्भूतभयापहम् || ग्रहजामले चतुर्दशपटले || सशैलवनधात्रीणां यथाधारोऽहिनायकः | सर्वेषां हठतन्त्राणां तथाधारा हि कुण्डली || अहिनायकोऽनन्तः || सुप्ता गुरुप्रसादेन यदा जागर्त्ति कुण्डली | तदा पद्मानि सर्वाणि भिद्यन्ते ग्रन्थयोऽपि च | प्राणस्य शून्यपदवी तदा राजपथायते | तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् || शून्यपदवी सुषुम्ना तत्रैवोक्ता यथा || सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः | श्मशानं शङ्खिनी मध्यमार्गश्चेत्येकवाचकम् || राजपथायत इत्यनेन सुखगमनं व्यज्यते || तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् | ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् | महामुद्रा महाबन्धो महावेदश्च खेचरी | उड्डीयानं मूलबन्धो बन्धो जालन्धराभिधः | करणं विपरीताख्यं प्. ७९९) विज्रिनीशक्तिचालनम् | इदन्तु मुद्रादशकं जरामरणनाशनम् | देवेशि ! कथितं दिव्यमष्टैश्वर्यप्रदायकम् | वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि | गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् | कस्य चिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा || अथ महामुद्रा || दत्तात्रेयसंहितायाम् || महामुद्रां प्रवक्ष्यामि भैरवोक्तां समादरात् | पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् | प्रसाद्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढं | चिवुकं हृदये न्यस्य पूरयेद्वायुना पुनः | कुम्भकेन यथाशक्ति धारयित्वा च रेचयेत् | वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् | प्रसारितस्तु यः पादस्तमूरूपरि विन्यसेत् || ग्रहजामले || पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् | पादं प्रसारितं कृत्वा कराभ्यां धारयेद् दृढम् | कण्ठे वक्त्रं समारोप्य धारयेद्वायुमूर्द्धतः | यथा दण्डाहतः सर्पो दण्डाकारः प्रजायते | ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् | तदासौ मरणावस्था जायते द्विपुटीश्रिता | अतः शनैः शनैरेव रेचयेत्तं न वेगतः | इयं खलु महामुद्रा तव स्नेहात् प्रकाश्यते || फलम् || महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः | महामुद्रा तु तेनैव समाख्याता महेश्वरि ! | चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेन समभ्यसेत् | यावत्संख्या भवेत्तुल्या ततो मुद्रां विसर्जयेत् | न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः | अपि भुक्तं विषं घोरं पीयूषमिव जीर्यति | क्षयकुष्ठगुदावर्त्ता गुदप्लीहपुरोगमाः | तस्य दोषाः क्षयं यान्ति महामुद्राञ्च योऽभ्यसेत् | कथितेयं महामुद्रा जरामरणनाशिनी | गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || अथ महाबन्धः || अयमेव महाबन्धो मुद्रां बद्ध्वा यमभ्यसेत् | महाबन्धस्थितो भूमौ स्फिचौ सन्ताडयेच्छनैः | प्. ८००) अयमेव महाबन्धः सिद्धैरभ्यस्यते नरैः | पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् | वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा | पूरयित्वा मुखे पाप हृदये चिबुकं दृढम् | निष्पीड्य योनिमाकुञ्च्य मनोमध्ये नियोजयेत् | रेचयेच्च शनैरेवं महाबन्धोऽयमुच्यते | अमुं योगी महाबन्धं महासिद्धिप्रदायकम् | वामाङ्गञ्च समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् | अयञ्च सर्वनाडीनामूर्द्धं गतिनिरोधकः | त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः | रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना | महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ || २ || अथ महावेधः || महाबन्धस्थितो योगी कृत्वा प्रकरमेकधा | वायुना गतिमावृत्य विधृतं कण्ठमुद्रया | समस्तयुक्तो यो भूमौ स्फिचौ सन्ताडयेच्छनैः | पुटद्वयं समाकृष्य वायुश्चरति सत्वरः | सोमसूर्याग्निसन्दग्धो जायते चामृताय वै | मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः | राजदण्डश्च जिह्वायां बन्धः शस्तो भवेद्धितः | महावेधसमाभ्यासो महासिद्धिप्रदायकः | बन्धत्रयं महागुह्यं जरामरणनाशनम् | वह्निवृद्धिकरं चैवाणिमाद्यष्टगुणप्रदम् | अबाधं हरते पापं यामं यामं दिने दिने | पुण्यसद्भारसभावं पापौघातिहरं सदा | सम्यक् शिक्षावतामेव स्वप्नं प्रथमसाधने | वह्निं स्त्रीपथसेवनमादौ मज्जनमाचरेत् || ३ || अथ खेचरी || नाऽशनं सिद्धसदृशं न कुम्भः केवलोपमः | न खेचरीसमा मुद्रा न नादसदृशो लयः | छेदनं चालनं देहे कलाक्रमेण बर्द्धयेत्तावत् | सा यावद् भ्रूमध्यं स्पृशति साक्षात् खेचरीसिद्धिः || दत्तात्रेयसंहितायाम् || अन्तः कपालविवरे जिह्वां व्यावृत्य बन्धयेत् | भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी || ग्रहजामले || स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं सिग्धनिर्मलम् | मर्यादायै ततस्तेन रोममात्रं समुच्छिनेत् | कृत्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रवर्त्तते || पथ्या हरीतकी || पुनः सप्तदिने पराप्ते रोममात्रं समुच्छिनेत् | एवं क्रमेण षण्मासं नित्ययुक्तः समाचरेत् | षण्मासाद्रसनामूलशिराबन्धो विनश्यति || योगिनी वेणुवल्कलधारेणेदानीं रसनामूलमेवं क्रमेण छिन्दन्ति || अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् | शनैरुत्कर्षयेद् योगी कालवेलाविधानवित् | वागीश्वरीधाम जिह्वा तस्याः शिरोऽग्रभागः | वस्त्रप्रमाणमपि तत्रैव || वितस्तिप्रमितं दैर्घ्यं विस्तारं चतुरङ्गुलम् | मृदुलं धवलं प्रोक्तं वेष्टनालम्बनक्षणम् पुनः षण्मासमात्रेण पुनः सङ्कर्षणात् प्रिये ! | भ्रूमध्यावधि वर्द्धेत तिर्यक्कर्णविलावधि | अधस्तच्चिवुकं मूलं प्रयाति क्रमकारिता | क्रोशादूर्द्धं चङ्क्रमति तिर्यक् सङ्ख्यावधि प्रिये ! | पुनः संवत्सरे देवि ! द्वितीये चैव लीलया | ब्रह्मरन्ध्रत आवृत्य तिष्ठेत् पवनवन्दिते | सतालुमूलं सङ्घृष्य सप्तवासरमात्मनि | पूर्वोक्तेन प्रकारेण मलं सर्वं विशोधयेत् | अङ्गुल्यग्रेण सङ्घृष्य जिह्वां तत्र निवेशयेत् | शनैः शनैर्मस्तकान्तं महावज्रकवाटभित् | पूर्वं विजयतां विद्या विख्याता भुवनत्रये | अस्यां षडङ्गं कुर्वीत तथा षट्चक्रभिन्नया | खे निरस्तसकलक्रियाक्रमयाचिता चरति | शाश्वतोदये सशिरोभूसमवायकारिणी || क्रमेणैव प्रकर्त्तव्याभ्यासेन वरवर्णिनि ! | युगपद्विलये तस्य शरीरं विलयं व्रजेत् | तस्माच्छनैः शनैः कार्योऽभ्यासिना योगकः प्रिये ! | एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं विशेद्ध्रुवम् | षट्चक्राणि विभेद्य शक्तिभुजगीं प्रोत्थाप्य मूलस्थितां भित्त्वा ग्रन्थितमञ्च पश्चिमशिराः प्राकाररूपं महत् | नीत्वा प्राणमहः शिरोऽपि विमलं निर्मथ्य चित्तेन तत् तल्लिङ्गं प्. ८०२) पिबतेन्दुमण्डलगलन्मुक्तः स साक्षाच्छिवः || नित्यं यस्तूर्द्धजिह्वो यदि पिबति पुमान् सप्तधारामृतौघं सुस्वादं शीतलाङ्गं दुरितभयहरं क्षुत्पिपाशानिवारम् | पिण्डस्थैर्यं हि तस्मान्मृड इव निवसन्मृत्युरोगात्तरेत्तु दौर्भाग्यं याति नाशं प्रसरति सकलं त्रित्रिकालो भ्रमित्वा || कपालकुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी | कलां पराङ्मुखीं कृत्वा त्रिपथे परिवर्त्तयेत् | सा भवेत् खेचरीमुद्रा व्योमचक्रं तदुच्यते | रसनामूर्द्धगां कृत्वा क्षणार्द्धं यस्तु तिष्ठति | विषयान्मुच्यते योगी व्याधिमृत्युजरादिभिः | न रोगमरणं तस्य, न निद्रा न क्षुधा तृषा | न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् | पिड्यते न स रोगेण लिप्यते न स कर्मणा | बाध्यते न स कालेन यस्य मुद्रास्ति खेचरी | चित्तं चरति खे यस्मात् जिह्वा चरति खे गता | तेनैषा खेचरी नाम मुद्रासननमस्कृता | खेचर्यामुदितं येन विवरं लम्बिकोर्द्धकम् | तस्य न क्षरते विन्दुः कामिन्याश्लेषितस्य च | चलितोऽपि यदा विन्दुः सम्प्राप्तो योनिमण्डले | व्रजेत्तूर्द्धं हठाच्छक्त्या निबद्धो योनिमुद्रया | ऊर्द्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः | मासार्द्धेन न सन्देहो मृत्युं जयति योगवान् | इन्धनानि यथा वह्निस्तेन वर्त्तिञ्च दीपकः | तथा सोमलतापूर्णं देहं देही न मुञ्चति | नित्यं सोमकलापूर्णं देहं देही न मुञ्चति | नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः | तक्षकेणापि दष्टस्य विषं तस्य न सर्पति | तस्मादिदं प्रकुर्वीत नित्ययुक्तः समाहितः | रसनां शेषयेदूर्द्ध्वं पिबेदमरवारुणीम् | कुलीनं तमहं वन्दे इतरे कुलघातकाः | गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि | गोमांसभक्षणं तत्तु महापातकनाशनम् | जिह्वाप्रवेशदं भूतवायुना स्थापितं खलु | चन्द्राद् गलति संसारं प्. ८०३) तत्स्यादमरवारुणी | मूर्द्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठादूर्द्ध्वास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयेत् | तत्कल्लोलकलाजलञ्च विमलं धारामृतं यः पिबेत् निर्दोषः स मृणालकोमलवपुर्योगी चिरं जीवति || चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी सक्षारा कटुकाथ दुग्धसदृशी क्षीराज्यतुल्याथवा | व्याधीनां हरणं जरान्तकरणं शास्त्राङ्गमोद्गीरणं तस्य स्यादमरत्वमष्टगुणवत् सिद्धाङ्गनाकर्षणम् || एकं सृष्टिमयं वीजं एका मुद्रा च खेचरी | एको देवो निरालम्बो ह्येकावस्था मनोन्मनी | सुचिरं ज्ञानजनकं पञ्चतत्त्वसमन्वितम् | तिष्ठन्ती खेचरीमुद्रा तस्मिन् शून्ये निरञ्जने || ४ || अथ मूलबन्धः || पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् | अपानमूर्द्ध्वमुत्थाप्य मूलबन्धोऽयमुच्यते | अधोगतमपानञ्च ऊर्द्धङ्गे कुरुते हठात् | आकुञ्चनेन तं वच्मि मूलबन्धं महेश्वरि ! | योनिपार्ष्णी तु सम्पीड्य वायुमाकुञ्चयेद्बलात् | वारं वारं तथा चोर्द्धं समायाति समीरणः | प्राणादिनोदितो विन्दुर्मूलंबन्धेन चैकतः | ततो योगस्य संसिद्धिः प्रमा तत्र न संशयः | प्राणापानौ च पवनौ मूलबन्धेन चैकताम् | गत्वा योगस्य संसिद्धिं गच्छतो नात्र संशयः | अपानप्राणयोरैक्यात् क्षयान्मूत्रपुरीषयोः | युवा भवति वृद्धोऽपि सततं मूलबन्धनात् | अपाने चोर्द्ध्वगे याते सम्प्राप्ते योनिमण्डले | तदानना शिखा दीर्घा वर्द्धते वायुना हता | ततो यातं बद्धयोनौ प्राणेषु च स्वरूपकम् | तैलाभ्यक्तं प्रदीपन्तु ज्वलनो देहगस्तथा | तेन कुण्डलिनी सुप्ता सन्तप्ता संविवर्द्धते | दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् | विलं प्रविष्टैव ततो ब्रह्मनाड्यन्तरं व्रजेत् | तस्मान्नित्यम् मूलबन्धः कर्त्तव्यः परमेश्वरि ! || ५ || प्. ८०४) अथ उड्डीयानम् || बद्धो येन सुषुम्नायां प्राण उड्डीयते ततः | तस्मादुड्डीयनाख्योऽयं ज्ञातव्यः परमेश्वरि ! | उड्डीनं कुरुते यस्मादधिश्रान्तो महाखगः | उड्डीयानं तदेव स्यात् तत्र बन्धो निगद्यते | उदरे पश्चिमे भालं नाभेरूर्द्ध्वञ्च कारयेत् | उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेशरी | उड्डीयानन्तु सहजं कथ्यते परमेश्वरि ! | अभ्यासेन वितन्द्रस्तु वृद्धोऽपि तरुणो भवेत् | नाभेरूर्द्ध्वमधश्चापि तालुं कुर्यात् प्रयत्नतः | षण्मासाभ्यासतो मृत्युं जयत्येव न संशयः | सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् | फल्गुदेशसमीपे च बन्धं तत्र प्रपीडयेत् | पश्चिमे तालुमुदरे कारयेद्धृददये गले | शनैः शनैर्यथा प्राणस्तुन्दसिद्धिं स गच्छति | सर्वेषामेव बन्धानामुत्तमोऽप्युड्डियानकः | उद्डीयाने महेशानि ! मुक्तिः स्वाभाविकी भवेत् || दत्तात्रेयसंहितायाञ्च || उड्डीयानञ्च सहजं मुनिभिः कथितं सदा | अभ्यसेद् यस्तु सत्त्वस्थो वृद्धोऽपि तरुणायते | नाभेरूर्द्ध्वमधश्चापि प्राणं कुर्यात् प्रयत्नतः | षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः | मूलबन्धस्तु यो नित्यमभ्यसेत् स तु योगवित् || ६ || अथ जालन्धरबन्धः || ग्रहजामले || कण्ठमाकुञ्च्य हृदये स्थापयेच्चिवुकं दृढम् | बन्धो जालन्धराख्योऽयममृताव्ययकारकः || दत्तात्रेयसंहितायाञ्च | कण्ठमाकुञ्च्य हृदये मारुतं धारयेद् दृढम् | जालन्धरे बन्ध एष ह्यमृतद्वयपारगः | नाभिस्थाग्निकपालस्थं सहस्रकमलच्युतम् | अमृतं सर्वदास्रावं विन्दुत्वं याति देहिनाम् | यथाग्निश्च तदमृतं न पिबेच्च पिबेत् स्वयम् | याति पश्चिममार्गेण एवमभ्यासतः सदा | अमृतं कुरुते देहं जालन्धरमतोऽभ्यसेत् || ग्रहजामले || बध्नाति हि शिराजालमध्ये गामि न भोजनम् | अतो जालन्धरो बन्धः कण्ठे दुःखौघनाशनः | जालन्धरे कृते बन्धे कण्ठे सङ्कोचने कृते | प्. ८०५) न पीयूषं पचत्यग्नौ न च वायुः प्रधावति | कण्ठसङ्कोचनेनैव द्वे नाड्यौ कुम्भयेद् दृढम् | मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम् | बन्धत्रयमिदं श्रेष्ठं महासिद्धनिषेवितम् | सर्वेषां हठतन्त्राणां कुर्यात् साधनमीश्वरि ! | अथ आकुञ्चनेनाशु कण्ठसङ्कोचने कृते | मध्ये पश्चिमतालुः स्यात् प्राणस्तु मध्यनाडिगः | ब्रह्मस्थानस्थितो बोधः प्रयाति पवनालयम् | ततो न जायते मृत्युर्नास्य जरादिकं तथा | मूलस्थानं समाकुञ्च्य उड्डानाख्यन्तु कारयेत् | इडाञ्च पिङ्गलां बद्ध्वा वाहयेत् पश्चिमां दिशम् | अनेनैव विधानेन प्राप्नोति पवनो लयम् | ततो न जायते मृत्युर्जरारोगादिकं तथा || अथ विपरीतकरणम् | यत्किञ्चित् स्रवते चन्द्रादमृतं दिव्यरूपिणम् | तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः | तत्रास्ति करणं दिव्यं सूर्यस्य मुखबन्धनम् | गुरुपदेशतो ज्ञेयं न च शास्त्रार्थकोटिभिः | ऊर्द्ध्वं नाभिरधस्तालुरूर्द्ध्वं भानुरधः शशी | करणं विपरीताख्यं सर्वव्याधिविनाशनम् | नित्यमभ्याससंयुक्तं जठराग्निविवर्द्धनम् | स्वल्पाहारो निराहारः क्षुधार्त्तो बलहा भवेत् | आहारं बहुलं तस्य सम्पाद्य साधकस्य तु | अप्लाहारो यदि भवेदग्निर्देहं दहेत् क्षणात् | अधः शिराश्चोर्द्धपादः क्षणं स्यात् प्रथमे दिने | क्षणाच्च किञ्चिदधिकमभ्यसेद्धि दिने दिने | बलितं पलितञ्चैव षण्मासाद्धि विनाशयेत् | मासमात्रन्तु यो नित्यमभ्यसेत् स तु कर्णजित् || दत्तात्रेयसंहितायामपि || पक्षिणा गुदमायुज्य वाममार्गं चरेद्बलात् | वारं वारं यथा चोर्द्ध्वं समायाति समीरणः | प्राणापानौ नादविन्दू मूलबन्धेन चैकताम् | महायोगस्य संसिद्धिं याति नास्त्यत्र संशयः | करणं विपरीताख्यं सर्वव्याधिविनाशनम् | नित्यमभ्यासयुक्तस्य जठराग्निविवर्द्धनम् | आहारा बहवस्तस्य स्वल्पाद्याः साअङ्कृते ! ध्रुवम् | अल्पाहारो यदि भवेदग्निर्दाहं प्. ८०६) करोति वै | ऊर्द्ध्वं राहुरधश्चन्द्रस्तथा दृष्टिश्च साङ्कृते ! | अधःशिराश्चोर्द्ध्वपादः क्षणं स्यात् प्रथमे दिने | क्षणात्तु किञ्चिदधिकमभ्यसेत्तु दिने दिने | बलिश्च पलितञ्चैव षण्मासोर्द्ध्वं न दृश्यते | याममात्रन्तु यो नित्यमभ्यसेत् स तु योगवित् || अथ वज्रोणी || वज्रोणी चामरोणी च सयोनी च त्रिधा मतः | तत्तासां लक्षणं वक्ष्ये कर्त्तव्यञ्च विशेषतः | स्वेच्छया वर्त्तमानोऽपि योगोक्तनियमं विना | वज्रोणीं यो विजानाति स योगी सिद्धिभाजनः | अधोभागे गतं विन्दुमभ्यासेनोर्द्ध्वमाहरेत् | चलितस्तु स्वकं विन्दुमूर्द्ध्वमाकृष्य रक्षयेत् | तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् | क्षीरञ्चैव द्वितीयञ्च नारी च वशवर्त्तिनी | मेढ्रेण च शनैः सम्यक् कृत्वाकुञ्चनमभ्यसेत् | पुरुषो वापि नारी वा वज्रोणी सिद्धिमाप्नुयात् | प्रयत्नतः शराजालं फुत्कारैः कम्बु वर्द्धयेत् | शनैः शनैः प्रकुर्याच्च वायुसञ्चारकारणात् | भार्याभगगतं विन्दुमभ्यासेनोर्द्ध्वमाहरेत् | बलितं पलितं विन्दुं विन्दुमाकृष्य रक्षयेत् | एवनतु रक्षयन् विन्दुं मृत्यु जयति योगवान् | मरणं विन्दुपातेन जीवितं विन्दुधारणात् | सुगन्धिर्योगिनो देहो जायते विन्दुधारणात् | यावद्विन्दुः स्थितो देहे तावन्मृत्युभयं कुतः | मलायत्तं बलं पुंसां शुक्रायत्तञ्च जीवितम् | तस्माच्छुक्रं मलञ्चैव रक्षणीयं प्रयत्नतः | ऋतुमत्या रजोऽप्येवं स्वयं विन्दुञ्च रक्षयेत् | मेढ्रादाकर्षयेदूर्द्ध्वं सम्यगभ्यासयोगतः सहयोन्यमरोणी च वज्रोण्या एव भेदतः | वज्रोणी मैथुनादूर्द्ध्वं स्त्रीपुंसोः साङ्गलेपनम् | आसीनयोः सुखेनैव सूक्ष्मव्यापारयोः क्षणात् | सहयोनिरियं प्रोक्ता श्रद्धया परमेश्वरि ! | पित्तोल्वणत्वात् प्रथमाञ्च धारां विहाय निःसारतयान्त्यधाराम् | निषेवते शितलमध्यधारां प्. ८०७) कफोणिकैः खण्डमतेरमर्यः | अमरीं यः पिबेन्नित्यं न्यासं कुर्वन् दिने दिने | वज्रोणीमभ्यसेदेवममरोणीति कथ्यते | यक्षणाकुञ्चनेनोर्द्ध्वं या रजः सा हि योगिनी | अतीतानागतं ज्ञातं खेचरी च प्रजायते | देहसिद्धिञ्च लभते वज्रोण्यभ्यासयोगतः | अयं शुभकरो योगो भोगान् भुङ्क्ते विमुक्तिदः || ९ || अथ शक्तिचालनम् || कुण्डलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी | कुण्डल्यरुन्धती देवी शब्दाः पर्यायवाचकाः | गङ्गायमुनयोर्मध्ये बाला रण्डा तपस्विनी | बलादाकृष्य गृह्नीयात्तद्विष्णोः परमं पदम् | पुच्छं प्रगृह्य भुजगीं सुप्तामुद्बोधयेदपि | निद्रां विहाय सा ऋज्वी ऊर्द्ध्वमुत्तिष्ठते हठात् | वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् | कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् | मृत्युवज्रगतस्यापि ततो मृत्युभयं कुतः | मुहूर्त्तद्वयपर्यन्तं निर्भयं चालनादसौ | ऊर्द्ध्वमाकर्षते किञ्चित् सुषुम्नां कुण्डलीगताम् | तेन कुण्डलिनी तस्याः सुषुम्नायाः समुद्गताः | जहाति नित्यं प्राणोऽयं सुषुम्नां ब्रजति स्वनः | तस्मात् सञ्चालयेन्नित्यं शब्दगर्भामरुन्धतीम् | यस्याः सञ्चालनेनैव रोगी रोगैर्विमुच्यते | येन सञ्चालिता शक्तिः स योगी सिद्धिभाजनः | किमत्र बहुनोक्तेन कालं जयति लीलया | अभ्यासान्निःसृतां चैन्द्रीं सह नित्यं समाश्रयेत् | धारयेत्तूत्तमाङ्गे च दिव्यदृष्टिप्रदायिकाम् | इति मुद्रा दश प्रोक्तास्तव स्नेहान्महेश्वरि ! | एकैका चाशु यमिनां महासिद्धिप्रदायिनी | राजयोगं विना पृथ्वी राजयोगं विना शिला | राजयोगं विना निद्रा विचित्रापि न राजते | मारुतस्य विधिं सर्वं मनोयुक्तं मनीषिणाम् | शिवापि मध्यमा नाडी दृढाभ्यासे च योगिनाम् | आसने प्राणसंयोगे मुद्राभिः सकला भवेत् | प्. ८०८) उपसन्नेऽपि मुद्राणां राजयोगः समुद्रवत् | रुद्राणाञ्चापरा मुद्रा तदा सिद्धिं प्रयच्छति || इति प्राणतोषिण्यां षष्ठे ज्ञानकाण्डे पञ्चामरादिमुद्रादशकरूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः || दत्तात्रेयसंहितायाम् || पञ्चधारणानन्तरम् || पृथिवीधारं वक्ष्ये पार्थिवेभ्यो भयावहम् | नाभेरधो गुदस्योर्द्धं घटिकाः पञ्च धारयेत् | वायुं ततो भवेत् पृथ्वीधारणं तद्भयापहम् | पृथिवीसम्भवात्तस्य न मृत्युर्योगिनो भवेत् | नाभिस्थाने ततो वायुं धारयेत् पञ्च नाडिकाः | ततो जलभयं नास्ति जलमृत्युर्न योगिनः | नाभ्यूर्द्धमण्डले वायुं धारयेत् पञ्च नाडिकाः | आग्नेयी धारणा सेयं न मृत्युस्तस्य वह्निना | न दह्यते शरीरं हि प्रक्षिप्ते वह्निकुण्डके | नाभिभ्रुवोर्हि मध्ये तु प्रादेशद्वयसम्मिते | धारयेत् पञ्च घटिका वायुं सैव हि वायववी | धारणात्तस्य वायोस्तु योगिनो न भयं भवेत् | भ्रूमभ्यादुपरिष्टात्तु धारयेत् पञ्च नाडिकाः | वायुं योगी प्रयत्नेन सेयमाकाशधारणा | आकाशधारणं कुर्वन्मृत्युं जयति तत्त्वतः | यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते | एवञ्च धारणाः पञ्च कुर्याद्योगी विधानतः | ततो दृढशरीरस्य मृत्युरस्य न विद्यते | इत्येवं पञ्चभूतानां धारणं यः समभ्यसेत् | ब्रह्मणः प्रलये वापि तस्य मृत्युर्न विद्यते | समभ्यसेत्तदा ध्यानं घटिकाः षष्टिमेव च | वायुं निरुध्य तां ध्यायेद्देवतामिष्टसाधिनीम् | सगुणध्यानमेतत् स्यादणिमादिसुखप्रदम् | निर्गुणं खमिव ध्यायेन्मोक्षमार्गः प्रवर्त्तते | निर्गुणध्यानसम्पन्नः समाधिञ्च समभ्यसेत् | दिनद्वादशकेनैव समाधिं समवाप्नुयात् | वायुं निरुध्य मेधावी जीवन्मुक्तो भवेद्ध्रुवम् | समाधिः समतावस्था प्. ८०९) जीवात्मपरमात्मनोः | यदि स्याद्देहमुत्स्रष्टुमिच्छा चेदुत्सृजेत् स्वयम् | परं ब्रह्मणि लीयेत त्यक्त्वा कर्म शुभाशुभम् | अथ नोचेत् समुत्सृष्टं स्वशरीरं यदि प्रियम् | सर्वलोकेषु विचरेदणिमादिगुणान्वितः | कदाचित् स्वेच्छया देवो भूत्वा स्वर्गेऽपि सञ्चरेत् | मनुष्यो वापि यक्षो वा स्वेच्छयापि क्षणाद्भवेत् | सिंहो व्याघ्रो गजो वापि स्यादिच्छातोऽन्यजन्मताम् | यथेष्टमेव वर्त्तेतयोगी विद्वान्महेश्वरः | कविमार्गोपयुक्तं ते साङ्कृतेऽष्टाङ्गयोगतः | सिद्धानां कपिलादीनां मतं वक्ष्ये ततः परम् | अभ्यासभेदात्तद्भेदेन फलं तत्समं तथा | इत्यनन्तरं जलन्धरादिरुक्तः | तेन दत्तात्रेयमते जलन्धरादिं विनापि योगी भवतीति सुधीभिर्विभाव्यावगन्तव्यम् | पक्षिणा गुदमायुज्य वाममार्गं चरेद्बलात् | वारं वारं यथा चोर्द्धं समायाति समीरणः | प्राणापानौ नादविन्दू मूलबन्धेन चैकताम् | महायोगस्य संसिद्धिं याति नास्त्यत्र संशयः | करणं विपरीताख्यं सर्वव्याधिविनाशनम् | नित्यमभ्यासयुक्तस्य जठराग्निविवर्द्धनम् | आहारा बहवस्तस्य सम्पाद्याः साङ्कृते ! ध्रुवम् | अल्पहारो यदि भवेदग्निर्दाहं करोति वै | ऊर्द्ध्वं राहुरधश्चन्द्र तथा दृष्टिश्च साङ्कृते ! | अधःशिराश्चोर्द्धपादः क्षणात् स्यात् प्रथमे देइने | क्षणात्तु किञ्चिदधिकमभ्यसेत्तु दिने दिने | बलिश्च पलितञ्चैव षण्मासोर्द्ध्वं न दृश्यते | याममात्रन्तु यो नित्यमभ्यसेत् स तु योगवित् | वज्रोणीं ते प्रवक्ष्यामि योगिभिर्गोपितं सदा | अतीव तद्रहस्यं हि न देयं यस्य कस्यचित् | लभ्यते यदि तस्यैकं योगसिद्धिकरं परम् | क्षीरमङ्गरसं चेति द्वयोराद्यञ्च लभ्यते | तृतीयं बलिनां पुंसां स्त्रीभ्यः साध्यमुपागतः | योगाभ्यासरता स्त्री च पुंसां यत्नेन साधयेत् | पुंसां स्त्री वा तदन्यद्वा स्त्रीत्वं पुंस्त्वमपेक्षया | स प्. ८१०) प्रयोजनमात्रैकसाधनात् सिद्धिमाप्नुयात् | गलितो यदि विन्दुस्तु मूर्द्ध्नि चाकृष्.य धारयेत् | एवं हि रक्षिते विन्दौ मृत्यं जयति तत्त्वतः | मरणं विन्दुपातेन जीवनं विन्दुरक्षणात् | विन्दुरक्षाप्रसादेन सर्वे सिध्यन्ति योगिनः | अमरोणिस्तु यथा स्यात् सहयोनिस्ततो यथा | तदभ्यासक्रमो ज्ञेयः सिद्धानां सम्प्रदायतः | एतैः सर्वैस्तु कथितैरभ्यसेत् कालयोगतः | ततो भवेद्राजयोगो नान्तरीभवति ध्रुवम् | न दिङ्मात्रेण सिद्धिः स्यादभ्यासो नैव जायते | राजयोगपदं प्राप्य सर्वसङ्कल्पभञ्जकम् | सर्वं कुर्यान्न वा कुर्याद् यथारुचि विचेष्टितम् | तथान्तरा च योगेन निष्पन्ना योगिनः क्रिया | तदावस्था हि नश्यन्ती भक्तिमुक्तिप्रदा भवेत् || प्राणायामस्य फलान्तरन्तु ग्रहयामले || आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे | प्रतिपत्क्रमतो हानिस्त्रीणि कृत्वोदयत्ययम् || त्रिपुरासारमुच्चये तु || अमावास्यावध्युदयमाह यथा || आरभ्य दर्शं प्रथमामुदेति वामे पुटे त्रीणि दिनानि देवः | वामेतरे त्रीणि ततो दिनानि पूर्णां तिथिं यावदथैवमेवम् || एकस्य पक्षस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् | पक्षद्वये बन्दुसुहृद्विपत्तिः पक्षत्रये व्यत्ययतो मृतिः स्यात् || ब्रह्मजामले || चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा | अशुभं हानिरुद्वेगः शुभं सर्वं नियोजयेत् | चन्द्रोदये वामनाड्यां वायुगमननिरूपितसमये एवं सूर्योदये दक्षिणनाड्यां वायुगमननिरूपितसमये कर्मविशेषः | नासिकयोर्वायोः प्रवेशनिर्गमाभ्याञ्च शुभत्वमपि तत्रैव || यात्रादाने विवाहे च वस्त्रालङ्कारधारणे | शुभकर्मषु सर्वेषु प्रवेशे च शशी शुभः | विग्रहद्यूतयुद्धेषु स्नानभोजनमैथुने | व्यवहारे भये भङ्गे भानुनाडी प्रशस्यते | मोहनं शान्तिकञ्चैव दिव्यौषधिरसायनम् | प्. ८११) विद्यारम्भः स्थिरं कार्यं कर्त्तव्यञ्च निशाकरे | दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः | वहन्नाडीपदे चैव यात्रा भवति सिद्धिदा || यस्यां नासिकायां प्राणवायोर्गतिर्वक्ष्यते तदंशीयपादप्रसारणपूर्विका यात्रा सिद्धिदा भवतीत्यर्थः | शयने च प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा | यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः || सूर्येण दक्षिणनासिकास्थप्राणवायुना चन्द्रं नार्या वामनासिकागतप्राणवायुं पिबति तत्सङ्गमकाले स्वीयनिश्वासमतिनिविष्टः सन्नाकर्षयति | तत्फलं तत्रैव | चन्द्रचारी विषं हन्ति सूर्यो बालां वशं नयेत् | सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधा मतः | भुक्तमात्रेण मन्दाग्नी स्त्रीणां वश्येऽथ कर्मणि | शयनं सूर्यवाहेन कर्त्तव्यं सर्वदा बुधैः | शान्ते शोके विवादे च ज्वरिते मूर्च्छिते तथा | सज्जनस्यापि बोधार्थे चन्द्रचारं प्रवाहयेत् | भुक्तमात्रादौ वामपार्श्वेन श्रान्तादिषु दक्षिणपार्श्वेन शयनं कार्यमिति तात्पर्यम् | चतुर्दिक्षूर्द्धमधस्ताच्चान्यतरस्थानमाश्रित्य यदि दूतः पृच्छति तदा कस्यां नाड्यां वायुगतिः शुभेत्याह || ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथस्थितः | पृष्ठे दक्षे तथाधस्तात् सूर्यवाहगतो मतः | पूर्णनाडीगतो दूतो यत् पृच्छति शुभाशुभम् | तत्सर्वं सिद्धिमाप्नोति शून्ये शून्यं न संशयः | आदौ शून्यगतः पृच्छेत् पश्चात् पूर्णो विशेद् यदि | तदा सर्वार्थसिद्धिः स्यादिति जानीहि निश्चितम् || इदानीं प्राणवायोः प्रवेशनिर्गमाभ्यां विशेषमाह || प्रवेशकाले यद्भूतो वाञ्छति स्वप्रयोजनम् | तत्सर्वं सिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम् || कर्मविशेषे नाडीविशेषगतिमाह || मारणं मोहनं स्तम्भं विद्वेषोच्चाटनं तथा | प्रेरणाकर्षणक्षोभं भानुनाड्युदये कुरु | शान्तिकं पौष्टिकं क्षेमं दिव्यौषधिरसायनम् | योगाभ्यासादिकर्माणि कर्त्तव्यानि निशाकरे || त्रिपुरासारसमुच्चये || भूतानामुदयं प्. ८१२) द्वयोरपि बुधः संलक्षयेत् पक्षयोस्तत्रादौ वसुधोदयं निहितधीर्घ्राणस्य दण्डस्पृशि | देवेऽधःस्पृशि वारिणो हुतवहस्योर्द्ध्वा गतिश्चोदयं तिर्यक्संस्पृशि मारुतस्य परितः पृष्ठे मरुद्वर्त्मनः || देवे प्राणवायौ || फलं जामले || पृथ्वीजले शुभे तत्त्वे तेजो मिश्रफलोदयम् | हानिमृत्युकरौ पुंसामुभयौ व्योममारुतौ | कर्मविशेषे भूतोदयफलम् त्रिपुरासारे || वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योदयः शस्तः शान्तिकपौष्टिकादिषु शुभेष्वह्नाय वह्नेः पुनः | शत्रोर्भारणदारणादिकरणे उच्चाटनोच्छेदयोर्वायोः शान्तिकनिर्विषीकरणयोर्व्योम्नो हितश्चोदयः || कियत्कालमेकनाडीगतो वायुर्भवति तत्रापि पञ्चभूतोदयः केन ज्ञेय इत्यपेक्षायां नाडीगतिकालं स्थानक्रमेण भूतोदयञ्चाह जामले || एकैकस्य कलाः पञ्च क्रेमेणैवोदयन्ति ताः | पृथिव्यापस्तथा तेजो वायुराकाशमेव च | मध्ये पृथ्वी त्वधश्चाप ऊर्द्ध्वे वहति चानलः | तिर्यग्वायुप्रवाहश्च नभो वहति सङ्क्रमे || प्रपञ्चसारेऽपि || पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमधः कृशानुरूर्द्ध्वम् | पवनस्त्वथ पार्श्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम् || तत्रापि बाल्याद्यवस्थाभेदमाह || रुद्रजामले उत्तरखण्डे एकादशपटले || स्वकीयनासिकाग्रस्थं पञ्चमं परिकीर्त्तितम् | यन्नासापुटमध्ये तु वायुर्भ्रमति भैरव ! | तन्नासाप्यूर्द्धमध्ये तु भावाभावं विचारयेत् | आकाशं वायुरूपं हि तैजसं प्रभो ! | पार्थिवं क्रमशो ज्ञेयं बाल्यास्तादिक्रमेण तु | वामोदये शुभा वामा दक्षिणे पुरुषः शुभः | वायूनां गमनं ज्ञेयं गगनावधिरेव च | केवलं मध्यदेशे तु गमनं पवनस्य च | तदाकाशं विजानीयाद्बाल्यभावं प्रकीर्त्तितम् | तिर्यग्गतिस्तु नासाग्रे वायोरुदयमेव च | केवलं भ्रमणं ज्ञेयं सर्वमङ्गलमेव प्. ८१३) च | किशोरं तद्विजानीयाद्वायो तिर्यग्गतौ विभो ! | केवलार्द्धनासिकाग्रे वायुर्गच्छति दण्डवत् | तत्तैजसं विजानीयात्तेजसा बलवान् भवेत् | यौवनं तद्विजानीयात् कर्मसिद्धिर्भवेद्ध्रुवम् | यदावाप्य गच्छतीह नासापुटमनाकुलम् | जलोदयं विजानीयात् तदा व्यामोहमेव च | तद्वृद्धगतभावश्च विलम्बोऽधिकचेष्टया | प्राप्नोति परमां प्रीतिं वारुणार्णोदयेऽरुणम् | यदधो गच्छति क्षिप्रं किञ्चिदूर्द्ध्वमगोचरम् | यदा करोति प्राग्बालं तदा रोगाद् बलोदयः पृथिव्या उन्नतं भाग्यं रोगार्त्तिपरिपीडितम् | अस्तमितं महादेव ! अनुलोमविलोमतः | पवनो गच्छति क्षिप्रं वामदक्षिणभेदतः | वामनासापुटं याति पृथिवी जलमेव च | सदा फलाफलं दातुमुदिता कुलमण्डले | तयोर्वै वायवी शक्तिः फलभागं तदा लभेत् | इत्यवस्थाभेदतत्फलकथनं तत्रैव || यद्येवं वामभागे तु बालायाः प्रश्नकर्मणि | यदि तत्र पुमान् प्रश्नं करोति वामगामिनी | तदा रोगमवाप्नोति कर्महानिर्भवेद्ध्रुवम् | यदि वायूदयो वामे दक्षिणे पुरुषः स्थितः | तदा कुफलमाप्नोति द्रव्यागमनदुर्लभम् | अकस्माद्द्रव्यहानिः स्यान्मनोगतफलापहम् | सुहृद्भङ्गं विवादञ्च भिन्ने भिन्नोदयाछुभम् | केवलं वरुणस्यैव पुरुषो दक्षिणे शुभः | अशुभं पृथिवीदक्षे भेदोऽयं वरदुर्लभः | सदोदयं दक्षिणे च वायोस्तैजस एव च | आकाशस्य विजानीयाच्छुभाशुभफलं प्रभो ! | यदि भाग्यवशादेव वायोर्मन्दगतिर्भवेत् | दक्षनासामध्यदेशे तदा वामोदयं शुभम् | तदा वामे विचारञ्च वायुतेजःस्वरस्य च | ज्ञात्वोदयं विजानीयान्मिश्रे हानिः स्वरे भयम् | एवं स्वभुवनागारे यदि गच्छति वायवी | तस्मिन् काले पुमान् वामदक्षभागस्थसम्मुखः | तदा कन्यादानफलं यथा प्राप्नोति मानवः तदा प्. ८१४) वायुप्रसादेन प्राप्नोति धनमुत्तमम् | देशान्तरशुभा वार्त्ता आयाति पुत्त्रसम्पदः | इति स्त्रीपुंसभेदेन फलकथनम् || सूक्ष्मस्वरोदये || गुरुशुक्रबुधेन्दूनां वासरे वामनाडिकाः | सिध्यन्ति सर्वकार्येषु कृष्णपक्षे विशेषतः अर्काङ्गारकसौराणां वासरे दक्षनाडिका | स्मर्त्तव्या चिरकामेण शुक्लेनैवोदयः स्थितः | क्रमादेकैकनाड्यास्तु तत्त्वानां पृथगुद्भवः | अहोरात्रस्य मध्ये तु ज्ञेया द्वादशसंक्रमाः | वृषकर्कटकन्यालिमृगमीननिशाकरे | मेषे सिंहे च धनुषि तुलायां मिथुने घटे | उदयो दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः | इति वारादिभेदेन नाडीविशेषफलकथनम् || तिष्ठेत् पूर्वोत्तरे चन्द्रो भानुः पश्चिमदक्षिणे | दक्षनाड्याः प्रवाहे तु न गच्छेद्दक्षपश्चिमे | इति नाडीविशेषेण दिग्ज्ञानम् || वामाचारप्रवाहे तु न गच्छेत् पूर्व उत्तरे | परिपन्थी भवेत्तस्य गतोऽसौ न निवर्त्तते | तस्मादत्र न गन्तव्यं बुधैः सर्वहितैः शुभैः | तदा तत्र तु सङ्घातमृत्युरेव न संशयः || इति वहन्नाडीकस्य दिग्विशेषगमननिन्दा || शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः | प्रदृश्यते महा/ल्लाभः पुंसः सौम्यं प्रजायते | सूर्योदये यदा सूर्यश्चन्द्रे चन्द्रोदयो भवेत् | सिध्यन्ति सर्वकार्याणि दिवारात्रिगतान्यपि || इति स्वस्वनाडीफलकथनम् || चन्द्रकार्ये यदा सूर्यः सूर्यश्चन्द्रोदये भवेत् | उद्वेगः कलहो हानिः शुभं सर्वं निधारयेत् || इति विपरीतनिन्दा || सूर्यस्य वाहे प्रवदन्ति जालम् एकासने युक्तमनस्थिरञ्च | श्वासेन युक्तस्य तु शीतरश्मेः प्रवाहकाले फलमन्यदस्याम् || यदि प्रत्यूषकाले तु विपरीतोदयो भवेत् | चन्द्रस्थाने स्थिते चार्के रविस्थाने च चन्द्रमाः | प्रथमे मानसोद्वेगं धनहानिं द्वितीयके | तृतीये गमनं ज्ञेयमिष्टनाशं चतुर्थके | पञ्चमे राज्यविभवं षष्ठे सर्वार्थनाशनम् | सप्तमे व्याधिदुःखानि अष्टमे मृत्युमृच्छति || प्. ८१५) इति दिनभेदेन विपरीतफलम् || कालत्रयं विनानिष्टं विपरीतं यदा भवेत् | तदा दुष्टफलं प्रोक्तं किञ्चिन्न्यूनेऽतिशोभनम् | प्रातर्मध्याह्नयोश्चन्द्रः सायंकाले दिवाकरः | तदा नित्यं जयोलाभो विपरीतन्तु दुःखदम् || इति कालभेदेन कालफलम् | वामे वा दक्षिणे वापि यत्राप्याक्रम्यते स्वरः | कृत्वा तत्पदमाद्यञ्च यात्रा भवति सिद्धिदा || इति वहन्नाडीकस्य यात्राफलम् || चन्द्रः सम्पदकार्याणि रविन्तु विषमं सदा | पूर्णपादं पुरः कृत्वा यात्रा भवति सिद्धिदा | सप्तपादाः शनौ शुक्रे ज्ञातव्याश्च विचक्षणैः | चन्द्रो रविपदं रुद्र ! कुजमन्दं तथैव च | सार्द्धं सदा गुरुपदौ ज्ञातव्यौ च विचक्षणैः || इति वारभेदे पादयात्राभेदः || लोकानां शीघ्रं गन्तुञ्च कृशलायाङ्गमिष्यते | परदले यथा ग्राह्यो हानिश्च कलहागमे | यदङ्गं वहते नाडी ग्राह्यं गतिकरं नृणाम् | चन्द्रचारे चतुष्पादं पञ्चपादञ्च भास्करे || इति वारभेदे पादयात्राभेदः || एवञ्च गमनं श्रेष्ठं साधयेद्भुवनत्रयम् | यत्राङ्गे चरते वायुस्तदङ्गस्य करस्तथा | सुप्तोत्थितमुखं श्रेष्ठं लभते वाञ्छितं फलम् | न हानिः कलहो नैव कण्टकैर्नापि भिद्यते | निवर्त्तते सुखेनव सर्वोपद्रववर्जितः || इति वहन्नाडीहस्तेन मुखमार्जनफलम् | गुरुर्बन्धुर्नृपश्चात्मा अन्येऽपि शुभदायिनः | पूर्णाङ्गे खलु कर्त्तव्या कार्यसिद्धिर्मनीषिभिः | ऐरी चौराम्वुवर्णाद्या अन्येषाञ्चादिविग्रहः | कर्त्तव्या खलु रिक्तायां जयलाभः सुखार्थिभिः | दूरदेशे निधातव्यं गमनन्तु हिमद्युतेः | तेभ्यो न देयो दीप्ते च भवनावर्त्तनञ्च न | तत्किञ्चित् पूर्वमुद्दिष्टं लाभादिसमरागमम् | तत्सर्वं पूर्वनाडीषु जायते निर्विकल्पकम् | शून्यं नाडीविपरीतं यत् पूर्वं प्रतिपादितम् | जायते प्. ८१६) नान्यथा चैव यथा सर्वज्ञभाषितम् | हव्यवाहे खलोच्चाटे देवविद्यादिवञ्चके | कुपितः स्वाद्विठो वाद्याः पूर्णस्थाः स्युर्भयङ्कराः || इति पूर्णरिक्तफलम् || दूराध्वनि शुभश्चन्द्रो निर्विघ्नेऽभीष्टसिद्धिदः | प्रवेशकार्यहेतुषु सूर्यः शीघ्रं प्रशस्यते | चन्द्रचारी विषं हन्ति सूर्ये बाला वशं नयेत् | सुषुम्नायां भवेन्मोक्ष एको देवः स्थिरास्थितः | स योगी योगता नाडी योगस्थानेऽपि योग्यता | कार्यानुबन्धनं जीवं कथमूर्द्ध्वं समाचरेत् | शुभाशुभानि कार्याणि क्रियतेऽहर्निशं यदा | तदा कार्यानुरोधेन कार्यं नाडीप्रचालनम् || इति नाडीचालनकारणम् | चालनन्तु गुरुतो ज्ञातव्यम् || अथेडास्थिरकर्माणि दूराध्वगमने तथा | आश्रमे हर्म्यप्रासादे वस्तूनां सङ्ग्रहेऽपि च | वापीकूपतडागादिप्रतिष्ठान्ते तु देवयोः | यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे | शान्तिकं पौष्टिकञ्चैव दिव्यौषधिरसायनम् | स्वामिसन्दर्शने यात्रावाणिज्यानाञ्च सङ्ग्रहे | गृहप्रवेशे सेवायां कृषीणां वीजवापने | शुभकर्माणि सन्धौ च निर्गमे वा शुभः शशी || इति कर्मविशेषे कर्मनाडीफलम् || विद्यारम्भादिकार्येषु बान्धवानाञ्च दर्शने | जनमुखे च धर्मे च दीक्षायां मन्त्रसाधने | कालव्याधिचिकित्सायां स्वामिसम्बोधने तथा | गजाश्वारोहणे धन्विगजाश्वानाञ्च बन्धने | परोपकरणे चैव निधीनां स्थापने तथा | गीतवाद्यादिनृत्याद्यैर्गीतशास्त्रविचारणे | पुरग्रामनिवासे च तिलकच्छत्रधारणे | शान्तिशोके विषादे च ज्वरिते मूर्च्छितेऽपि वा | स्वजने स्वामिसम्बन्धे धान्यादेर्दारुसङ्ग्रहे | स्त्रिया आनन्दभूषाणां विष्टरागमने तथा | गुरुपूजाविषादानाञ्चालनञ्च वरानने ! | इडायां सिद्धिदं प्रोक्तं योगाभ्यासादिकर्म च || इति कर्मविशेषे नाडी || तत्रापि वर्जयेद्वायुस्तेज आकाशमेव च | प्. ८१७) सर्वकर्माणि सिध्यन्ति दिवा रात्रौ गतानि च | सर्वत्र शुभकार्येषु चन्द्रचारः प्रशस्यते | अथ पिङ्गला | कठिनक्रूरविद्यानां पठने पाठने तथा | स्त्रीसङ्गवेश्यागमने महानौकादिरोहणे | इष्टकार्ये सुरापाने वीरमन्त्र उपासने | बहुलध्वंसदेशादिविषदानादिवैरिणाम् | शास्त्राभ्यासे च गमने मृगादिपशुविक्रमे | इष्टकाकाष्ठपाषाणे रत्नघर्षणदारुणे | गीताभ्यासे यन्त्रतन्त्रे र्दर्गपर्वतरोहणे | द्यूते चौरगजाश्वादिरथवाहनसाधने | व्यायामे मारणोच्चाटे षट्कर्मादिषु साधने | रक्षिणीयक्षवेतालविश्वभूतादिसंग्रहे | खरोष्ट्रमहिषादीनां गजस्यारोहणे तथा | नदीजलौघतरणे भेषजे लेखने मणेः | मारणं मोहनं स्तम्भविद्वेषोच्चाटनं वशम् | प्राण आकर्षणे दाने चक्रविक्रयणे तथा | खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने | भोजने व्यवहारे च क्रूरे दीप्ते रविः शुभः | भुक्तमात्रे च मन्दाग्नौ स्त्रीणां वश्यार्थकर्मणि | शयनं सूर्यबाहेन कर्त्तव्यं सर्वदा बुधैः | क्रूराणि सर्वकर्माणि चराणि विविधानि च | तानि सिध्यन्ति सूर्येण नात्र कार्या विचारणा | इति कर्मविशेषे पिङ्गलाफलम् || अथ सुषुम्ना || क्षणं वामे दक्षे यदा वहति मारुतः | सुषुम्ना सा च विज्ञेया सर्वकार्यहरा शुभा | तस्यां नाड्यां स्थितो वह्निर्ज्वलन्ति कालरूपिणः | विषमं तं विजानीयात् सर्वकार्यविनाशनम् | यदानुक्रममुल्लङ्घ्य तस्यां नाड्यां द्वयं वहेत् | तदा तस्य विजानीयादशुभं समुपस्थितम् | क्षणम् वामे क्षणं वायुर्विषमं भावमादिशेत् | विपरीतफलं ज्ञेयं ज्ञातव्यञ्च वरानने ! | उभयोरेव सञ्चारी विषमं तं विदुर्बुधाः | न कुर्यात् क्रूरसौम्यानि तत्सर्वं निष्फलं भवेत् | जीविते मारणप्रश्ने लाभालाभौ जयाजयौ | विषमे प्. ८१८) वैपरीत्यस्य स स्मरेज्जगदीश्वरम् | ईश्वरं चिन्तितं कार्यं योगाभ्यासादिकर्म च | अन्यत् किञ्चिन्न कर्त्तव्यं जयलाभसुखादिभिः | सूर्येण वहमानायां सुषुम्नायां मुहुर्मुहुः | शापं दद्याद्वरं दद्यात् सर्वदा च तदन्यथा | नाड्यसंक्रमणे काले तत्त्वसंक्रमणे तथा | शुभं किञ्चिन्न कर्त्तव्यं पुण्यदानादि कोटिधा ! विषमद्वितीयायां त्रिस्थोऽपि मनसापि न चिन्तयेत् | यात्राहानिकरी तस्य मृत्युकाले न संशयः | पुरोनासोर्द्धतश्चन्द्रो दक्षोर्द्धे पृष्ठतो रविः | पूर्णारिक्तविवेकोऽयं ज्ञातव्यो देशिकैः सदा | ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथि स्थितः | पृष्ठे दक्षे तथाधस्तात् सूर्यवाहो गतो मतः | अनादि विषमं सन्धिनिराहारं निराकुलम् | परं सूक्ष्मं विलीयन्ते सा सन्ध्या सन्धिरुच्यते | विषवत् सन्धिकाप्रश्नः सा सन्ध्या सन्धिरुच्यते | न वेदं वेदमित्याह वेदो वेदो निगद्यते | परमात्मा हि यत्रास्ति स वेदो वेद उच्यते | इति नाडीत्रयभेदनिर्णयः || श्रीदेव्युवाच || देवदेव ! महादेव ! सर्वसंसारतारक ! | स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो ! | श्रीशिव उवाच || स्वरज्ञानरहस्यन्तु न किञ्चिदिष्टदेवता | स्वरज्ञानरतो योगी स योगी परमो मतः | पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते | पञ्चतत्त्वात् परं तत्त्वं तत्त्वात्मानं निरञ्जनम् | तत्त्वानां नाम विज्ञेयं सिद्धियोगेन योगिनः | भूतानां दुष्टचिह्नानि जानन्ति हि सुरोत्तमाः | पृथिव्यापस्तथा तेजो वायुराकाश एव च | पञ्चभूतात्मकं सर्वं यो जानाति स पूजकः | सर्वलोकस्य जीवेन न भेदं भिन्नतत्त्वकम् | भूर्ल्लोकसत्यपर्यन्तं नाडीभेदं पृथक् पृथक् | भूर्लोको नाभिः सत्यं मस्तकं तत्र तल्लोकावस्थानात् | वामे वा दक्षिणे प्. ८१९) वापि उदयश्च प्रकीर्त्तितः | अष्टधा धातुविज्ञानं शृणु वक्ष्यामि सुन्दरि ! | प्रथमे तत्त्वसंख्यायां द्वितीये श्वाससन्धिषु | तृतीये स्वरचिह्नानि चतुर्थे प्राणमेव च | पञ्चतत्त्वस्य वर्णः स्यात् षष्ठे च स्थानमेव च | सप्तमे स्वादुसंयुक्तं अष्टमे गतिलक्षणम् | एवमष्टविधं प्राणं विषमं तत् चराचरम् | स्वरात्परतरं देवि ! नान्यत् स्थातुं कदाचन | निरीक्षितव्यं यत्नेन यदा प्रत्यूषकालतः | कालस्य वञ्चनार्थाय कर्म कुर्वन्ति योगिनः | श्रुत्योरङ्गुष्ठयोर्मध्याङ्गुल्योर्नासापुटद्वये | वदने प्रान्तगोपान्तेऽङ्गुलं देशे दृगद्वयोः | अस्या भूतपृथिव्यादि तत्त्वज्ञानं भवेत् क्रमात् | पीतश्वेतारुणश्यामविन्दुभिर्निरुपाधिकम् | दर्पणे च समालोक्य तत्र श्वासं विनिक्षिपेत् | आकारन्तु विजानीयात्तत्त्वभेदं विचक्षणः | इति भूतप्रक्रिया || चतुरस्रमर्द्धचन्द्रं कौण्यं वर्त्तुलसम्मितम् | विन्दुभिस्तु न विज्ञेयं साकारैस्तत्त्वलक्षणम् | मध्ये अर्द्धञ्च पश्चादर्द्धञ्च वहतेऽनलः | तीर्थवायुप्रवाहञ्च नभो वहति संक्रमे | इति भूतज्ञानप्रकारः | आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः | मारुता नीलजीमूता आकाशं सर्ववर्णकम् | इति भूतरूपाणि | स्कन्धद्वये स्थितो वह्निर्नाभिमूले प्रभञ्जनः | जानुदेशे क्षितिस्तोयं पादान्ते मस्तके नभः || इति स्थानविशेषस्थतत्त्वेन भूतज्ञानम् || महीयं मधुरस्वादुः काषायं मधुरं जलम् | तिक्तं तेजः समीरोऽम्लमाकाशं कटुकं तथा | इति भूतरसाः | अष्टाङ्गुलं वहेद्वायुरनलश्चतुरङ्गुलम् | द्वादशाङ्गुलं माहेयं षोडशाङ्गुलं वारिणः | इति भूतगतिः | ऊर्द्धमृत्युरधः शान्तिस्तिर्यगुच्चाटनं तथा | मध्ये स्तम्भं विजानीयान्नभः सर्वत्र मध्यमम् | पृथिव्यां स्थिरकर्माणि चरकर्माणि वारुणे | तेजसि क्रूरकर्माणि मारणोच्चाटनेऽनिले | व्योम्निकिञ्चिन्न प्. ८२०) कर्त्तव्यं मध्यमो योगसेवया | इति भूतविशेषे षट्कर्मविशेषः | शून्ये तु सर्वकार्येषु नात्र कार्या विचारणा | पृथ्वीजलाभ्यां सिद्धिः स्यान्मृत्युवह्नौ क्षयोऽनिले | नभस्यं निष्फलं सर्वं ज्ञातव्यं तत्त्ववेदिभिः | चिरलाभा क्षितिर्ज्ञेया तत्क्षणात्तोयतत्त्वतः | हानिः स्याद्वह्निवाताभ्यां नभस्यं विफलं लभेत् | पीतश्योणैर्मध्यवाही तनुपीवरवद्धृतिः | कवोष्णः पार्थिवो वायुः स्थिरकार्यप्रसाधकः | अधोवाही गुरुध्वानः शीघ्रगः शीणभासितः | यः षोडशाङ्गुलो वायुः स पापः शुभकर्मकृत् | आवर्त्तगश्च चोष्णश्च स्वर्णाभश्चतुरङ्गुलः | ऊर्द्धवाहो च यः क्रूरकर्मकारी च तैजसः | उष्णशीतः कृष्णवर्णस्तिर्यग्गाम्यष्टमाङ्गलः | वायुः पवनसमो ज्ञेयश्चरकर्मसु सिद्धिदः | यः समीरस्य पवनः सर्वतत्त्वगुणावहः | आवर्त्तं तं विजानीयाद् योगिनां योगदायकम् | पीतञ्चैव चतुष्कोणं मधुरं मध्यमाश्रितः | भोगदं पार्थिवं तत्त्वं प्रवाहे द्वादशाङ्गुलम् | श्वेतमर्द्धेन्दुसङ्काशं स्वादुकाषायमादकम् | लाभकृद्वारुणं तत्त्वं प्रवाहे षोडशाङ्गुलम् | रक्तत्रिकोणतिक्तः स्यादूर्द्धमार्गप्रवाहकः | दीप्तञ्च तैजसं तत्त्वं प्रवाहे चतुरङ्गुलम् | नीलञ्च वर्त्तुलाकारं स्वाद्वम्लं तीर्यगाश्रितम् | चपलं मारुतं तत्त्वं प्रवाहेऽष्टाङ्गुलं स्मृतम् | वर्णाकारं स्वादुवहमव्यक्त सर्वगामिनम् | मोक्षदं नाभसं तत्त्वं सर्वकार्येषु निष्फलम् || इत्यङ्गुनिविशेषगत्या भूततत्फलम् || पृथ्वीजले शुभे तत्त्व तेजो मिश्रफलोदयम् | हानिमृत्युकरौ पुंसामुभौ च व्योममारुतौ | अपूर्वपश्चिमे पृथ्वी तेजश्च दक्षिणे तथा | वायुश्च उत्तरे ज्ञेयो मध्यकोणगतं नभः | चन्द्रे पृथ्वीजले स्यातां सूर्ये अग्निर्यदा भवेत् | तदा सिद्धिर्नसन्देहः सौम्ये सौम्येषु कर्मषु | लाभः पृथ्वीकृतो न स्यान्निशायां लाभकृज्जलम् | वह्नौ मृत्युः क्षितौ वायुर्नभः प्. ८२१) स्थानं दहेत् क्वचित् | जीवितव्ये जये लाभे कृष्याञ्च धनकर्मणि | मन्त्रार्थी युद्धप्रश्ने च गमनागमने तथा | आयाति वारुणे शत्रुस्तत्रस्थेऽपि शुभः क्षितौ | प्रयाति वायुतो नित्यं हानिर्मृत्युर्नभोऽनिले || इति भूतविशेषे फलविशेषः || पृथिव्यां मूलचिन्ता स्यात् मूलमाकाशतो वहेत् | तेजसि धातुचिन्ता स्यात् जीवः स्याज्जलवातयोः || इति भूतविशेषेण मूलजीवादिनिर्णयः || पृथिव्यां बहुपादः स्याद् द्विपादस्यैव वायवे | तेजसि च चतुष्पादो नभसः पादवर्जितः | इति भूतविशेषेण बहुपादादिनिर्णयः | कुजे वह्नीरवौ पृथ्वी सौरिरापः प्रकीर्त्तितः | वायुस्थले स्थितो राहुर्दक्षरन्ध्रप्रवाहकः | जले चन्द्रो बुध पृथ्वी गुरौ वातः सितेऽनिलः | वामनाड्यां स्थिताः सर्वे सर्वकार्येषु निश्चितम् | पार्थिवे मूलविज्ञानं जीवज्ञानं तथा जले | अग्नौ च धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् || इति भूतभेदेन धात्वादि || तुष्टिपुष्टिरतिक्रीडाजपहास्यं धराजले | वायौ तेजशि सुप्तज्ञो यत्तत् कल्पं प्रवासिनाम् | ततो मृत्युश्च आकाशे चन्द्रावस्थाः प्रकीर्त्तिताः | द्वादशैताः प्रयत्नेन ज्ञातव्या देशिकैः सदा | पूर्वस्यां पश्चिमायां वै उत्तरस्यां यथाक्रमम् | पृथिव्यादीनि तत्त्वानि बलिष्ठानि विनिर्दिशेत् | पृथिव्यापस्तथा तेजो वायुराकाश एव च || पृथिवी पलपञ्चाशत् चत्वारिंशदपस्तथा | तेजस्त्रिंशद्विजानीयाद्वायुश्च विंशतिर्नभः | नभोऽपि विंशतिपलमिति काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते || पृथिवी चिरकाले च लाभश्चापो भवेत् क्षणात् | जायते पवनैस्तुल्यः सिद्धयोऽग्नौ भविष्यति | इति तत्त्वेन प्रश्नफलकालनिर्णयः || पृथ्वीपञ्च अपां वेदागुणास्तेजो द्विवायवः | नभश्चैकगुणश्चैव तत्त्वज्ञानमिदं भवेत् | इति पञ्चभूतेषु प्. ८२२) शब्दादिगुणपरिमाणम् || यत्कारकृत् प्रस्फुटिता विदीर्णा अतीता धरा | ददाति सर्वकार्येषु अवस्थासदृशं फलम् | इति पृथिव्यवस्था | घनिष्ठा रेवती ज्येष्ठानुराधा श्रवणा तथा | अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् | पूर्वाषाढा तथाश्लेषा मूलार्द्रा चैव रोहिणी | उत्तरभाद्रपदा तोयं आपस्तत्त्वन्त्वभीष्टदम् | भरणी कृत्तिका पुष्या मघा पूर्वा च फल्गुनी | पूर्वभाद्रपदास्वाती तेजस्तत्त्वमिति प्रिये ! | विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्वसुः | अश्विनी मृगशीर्षा च वायुस्तत्त्वमुदाहृतम् || इति पञ्चभूतनक्षत्राणि || बहन्नाडीस्थितो भूतो यदि पृच्छेच्छुभाशुभम् | तत् सर्वं सिद्धिमायाति शून्ये शून्यं न संशयः | इति पूर्णनाड्यादिगतस्य प्रश्नफलम् || तत्त्वैरामो जयं प्राप्तः सतत्त्वे च धनञ्जयः | कौरवा निहताः सर्वे मूर्द्धतत्त्वविपर्ययये | जन्मान्तरस्य संस्कारात् प्रसादादथवा गुरोः | कैश्चित्तु ज्ञायते तत्त्वं वासनाविमलात्मभिः | कायनगरमध्ये तु मारुतो रक्षपालकः | प्रवेशे दशभिः प्रोक्तो निर्गमे द्वादशाङ्गुलम् | गमने च चतुर्विंशं नेत्रवेदाश्च धावने | धावने जवेन गमने | मैथुने पञ्चषष्टिश्च शयने च शताङ्गुलम् | प्राणस्य सा गतिर्देवि ! स्वभावाद् द्वादशाङ्गुला | भोजने वचने चैव गतिरष्टादशाङ्गुला || इति कार्यविशेषे प्राणानां वहिर्गतिनिर्णयः || एकाङ्गुलिकृते न्यूने प्राणनिष्कामता मता | आनन्दस्तु द्वितीये च कविशक्तिस्तृतीयके | वाचाशक्तिश्चतुर्थे तु दूरदृष्टिस्तु पञ्चमे | षष्ठे आकाशगमनं खण्डवेश्च सप्तमे | अष्टमे सिद्धयश्चाष्टौ नवमे निधनं न च | दशमे दशमूर्त्तिः स्याच्छायानाश एकादशे | द्वादशे हंसचारश्च गङ्गामृतरसं पिबेत् | आनखाग्रं प्राणपूरकस्य भक्ष्यञ्च प्. ८२३) भोजनम् | एवं प्राणविधिः प्रोक्तः सर्वकार्यफलप्रदः | ज्ञातव्यो गुरुवाक्येन न विद्याशास्त्रकोटिभिः | प्रातश्चन्द्रो रविः सायं यदि दैवेन लभ्यते | मध्याह्ने मध्यरात्रौ च परं तत्त्वं प्रवर्त्तते | दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः | यात्रादाने विवाहे च प्रवेशे नगरादिके | शुभकार्येषु सर्वेषु चन्द्रचारः प्रशस्यते || अयनतिथिदिनेशस्तूपतत्त्वेन युक्तो यदि वहति कदाचिद्दैवयोगेनपुंसः | स जयति रिपुसैन्यं स्तम्भमात्रे स्वरेण प्रभवति स च विज्ञः केशवस्यापि लोकम् || जीववक्षे जीववक्षं जीवाङ्गे परिधाय च | जीवो जयति यो युद्धे जीवो जयति मेदिनीम् | भूमौ जले च कर्त्तव्यं गमनं शस्त्रिकर्मसु | वह्निवायुप्रदीप्तेषु पुनर्नैव भविष्यति | इति तत्त्वविशेषेण गतेः शुभाशुभफलम् || जीवेन शस्त्रं बध्नीयात् जीवेनैव विकाशयेत् | जीवे च प्रक्षिपेच्छस्त्रं युद्धे जयति सर्वथा | आकर्षे प्राणपवनः समासे हेतुवाहनः | समोत्तरे पदं दद्यात् सर्वकार्याणि साधयेत् | अपूर्णे शत्रुसंग्रामे पूणवसु वनं तथा कुरुते पूर्णतत्त्वस्थो जयत्येको वसुन्धराम् | या नाडी वहते चाङ्गे तद्वामे व्याधिदेवता | सन्मुखेऽपीदृशी तेषां सर्वकार्यफलप्रदा | आदौ च कुरुते मुद्रां पश्चाद्युद्धं समाचरेत् | सर्वमुद्रा कृता येन तेषां सिद्धिर्न संशयः | यन्त्रप्रवाहेऽपि यथा सूर्यावाहे भटाः समाः | जाते हि योधकामः समीरणतत्त्वयोर्वादम् | स प्रापित एषु नीतस्य न प्रातःकालद्रीटा | यदि सम्बहे वायुयुद्धं यदा तदा सदापेतः || जयत्येव न सन्देहः शत्रुश्च यदि चाग्रतः | यत्र नाड्यां वहेद्वायुस्तदंशं प्राणमेव च | आकृष्य गच्छेत् कर्णान्तं जयत्येव पुरन्दरम् | प्रतिपक्षं यदारभ्य पूर्णो ज्ञेयोऽभिरक्षितम् | न तस्या रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते | अङ्गुष्ठतर्जनीमध्ये पादाङ्गुष्ठे तथा धनुः | प्. ८२४) युद्धकाले च कर्त्तव्यं लक्षयोधजयो भवेत् | निशाकरे रवौ चारे मध्ये यस्य समीरणः | स्थितो रक्षेद्दिगन्तानि जयाकाङ्क्षी नरः सदा | श्वासप्रवेशकाले तु दूतो जल्पति वाञ्छितम् | तस्यार्थाः सिद्धिमायान्ति निर्गमेणैव सुन्दरि ! || इति श्वासप्रवेशकाले प्रश्नफलम् || लाभादीनि स्वकार्याणि पृष्टानि कीर्त्तितानि च | सजीवे सति सिध्यन्ति हानिर्निःसरणे भवेत् | नरो दक्षः स्वकीयश्च स्त्रिया वामः प्रशस्यते | कुम्भको युद्धकाले च त्रयो नाडी स्त्रियो गतिः | हकारस्य सकारस्य विना भेदं स्वरः कथम् | सोऽहं हंसः पदेनैव जीवो जपति सर्वदा | वामे वा यदि वा दक्षे यदा पृच्छति पृच्छकः | तत्र घातो न जायेत शून्ये घातं विनिर्दिशेत् | भूरात्मनो भवेद्घातः पदस्थानं जले भवेत् | ऊरुस्थलेऽग्निर्भवनं कटिस्थानेन वायुना | शिरःस्थात्मखतत्त्वेन ज्ञातव्यो घातनिर्णयः | एवं पञ्चविधो घातः स्वरप्रश्ने प्रकाशितः | इति तत्त्वेन घातस्थाननिर्णयः || युद्धोदये कृतप्रश्ने पूर्णस्य प्रथमो जयः | रिक्ते चैव द्वितीयेषु जयी भवति नान्यथा | पूर्णनाडीगतप्रश्ने शून्ये गततदग्रतः | शून्यस्थानेऽग्रतः शत्रुर्म्रियते नात्र संशयः | वामाचारे समा नासा यस्य तस्य जयो भवेत् | पृच्छको दक्षिणे भागे विजयो दक्षिणा शिरा | यदि पृच्छति चन्द्रस्थस्तदा सन्धानमादिशेत् | पृच्छेद् यदा तु सूर्यस्थस्तदा जानीहि विग्रहम् || इति वामदक्षिणभेदेन प्रश्ने सन्धिविग्रहकथनम् || पार्थिवे च भवेद् युद्धं सन्धिर्भवति वारुणे | जयो हि तैजसे भङ्गो मृत्युर्वायौ च नाभसे | इति तत्त्वविशेषेण युद्धादिज्ञानम् || निवर्त्तिकाप्रमादाद्वा यदा न ज्ञायतेऽनिलः | प्रश्नकाले यदि कुर्याद् बद्धयुद्धेन बुद्धिमान् | निश्चलां धारणां ज्ञात्वा पुष्पहस्ते निपातयेत् | पूर्णाङ्गे पुष्पपतनं शून्ये वा प्. ८२५) तत्फलं वदेत् | तत्फलं पूर्णरिक्तफलम् | तिष्ठन्नुपविशन् वापि प्राणमाकर्षयन्निजम् | मनोभङ्गः कृतो येन सर्वकार्येषु जीवति | जीवेन स्थापयेद्वायुर्जीवेनावस्थयेत् पुनः | जीवेन क्रियते नित्यं युद्धे जयति सर्वथा | स्वरज्ञानी फलादग्र्यं निष्फलं कोटिधा भवेत् | इह लोके परेणैव स्वरज्ञानी बली सदा | दशशतायुतं लक्ष्मीर्द्देशाधिपचलं क्वचित् | शतक्रतुः सुरेन्द्राणां बलं कोटिगुणं भवेत् | श्रीदेव्युवाच | परस्परं मनुष्याणां युद्धे प्रोक्तो जयस्तथा | समे युद्धे समुत्पन्ने मनुष्याणां कथं जयः | श्रीशिव उवाच | ध्यायेत्तत्त्वं स्थिरे जीवे जुहुयात् स्थिरसङ्गमम् | इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा | निराकारं समुत्पन्नं साकारं सकलं जगत् | तस्याकारं निराकारं ज्ञाने भवति तन्मयम् || इति ज्ञानयुद्धविजयप्रकरणम् || अथ वशीकरणम् || श्रीदेव्युवाच | नरयुद्धं हिमयुद्धं त्वयोक्तञ्च महेश्वर ! | इदानीं वद देवश ! वशीकरणमुत्तमम् | श्रीशिव उवाच | चन्द्रसूर्येण चन्द्रस्य स्थापयेज्जीवमण्डले | आजन्मवशगा वामा कथितोऽयं तपोधनैः | जीवेन गृह्यते जीवा जीवो जीवस्य दीयते | जावस्थानगतो जीवो बालाजीवाशुकारकः | रात्र्यस्तयामवेलायां प्रसुप्ते कामिनीजने | ब्रह्मवीज पिबेद्यस्तु बालाजीवहरस्तु सः | अष्टाक्षरं जपित्वा तु तस्मिन् काले रते सति | तत् क्षणाद्दीयते चन्द्रो मोहमायाति कामिनी | समये वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा | तत्क्षणाद्दापयेदाशु मोहयेत् कामिनीन्तु सः | यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः | शिव आलिङ्ग्यते शक्त्या प्रसङ्गे दक्षिणेऽपि वा | सप्त नव त्रयः पञ्च रवौ सङ्गस्तु सूर्यके | चन्द्रे दिवातुरीयाष्टे वश्या भवति कामिनी || सूर्याचन्द्रौ समौ कृत्वा सर्वाकृत्यधरोष्ठयौः | प्. ८२६) महापद्मे मुखं प्रोच्य वारं वारमिदं चरेत् | अध्यानमिति पादस्य यावन्निद्रावशं गता | पश्चाज्जाग्रतबेलायां चोष्य ते गलचक्षुषी | अनेन विधिना कामी वशयेत् सर्वकामिनीः | इदं वचनमन्यस्मिन् इत्याज्ञा परमेश्वरि ! || इति वशीकरणम् || अथ गभप्रकरणम् | ऋतुकाले भवेन्नारी पञ्चमेऽह्नि यदा शुचिः | सूर्याचन्द्रमसौ योगो जीवेन पुत्रसम्भवः | शङ्खावली गवां दुग्धं पृथ्वधी वहते यदा | भर्त्तुरग्रे वदेद्वाक्यं गर्भं देहि त्रिभिर्वचः | ऋतुस्नाता पिबेन्नारी ऋतुदानन्तु योजयेत् | रूपलावण्यसम्पन्नं नरसिंहं प्रसूयते | सुषुम्नासूर्यगन्धेन ऋतुज्ञानन्तु योजयेत् | अङ्गहीनः पुमांस्तत्र जायते कृमिविग्रहः | विषमाङ्गे दिवा रात्रौ विषमाङ्गे दिनाधिपः | चन्द्रनेत्राग्नितत्त्वेषु बन्ध्या पुत्त्रमवाप्नुयात् | रत्यारम्भे रविः पुंसां रत्यन्ते च सुधाकरः | अनेन कर्मयोगेन नादण्डे देवदण्डकः | रत्यारम्भे रविः पुंसां स्त्रियाश्चैव सुधाकरः | उभयोः सङ्गमे प्राप्ते बन्ध्या पुत्त्रमवाप्नुयात् || इति पुत्त्रकन्याजन्मनिदानम् || चन्द्रनाडी वहेत् प्रश्ने गर्भे कन्या यदा भवेत् | सूर्ये भवेत्तदा पुत्रो द्वयोर्गर्भा विहन्यते | चन्द्रः स्त्री पुरुषः सूर्यो मध्यमार्गे नपुंसकः | शून्ये शून्यं युगे युग्मं गर्भपातश्च संक्रमे | सूर्यभागे कृते पुत्रश्चन्द्रवारे तु कन्यका | विषमे गर्भपातः स्याद्द्वयोरथ नपुंसकः | तत्त्वैरथ विजानीयात् कथितं तत्तु सुन्दरि ! || इति प्रश्ने गर्भे पुत्रादिज्ञानम् || गर्भाधानं मारुते स्यात् सुदुःखी दिव्ये ख्यातो वारुणे सौख्ययुक्तः | गर्भस्रावः स्वल्पजीवी च वह्नौ भोगी भव्यः पार्थिवेऽनर्थयुक्तः || धनवान् सौख्ययुक्तश्च भोगवान् गर्भसंस्थितः | सोत्तमो वरुणे तत्त्वे व्योम्नि गर्भो विनश्यति | माहेन्द्रे जायते पुत्रो वरुणे दुहिता भवेत् | शेषेषु प्. ८२७) गर्भहानिः स्याज्जातमात्रस्य वा मृतिः | रविमध्ये गतश्चन्द्रश्चन्द्रमध्ये गतो रविः | ज्ञातव्यो गुरुतः शीघ्रं न विद्याशास्त्रकोटिभिः || इति गर्भप्रकरणम् || अथ संवत्सरप्रकरणम् | चैत्रशुक्लप्रतिपदि प्रातस्तत्त्वविभेदतः | पश्येद्भावी क्षणो योगी दक्षिणे चोत्तरायणे | चन्द्रोदयस्य वेलायां वहमानोऽठ तत्त्वतः | पृथिव्यापस्तथा वायुः सुभिक्षं सर्वशस्यगम् | तेजोव्योम्नि भयं घोरं दुर्भिक्षं कालतत्त्वतः | एवं तत्त्वफलं ज्ञेयं वर्षे मासे दिने तथा | मध्यमो भवति क्रूरो दुष्टः सर्वत्र कर्मषु | देशभङ्गो महारोगः क्लेशकष्टादिदुःखदः | मेषसंक्रान्तिवेलायां स्वरभेदं विचारयेत् | संवत्सरफलं ब्रूयाल्लोकानां तत्त्वचिन्तकः | पृथिव्यादिगतत्त्वानां दिनमासाब्दजं फलम् | भोजनञ्च तथा दुष्टं व्योममारुतवह्निभिः | सुभिक्षं वा प्रवृद्धिः स्याद् बहुशस्या वसुन्धरा | बहुवृष्टिस्तथा सौख्यं पृथ्वीतत्त्वं वहेद् यदि | दुर्भिक्षं राष्ट्रभङ्गः स्याद् वेगोत्पत्तिः सुदारुणा | अल्पादल्पतरा वृष्टिरग्नितत्त्वं वहेद् यदि | उत्पातोपद्रवौ भीतिरल्पवृष्टिः स्युरीतयः | मेषसंक्रान्तिवेलायां वायुतत्त्वं वहेद् यदि | मेषसंक्रान्तिवेलायां व्योमतत्त्वं वहेद् यदि | तत्रापि सूरिभिर्ज्ञेयः शस्यादीनामुपद्रवः | पूर्वपूर्वतरस्यैव श्वासतत्त्वेन सिद्धिदः | सूर्यश्चन्द्रो यथाभूते संग्रहे सर्वसिद्धिदः | विषमे वह्नितत्त्वस्य ज्ञायते केवलं नभः | तत् कुर्याद्वस्तुसंग्राही द्विमासे च महार्घ्यता | रवौ संक्रमणे नाडी गलते च प्रसर्पति | सोऽनिले वह्नियोगे च रौरवं जगतीतले || इति संवत्सरप्रकरणम् || अथ रोगप्रकरणम् | महीतले सरोगञ्च जले च जलमातरः | असौ शून्यगतो दूतः पश्चात् पूर्णे विशेत् यदि | मूर्च्छितोऽपि ध्रुवं जीवेद् यदर्थं परिपृच्छति | यस्मिन्नङ्गे स्थितो जीवस्तत्रस्थः परिपृच्छति | तदा जीवति जीवोऽसौ यदि रोगैरुपद्रुतः | दक्षिणे यदि वा वामे दुःखरौद्राक्षरो वदेत् | तदा जीवति जीवोऽसौ चन्द्रः समफलः क्रमात् | जीवाकारे च वह्न्यात्मा जीवाकारं विलोक्य च | जीवस्थो जीवितप्रश्ने तस्य स्यात् जीवितं फलम् | वामाचारस्तदा दक्षे प्रवेशे यत्र वाहने | तत्रस्थः पृच्छते दूतस्तस्य सिद्धिर्न संशयः | प्रश्ने चाधः स्थितो जीवो न्यूनं जीवो हि जीवति | ऊर्द्धाचारस्थितो जीवो जीवो याति यमालयम् | विपरीताक्षरप्रश्नं रिक्तायां पृच्छको यदि | विपर्ययश्च विज्ञेयो विषमस्थोदये सति | चन्द्रस्थाने स्थितो जीवः सूर्यस्थाने च पृच्छकः | तदा प्राणविमुक्तोऽसौ यदि रोगैरुपद्रुतः | पिङ्गलायां स्थितो जीवो वामे दूतस्तु पृच्छति | तदापि म्रियते रोगी यदि त्राता महेश्वरः | एकस्य भूतस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् | तयोर्द्वयोर्बन्धसुहृद्विपत्तिः पक्षत्रयव्यत्ययतो मृतिः स्यात् || अथ कालज्ञानम् | मासादौ वत्सरादौ तु पक्षादौ च यथाक्रमम् | ज्ञेयं कालं परीक्षेत् वायुचारबलात् सुधीः | पञ्चभूतात्मकं दीपं शशिस्नेहेन सिञ्चितम् | रक्षयेत् सूर्यवातेन तेन जीवः स्थिरो भवेत् | मारुतं बन्धयित्वा तु सूर्यं बन्धयते यदि | अभ्यासाजीवितो जीवः सूर्यकालेऽपि वञ्चते | गगनात् स्रवते चन्द्रः कायपद्मानि सिञ्चयेत् | शशाङ्कं वारयेद्रात्रौ दिवाचार्यो दिवाकरः | इत्यभासे ततो नित्यं स योगी नात्र संशयः | अहोरात्रं यदैकत्वं वहते यस्य मारुतः | तदा तस्य भवेदायुः सम्पूर्णं वत्सरत्रयम् | अहोरात्रद्वयं यस्य पिङ्गलायाः सदागतिः | तस्य वर्षद्वयं प्रोक्तं जीवितं तत्त्ववेदिभिः | त्रिवारं वहते यस्य पिङ्गलायां सदागतिः | तदा संवत्सरं चायुः प्रवदन्ति मनीषिणः | सदागतिर्वायुः | रात्रौ प्. ८२९) चन्द्रो दिवा सूर्यो वहेद् यस्य निरन्तरम् | जानीयात्तस्य वै मृत्युः षण्मासाभ्यन्तरे भवेत् | एकादिषोडशाहानि यदि भानुर्निरन्तरम् | वहेदस्य च वै मृत्युः शेषाहेन च मासिके | सम्पूर्णं वहते सूर्यचन्द्रमाश्च न दृश्यते | पक्षेन जायते मृत्युः कालज्ञानेन भाषितम् | सम्पूर्णं वहते चन्द्रः सूर्यो नैव च दृश्यते | मासेन जायते मृत्युः कालज्ञानेन भाषितम् | मूत्रं पुरीषं यस्यैव समकाले प्रवर्त्तते | तदासौ चलितो ज्ञेयो दशाहे म्रियते ध्रुवम् | अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च | गतायुषो न पश्यन्ति चतुर्थं मातृमण्डलम् | अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमेव च | भ्रुवौ विष्णुपदं ज्ञेयं तारकं मातृमण्डलम् | नवध्रुवं सप्तघोषं पञ्चतत्त्वां त्रिनासिकाम् | जिह्वामेकविलां दृष्ट्वा म्रियते वा नरो ध्रुवम् | कोणमत्स्याङ्गतुल्यन्तु किञ्चित्पिण्डं निरीक्षयेत् | यदा न दृश्यते विन्दुर्दशाहेन नरो मृतः || इति कालज्ञानम् || अथ नाडीज्ञानम् | इडा गङ्गेतिविज्ञानं पिङ्गला यमुनानदी | मध्ये सरस्वतीज्ञेया प्रयागो योगतस्त्रिभिः | आदौ साधनमाख्यातं सद्यः प्रत्ययकारकम् | बद्धपद्मासनो योगी विदध्यादुड्डियानकम् | पूरकं कुम्भकञ्चैव रेचकञ्च तृतीयकम् | ज्ञातव्यं योगिभिर्नित्यं देहसंसिद्धिहेतवे | पूरकं कुरुते पृथ्वी धातुसाम्यं तथैव च | कुम्भकं स्तम्भनं कुर्यात् जीवरक्षाविवर्द्धनम् | रेचको हरते पापं कुम्भाद्योगपदं व्रजेत् | पश्चात् संग्रामवत्तिष्ठेन्नतु बन्धे च कारयेत् | कुम्भयेत् सहजं वायुर्यथाशक्त्या प्रयत्नतः | रेचयेत् चन्द्रमार्गेण सूर्येण पूरयेत् सुधीः | चन्द्रमाः पिबते सूर्यं सूर्यः पिबति चन्द्रकम् | अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् | प्. ८३०) यत्राङ्गे वहते नाडी तन्नाडीबोधनं कुरु | मुखबद्धमुन्मोचयन् वै परानाञाय तेषु वा | मुखनासिककर्णानामङ्गुलीभिर्निरुद्ध्येत् | तत्त्वोदयमिति ज्ञेयं सम्मुखीकरणं प्रिये ! | तस्य रूपगतं नेदं मण्डलीलक्षणन्त्विदम् | यो वेत्ति मानवो लोके स क्षुद्रोऽपिच योगवित् | निराशीर्निष्फलो योगी न किञ्चिदपि चिन्तयेत् | वासनामुन्मनीकृत्य कालं जयति लीलया | यस्य या शंसिता शक्तिः सिद्धस्य गुणगह्वरम् | बद्धपद्मासनस्थो हि गुदवायुं निरुद्धयेत् | विमुञ्चेत प्राणकाद्यं कुम्भकत्रयमानिले | शक्त्या प्राणे निरुद्धे विवरमुपगतं ब्रह्मचक्रे च नित्या निक्षेपाकाशमार्गे शिवचरणरता यान्ति ते केऽपि धन्याः || एतज्जानाति यो योगी एतत् पठति नित्यशः | सर्वदुःखविनिर्मुक्तो लभते वाञ्छितं फलम् | स्वरज्ञानं शिवे यस्य लक्ष्मीः पदतले भवेत् | प्राणवत् सर्वदेवानां ब्रह्माण्डे भास्करो यथा | मर्त्यलोकेऽयमापूज्यः स्वरज्ञानी पूमानपि | नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च | नैव तेन भवेत्तूल्यं लक्षकोटिरसायनम् | एकाक्षरप्रदातारं नाडीभेदेन भेदकम् | पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चाऋणी भवेत् | स्वरतत्त्वं तथा युद्धं दिव्यवश्यत्रयन्तथा | एवं प्रवर्त्ततेलोके प्रसिद्धं सिद्धियोगिभिः | एतत् तन्त्रं महाभागे ! पठनात् सिद्धिदायकम् | सुस्थासनं समासीनो नीरजायतलोचने ! | चिन्तयेत् परमात्मानं यो वदेत् स भविष्यति || इति श्रीप्राणतोषिण्यां षष्ठे ज्ञानकाण्डे स्वरज्ञानरूपशाखाकथनं नाम द्वितीयः परिच्छेदः || अथ राजयोगः || योगस्वरोदये | ईश्वर उवाच | राजयोगं प्रवक्ष्यामि शृणु सर्वत्र सिद्धिदम् | गुह्याद्गुह्यतरं देवि ! नानाधर्मं परात्परम् ! राजयोगेन देवेशि ! नृपपूज्यो भवेन्नरः | राजयोगी चिरायुश्च अष्टैश्वर्यमयो भवेत् || पञ्चदशप्रकारोऽयं राजयोगः || क्रियायोगो ज्ञानयोगः कर्मयोगो हठस्तथा | ध्यानयोगो मन्त्रयोग उरयोगश्च वासना | राजत्येतद् ब्रह्मवशीव एभिश्च पञ्चदशधा | इदानीं लक्षणञ्चैषां कथयामि शृणु प्रिये ! | ध्यानपूजादानयज्ञजपहोमादिका क्रिया | क्रियामुक्तिमयो योगः सपिण्डिसिद्धिदायकः | यत्कारोमीति सङ्कल्पं कार्यारम्भे मनः सदा | तत्साङ्गाचरणं कुर्वन् क्रियायोगरतो भवेत् | क्षमाविवेकवैराग्यशान्तिसन्तोषनिस्पृहाः | एतन्मुक्तियुतो योऽसौ क्रियायोगो निगद्यते | मात्सर्यं ममता माया हिंसा च मदगर्विता | कामः क्रोधो भयं लज्जा लोभो मोहस्तथाऽशुचिः | रागद्वेषौ घृणालस्यश्रान्तिदम्भक्षमाभ्रमाः | यस्यैतानि न विद्यन्ते क्रियायोगी स उच्यते | स एव मुक्तः स ज्ञानी चण्डि ! नाशेन ईश्वरः | क्रियामुक्तिकरो योऽसौ राजयोगः स मुक्तिदः | ज्ञानयोगं प्रवक्ष्यामि तज्ज्ञानी शिवतां व्रजेत् | पठनात् स्मरणाद्व्यानान्मण्डनात् ब्रह्मसाधकः | तद्भेदस्यैकसन्धानमष्टैश्वर्यमयो भवेत् | त्रितीर्थं यत्र नाडी च त्रिपुण्यं परमेश्वरि ! | स्वदेहे यो न जानाति स योगी नामधारकः | नवचक्रं कलाधारं त्रिलक्षं व्योमपञ्चकम् | स्वदेहे यो न जानाति स योगी नामधारकः | एषोऽस्य विश्वरूपस्य राजयोगो मतो बुधैः | विशेषं कथयिष्यामि शृणु चैकमनाः सति ! | मूलकन्दे स्थले चैका नाडी तेजस्वती परा | गुदोर्द्धे सा त्रिभागाभूदिडा नाम शशिप्रभा | शक्तिरूपामहानाडी ध्यानात् सर्वार्थदायिनी | दक्षिणेऽपि कुलाख्येति पुंरूपा सूर्यविग्रहा | मध्यभागे सुषुम्नाख्या ब्रह्मविष्णुशिवात्मिका | शुद्धचित्तेन सा विज्ञा विद्युत्कोटिसमप्रभा | प्. ८३२) भुक्तिमुक्तिप्रदा ध्यानादणिमादिगुणप्रदा | सुषुम्नान्तः समाश्रित्य नवचक्रं यथा शृणु | मूलाधारं चतुष्पत्रं गुदोर्द्धे वर्त्तते महत् | तन्मध्ये स्वर्णपीठे तु त्रिकोणं मण्डलं परम् | तत्र वह्निशिखाकारा मूर्त्तिः सर्वत्र सिद्धिदा | अस्या ध्यानं मनोमध्ये विना पीठेन वाङ्मयम् | सर्वशास्त्राणिसङ्कर्षं सदा स्फुरति योगवित् | लिङ्गमूले तु पीठाभं स्वाधिष्ठानन्तु षड्दलम् | तन्मध्ये बालसूर्याभं महज्ज्योतिः सुसिद्धिदम् | ध्यानाच्च वर्द्धते आयुः कन्दर्पसमतां व्रजेत् | तृतीयं नाभिदेशे तु दिग्दलं परमाद्भुतम् | महामेघप्रभं तत्तु कोटिविद्युत्समन्वितम् | कल्पान्ताग्निसमं ज्योतिस्तन्मध्ये संस्थितं स्वयम् | तस्य ध्यानाच्चिरायुः स्यादरोगो जगतां वरः | सर्वपापविनिर्मुक्तो जगत्क्षोभकरो महान् | अनाहतमष्टपीठं चतुर्थकमलं हृदि | सूर्यपत्रं महाज्योतिर्महासूक्ष्मन्तु चाक्षुषम् | सूर्यपत्रं द्वादशदलम् | तन्मध्येऽष्टदलं पद्ममूर्द्धवक्त्रं महाप्रभम् | प्राणवायोः स्थलञ्चास्य लिङ्गाकारन्तु कर्णिका | कालिकाख्या कर्णिकेयं अस्या मध्ये तु कुण्डली | पद्मवत्याः प्रभाङ्गुष्ठप्रमाणा रत्नसन्निभा | तस्यासङ्गी जीव इति अनन्तो बलरूपतः | अस्य ध्यानं जगद्वश्यं खेचरीसर्वगो भवेत् | भवन्ति वश्या देवाद्याश्चिन्ताकर्त्तुर्न चान्यथा | इष्टानिष्टो भवेद्वश्यः सत्यं सत्यं न संशयः | इष्टसिद्धिर्भवेत्तस्य सर्वज्ञादिगुणोदयः | कलापत्रं पञ्चमन्तु विशुद्धं कण्ठदेशतः | अस्य मध्ये पुमानेकः कोटिचन्द्रसमप्रभः | नश्यन्त्यसाध्यरोगा हि सहस्रायुश्च चिन्तनात् | आज्ञाख्यं षष्ठकं चक्रं भ्रुवोर्मध्ये द्विपत्रकम् | अग्निज्वालानिभं ज्योतिः पुंसः स्त्रीतो विवर्जितम् | ध्यानाच्चास्य सर्वसिद्धिरजरामरतां व्रजेत् | चतुःषष्टिदलं तालुमध्ये चक्रन्तु मध्यमम् | पीयूषपूर्णं कोटीन्दुसन्निभं प्. ८३३) चामृतस्थली | तन्मध्ये घटिकासंज्ञा कर्णिका रक्तसन्निभा | सह चेन्दुकला तत्रामृतधारां स्रवत्यसौ | एतद्ध्यात्वामृतैः स्नात्वा सदा योगात् प्रमुच्यते | उन्मादज्वरपित्तादिदाहशूलादिवेदनाः | नश्यन्ति च शिरोदुःखं जाड्यभावोऽपि नश्यति | सद्योध्यानाद्भुक्तविश्वं जिह्वाजाड्यञ्च नश्यति | ब्रह्मरन्ध्रेऽष्टमं चक्रं शतपत्रं महाप्रभम् | जालन्धरं नाम पीठं एतत्तु परिकीर्त्तितम् | सिद्धपुंसः स्थलं ज्ञात्वा अग्निधूमनिभा शिखा | आदिमध्यान्तहीना स्त्रीपुंमूर्त्तिवर्त्तते परा | अन्तज्ञानी भवेद्ध्यानादाकाशेऽपि समागमः | निरन्तरं सर्ववेत्ता इत्यूचानो महान् भवेत् | जगन्मध्ये स्थितो जन्तुर्जगद्बाधाविवर्जितः | नवमन्तु महाशून्यं चक्रन्तु तत्परात्परम् | तदुपरि परं किञ्चिन्नास्ति किञ्चिन्महापरम् | महाचक्रं सिद्धचक्रं पूर्णगौर्यादिसंज्ञकम् | तन्मध्ये वर्त्तते पद्मं सहस्रदलमद्भुतम् | ऊर्द्ध्ववक्त्रं महावक्त्रे वर्णशोभापदं महत् | सर्वकल्याणसम्पूर्णमस्य तुल्यं न विद्यते परिमाणं वक्तमस्य मनसा वचसा न हि | त्रिकोणकर्णिका तत्र वर्त्तते जगदीश्वरि ! | कला सप्तदशी तत्र वर्त्तते परमेश्वरि ! | निरञ्जनकला सा तु कोटिसूर्यसमप्रभा | कोटिचन्द्रप्रभा चैव शीतोष्णादिविवर्जिता | अस्य ध्यानात् साधकस्य मनोदुःखं भवेन्न हि | अनन्तपरमानन्दस्थानं ज्ञेयं तदूर्द्ध्वतः | ऊर्द्ध्वगतकला तत्र तस्य ध्यानाद्भवेदिति | इति सिद्धिराजयोगं स्त्रीणां भोगं महासुखम् | गीतवाद्यविनोदादि सशिवं वर्द्धते क्षितौ | ध्यानं निरन्तरञ्चास्य पुण्यपापे स्थिरे न हि | निजरूपस्य दृष्टिः स्याद्दूरस्यार्थञ्च पश्यति || सुखसाध्यं लक्षयोगमिदानीं शृणु पार्वति ! | पञ्चधा लक्षयोगश्च ऊर्द्धलक्षादिभेदतः | ऊर्द्धलक्षः अधोलक्षो वाह्यलक्षस्तथैव च | मध्यलक्षस्तथा ज्ञेयोऽनन्तलक्षस्तथैव प्. ८३४) च | लक्षणं शृणु चैषां हि फलं ज्ञात्वा महेश्वरि ! | आकाशे दृष्टिमास्थाय मन ऊर्द्धन्तु कारयेत् | ऊर्द्धलक्षो भवेदेष परमेशस्य चैकता | नासिकोपरि देवेशि ! द्वादशाङ्गुलमानतः | दृष्टिः स्थिरा तु कर्त्तव्या अधो लक्षमिमं भज | अथवा नासिकाग्रे तु स्थिरा दृष्टिरियं भवेत् | स्थिरा दृष्टिश्चिरायुः स्यात्तथासौ स्थिरदृष्टिमान् | वाह्यलक्षं स्वयं ज्ञेयं याति तत्त्वनिवासिनाम् | कामिनान्तु वहिर्दृष्टिश्चिन्तादिषु सुसिद्धिदा | एषा वाह्यमध्यलक्षा इष्टचिन्ता निराकुलम् | अन्तर्लक्षं शृणु शुक्रदिग्विदिगादिवर्जितम् | चलज्जाग्रत्सुषुप्तेषु भोजनेषु च सर्वदा | सर्वावस्थासु देवेशि ! चित्तं शून्ये नियोजयेत् | कर्त्ताकारयिता शुन्यः मूर्त्तिमान् शून्य ईश्वरः | हर्षशोकघटस्थोऽयं जन्म मृत्यु लभेत् स्वयम् | घटस्थाचिन्त्ययोर्मूर्त्तिर्हतचिन्तास्वरूपधृक् | विषयं विषवद्दुष्टं त्यक्त्वा ज्ञात्वा तु मारुतम् | संज्ञाशून्यमना भूत्वा पुण्यपापैर्न लिप्यते | बाह्यमभ्यन्तरं खं हि अन्तर्लक्षमिति स्मृतम् | एतद्द्यानात् सदा किञ्चित् दुःखं न स्याच्छिवो भवेत् | शून्यन्तु सच्चिदानन्दं निःशब्दं ब्रह्मशब्दितम् | सशब्दं ज्ञेयमाकाशमिति भेदद्वयन्त्विह | इदानीं कथयिष्यामि राजयोगस्य लक्षणम् | राजयोगे कृते पुंभिः सिद्धिचिह्नं भवेदिति | परिपूर्णं भवेच्चित्तं जगत्स्थोऽपि जगद्वहिः | न क्षोभो जन्म मृत्युश्च न दुःखं न सुखं तथा | भेदाभेदौ मनःस्थौ न ज्ञानं शीलं कुलं तथा | प्रकाशकुशसम्बन्धिप्रसङ्गोऽयं निरन्तरम् | सर्वप्रकाशकोऽसौ तु नष्टभेदादिरेव च | अस्य जातेर्न चिह्नञ्च निष्कलोऽयं निरञ्जनः | अनन्तोऽयं महाज्योतिर्वाञ्छांभोगं ददाति च | अस्य चित्ते नानुरागो विरागो न भवेदिति | राज्य प्राप्तेऽपि नो हर्षो हानौ दुःखं भवेन्नहि | क्वचिद्वस्तुनि देशस्य निःस्वने प्. ८३५) केषु कुत्रचित् | विद्याविद्यामित्रशत्रौ समा दृष्टिश्च सर्वशः | भोगासक्तादिकर्त्तृत्वेन मनो नो भवेत् खवत् | लोकमध्ये भवेत् कर्त्ता मनोमध्येऽपि निष्क्रियः | एषोऽपि राजयोगीति सुखे दुःखे समस्तथा | हर्षशोकौ न जात्वेषां नोद्वेगो लोकसङ्गमे | नित्योल्लासे निराकारे निरासने निरात्मनि | मनसा निश्चलो भूत्वा सदा तिष्ठेत् समोऽपि च | यथाकाशे भ्रमन् वायुराकाशं व्रजते स्वयम् | तथाकाशे मनो लीनं राजयोगक्रिया मता | जगत्संसर्गनिर्लेपं पद्मपत्रजलं यथा || इदानीं हठयोगस्तु कथ्यते हठसिद्धिदः | कृत्वासनं पवनाशं शरीरे रोगहारकम् | पूरकं कुम्भकञ्चैव रेचकं वायुना भजेत् | इत्थं क्रमोत्क्रमं ज्ञात्वा पवनं साधयेत् सदा | धौत्यादिकर्मषट्कञ्च प्रकुर्याद्धठसाधकः | एतन्नाड्यान्तु देवेशि ! वायुपूर्णं प्रतिष्ठितम् | ततो मनो निश्चलं स्यात्तत आनन्द एव हि | हठयोगान्न कालः स्यान्मनोनाशो भवेद् यदि | इदानीं हठयोगस्य द्वितीयं भेदमच्छृणु | आकाशे नासिकाग्रे तु सूर्यकोटिसमं स्मरेत् | श्वेतं रक्तं तथा पीतं कृष्णमित्यादिरूपतः | एवं ध्यात्वा चिरायुः स्यादङ्गाजननवर्जितम् | शिवतुल्यो महात्मासौ हठयोगप्रसादतः | हठाज्ज्योतिर्मयो भूत्वा ह्यन्तरेण शिवो भवेत् | अतोऽयं हठयोगः स्यात् सिद्धिदः सिद्धसेवितः | इदानीं ज्ञानयोगस्य लक्षणं कथ्यते शिवे ! | यज्ज्ञात्वा ज्ञानसम्पूर्णः शिवः स्यान्न पुनर्भवः | एकमेव जगत् पश्येद्विश्वात्मा विश्वभावनः | इति कृत्वा तु वै युक्तो ज्ञानयोगं समाचरेत् | यत्र तत्र स्थितो वापि सर्वज्ञानमयं जगत् | य एवमस्ति बोधेन सोऽपि ज्ञानाधिकारवान् | प्राप्नोति शाम्भवीमन्त्रान् सदा नित्यपरायणः | यथा न्यग्रोधवीजं हि क्षितौ वप्तुर्द्रुमायते | आदावेकस्ततोऽनेकः प्. ८३६) स्वभावाच्छादनादिभिः | वर्द्धतेऽहर्निशं वृक्षः पत्रपल्लवविस्तृतः | स्नेहपुष्पफलैर्वीजैर्विस्तारोऽयं स्वभावतः | तथासौ निर्मलो नित्यो निर्विकारो निरञ्जनः | एकोऽनेकः खयं भूयान् साधनाद् बहुधा स्थितः | पञ्चतत्त्वमयो बुद्धिमायाहङ्कारविक्रियः | एवं बहुविधं विश्वं लोकालोकसुविस्तरम् | एकमेव न चान्वोऽस्ति यो जानाति स तत्त्ववित् | स्थावराः पर्वताद्या हि जङ्गमाः खेचरादयः | जङ्गमस्थावराकारः संसारः स्यात् स ईश्वरः | स्वभावलीलया भाति शून्येऽसौ शून्यबुद्धितः | यद्दृष्टं विषयं वस्तु तद्दृश्यमिति कथ्यते | यो दृष्टातीतः सोऽदृश्यस्तदा दृष्टं हि मन्यते | स्वतनूभेदमेवन्तु संसारं दुःखसङ्कुलम् | यत्नाद्दूरं परित्यज्य ज्ञानयोगो भवेत् सुधीः | ज्ञानसंयोग एकस्तु एकस्तु ज्ञानयोगवान् | अतो हि ज्ञानतोऽभिन्नं ज्ञेयं ज्ञानात् पृथक् पृथक् | दूरीकृत्यैवमापृथ्वी भेदवाक्येन दर्शनात् | ज्ञानयोगी भवेद् येन ज्ञानयोगस्तु चैककः | एवं ज्ञानान्महेशानि ! कालजित् शिवतां व्रजेत् | स्वभावभेदमेतत् शृणु देवि ! प्रयत्नतः | यच्छ्रुत्वा सर्वबोधः स्यात् मुक्तिदः सिद्धिवाञ्छितः | आत्मनो वा पृथिव्याद्याः स्वभावः किञ्चिदुच्यते | आत्मैव पृथिवी धात्री कोमला च क्वचिद्दृढा | क्वचिन्मनोहरा सा च विमला च मलामला | दुर्गन्धा च सुगन्धा च निर्गन्धा गन्धमोहिनी | स्वर्णरूपा धातुरूपा चित्रा रत्नमयी परा | क्वचित् श्वेता क्वचिद्रक्ता क्वचित् पीता च कृष्णला | ऊर्वरा ऊर्वरा सा तु विषामृतमयी सदा | तथा च देवगन्धर्वकिन्नराद्याः खगादयः | सुखसम्पिण्डितो रोगी तथैव क्रोधशान्तधीः | अशेषरूपबलितो नानाबुद्धिरतः स्वयम् | देवतत्त्वं भूतशक्त्या जीवसंज्ञा भ्रमात्मिका | ज्ञानयोगी निर्विकारो निस्ताप एक ईश्वरः | आत्मैकमूर्त्तिमान् भूत्वा निर्विकल्पो प्. ८३७) निरञ्जनः | सुखी दुःखी मोहयुक्तोऽनन्तचेताः स्वभावतः | स्त्रीपुंरूपी महान् सो हि परस्परविमोहितः | अमनस्कः स्वीयभावात् ज्ञानयोगी निराकुलः | स्रक्चन्दनादिवामासु स्वभावाद्भोगमिच्छुकः | सुखात्मकैः सुखस्थाय परदुःखाय सच्चितिः | आत्मना मनसा पद्भ्यां पुत्त्रादिरत्नसम्पदौ | असारसारणात्तर्हि ज्ञानधीर्मनसा भवेत् | आत्माविवेकमागम्य चलच्चित्तं महाकुलम् | विषयान्धतमो दृष्ट्वा नो वेत्ति परमात्मनः | अमायात्मा तत्त्वातीतः सत्सन्धानविवर्जितः | सुखी दुःखी जन्म मृत्युं याति सत्यं पुनः पुनः | वैराग्यादिधनं त्यक्त्वा विषवद् दुःखकृद्धियः | कोटिसूर्यसमात्मेति ज्ञानयोगाद्विमुच्यते | रवी तेजो घृतं दुग्धे तिले तैलं स्वभावतः | शशमिन्दौ कुले शाखं क्षारे च लवणं यथा | तथा ब्रह्मणि संसारो ह्यखण्डपरिपूर्वके | इदानीं वाह्यलक्षाणि सिद्धिदानि शृणु प्रिये ! | धारणाख्या तु चैतानि ज्ञातव्यानि विशेषतः | लीलया भावयेल्लीनं ज्योतिःपूर्णं महापरम् | अथवा तत्र देवेशि ! धूम्राकारं षडङ्गुलम् | अथवाष्टाङ्गुलं रक्तं नासिकोपरि लक्षयेत् | द्वादशाङ्गुलमानं वा पृथ्वीतत्त्वन्तु पीतभम् | लक्षयेदथवा तत्र कोटिसूर्यसमप्रभम् | तेजः पुञ्जं महाकाशं तत्तद्ध्यानाच्छिवो भवेत् | आकाशमध्ये आकाशोपरितो दृष्टिसुस्थिरम् | कृत्वा ध्यानाद्विना सूर्यं चण्डसूर्यन्तु पश्यति | अथवा लक्षमेतत्तु कर्त्तुर्वहिः शिवोपरि | ऊर्द्ध्वं सप्तदशाङ्गुल्यं प्रमाणं तेजसा प्रभम् | अथवा पृथिवीतत्त्वं तप्तकाञ्चनसन्निभम् | दृष्टिरग्रे तु कर्त्तव्यं लक्षमेतद्यतात्मनाम् | उक्तानां यस्य कस्यैव एकशः करणं प्रिये ! | बलीपलितहीनः स्यादौषधेन विना तथा | सर्वरोगाणि नश्यन्ति मित्रवच्च वशी रिपुः | जीवेद्वर्षसहस्रन्तु सर्वलोकेषु पूजितः | जिह्वाग्रे प्रभवेद्विद्या विना शास्त्रावलोकनात् | प्. ८३८) मूलकन्दोत्थतलतो ब्रह्मनाडीसमुद्भवा | श्वेतवर्णा ब्रह्मरन्ध्रपर्यन्तमेव तिष्ठति | एषा तु ब्रह्मरन्ध्राख्या तन्मध्ये वर्त्तते परा | पद्मतन्तुममाकारा कोटिसूर्यतडित्प्रभा | चलत्यूर्द्धं महामूर्त्तिरस्य ध्यानाद्भवेच्छिवः | अणिमाद्यष्टसिद्धिस्तु समग्रेण प्रसीदति | ललाटोपरि वा ध्यात्वा चन्द्रं वा ज्योतिरीश्वरम् | नाशयेत् कुष्ठरोगादीन् महायुष्मान् शिवः परः | भ्रुवोर्मध्येऽथवा ध्यात्वा अर्कन्तु तेज ईश्वरम् | स्थिरदृष्टौ राजपूज्यो जीवन्मुक्तः शिवो यथा | आत्मानमात्मरूपं हि ध्यात्वा यो निष्क्रियो भवेत् | निराशीर्यततत्त्वोऽयं इतरो न नृपस्थितिः | इदानीं शृणु नाडीनां भेदं वक्ष्यामि सिद्धिदम् | मेरुवाह्ये इडानाम्नी पिङ्गलया समन्विता | सुषुम्ना भानुमार्गेण ब्रह्मद्वारावधि स्थिता | सरस्वती सुगन्धा तु गान्धारी हस्तिजिह्वका | ज्ञातव्या कर्णयोर्मध्ये नेत्रयोश्च तथान्तिमा | पूषा चालम्बुषा चेति मूलस्था कुत्रचित् तथा | लिङ्गद्वारादिडामार्गे ब्रह्मस्थानावधि प्रिये ! | नाड्यन्तं प्रतिलोमेषु सहस्राणां द्विसप्ततिः | इदानीं देहमध्यस्थाः कथ्यन्ते दश वायवः | कार्यकारणभावेन कथ्यन्ते तानि चिह्नतः | प्राणवायुर्हृदि स्थित्वा श्वासोच्छ्वासं करोति सः | असिकान्तं पीतमीशं करोति योगसंज्ञकः | अपानो गुददेशस्थः करोत्याकुञ्चनं स तु | स्तम्भनञ्च तथापानः समानो नाभिमण्डले | तोषकादिपोषकन्तु नाडीनां रूचिदायकः | दीप्ताग्निमध्येऽपि तथा समानाख्या महापरा | तालुमध्ये उदानस्तु अश्नाति पिबतीति च | शरीरं सकलं व्याप्य व्यानवायुः प्रतिष्ठितः | शरीरे चालनं तेषु करोति स्थापयत्यपि | नेत्रमध्ये कूर्मनामा निमेषोन्मेषकृदयम् | उद्गारे नाग आख्यातः ऊर्द्धवायुः प्रचालने | कृकरः क्षुत्करो ज्ञेयो देवदत्तो प्. ८३९) विजृम्भणे | धनञ्चयः सच्चिदाकारो मृतदेहं न मुञ्चति | यद्यपि सर्गकाण्डे सर्वमेतदुक्तं तथापि कार्यकारणभावज्ञापनाय पुनर्निर्दिष्टमिति न पुनरुक्तम् | इदानीं मध्यलक्षन्तु कथ्यते सिद्धिकारकम् | श्वेतं रक्तं तथा पीतं धूम्राकारन्तु नीलभम् | अग्निज्वालासमानाभा विद्युत्पुञ्जसमप्रभा | आदित्यमण्डलाकारमथवा चन्द्रमण्डलम् | ज्वलदाकाशतुल्यं वा भावयेद्रूपमात्मनः | एतज्ज्योतिर्मयं देहं मनोमध्ये तु लक्षयेत् | एतेषाञ्च कृते लक्षे नानादुःखं प्रणश्यति | मनसस्तु मलो याति महानन्दो भवेत्ततः | कथ्यते तु देव्यधुनाकाशं पञ्चभिर्लक्षणैः | आकाशन्तु महाकाशं पराकाशं परात्परम् | तत्त्वाकाशं सूर्यकाशमाकाशं पञ्चलक्षणम् | सवाह्याभ्यन्तरे नित्यं निराकाशन्तु निर्मलम् | कर्त्तव्यं लक्षमाकाशं साधयेत् साधनं विना | घनान्तरालसदृशं पराकाशं तथैव च | कल्पान्ताग्निसमं ज्योतिर्महाकाशं स्मरेत्तथा | कोटिकोटिप्रदीपाभं तत्त्वाकाशं स्मरेत्तथा | सूर्याकाशं तथा कोटिसूर्यविन्दुसमं स्मरेत् | सवाह्याभ्यन्तरे चैवमाकाशं लक्षयेत्तु यः | शिववद्विहरेद्विश्वे पापपुण्यविवर्जितः | एतेषाञ्चैव लक्षेण कर्मद्वाराऽघमाहरेत् | नवचक्रं कलाधारं द्विलक्षं व्योमपञ्चकम् | समग्रं यो न जानाति स योगी नामधारकः | षोडशाधारभेदन्तु शृणु देवि ! विशेषतः | अङ्गुष्ठपादयोस्तेजः सलक्षस्थिरदृष्टिमान् | पादाङ्गुष्ठे य आधारः प्रथमो योगतत्त्वतः | द्वितीयं पादमूलन्तु पादमूलपरं स वै | पादस्य पार्ष्णी संस्थाप्य बलवान् प्रभवेन्मुनिः | पादमूलेऽथवा पादाङ्गुष्ठमूलं विधारयेत् | तृतीयन्तु गुदाधारो गुदसङ्कोचनक्रिया | विकाशाकुञ्चनं तस्य स्थिरवायौ च मृत्युजित् | लिङ्गाधारं चतुर्थन्तु लिङ्गसङ्कोचनन्तु च | लिङ्गसङ्कोचनाभ्यासात् प्. ८४०) पश्चिमादण्डमध्यगः | वज्रनाडीति तन्मध्ये पुनरभ्यसयं स्तथा | सञ्चारो वायुमनसोरतिसञ्चार इति त्रिधा | ग्रन्थित्रयविभेदस्तु तद्भेदो ब्रह्ममार्गतः | ब्रह्मपद्मो वायुपूर्णो भूत्वा तिष्ठति योगिराट् | वीर्यस्तम्भो भवेत्तेन साधयेत्तु सदा युवा | मूलाधारे ब्रह्मपद्मे षट्पद्मे च तथा तथा | पञ्चमं जठराधारं तदा बन्धयति क्रमात् | मृत्युना भङ्गसिद्धोऽयं मृत्योरेव क्षयङ्करः | अनेन पश्चिमादूर्द्धं वायुः कुर्याद्विशालधीः | बन्धोऽयं बुद्धिमनसोः पञ्चमाधारकालजित् | नाभ्याधारो भवेत् षष्ठस्तत्र प्राणं समभ्यसेत् | स्वयमुत्पद्यते नादो नादतो मुक्तिदन्ततः | सप्तमो हृदयाधारस्तस्मिन् वायुनिबन्धनात् | ऊर्द्धक्त्राणि पद्मानि विकसन्ति महान् भवेत् | कण्ठाधारोऽष्टमस्तत्र कण्ठसङ्कोचलक्षणः | जालन्धराख्यो बन्धः स्यात्तस्मिन् सति मरुद्दृढः | नवमो घण्टिकाधारस्तत्र जिह्वाग्रमग्रतः | सम्पिवत्यमृतं तस्माद् योगजिन्मृत्युजित्परः | दशमस्तालुकाधारस्तत्र जिह्वाग्रतः कृते | चलने दोहने चैव जिह्वा जडति लम्बिता | नासिकाप्राप्तजिह्वेयं तालुलग्ना भवेत्ततः | एकादशी भवेज्जिह्वा तलजाधार ईश्वरि ! | जिह्वाग्रमथने तस्मिन् पानीयं मधुरं भवेत् | तत्पीतेषु कविर्गीतिज्योतिश्छन्दोविदां वरः | दन्ताधारो द्वादशेति सर्वरोगक्षयङ्करः | धारयेद्दन्तयोर्मध्ये जिह्वाग्रञ्च बलादपि | धृत्वार्द्धघटिकामात्रं सर्वरोगन्तु नाशयेत् | नासाधारस्ततो ज्ञेयो नासालक्षस्त्रयोदशः | मनःस्थिरकरो यस्तु वायुस्थिरकरो महान् | नासापुटे स्थिरा दृष्टिराधारोऽयं चतुर्द्दशः | कृतेऽस्मिन् स्वीयतेजः स्यात् प्रत्यक्षं षट्त्रिमासतः | पार्थिवं त्रुटति क्षिप्रं प्रत्यक्षं स्वीयतेजसा | पञ्चदशो भ्रुवोर्मध्ये स्थिरदृष्टिस्तथा ध्रुवम् | अस्मिन् दृष्टिः स्थिरा कोटिः किरणानि स्फुरन्ति हि | नेत्राधारः षोडशोऽयमङ्गुल्यग्रेण चालयेत् | प्. ८४१) पृथ्वीमध्ये तु यत्किञ्चिद्वर्त्तते जठरानलः | प्रत्यक्षं तद्भवेत्सर्वं तदाभ्यासान्न संशयः | सर्वज्ञः प्रभवेत्तेन इति आधारषोडशः || इदानीं योगमष्टाङ्गं शृणु लक्षणसंयुतम् | यमश्च नियमश्चैव चासनं प्राणसंयमः | प्रत्याहारो धारणा च समाधिश्च विशेषतः | अष्टाङ्गयोग एभिस्तु चैतेषां लक्षणं शृणु | शान्तिः सन्तोष आहारो निद्राल्पा मनसो दमः | शून्यान्तःकरणञ्चेति यमा इति प्रकीर्त्तिताः | चापल्यन्तु दूरे त्यक्त्वा मनःस्थैर्यं विधाय च | एकत्र मेलनं नित्यं प्राणमात्रेण सा मतिः | सदोदासीनभावस्तु सर्वत्रेच्छाविवर्जनम् | यथालाभेन सन्तुष्टः परमेश्वरमानसः | मानदानपरित्याग एते तु नियमा इति | आसनानि च तावन्ति यावन्तो जीवजन्तवः | प्राणायामस्त्रिधा चेति बहुधा प्रथमं शृणु | आसने प्राणसंयामे न शक्ताः सुकुमारकाः | महापुण्यप्रभावेण शक्यते तु महात्मना | इडां शशिप्रभां ध्यात्वा मन्देन्दुना तु पूरयेत् | पूरयित्वा यथाशक्ति ध्यानयोगी तु कुम्भयेत् | महाज्योतिर्मनो भूत्वा वायुः पूर्णकलेवरः | शक्तित्रासन्तु सन्त्रास्य रेचयेद्वायुमर्हितः | पिङ्गलामर्कवर्णान्तु त्यजेद्ध्यात्वा शनैः शनैः | अयं पतङ्गः काष्ठाग्निप्रत्यासेन पुनः पुनः | कृत्वा कलेवरं शुद्धं कुर्याद्यत्नैर्महात्मना | मनो निवार्य संसारे विषयकार्ये तथैव च | मनोविकारभवञ्चैव त्यक्त्वा शून्यमयो भवेत् | प्रत्यहारो भवत्येव सर्वनिन्दाचमत्कृतः | ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मविभेदतः | स्थूलं मन्त्रमयं विद्धि सूक्ष्मन्तु मन्त्रवर्ज्जितम् | समाधिर्निश्चला बुद्धिः श्वासोच्छ्वासादिवर्जितः | पिण्डब्रह्माण्डयोरैक्यं शृण्विदानीं प्रयत्नतः | ब्रह्माण्डे सन्ति ये चाण्डाः पिण्डमध्येऽपि ते स्थिताः | तलं पादाङ्गुष्ठतले तस्योपरि प्. ८४२) तलातलम् | महातलं गुल्फयोर्मध्ये गुल्फोपरि रसातलम् | सुतलं जङ्घयोर्मध्ये वितलं जानुमध्यकम् | ऊर्वोर्मध्येऽतलं प्रोक्तं सप्तपातालमीरितम् | तलं तलातलञ्चेति महातलरसातलम् | सप्तपातालमेतत्तु सुतलं वितलातलम् | इदानीं पिण्डमध्ये तु सप्तलोकं शृणु प्रिये ! | मूलाधारे तु भूर्लोको लिङ्गाग्रे तु भुवस्ततः | स्वर्लोको लिङ्गमूले तु मेरुमूले महस्तथा | मेरुच्छिद्रे जनोलोको मेरुनाड्यां तपस्तथा | कमले मर्त्त्यलोकस्तु इति लोकः पृथक् पृथक् | भूर्भुवः स्वर्महश्चेति जनश्चैव तपस्तथा | सप्तमः सत्यलोकस्तु सप्तलोक इति स्मृतः | सप्तलोकैस्तु पातालैर्भुवनानि चतुर्दश | अथ ब्रह्माण्डमध्यस्थाश्चत्वारो लोकपालकाः | पिण्डमध्ये तु तान् ज्ञात्वा सर्वसिद्धीश्वरो भवेत् | इन्द्रो ब्रह्मा विष्णुरीशश्चत्वारश्चात्मदेवताः | मूलाधारे चतुष्पत्रे गजारूढो महानिति | सृष्टिकर्त्ता च तत्रैव स्वाधिष्ठाने महान् हरिः | मणिपूरे शूलपाणिरष्टसिद्धीश्वरो महान् | तालुद्वारे तालुमध्ये ललाटे वक्षकण्ठके | शृङ्गाटिका कपाले च लम्बिका ब्रह्मरन्ध्रके | नवचक्रमूर्द्ध्वचक्रञ्च त्रिकूटेत्येकविंशतिः | ब्रह्माण्डानि वसन्तीति ज्ञातव्यानि प्रयत्नतः | सप्त द्वीपानि कथ्यन्तेऽधुना तानि शृणु प्रिये ! | जम्बूद्वीपस्तु मज्जायां शाकद्वीपस्तु मध्यमः | शाल्मद्वीपः शिरोमध्ये मांसमध्ये कुशस्तथा | त्वचि क्रौञ्चो लोममध्ये गोमयद्वीप ईरितः | नखमध्ये तथा श्वेतः सप्तद्वीपा वसुन्धरा | जम्बूः शाकस्तथा शाल्मः कुशः क्रौञ्चश्च गोमयः | श्वेतः सप्तेति खण्डानि सप्तखण्डैर्वसुन्धरा | गुप्तान्येतानि रूपाणि देहमध्ये स्थिराणि च | समुद्राः सप्त कथ्यन्ते पिण्डमध्ये व्यवस्थिताः | लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः | लवणं स्वेदमध्ये तु इक्षूरक्ते मधु त्वचि | सर्पिर्मेदो वसा मध्ये दधि क्षीरं ललाटके | प्. ८४३) वीर्यमध्येऽमृतो ज्ञेयः पादे कूर्मः स्थितो महान् | इदानीन्तु नवद्वारे नव खण्डानि संशृणु | पायवादौ भारतं खण्डं काश्मीरं त्रिकमण्डलुम् | द्विजखण्डमेकपादं खण्डं वक्ष्ये समण्डलम् | कैवर्त्तं गर्त्तगान्धारं नवखण्डमिति स्थितम् | इदानीं पर्वताश्चाष्टौ कथ्यन्ते शृणु यत्नतः | मेरुदण्डे सुमेरुस्तु पीठमध्ये हिमालयः | वामस्कन्धे तथा दक्षे मलयो मन्दराचलः | विन्ध्यस्तु दक्षिणे कर्णे वामे मैनाक ईश्वरि ! | ललाटे मध्यदेशे तु श्रीशैलः परमेश्वरि ! | तथा ब्रह्मकपाटस्थः कैलासः पर्वतो महान् | सुमेरुर्हिमवान् विन्ध्यो मलयो मन्दरस्तथा | श्रीशैलो मैनाकश्चेति कैलासोऽष्टौ च पर्वताः | अपरे पर्वताः सर्वे अङ्गुलीमध्यवासिनः | शरीरे नवनाडीस्था नर्मदा च महेश्वरि ! | इडायां यमुना देवि ! पिङ्गलायां सरस्वती | सुषुम्नायां वहेद्गङ्गा चान्योन्यासु च नाडिषु | गङ्गा सरस्वती गोदा नर्मदा यमुना तथा | कावेरी चन्द्रभागा च वितस्ता च इडावती | द्विसप्ततिसहस्रेषु नदीनदपरिस्रवः | इतस्ततो देहमध्ये ऋक्षश्च सप्तविंशतिः | योगाश्च राशयश्चैव ग्रहाश्च तिथयस्तथा | लहरीषु मीनमनी चावाहनं स्थापनं तथा | सर्वाङ्गेषु च देवेशि ! समग्रं ऋक्षमण्डलम् | त्रयस्त्रिंशत्कोटयस्तु निवसन्ति च देवताः | तथा पीठानि सर्वाणि देहमध्ये स्थितानि च | हृदये व्योममध्ये तु अनन्ताद्यास्तु वासुकिः | उदरे व्योममध्ये तु परे नागा वसन्ति हि | गन्धर्वकिन्नराः शूरा विद्याधराप्सरादयः | अनेकतीर्थवर्णाश्च गुह्यकाश्च वसन्ति हि | अनन्तसिद्धयो बुद्ध्या प्रकाशो वर्त्तते हृदि | मेघस्य मण्डलं ज्ञेयम् अश्रुपाते तथैव च | चन्द्रार्कौ नेत्रयोर्मध्ये जङ्घा लोमसु साक्षिणः | तृणगुल्मादिकञ्चापि विश्वरूपं स्मरेत्ततः | समग्रदर्शनान्मुक्तः स्वर्गभोगञ्च मत्सुखम् | प्. ८४४) तदेतच्चिन्तया याति रोगशोकविवर्ज्जितः | यत्कर्मा कर्मणा शङ्का मनोमध्ये भवेद्वहिः | तत्कर्मकरणं मुक्तिरित्याह भगवान् शिवः | यस्य दर्शनमात्रेण रोगशोकविवर्जितः | परमानन्दचित्तः स्यात्तपस्वी चैव कीर्त्तितः | सप्तद्वीपा भवेद्दृष्टा तत्त्वज्ञानं ततो भवेत् | सर्वभावं विजानीयाद् वज्रदेहो भवेत्तथा | सर्पदष्टे विषं न स्यात् क्षुधा निद्रा तृषा तथा | उष्णता शीतता चेति वाक्सिद्धिः स्यान्न संशयः | विद्युत्पातेऽपि देहस्य क्वचिद्धानिर्न जायते | ततोऽसौ वायुयोगी स्याद्दृष्ट्वा पृथ्वीकुलान्वितः | अणिमाद्यष्टसिद्धिः स्यान्महापद्मोदयस्तथा | आगच्छन्ति समीपे च निधयो नात्र संशयः | यत्रेच्छा गमनं तत्र स्वर्गे मर्त्त्येरसातले | स्फुरत्याज्ञाख्यः सर्वत्र समीपे परमेश्वरः | कारणे हारणे शक्तो रक्षणेऽपि च पार्वति ! | आत्ममध्ये मनो नित्यं निर्जने निवसेत् सुधीः | कृत्वात्ममनसोरैक्यं प्राप्नोति परमं पदम् | चन्द्रः सूर्यः स्थिरो यावत् तावद्देहस्थितिस्तथा | तावदेकं समाभाष्य प्राप्नोति च सदागतिः | स भवेत् कविता धीरा निश्चला शान्तिरेव च | गुरुपादप्रसादेन तदैक्यं याति सिद्धिभाक् | अधुना कमलानान्तु शृणु सङ्केतमद्भुतम् | अनेकाकारभेदोत्थं कं स्वरूपन्तु निर्मलम् | कमलं तेन विख्यातं त्रिविधं तत्त्वदेहकम् | तत्राधारश्चतुष्पत्रे सत्त्वरजस्तमोदयः | एतद्भावस्थितश्चात्मा साध्वसाधुकरो भवेत् | अस्मिन् सति स्थिरे चित्ते यमो वन्दीव गच्छति | अनाहतो द्वितीयं यत्कथ्यते शृणु श्रद्धया | अनाहते महापीठे चतुरस्रसमन्वितम् | वर्त्ततेऽष्टदलं पद्ममधोवक्त्रन्तु सत्पुरम् | स्पर्शशब्दरूपरसगन्धा बुद्धिर्मनस्तथा | अहङ्कारः क्रमादेते तत्राष्टदलसंस्थिताः | सपर्या पृथगाकारा वर्त्तते तत्र निश्चितम् | ध्यानादात्मप्रकाशोऽस्य प्रकाशं कमलं ततः | प्. ८४५) यथा सूर्यप्रकाशेन ऊर्द्ध्ववक्त्रं प्रकाशितम् | आत्मध्यानात् सदा तत्र आयुर्वृद्धिर्द्दिने दिने | शक्तिप्रसन्नता स्याच्च रोगशोकविवर्जितः | यस्य मुद्राभ्यासशाली सम्यक् सिद्धा च खेचरी | चिदानन्दमयं चित्तं चेतना चन्द्रिकान्विता | परमात्मा महासूर्यः सूर्य एकः प्रकाशकः | प्रकाशानन्दयोरैक्यं कर्त्तव्यञ्च निरन्तरम् | दीप्तस्तथा महाज्योतीरविर्भाति परं पदम् | सदोदितं मनःसूर्यं चन्द्रज्योतिरिवेक्षते | तन्मध्ये नाभिकर्तेति करणं ना कुलाकुलम् | अव्यक्तन्तु परं तत्त्वमनित्यं वर्त्तते सदा | एको नाम पुमानस्ति तस्मात्तस्मात् परं पदम् | तस्मात्तु परमं शून्यं तस्मात् स्यात्तु निरञ्जनम् | एते पञ्चगुणोपेताः कथ्यन्ते तद्गुणं यथा | निर्गुणत्वं निर्मलत्वं परिपूर्णत्वमेव च | व्यापकत्वं केवलत्वं आनन्दस्य गुणा इति | निराकारत्वनित्यत्वनिजत्वञ्च निरञ्जनम् | निर्णिकेतनता चेति तत्पदस्येति तद्गुणाः | लीनताशीर्णतामूर्च्छातोयमण्डलता इति | गुणाः पञ्च समाख्याताः शून्यस्य परमस्य वै | स्वभावं सहजं सत्यं शान्तिः शान्तिस्वरूपतः | इति | निरञ्जनगुणाः पञ्च एतज्ज्ञानी महेश्वरः | विद्योत्पत्तिस्तदानीन्तु कथ्यते शृणु यत्नतः | आनन्दपरमात्मेति परमानन्द एकतः | प्रबोधपरमानन्दचित्तोत्पत्तिप्रबोधवान् | चिदुदयात् प्रकाशश्च एषां पञ्च तथैव च | अविनाश्योऽक्षयोऽभेदोऽदाह्यो ह्यखाद्य एव च | एते पञ्च गुणाः प्रोक्ता अनादो नादवैरिणा | किरणस्फूर्त्तिविस्फूर्त्तिहर्षवत् परमात्मना | तेतु पञ्च प्रकारेण गुणाः पञ्च प्रकीर्त्तिताः | विचारश्च प्रभोल्लासा विभावश्च लयस्तथा | प्रबोधस्य गुणाः पञ्च कीर्त्त्यन्ते तेन हेतुना | अभ्यासकर्तृकमनाः सर्वतत्त्वप्रभा तथा | चिदुदयस्य पञ्चेति गुणा ज्ञेया विशेषतः | बोधनं समयत्वञ्च विस्मृतिः प्. ८४६) सकलप्रभा | प्रकाशस्य गुणाः पञ्चचैते ज्ञानकराः शुभाः | एतज्ज्ञाने ततश्चैषां ज्ञानमुत्पद्यते महत् | आकाशात् पवनो वायोस्तेजस्तेजस एव च | जलं जलात्तथा पृथ्वी एषां पञ्चगुणास्तथा | अगोचराद्वयानन्तग्राह्यमेषां तथात्मनः | सञ्चारश्चालनं शेषे पञ्चधूम्राभमम्बरे | उष्मप्रकाशरक्ताभज्वालादाहस्तु तेजसा | प्रकाशादेव शैथिल्यमधुता श्वेततज्जले | स्थूलसाकारकाठिन्यगन्धं पातमृदौ तथा | महाभूतानि पञ्चेति देहमध्येऽधुना शृणु | महाभूतानि पञ्चेति पृथ्वीतेजो मरुत् खकम् | एतेषाञ्च तथा पञ्चगुणस्थानं शृणु प्रिये ! | अस्थि मांसं लोम नाडी त्वक् चेति पृथिवीगुणाः | क्षुधातृष्णालस्यनिद्रा ग्लानिश्च पञ्च वारिणः | रोगो लज्जा भयोद्वेगौ धारणा च मरुद्गुणाः | एतज्ज्ञानेनैव तेषां बुद्धिरुत्पद्यते शुभा | यद्यपि सर्गकाण्डे पृथ्व्यादेर्गुणा उक्तास्तथाप्येतज्ज्ञानेनेत्यनेन कार्यकारणभावदर्शनाय पुनरुच्यन्ते | मनो बुद्धिरहङ्कारश्चित्तं चैतन्यमेव च | एते पञ्चप्रकाराश्च अन्तःकरणसम्भवाः | मननामननं ज्ञेयं बुद्ध्यादिपञ्च पञ्च तु | विवेकशान्तिसन्तोषक्षमावैराग्यतेति च | एते पञ्चगुणा बुद्धेरहङ्कारगुणान् शृणु | अहम्भावमहञ्चादियुगान्तं हिंसनं तथा | वृत्तिः स्मृतिर्मतिस्त्याज्यं निराशं चैतिका गुणाः | निःस्पृहता द्वेषताधैर्यं विमर्षचिन्तनं तथा | चित्तेर्गुणास्त्रयो जीवगुणान् शृणु महेश्वरि ! | आस्था श्रद्धा कृपा भक्तिः सत्यं सत्त्वगुणा इति | त्यागो भोगश्च श्रद्धा च सार्थवस्तुस्पृहा तथा | रसो पञ्चगुणाः चैते तामसस्य गुणान् शृणु | प्रमोदः स्वादकलहौ विवादो भ्रान्तिवर्द्धनम् | वञ्चनञ्च तथा शोकस्तामसस्य गुणा इमे | स्वप्नजाग्रत्सुषुप्तानि चैतन्यं जीवका गुणाः | एतादृशि सति तत्त्वं चैतन्यात्तद्भवेदिति | प्. ८४७) प्रकृतीच्छा क्रिया माया वचः पञ्च गुणा इति | आशा तृष्णास्पृहाकाङ्क्षामिथ्यान्तं प्रकृतेरिति | उन्मादो वासना वाञ्छा चेक्षिता च गुणाः प्रिये ! | शरणं सत्कुलाचारः कार्यनिश्चय उच्यते | इदं योगरहस्यञ्च न वाच्यं मूर्खसन्निधौ || योगदेशस्तु तत्रैव || उत्पातरहिते देशे कण्टकादिविवर्जिते | अभ्यस्यते सदा योगः समः स्यात् सुखदुःखयोः | सुराजनि समाश्रित्य कर्त्तव्यो निरुपद्रवे | देशे तु सर्वशस्याढ्ये लोभमोहविवर्जिते | स्तुतिर्निन्दा न कर्त्तव्या साधुना सत्यवादिना || योगानधिकारिणमाह तत्रैव || मनोमध्ये दया नास्ति सदा यः कलहप्रियः | स्वकार्यलोभने शीलो गुरुकार्यपराङ्मुखः | एतस्मै च न दातव्यं वक्तव्यं तस्य सन्निधौ | नञुभयत्र सम्बध्यते न वक्तव्यमित्यर्थः | योगाधिकारिणोऽपि तत्रैव || भावाभावविनिर्मुक्तः सर्वग्रहविवर्जितः | सदानन्दमयो योगी सदाभ्यासी सदा भवेत् | विरुद्धे दुःखदेशे च विरूपेऽतिभयानके | एतदनिष्टसंस्पर्शे न्यूनाधिके बलाधिके | एवम्भूतस्य कर्माणि सङ्कल्परहितानि च | एवं गच्छन् स्वपन् पश्यन् पापपुण्यैर्न लिप्यते | उत्पन्नतत्त्वबोधः स्यात् सदा शीलस्य सर्वदा | परे दृष्टिविलं न स्याद् विविधानि मृतानि च | अन्तःकरणमेतस्ययोगिनो निष्क्रियं तु स | सर्वदा सहजस्तस्य निष्कलाध्यात्मवादिनः | यदा प्रयत्ननिष्पाद्यं ग्राह्यं सर्वमकारणम् | यस्य चित्ते हठं नास्ति सहजानन्दनिर्भरम् | कर्त्तव्या च स्थिरा दृष्टिस्तेनैव परमं स्थिरम् | मनः स्थिरञ्च तेनैव कर्त्तव्यं तत्परं पदम् | इदानीं योगमाहात्म्यं कथ्यते यद्भवेत्ततः | गुरोरनुग्रहाच्छास्त्रपाठादाचारतस्तथा | वेदान्तार्थरहस्यार्थसर्वज्ञानादुपासनात् | आसनाद्धारणाद्ध्यानाल्लयषट्कर्मसाधनात् | आसनाच्चतुरशीतिवैराग्यत्यागसम्भवात् | प्. ८४८) हठयोगाद्वरौषध्यात् मुद्रासाधनमानतः | वनवासाद्बहुक्लेशात्तथा मन्त्रादिसाधनात् | बहुदानतपस्तीर्थसेवनाद् दानशिक्षणात् | सन्ध्यात्रयग्रहेणाथ षडदर्शग्रहणात्तथा | शिरोम्ण्डगतो न्यासाद् योगतत्त्वञ्च विद्यते | गुरुपादोदकं शिष्टसेविना सत्यवादिना | कन्यास्त्रादिदृष्टिपातहर्षगतिविवर्त्तनात् | प्रसादात् सद्गुरोः सम्यक् प्राप्नोति परमं पदम् | न गुरोरधिकं तत्त्वं यत्तस्मात् परमं पदम् | निमेषार्द्धेन तस्यैव आज्ञापालनतो भवेत् | महानन्दशतप्राप्तिस्तस्मै श्रीगुरवे नमः | नानाविकल्पविभ्रान्तिनाशञ्च कुरुते तु यः | सद्गुरुः स तु विज्ञेयो न तु वैरप्रकल्पकः | अत एव महेशानि ! सद्गुरुः शिव आदितः | सत्यवादी च सच्छीलो गुरुभक्तो दृढव्रतः | स्वल्पाचाररतात्मा यो दानादिशीलसंयुतः | कापट्यलोभविन्यासौ महावंशसमुद्भवः | ईदृशः सद्गुरुस्तस्य सङ्गतौ यत्नवान् भवेत् | तदेव मनसः शान्तिं प्राप्नोति परमं पदम् || दत्तात्रेयसंहितायां प्रथमाध्यये तु || योगो हि बहुधा ब्रह्मन् ! तत्सर्वम् कथयामि ते | मन्त्रयोगो लयश्चैव हठयोगस्तथैव च | राजयोगश्च सर्वेषां योगानामुत्तमः स्मृतः || इति योगभेदः || आरम्भश्च घटश्चैव तथा परिचयः स्मृतः | निष्पत्तिश्चेत्यवस्था च चतुर्द्धा परिकीर्त्तिता | इति योगावस्था | एतेषां विस्तरंवक्ष्ये इत्थं श्रोतुमिहेच्छसि | अङ्गेषु मातृकान्यासपूर्वं मन्त्रं जपन् सुधीः | एवञ्च मन्त्रसिद्धिः स्यान्मन्त्रयोगः स उच्यते | मृदुस्तत्राधिकारी स्याद्द्वादशाब्दैस्तु साधनात् | प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिका | अल्पबुद्धिरयं योगः सेवते साधकाधमः | मन्त्रयोगश्च यः प्रोक्तो योगानामधमः स्मृतः || इति मन्त्रयोगः || लययोगश्चित्तयोगात् सङ्केतैश्च प्रजायते | आदिनाथेन सङ्केतानन्तकोटिः प्रकीर्त्तिता | साङ्कृतिरुवाच | भगवन्नादिनाथस्य कोऽयं रूपः स उच्यताम् || दत्तात्रेय उवाच || देवदेवस्य नामेदं आदिनाथश्च भैरवः | स्वशरीरैश्च देवोऽयं लीलया च विरिञ्चिभः | श्रीकण्ठपर्वते गौर्या सह प्रथमनायकः | महेन्द्रपर्वते चैव कदलीवनगोचरे | गिरिकूटे चित्रकूटे सपादनियुते गिरौ | कृपयैकैकसंयुक्तं शवरेभ्येऽपि दत्तवान् | तानि सर्वाणि वक्तुं हि न शक्नोमि तु विस्तरात् | कानिचित् कथयिष्यामि सहजाभ्यासतः सुखम् | तिष्ठन् गच्छन् स्वपन् भुञ्जन् शून्यं ध्यायेदहर्निशम् | अयमेको हि सङ्केत आदिनाथेन भाषितः | नासाग्रदृष्टिमात्रेण परमः परिकीर्त्तितः | शिवः पद्मे तु भर्गस्य ध्यानं मृत्युञ्जयः परः | हु/ | भ्रूमध्ये दृष्टिमात्रेण परः सङ्केत उच्यते | विभूतिलेपलाभोऽपि उत्तमः परिकीर्त्तितः | स्वस्य दक्षिणपादस्याङ्गुष्ठेन लयमुत्तमम् | उत्तमः शरवद्भूमौ शयनञ्चोक्तमुत्तमम् | शिथिले निर्जने देशे कुर्याच्चेत् सिद्धिमाप्नुयात् | एवञ्च बहुसङ्केतान् कथयामास शङ्करः | सङ्केतैर्बहुभिः पुण्यैर्यस्य चित्तं लयं गतम् | स एव लययोगः स्याद् हठयोगं ततः शृणु | इति || अत्र सर्वयोगोत्तमत्वेनादौ हठयोग उक्तः | मन्त्रयोगस्तु साधनरूपतया योगप्रकरणेन लिखित इति | शिवागमे पञ्चमपटले || अथातः सम्प्रवक्ष्यामि कालपूरुषलक्षणम् | येत विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः | कालोदरस्थितश्चापि येनोपायेन लक्ष्यते | तद्वदामि समासेन यथोद्दिष्टं शिवागमे | एकान्ते निर्जने गत्वा कृत्वादित्यन्तु पृष्ठतः | निरीक्षेत्तु निजां छायां कण्ठदेशे समाहितः | ततश्चाकाशं वीक्षेत तत्र पश्यति शङ्करम् | ओं ह्रीं परमात्मने नमः | अष्टोत्तरशतं जप्त्वा ततः पश्यति शङ्करम् | शुद्धस्फटिकसङ्काशं नानारूपधरं हरम् | षण्मासाभ्यासयोगेन भूधराणां पतिर्भवेत् | वर्षद्वयेन हे नाथ ! कर्त्ता हर्त्ता स्वयं प्रभुः | प्. ८५०) त्रिलोकत्वमवाप्नोति परमानन्ददायकम् | सन्तताभ्यासयोगेन नास्ति किञ्चित् सुदुर्लभम् | तद्रूपं कृष्णवर्णञ्च यः पश्येद्व्योम्नि निर्मले | षण्मासान्मृत्युमाप्नोति स योगी नात्र संशयः | पीते व्याधिस्तथा रक्ते नीले हत्यां विनिर्दिशेत् | नानावर्णस्वरूपेऽस्मिन्नुद्वेगो जायते महान् | पादगुल्फोदराणाञ्च विनाशो मृत्युमादिशेत् | अर्द्धवर्षेण वर्षेण क्रमाद्वर्षद्वयेन च | विनष्टे दक्षिणे बाहौ स्वबन्धुर्म्रियते ध्रुवम् | वामबाहौ तथा भार्या विनश्यति न संशयः | शिरोदक्षिणबाहूनां विनाशे मृत्युमादिशेत् | अशिरोमासमरणं विना जङ्घे दिनैर्नरः | अष्टाभिः स्कन्धनाशे तु शरीरार्द्धे तु तत्क्षणात् | योगार्णवे || प्रातः पृठगते रवावनिमिषं छायां गते स्वां चिरं दृष्ट्वोर्द्धं नयनेन यं सितनरं छायानरं पश्यति | तत्कर्णांसकरास्यपार्श्वहृदयाभावे क्षणेऽर्काश्वदिक् भूवाणाक्षिसमाः शिरोविगमतो मासांस्त्वसौ जीवति | ज्ञानसारे द्वितीयाध्याये || रसनामर्द्धगां कृत्वा कलार्द्धं योऽवतिष्ठते | क्षणेन मुच्यते देवि ! व्याधिमृत्युजरादिभिः | रसना त्वन्तरे नित्यं यावद्ब्रह्मविलं गता | अमृतं रसनाग्रेण पीयमानं विचिन्तयेत् | मासार्द्धं जीयते मृत्युः सत्यं सत्यं हि पार्वति ! | सर्वव्याधिविनिर्मुक्तो योगीन्द्रो नात्र संशयः | रसनातालुमूले च वायुं पीत्वा शनैः शनैः | षण्मासाभ्यन्तरे देवि ! महायोगी भविष्यति | रसनास्वादसम्भेदं विशेषं शृणु पार्वति ! क्षीरेण नश्यति व्याधिः कटुकण्डुविनाशनम् | सुस्वादेन महादेवि ! बालपापविनाशनम् | घृतस्वादनमात्रेण अमरत्वं लभेन्नरः | मधुस्वादरसाच्चैव शास्त्रमुद्गिरते स तु | मिष्टान्नखण्डखाद्यानि लड्डूकस्वादवर्त्तिनि | प्. ८५१) एवमादीन्यनेकानि कामधेनुरुपस्थिता | दिव्यकन्यां रमेन्नित्यमाकृष्टिर्जायते सदा | अणिमादिगुणोपेत ऊर्द्धरेताः प्रजायते | हिक्कां दद्यात् सदा वक्त्रे घ्राणञ्चैव विजृम्भते | एवमभ्यासयोगेन कामदेवो द्वितीयकः | योगिनीगणमासाद्य सृष्टिसंहारकारकः | न क्षुधा न तृषा निद्रालस्यं देवि ! प्रजायते | भवेच्च स्वर्गगामीव सर्वदोषविवर्जितः || इति श्रीप्राणतोषिण्यां षष्ठे ज्ञानकाण्डे राजयोगरूपपल्लवकथनं नाम तृतीयः परिच्छेदः || योगज्ञानार्थं क्षुद्रब्रह्माण्डत्वेन शरीरमुक्तम् | निर्वाणतन्त्रे दशमपटले यथा || कथितं वाह्यदेशस्य ब्रह्माण्डस्य तु लक्षणम् | तन्मध्ये वर्त्तते साक्षाद्भुवनानि चतुर्दश | तदेव विग्रहं देवि ! महाब्रह्माण्डमध्यगम् | एवं बहुविधं देवि ! तत्र ब्रह्माण्डके स्थितम् | वृहद्ब्रह्माण्डे ये सर्वे तेऽपि यस्य शरीरिणः | पृथिव्यां तेऽपि वर्त्तन्ते जन्तोराकारविग्रहाः महाब्रह्माण्डमध्ये तु वृहद्ब्रह्माण्डमेव च | तन्मध्ये जन्तवो देवि ! तन्मध्ये भुवनानि च | दृष्टिमात्रेण भेदोऽस्ति स्थूलसूक्ष्मादि भेदतः | महाब्रह्माण्डके यद्यत् प्रकारं परमेश्वरि ! तत्तत्सर्वं हि देवेशि ! वृहद्ब्रह्माण्डमध्यतः || चतुर्थपटले || शृणु देवि ! प्रवक्ष्यामि वृहद्ब्रह्माण्डलक्षणम् | मेरुः पर्वतमध्ये च सर्वदेवाश्रयः प्रिये ! | महाधीरा नदी तत्र मध्यदेशे तु सा स्थिता | सुमेरोश्चोर्द्धदेशे च सत्यलोको वरानने ! | अधोभागे महेशानि ! प्रतिष्ठति रसातलम् | एवं क्रमे मेरुमध्ये भुवनानि चतुर्दश | पातालसप्तकस्योर्द्धे ब्रह्मपद्मं महेश्वरि ! | आधारचक्रं तत् पद्मं धरामध्ये चतुर्दलम् | पद्ममध्ये वीजकोशे क्षितिचक्रं मनोहरम् | बलयाकाररूपेण समुद्राः सप्त संस्थिताः | जम्बूद्वीपं मध्यदेशे चतुष्कोणं मनोहरम् | प्. ८५२) त्रिकोणं मदनागारं कन्दर्पश्चाधिदेवता | इन्द्ररूपं हि लंबीजं गजेन्द्रवाहनं शिवे ! | त्रिकोणे मदनागारे लिङ्गरूपी महेश्वरः | मायाशक्तिर्महेशानि ! भुजगाकाररूपिणी | तयैव वेष्टितं लिङ्गं सार्द्धत्रिबलयाकृति | लिङ्गच्छिद्रं स्ववक्त्रेण समाच्छाद्य सदा स्थितम् | इन्द्रवीजं वरारोहे ! लिङ्गस्य वामदेशके | सुसिद्धं ब्रह्मसदनं नादोपरि सुसुन्दरम् | तत्रैव निवसेद् ब्रह्मा सृष्टिकर्त्ता प्रजापतिः | वामभागे च सावित्री वेदमाता सुरेश्वरी | तस्याः प्रसादमासाद्य सृष्टिं वितनुते सदा | यद्रूपं ब्रह्मसदनं लक्षयोजनविस्तृतम् तत् सर्वं परमेशानि ! ऋग्वेदाख्या मयोदितम् | त्रिकोणं परमेशानि ! द्विषष्टिकुण्डलाहिवत् | तदेव पर्वतं प्रोक्तं सर्वदेवाश्रयं हि तत् | त्रिकोणमध्ये तद्वाह्ये पश्यापूर्वं वरानने ! | स्थावरं पर्वतं पश्य कीटं पशुमनुत्तमम् | खगं नगादिकं देवि ! नास्ति किं पृथिवीतले | त्रिकोणवाह्ये गिरिजे ! पर्वतं बहुरूपकम् | नीलाचलं मन्दराख्यं पर्वतं चन्द्रशेखरं | हिमालयं सुवेलञ्च मलयं भस्मपर्वतम् | चतुष्कोणे वसेद्देवि ! एतत् सप्तकुलाचलम् | तृणगुल्मलतादीनि नानारूपाणि तत्र वै | जायन्ते च म्रियन्ते च पूर्वोक्तेनैव वर्त्मना || इति मूलाधारकथनम् || पञ्चमपटले || शिव उवाच || एतत् पद्मस्योर्द्धदेशे भीमाख्यं पङ्कजं शुभम् | पत्रषट्कं तथा वृत्तं चतुर्द्वारविभूषितम् | पद्ममध्ये वीजकोषे भुवोलोकं मनोहरम् | सिन्दूरसदृशं रक्तवर्णेन भूषितं तदा | तस्योर्द्धे निवसेद्विष्णुः श्रीवाण्यौ वामदक्षिणे | ब्रह्मणा सृज्यते लोकः पाल्यते चक्रपाणिना | वैकुण्ठं नाम तत् स्वर्गं नानादेवालयं हि तत् | वैकुण्ठस्य दक्षभागे गोलोकं सर्वमोहनम् | तत्रैव राधिका देवी द्विभुजो मुरलीधरः | नारदाद्यैः सुरगणैः शोभितं वेदपारगैः | वैकुण्ठसदृशं स्थानं नास्ति ज्ञाने च मामके | अग्रे मध्ये तथा वामे ज्योतिषां परिपश्यति | नानाभोगयुताः सर्वे नानारत्नोपशोभिताः | इन्द्राद्या देवताः सर्वा यथा सर्वं प्रपश्यति | तथैव भूमिगाः सर्वे तिष्ठन्ति स्तुतिहेतवे | महातत्त्वमयं लोकं वेदबाहुविराजितम् | पीताम्बरं शान्तमूर्त्ति वनमालाविराजितम् | एवं सर्वं भक्तजनं वैकुण्ठे चोपशोभितम् | विष्णुशब्दं विष्णुगणं वैष्णवं विष्णुरूपकम् | विष्णुनाम विना नास्ति वैकुण्ठे परमेश्वरि ! | यद्रूपं गोलकं धामं तद्रूपं नास्ति मामके | ज्ञाने वा चक्षुषोः किं वा ध्यानयोगेन विद्यते | शुद्धतत्त्वमयं देवि ! नानादेवेन शोभितम् | मध्यदेशे गोलकाख्यं श्रीविष्णोर्लोभमन्दिरम् | श्रीविष्णोः सत्त्वरूपस्य यत् स्थलं चित्तमोहनम् | तस्य स्थानस्य महात्म्यं किं मया कथ्यतेऽधुना | तत्रैव सततं भाति द्विभुजो मुरलीधरः | तदा सत्त्वमयो विष्णुर्भुवनं पाति निश्चितम् | वैष्णवस्य महामोक्षो यत्रैव परमेश्वरि ! | इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम् | विस्तारेण न शक्नोमि जन्मान्तरशतेन च | वीजकोषस्य वाह्ये तु वेष्टितं तोयमण्डलम् | प्रमाणं सुन्दरं तोयं यथा क्षीरोदसागरम् | धूम्रस्य ज्योतिषाकारं कोटिचन्द्रसमप्रभम् | बलयाकाररूपेण सुशुभ्रं तोयमण्डलम् | गङ्गादिसरितः सर्वास्तथैव भान्ति सुन्दरि ! | इन्द्रादिदेवताः सर्वाः स्तूयमाना निरन्तरम् | गन्धर्वयक्षनागादिकुष्माण्डा भैरवास्तथा | नानासुखविलासेन सदा चैकाग्रचेतसः | विष्णुगानं प्रकुर्वन्ति स्तुतिभक्तिपरायणाः | वेदगानं प्रकुर्वन्ति चतुर्वक्त्रेण वेधसा | मालवाद्याश्च षड्रागाः षट्त्रिंशद्रागिणी तथा | वेदगाने च भावन्तो मूर्त्तिमन्तः सदैव हि | मालवेनैव रागेण सामगानं सदा प्रिये ! | मल्लारेण सदा पूर्वं वसन्तेन तथा पुनः | हिल्लोलेन यजुः पाठं सदा कुर्वन्ति वेधसा | कर्णाटेनैव ऋग्वेदं श्रीरागेण तथा शिवे ! | निर्दिष्टपाठमेतत्तु अनिर्दिष्टमतः परम् | अत्रैव सन्ति ते रागाः सहस्राणि च षोडश | मुरारेर्मुलरीगानात् सर्वस्तालः प्रजायते | तेन तालेन रागेण सदा गायन्ति वेधसा | तद्रागस्य विभागं हि कुर्वन्ति मुनयो जनाः वसन्ताद्याश्च ऋतवस्तिष्ठन्ति तत्र सन्ततम् | नानाऋतुप्रसूनेन भूषितं मुरलीधरम् | तत्रैव राधिका देव नानासुखविलासिनी | वदन्ती मुरलीगानं कुरु कान्त ! प्रमोहणम् | येन शब्देन कामस्य उत्पत्तिर्जायते सदा | तद्रागञ्चैव तत्तालं कुरु गानं प्रयत्नतः | एवमानन्दसंयुक्ता महावेशविलासिनी | वामभागे सदा भाति राधिका भक्तवत्सला | तथा | आदौ राधां ततः कृष्णं जपन्ति ये च मानवाः | सद्गतिं चैव तेषां हि दास्यामि नात्र संशयः | गुरुणा भावमार्गेण मन्त्रमार्गेण चैव हि | ये जना मां भजन्त्येव ते नरा मत्समाः सदा | या नारी मामभेदेन भजते पुरुषं तथा | तत्समाना च सा नारी जायते नात्र संशयः | भक्त्या वाप्यथवाऽ.भक्त्या जपन्ति युगलं यदि तव भक्त्या प्रदास्यामि मद्गतिं शृणु राधिके ! || इति स्वाधिष्ठानकथनम् || षष्ठपटले || एतत्पद्मस्योर्द्धदेशे महापद्मं सुदुर्लभम् | दशपत्रं नीलवर्णं सहजं घोररूपकम् | डादिफान्तैः सचन्द्रैश्च पङ्कजञ्चातिशोभनम् || तन्मध्ये वीजकोषे निवसति सततं वह्निवीजं सुसिद्धम् वाह्ये तत् त्रैपुराख्यं नवतपननिभं स्वस्तिकं तत्त्रिभागे || स्वर्लोकाख्यमिदं देवि ! सर्वदेवप्रपूजितम् | साकारं वह्निवीजञ्च सदैव मेषवाहनम् | रुद्रालयं हि तत्रैव महामोहस्य नाशनम् | भद्रकाली महाविद्या वामभागे सुशोभिता | भद्रकाली महाविद्या सदा संहारकारिणी | प्. ८५५) ब्रह्मणा सृज्यते लोकः पाल्यते विष्णुरूपिणा | परो देवो रुद्ररूपः सदा संहारकारकः | संहरेद्रुद्ररूपस्तु भद्रकालिकया सह | रुद्रस्य भाषणाद्देवि ! किं न सिध्यति भूतले | यद्रूपं कथितं पूर्वं गोलोकं सर्वमोहनम् | तस्माद्वै सर्वतोभावे रुद्रलोकं चतुर्गुणम् | महामोक्षप्रदं नित्यं रुद्रं भस्माङ्गभूषणम् | भ्द्रकाली महाविद्या रुद्रस्य वामदेशके | ततः कालीं महाविद्यां सदैव मुरलीधरः | आराध्य वहुयत्नेन वैकुण्ठाधिपतिर्भवेत् | गोलोकाधिपतिर्देवि ! स्तुतिभक्तिपरायणः | कालीपादप्रसादेन स भवेल्लोकपालकः | लोकानां रक्षनार्थाय सस्त्रीको मुरलीधरः | समाराध्य भद्रकालीं गोलोके निवसेत् सदा | प्रसादं कालिकायाश्च विष्णुना भुज्यते सदा | अतश्च पालको विष्णुर्महासत्त्वपरायणः || इति मणिपूरकथनम् || सप्तमपटले || एतत्पद्मस्योर्द्धदेशे विमलं पद्ममुत्तमम् | शोभितं द्वादशिः पत्रैः शोणबन्धूकसन्निभम् | वाञ्छन्ति रिक्तफलदं सिद्धिसिन्दूरसोदरम् | पद्ममध्ये वीजकोषे षट्कोणमण्डलं शुभम् | मण्डलस्य मध्यदेशे वायुवीजं मनोहरम् | सवीजं वायुवीजेन वेदबाहुविराजितम् | लोकत्रयस्य ईशानमीश्वरं सर्वपूजितम् | या विद्या भुवनेशानी त्रिषु लोकेषु पूजिता | ईश्वरस्य वामभागे सा देवी परितिष्ठति | महर्ल्लोकमिदं भद्रे ! पूजास्थानं सुरेश्वरि ! || तत्रैव मानसं योगं कुरुते योगविद्वरः | सिन्द्रूरारक्तचार्वङ्गी स्फाटिकैर्निर्मिता यतः | अतश्च मानवाः सर्वे ज्योतिषं परिपश्यति | सर्वावयवसंयुक्ता देवास्तिष्ठन्ति सन्ततम् | भूमिगाः परिपश्यन्ति चक्राकारं हि तैजसम् | स्वर्लोकगामिनः सर्वे परिपश्यन्ति साकृतिम् | अङ्गभेदं न पश्यन्ति स्थूलरूपनिरीक्षणम् | यथैव भूमिगा लोकाः प्रसरन्ति महीतले | तथैव देवताः सर्वाः स्वर्ग तिष्ठन्ति पार्वति ! | प्. ८५६) भूर्लोके निवसेद्ब्रह्मा भुवोलोके जनार्द्दनः | स्वर्लोके निवसेच्छम्भुः सदा संहारकारकः | ब्रह्मादीनाञ्च ईशानः सर्वकर्त्ता च ईश्वरः | सर्वस्वामिस्वरूपश्च सर्वकर्ता च ईश्वरः | गोलोकं कथितं देवि ! यद्रूपं शोभितं सदा | तस्माच्छतगुणं देवि ! महर्लोकं सुसुन्दरम् | विस्तीर्णञ्च शतगुणं सर्वं शतगुणं शिवे ! | महर्लोकस्य माहात्म्यं किं वक्तुं शक्यते मया | महर्लोके वसेद्यो हि सामान्यभावतत्परः | तस्मादेव शतैकाशं गोलोके मुरलीधरम् | तदाज्ञां प्राप्य सहसा सृज्यते पद्मयोनिना | तदाज्ञया पाति लोकान् द्विभुजो मुरलीधरः | एवं हि रुद्ररूपेण संहरत्यखिलं जगत् | सर्वकर्त्ता यतो देवो ह्यत एव महेश्वरि ! | ईश्वरः सर्वकर्त्ता च निर्गुणश्चाचलः शिवः | भुवनेशीं समासाद्य सर्वस्वामी च ईश्वरः | अत एव महेशानि ! स एव मोक्षदायकः | विश्वमाता च सा देवी विश्वपालनकारिणी | मोक्षदा सर्वलोकानां मुक्तिदा विश्वमातृका | भुवनेशीं विना ईशः किञ्चित् कर्तुं न शक्यते | अत एव हि सा देवी मोक्षदा सर्वरूपिणी | इत्यनाहतकथनम् | अष्टमपटले || शङ्कर उवाच | अस्योर्द्ध्वे निर्मलं पद्मं सर्वमोहनकारणम् | षोडशैः पत्रकैर्युक्तं मोहान्धाकारनाशनम् | धूममध्ये यथा वह्निस्तथा ज्योतिर्मयं प्रिये ! | पद्ममध्ये वराटे च जनोलोकं सुसुन्दरम् | महामोहान्धशमनं तद्वाह्ये चन्द्रमण्डलम् | देववृन्दैर्गाथकैश्च मुनिभिः परिशोभितम् | गोलोकस्य लक्षगुणमिदं स्थानं सुदुर्लभम् | दैर्घ्येण च मयोक्तञ्च विस्तीर्णञ्च तथा पुनः | सर्वं लक्षगुणं देवि ! गोलोकान्नात्र संशयः | वीजकोषे मणिद्वीपे षट्कोणं यन्त्रमुत्तमम् | यन्त्रमध्ये च वृषभं महासिंहार्द्धदेहकम् | प्. ८५७) तस्योपरि महागौरी दक्षभागे सदाशिवः | त्रिनेत्रं पञ्चवक्त्रश्च प्रतिवक्त्रे त्रिलोचनः | विभूतिभूषिताङ्गश्च रजताद्रिसहोदरः | व्याघ्रचर्मधरो देवोऽणिमादिभिर्विभूषितः | लोकानामिष्टदाता च लोकानां भयनाशनः | लोकानां भुक्तिजनको लोकानां मुक्तिदायकः | सदानन्दकरो देवश्चार्द्धनारीश्वरो विभुः | क्वचित् ज्योतिर्मयो देवः क्वचिदाकारवर्जितः | देवानां पूज्यरूपश्च देवानां स्वामिरूपकः | भक्तस्य मुक्तिदो नित्यं विष्णुत्वदायकः प्रभुः | विल्वपत्रैः पूजकस्य निजसायुज्यदायकः | गोलोकाधिपतिं कृत्वा भक्तं रक्षति यः शिवः | तस्य देवस्य माहात्म्यं विस्तारेण च चण्डिके ! | या गौरी लोकमाता च ब्रह्मार्द्धाङ्गस्वरूपिणी | त्रिगुणा सा महादेवी गुणैकेन पिनाकधृक् | तस्याः सङ्गं समासाद्य सर्वकर्ता सदाशिवः || इति विशुद्धस्थानकथनम् || नवमपटले || शङ्कर उवाच || एतत् पद्मस्योर्द्ध्वदेशे ज्ञानपद्मं सुदुर्लभम् | पद्मद्वयसमायुक्तं पूर्णचन्द्रस्य मण्डलम् | पद्ममध्ये वीजकोषे स्मरेच्चिन्तामणेः पुरीम् | तन्मध्ये नवकोणञ्च यन्त्रं परमदुर्लभम् | शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम् | हंसः परं ब्रह्मरूपः साकारः शिवरूपकः | तारचञ्चूर्वरारोहे ! निर्गमागमपक्षवान् | शिवशक्तिपदद्वन्द्वं विन्दुत्रयविलोचनम् | विहारश्चास्य हंसस्य हेमपङ्कजपूजिते | एवं हंसो मणिद्वीपे तस्य क्रोडे परः शिवः | वामभागे सिद्धकाली सदानन्दस्वरूपिणी | तस्याः प्रसादमासाद्य सर्वकर्त्ता महेश्वरः | तपोलोकमिदं भद्रे ! सर्वलोकस्य दुर्लभम् | यत्र ब्रह्मादयो देवा ध्यानं कुर्वन्ति सर्वदा | मनसापि न लभ्येत योगेन तपसा न च | तपोलोकं गोलोकस्य चतुर्लक्षणं शिवे ! | ब्रह्मलोकेषु ये देवा वैकुण्ठे ये सुरादयः | शम्भुलोके वसेद् यो हि ते च भक्तिपरायणः | प्. ८५८) तपसापि न लभ्येत तपोलोकगतिः शिवे ! | तपोलोकसमो नास्ति लोकमध्ये सुलोचने ! | सालोक्यं हि महर्लोके सारूप्यं जनलोकके | सायुज्यं च तपोलोके निर्वाणं हि तदूर्द्ध्वके | ततो ब्रह्मादयो देवास्तपोलोकार्थिनः सदा | इति ते कथितं कान्ते ! क्रमषट्कस्य लक्षणम् | यज्ज्ञानादमरत्वञ्च जीवन्मुक्तश्च साधकः | यज्ज्ञात्वा जननीगर्भं न विशेत्तु कदाचन || इति ज्ञानस्थानकथनम् || दशमपटले || शङ्कर उवाच | ज्ञानपद्मस्योर्द्ध्वदेशे सहस्रदलपङ्कजम् | अधोवक्त्रं महापद्मं सुमेरोर्मध्यसंस्थितम् | शुक्लं रक्तं तथा पीतं कृष्णं हरितमेव च | विचित्रचित्ररूपेण नानावर्णेन शोभितम् | शुक्लं क्षणात् क्षणाद्रक्तं क्षणात् पीतं सुशोभितम् | यस्मिन् क्षणे शुक्लवर्णं हरितं वर्णमुत्तमम् | चित्ररूपञ्च चार्वङ्गि ! धत्ते कस्मिन् क्षणे क्षणे | एवं नानाविधं देवि ! तत् पद्मं शोभितं सदा | यथैव धाम गोलोकं प्रतिपत्रे तथैव हि | गोलोकाधिपतिस्तत्र भक्तिभावपरायणः | कैलासाधिपतिर्देवि ! ध्यानयोगं सदाभ्यसेत् | एवं ब्रह्मादयो देवा इन्द्राद्यास्त्रिदिवेश्वराः | स्तुतिभक्तिपराः सर्वे दीनभावे सदा स्थिताः | लक्षं लक्षं महेशानि ! तत्रैव मुरलीधरः | शतलक्षं तत्र रुद्रो ब्रह्मा लक्षशतं प्रिये ! | प्रत्यहं परमेशानि ! ब्रह्माण्डा बहवोऽभवन् | तन्मध्ये स्थापयेद् ब्रह्मा तत्रैव कमलापतिम् | शिवं बहुविधाकरं तत्रैव स्थापयेत्ततः | एवं हि परमेशानि ! नानाशक्तिं प्रविन्यसेत् | प्रतिब्रह्माण्डमध्ये तु ब्रह्मादिदेवतात्रयम् | नानाशक्तियुतं कृत्वा ब्रह्माण्डस्थापनञ्चरेत् | ब्रह्मपद्मे पृथिव्यान्तु वर्त्तन्ते मानुषादयः | ते सर्वे देवि ! ब्रह्माण्डस्तन्मध्ये भुवनानि च | प्. ८५९) पातालसप्तकं तत्र तत्रैव स्वर्गसप्तकम् | एवं चक्रे सर्वदेहे भुवनानि चतुर्द्दश | प्रतिदेहं परेशानि ! ब्रह्माण्डं नात्र संशयः || तथा | स्थानं बहुविधाकारं सर्वदेहस्य चाश्रयम् | तन्मध्ये सत्यलोकञ्च महारुद्रस्य कारणम् | दशकान्तेन स्वर्णेन निर्मितं चक्रपाणिना | दिक्षु तोयमण्डलञ्च तथा पूर्णेन्दुमण्डलम् | परितः पारिजातानि मध्ये कल्पद्रुमः पुनः | कल्पद्रुमस्य निकटे ज्योतिर्मन्दिरमेव च | ओं उद्यदादित्यसङ्काशं चतुर्द्वारविभूषितम् | मन्दवाद्यसमायुक्तं गन्धपुष्पैरलङ्कृतम् | तन्मध्ये वेदिका देवि ! रत्नसिंहासनं प्रिये ! | महाकाली परमात्मा चणकाकाररूपतः | माययाच्छादितात्मासौ तन्मध्ये समभागतः | महारुद्रः स एवात्मा महाविष्णुः स एव हि | महाब्रह्मा स एवात्मा नाममात्रविभेदकः | एकमूर्त्तिस्त्रिनामानि ब्रह्मविष्णुमहेश्वराः | नानाभावे मनो यस्य तस्य मोक्षो न विद्यते | ब्रह्माण्डास्तत्र जायन्ते लक्षं लक्षं सुलोचने ! | तत्र ब्रह्मा तत्र विष्णुस्तत्र रुद्रः प्रविन्यसेत् | एवं ब्रह्माण्डनिर्माणं कृत्वा विष्णुः सनातनः | स जीवमूर्त्तिं निर्माय तथा जन्तोश्च विग्रहम् | एवं ब्रह्माण्डं विविधं नित्यं सृजति निर्गुणम् | निर्गुणे विष्णुरूपश्च सिद्धिकारणमेव हि | केचिद्वदन्ति स ब्रह्मा कैश्चिद्विष्णुः प्रकथ्यते | केचिद्रुद्रो महापूर्व एकदेवो निरञ्जनः | आद्याशक्तियुतो देवश्चणकाकाररूपकः | इन्द्रजालस्य दीपाभं चन्द्रसूर्याग्निरूपकम् | महाज्योतिर्निराकारं गोलोकं सुमुखं त्वथ | सत्यलोके वीजकोषे चिन्तामणिगृहे शुभे | ध्यायेन्निरञ्जनं देवि ! रत्नसिंहासनोपरि | तस्यान्तिके निजगुरुं पूजाध्यानपरायणः | सकान्तं पूजयेद्देवि ! रजताचलसोदरम् सुरक्तां चारुवदनां स्वप्रकाशस्वरूपिणीम् | एवं कान्तायुतं देवं स्वमूर्ध्निस्थं विचिन्तयेत् | यथा प्. ८६०) दर्पणमध्ये तु परिपश्यन्ति पर्वतम् | सहस्रारे महापद्मे तथा देवं विचिन्तयेत् | एवं ब्रह्ममयं ह्येतत् परं मोक्षमयं प्रिये ! | निर्गुणस्यालयं साक्षान्महाकालालयं शिवे ! | यत्रैव वर्त्तते नित्यं निराकारश्च निश्चलः | यस्य रूपं परानन्दं परापरजगत्पतिः | नित्यानन्दपरा देवी काली कालप्रकाशिनी | आद्याशक्तिर्महाकाली देवनिर्वाणकारिणी | जायते च क्षितौ वृक्षो यथा पृथ्व्यां विलीयते | तोयात्तु वुद्वुदं जातं यथा तोये विलीयते | जलदे तडिदुत्पन्ना लीयते च यथा घने | तथा ब्रह्मादयो देवाः कालिकाया भवन्ति | तथा प्रलयकाले तु पुनस्तस्यां प्रलीयते | शक्तिज्ञानं विना देवि ! मुक्तिर्हास्याय कल्प्यते | एकांशेन भवेद्ब्रह्मा एकांशेन जनार्द्दनः | एकांशेन भवेच्छम्भुः कालिकायाः सुलोचने ! | अपरा सा महाकाली नद्यादीनां समुद्रवत् | गोष्पदे च तथा तोयं ब्रह्माद्या देवतास्तथा | गोष्पदं किं विजानीयात् समुद्रस्य जलं शिवे ! | तेन ब्रह्मा न जानाति विष्णुः किं वेत्ति शङ्करम् | सृष्टिकर्त्ता यथा काल्या जन्यन्ते च सुरादयः | तथा प्रलयकाले तु पुनस्तस्यां प्रलीयते | अतो निर्वाणदा काली पुमान् स्वर्गप्रदायकः | दक्षिणस्यां दिशि स्थाने संस्थितश्च रवेः सुतः | कालीनाम्ना पलायेत भीतियुक्तः समन्ततः | अतः सा दक्षिणानाम्नी त्रीषु लोकेषु गीयते | निर्गुणः पुरुषः काल्या सृज्यते लुप्यते यतः | अतः सा दक्षिणानाम्नी त्रिषु लोकेषु गीयते | वश्यविद्या महाविद्या कालिका जगदम्बिका | साकाररूपा सा काली चणकाकाररूपिणी | हस्तपादादिरहिता सोमसूर्याग्निरूपिणी | तस्याः स्थानं कथितं सत्यलोकं वरानने ! | यत् स्थानं सर्वदेवस्य प्रार्थनीयं सदानघे ! | तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना | प्. ८६१) सहस्रदलपद्मस्य चैकपत्रे सुलोचने ! | सहस्रं गोलकं धाम ततो वक्तुं न शक्यते | जन्मान्तरसहस्रेण जिह्वाकोटिशतेन च | तद्वक्तुं न हि शक्नोमि एकपत्रस्य शोभनम् | अतस्त्वं हि वरारोहे ! विरता भाव पार्वति ! | किञ्जल्कमध्ये या शोभा किं वक्तुं शक्त्यते मया | तन्मध्ये कर्णिका देवि ! तन्मध्ये वीजकोषकम् | वीजकोषस्य मध्ये तु सुधासागर उत्तमः | लक्षयोजनविस्तारः सुशोभं तोयमुत्तमम् | तन्मध्ये तु मणिद्वीपं सहस्रयोजनं प्रिये ! | परितः पारिजाताश्च कदम्बवनमुत्तमम् | मध्ये कल्पद्रुमस्तत्र ज्योतिर्मन्दिरमुत्तमम् | चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् | मन्दवाद्यसमायुक्तं गन्धधूपसमन्वितम् | देवकन्यासहस्राणि परिचर्यापराणि च | तन्मध्ये वेदिका देवि ! पञ्चाशदक्षरात्मिका | तस्योपरि महेशानि ! रत्नसिंहासनं शिवे ! | महाकाली महारुद्रश्चणकाकाररूपकः | इन्द्रजालस्य दीपाभं महाज्योतिः सनातनम् | शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासधृतसमयाचारतन्त्रे || देव्युवाच || देवदेव ! महाबाहो ! सृष्टिस्थितिलयात्मक ! | मूर्ध्नि पद्मं सहस्रारं रक्तवर्णमधोमुखम् | तस्य मध्यस्थितं ध्यायेद्गुरुं शान्तं सशक्तिकम् | मूलाधारे महाशक्तिं कुण्डलीरूपधारिणीम् | अधोवक्त्रे क्रमेणैव सर्वपद्मेषु भावना | तदा कथं भवेत्तत्र चिन्तनं गुरुदेवयोः | आधारे च स्थितस्तत्र अधोभागे कथं भवेत् || महादेव उवाच | यथा युक्तं त्वया देवि ! कथितं वीरवन्दिते ! | एवमेवात्र सन्देहो जायते नात्र संशयः | कथ्यते परमेशानि ! सन्देहच्छेदकारणम् | तानि पद्मानि देवेशि ! सुषुम्नान्तःस्थितानि च | परंब्रह्मस्वरूपाणि शब्दब्रह्ममयानि च | तत् सर्वं पङ्कजं देवि ! सर्वतोमुखमेव च | प्रवृत्तिश्च निवृत्तिश्च द्वौ प्. ८६२) भावौ जीवसंस्थितौ | प्रवृत्तिमार्गः संसारी निवृत्तिः परमात्मनि | प्रवृत्तिभावचिन्ताया मध्ये वक्त्रणि चिन्तयेत् | निवृत्तियोगमार्गेण सदैवोर्द्ध्वमुखानि च | एवमेव भावभेदाद् हृत्सन्देहो न जायते || श्रीतत्त्वचिन्तामणौ तु विशेष उक्तो यथा || मेरोर्वाह्यप्रदेशे शशिमिहिरशिरे | सव्यदक्षेण सन्ने मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्रसूर्याग्निरूपा | धुस्तूरस्मेरपुष्पग्रथिततमवपुः कन्दमध्याचिरस्था वज्राख्या मेढ्रदेशोच्छिरसि परिणता मध्यमे स्याज्ज्वलन्ती || तन्मध्ये चित्रिणी सा प्रणवविलसिता योगिनां योगगम्या लूतातन्तूपमेया सकलसरसिजान्मेरुमध्यान्तराले | भित्त्वा देदीप्यते तद्ग्रथनरचनया शुद्धबोधप्रबोधा तन्मध्ये ब्रह्मनाडी हरमुखकुहरादादिदेवान्तरास्था || विद्युन्मालाविलासा मुनिमनसि लसत्तन्तुरूपा सुसूक्ष्मा शुद्धज्ञानप्रबोधा सकलसुखलसच्छुद्धभावाद्यभावा | ब्रह्मद्वारं तदास्ये प्रविलसितसुधासाररम्यप्रदेशम् ग्रन्थिस्थानं तदेतद्वदनमिति सुषुम्नाख्यनाड्या लपन्ति || अथाधारपद्मं सुषुम्नास्यलग्नं ध्वजाधोगुदोर्द्धं चतुःशोणपत्रम् | अधोवक्त्रमुद्यत्सुवर्णाभरम्यैर्वकारादिशान्तैर्युतं वेदवर्णैः || अमुष्मिन् धरायाश्चतुष्कोणचक्रं समुद्भासिशूलाष्टकैरावृतं तत् | लसत्पीतवर्णं तडित्कोमलाङ्गं तदम्भःसमास्ते धरायाः स्ववीजम् || चतुर्बाहुभूषं गजेन्द्रादिरुढं तदङ्के नवीनार्कतुल्यप्रकाशम् | शिशुः सृष्टिकारी लसद्वेदबाहुर्मुखाम्भोजलक्ष्मीश्चतुर्भागवेदः || वसेदत्र देवी च डाकिन्याभिख्या लसद्वेदबाहूज्ज्वला रक्तनेत्रा | समानोदितानेकसूर्यप्रकाशा प्रकाशं वहन्ती सदा शुद्धबुद्धेः || वज्राख्या वक्त्रदेशाद्विलसति सततं कर्णिकामध्यसंस्थं कोणं तत् त्रैपुराख्यं तडिदिव विलसत् कोमलं कामरूपम् | कन्दर्पो नाम वायुर्विलसति सततं तस्य मध्ये समन्तात् जीवेशो बन्धुजीवप्रकरमपि हसन् कोटिसूर्य प्रकाशः || तन्मध्ये लिङ्गरूपौ द्रुतकमलकणाकोमलः पश्चिमास्यो ज्ञानध्यानप्रकाशः प्रथमकिशलयाकाररूपः स्वयम्भूः | उद्यत्पूर्णेन्दुविश्वप्रकरकरचयस्निग्धसन्तानहासी काशीवासी विलासी विलसति सरिदावर्तरूपप्रकाशी || तस्योर्द्धे विषतन्तुशोकविलसत्सूक्ष्मा जगन्मोहिनी ब्रह्मद्वारमुखं मुखेन मधुरं सञ्छादयन्ती स्वयम् | शङ्खावर्त्तनिभा नवीनचपलामालाविलासास्पदा सुप्ता सर्पसमा शिवोपरि लसत्सार्द्धत्रिवृत्तावृतिः || कूजन्ती कुलकुण्डली च मधुरं मत्तालिमालास्फुटं वाचं कोमलवाक्यबन्धरचनाभेदाविभेदक्रमैः | श्वासोच्छासविभञ्जनेन जगतां जीवो यया धार्यते सा मूलाम्बुजगह्वरे विलसति प्रोद्दामदीप्तावलिः || तन्मध्ये परमा कलातिकुशला सूक्ष्मातिसूक्ष्मा परा नित्यानन्दपरस्परातिचपला मालालसद्दीधितिः | ब्रह्माण्डादिकटाहमेव सकलं यद्भासया भासते सेयं श्रीपरमेश्वरी विजयते नित्यप्रबोधोदया || ध्यात्वैतन्मूलपद्मान्तरपथविलसत्कोटिसूर्यप्रकाशम् वाचामीशो नरेन्द्रः स भवति सहसा सर्वविद्याविनोदी | आरोग्यं तस्य नित्यं निरवधि स महानन्दंचित्तात्मरात्मा वाक्यैर्वाक्यप्रबन्धैः | सकलसुरगुरुन् सेवते शुद्धशीलः | सिन्दूरपूररुचिरारुणपद्ममन्यत् सौषुम्नमध्यघटितं ध्वजमूलदेशे | अङ्गच्छदैः परिवृतं तडिदाभवर्णैर्वाद्यैः सविन्दुलसितैश्च पुरन्दरान्तैः || तस्यान्तरे प्रविलसद्वियदप्रकाशमम्भोजमण्डलमथो वरुणस्य तस्य | अर्द्धेन्दुरूपलसितं शरदिन्दुशुभ्रं वङ्कारवीजममलं मकराधिरूढः || तस्याङ्कदेशशयितो हरिरेव पायान्नीलप्रकाशरुचिरश्रियमादधानः | पीताम्बरः प्रथमयौवनगर्भधारी श्रीवत्सकौस्तुभधरो धृतवेदबाहुः || प्. ८६४) अत्रैव भाति सततं खलु राकिणी सा नीलाम्बु जोदरसहोदरकान्तिशोभा | नानायुधोद्यतलसत्सतताङ्गलक्ष्मीर्दिव्याम्बराभरणभूषित- मत्तचित्ता || अथ ज्ञानप्रशंसा || निगमकल्पद्रुमे तृतीयपटले || ज्ञानेन लभते मोक्षं ज्ञानेन पापनाशनम् | ज्ञानेन वीरकर्मा च ज्ञानेन पशुभावनम् | ज्ञानेन दिव्यभावी च तस्माज्ज्ञानं विशिष्यते | ज्ञानात् पवित्रं सर्वञ्च ज्ञानेनैव पवित्रकम् | यथाग्निना दहेत् सर्वं काष्ठगुल्मलतादिकम् | तथा ज्ञानेन दह्यन्ते सर्वकर्मफलानि च | ज्ञानञ्च द्विविधञ्चैव भेदाभेदविभेदतः | भेदज्ञानेन यत्कार्यं पुण्यपापं युगे युगे | अभेदज्ञानमानेन पूर्वकर्मादि दह्यते | अपरञ्च न भूयेत अभेदी मुक्तितां व्रजेत् | अन्यथा लक्षयुगैर्वा न मुक्तिं स्वर्गतादिकम् | लभते सर्वदा शम्भोर्भेदज्ञानी न संशयः | अभेदस्य क्रमः कुत्र निश्चितः केन कर्मणा | भेदः पशूनां भेदो हि दिव्यभाव उदाहृतः | भेदाभेदविदो वीरः क्रमे चैवाक्रमं न्यसेत् | क्रमेण यदि कुर्वीत कामनारहितश्चरन् | तदा कैवल्यफलदं कार्यं ज्ञेयं तथाक्रमम् | कामना यदि बध्नीयात् परा वाप्यपरापि वा | क्रमेणाप्यपकृष्टा सा पशुपाशनियन्त्रिता | एकं द्वयं व्युत्क्रमं वा शोधितञ्च प्रयत्नतः | भेदवर्या नरो मोक्षी भेदबुद्ध्या स्वकर्मभाक् || अथाद्वैतज्ञानम् || मुण्डमालातन्त्रे षष्ठपटले || यावन्नामात्मभावश्च तावदेवं पृथग्विधम् | तावत् क्रिया पृथग्भावा तावन्नानाविधा मता | तावद्भिन्नाश्च देवाश्च ब्रह्मविष्णुमहेश्वराः | गणेशश्च दिनेशश्च वह्निर्वरुण एव च | कुबेरश्चापि दिग्पाला एतत्सर्वं पृथक् पृथक् | तावन्नानाविधा चेष्टा स्त्रीपुंनपुंसकात्मिका | तावद्विल्वदलं भिन्नं देवेशि ! तुलसीदलात् | तावज्जवाद्रोणकृष्णा करवीराणि भूतले | विभिन्नानि च देवेशि ! सत्यं वै तुलसीदलात् | तावद्दिव्यश्च वीरश्च तावत्तु प्. ८६५) पशुभावकः | तावत्तन्त्रे भेदबुद्धिस्तावद्देवे पृथक् क्रिया | हरौ हरे भवेद्बुद्धिर्जायते जगदम्बिके ! | करालवदना काली श्रीमदेकजटा शिवा | षोडशी भैरवी छिन्ना भिन्ना च भुवनेश्वरी | छिन्ना भिन्ना त्वन्नपूर्णा भिन्ना च वगलामुखी | मातङ्गी कमला भिन्ना भिन्ना वाणी च राधिका | भिन्ना चेष्टा क्रिया भिन्ना भिन्न आचारसंग्रहः | यावन्नैक्यं पादपद्मे भवान्या नैव जायते | अद्वैते तारिणीपादपद्मे परमपावने | ज्ञानसारे समुत्पन्ने हृत्पद्मनिलये तथा | ऐक्यं भवति चार्वङ्गि ! सर्वजीवेषु शङ्करि ! | ननु जीवेष्वैक्यमिति कथमुक्तं यावतैक्यज्ञानसमुत्पत्तौ सत्यां शिवशक्तिसर्वजीवानामेवैक्यं तारिणीपादपद्मे इत्यपि न वक्तुमुचितं तदानीं सेव्यसेवकत्वभावादिति चेत् सत्यम् | मुमुक्षून् प्रति ज्ञानमिश्रभक्त्युपदेशार्थमिदमुक्तम् | अत एव भक्तिरव्यभिचरिणीत्यग्रे वक्ष्यति | निश्चितैकज्ञानं मुक्तं प्रति नोपदेशापेक्षा तस्य सर्वथा निश्चिन्तत्वादिति || न च पापं न वा पुण्यं न स्वर्गो नरकं न च | न सुखं नापि दुःखञ्च न रोगेभ्यो भयं तथा | न भयं नापि शोकश्च सर्वं ब्रह्ममयं जगत् | ब्राह्मणी क्षत्रिया वैश्या वैद्यजा शूद्रजान्त्यजा | तथैव तारिणी विद्या यथा विद्या तथा तथा | एवं ज्ञानं महेशानि ! यदा वै जायते प्रिये ! | तदैव विद्या देवेशि ! विद्याविद्याविरोधिनी | जायते नात्र सन्देहो ब्रह्मानन्दमयो भवेत् | अद्वैतञ्च गुणातीतं निर्गुणं प्रकृतेः परः | परमानन्दसंयुक्तो मुक्तिं यास्यति निश्चितम् | इति सत्यं पुनः सत्यं सत्यं वच्मि वरानने ! | तत्त्वज्ञानात् परं नास्ति नास्ति देवः सदाशिवात् | तदैवाचिरकालेन सोऽहंज्ञानं प्रजायते | नानात्वबुद्धिं कृत्वा वै सात्त्विकीं परमात्मिकाम् | गृहीत्वा च वरारोहे ! जायते परमार्थवित् | ज्ञानात् परतरं नास्ति नास्ति नास्ति प्. ८६६) वरानने ! | लब्ध्वा हि तत्त्वं परमं मुच्यते देहबन्धनात् || तथा || नानातन्त्रे पृथक् चेष्टा मयोक्ता गिरिनन्दिनि ! | ऐक्यज्ञानं यदा देवि ! तदा सिद्धिमवाप्नुयात् | स्थावरे जङ्गमे चैव यदा तुल्यं मनो भवेत् | किं न सिध्यति विश्वेशि ! परत्रेह च पार्वति ! | एवं भुक्तिश्च मुक्तिश्च जायते जगदम्बिके ! | तत्त्वज्ञानं तथैवान्ते अतो निर्वाणमाप्नुयात् | एकादशपटले || यावन्नानात्वमेव स्यात् तावद्भिन्नं महीतले | तावज्जातिश्च गोत्रञ्च तावन्नाम पृथग्विधम् | तावल्लिङ्गं पृथक् सर्वं वर्णानां पृथगेव हि | तावन्मित्रविपक्षौ च तावत् कलत्रबान्धवौ | तावत् पृथग्विधा पूजा मन्त्रयन्त्रार्थनादिभिः | तावत् पुण्यं तावदेव पापं पुण्यविवर्द्धकम् | तावत् त्वञ्चाप्यहमयमियञ्च जायते प्रिये ! | यावन्न जायते चण्डि ! विद्याविद्याविरोधिनी | अविद्यानाशिनी विद्या विद्याविद्याविवर्द्धिनी | या तारिणी महाविद्या विद्याविद्याविरोधिनी | अत एव वरारोहे ! विद्यामुत्पाद्य भूतले | निर्वाणं मोक्षमाप्नोति सत्यं त्रिपुरसुन्दरि ! | श्रीदुर्गाचरणाम्भोजे भक्तिरव्यभिचारिणी | तदैव जायते ब्रह्मज्ञानं ब्रह्मसुदुर्लभम् | ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः | भैरवाश्चैव गन्धर्वा विद्याभ्याससमुत्सुकाः | ब्रह्मविद्यासमाविद्या ब्रह्मविद्यासमा क्रिया | ब्रह्मविद्यासमं ज्ञानं नास्ति नास्ति कदाचन || जगति चात्मद्वयं प्रवृत्तिनिवृत्तिभेदेन कर्मकाण्डं तत्सन्यासश्च | तथा च || वाजसनेयसंहितोपनिषदः | पूज्यपादशङ्कराचार्यकृतभाष्यधृततैत्तरीयके | इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः | क्रियापथश्चैव पुरस्तात् तयोः सन्न्यास एवेत्यवोचदिति | द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः | प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभाषितः || इति | प्. ८६७) अतः काम्यकाण्डे भण्डिकाण्डे च प्रवृत्तिमार्गिणः पुरुषार्थसिद्धये सगुणस्थूलमूर्त्तीश्वरोपासना बहुविधा निरूपिता | इदानीन्तु निवृत्तिमार्गिणां सूक्ष्मतमनिर्गुणेश्वरोपासनार्थमात्मतत्त्वमुच्यते | यथा महानिर्वाणतन्त्रे चतुर्द्दशोल्लासे || ब्रह्मादितृणपर्यन्तं मायया कल्पितं जगत् | सत्यमेकं परं ब्रह्म विदित्वैवं सुखी भवेत् | विहाय नामरूपाणि नित्ये ब्रह्मणि निष्कले | परिनिश्चिततत्त्वो यः स मुक्तः कर्मबन्धनात् | न मुक्तिर्जपनाद्धोमादुपवासशतैरपि | ब्रह्मैवाहमिति ज्ञात्वा मुक्तो भवति देहभृत् || कुलार्णवे पञ्चमखण्डेऽपि || क्षणं ब्रह्माहस्मीति यः कुर्यादात्मचिन्तनम् | कोटिजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति || महानिर्वाणतन्त्रे || आत्मा साक्षी विभुः पूर्णः सत्योऽद्वैतः परात्परः | देहस्थोऽपि न देहस्थो ज्ञात्वैवं मुक्तिभाग् भवेत् || नन्वात्मा यदि साक्षित्वेनाभिमतस्तदा य उपाधिकृतः संसारी विद्याविद्ययोरधिकृतः संसारगमनाय मोक्षगमनाय च तस्य साधरणो रथः कथं कल्पितः | यथा कठोपनिषदि तृतीयवल्ल्याम् || आत्मानं रथिनं विद्धि शरीरं रथमेव तु | बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च | इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् | आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः || इति | एतां व्याचक्षन्ते भगवन्तः शङ्कराचार्याः | रथिनं रथस्वामिनं विद्धि जानीहि | रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वात् शरीरस्य रथत्वम् | बुद्धिन्तु अध्यवसायलक्षणां सारथिं विद्धि बुद्धिनेतृप्रधानत्वात् शरीरस्य सारथिनेतृप्रधान इव रथः | मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि मनसा हि गृहीतानि श्रोत्रादीनि करणानि प्रवर्त्तन्ते रशनाय वा | इन्द्रियाणि चक्षुरादीनि हयानाहुः | रथकल्पनाकुशलाः शरीररथाकर्षणसामान्यात् तेषु इन्द्रियेषु परिकल्पितेषु गोचरान् प्. ८६८) मार्गान् रूपादीन् विषयान् विद्धि | आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्तमात्मानं भोक्तेति संसारीत्याहुर्मनीषिणो वेवेकिनः | नहि केवलस्यात्मनो भोक्तृत्वमस्ति बुध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् | सत्यं देहस्थोऽपि न देहस्थ इत्यनेनात्मनो निर्लिप्तत्वं दर्शिनमतो निर्लिप्तस्य साक्षित्वं विना भोक्तृत्वं घटते इत्यभिप्रायेणात्मा साक्षीत्युक्तम् | तर्हि सर्वत्र शरीरेषु एकस्यैवात्मनोऽवस्थाननिर्दिष्टत्वं शिष्टत्वं वा कस्य केन वा भवतीत्यपेक्षायामुत्तरमाह सैवोपनिषत् | यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा तदा | तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः | यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा | तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः | अतस्तर्हि चैतन्यरूपस्यात्मनः साक्षित्वमात्रमभिमतञ्चेत्तदा मोक्षः संसारो वा कस्येति सन्देहं निराकरोति सैव | यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः | स तु तत्पदमाप्नोति यस्माद्भूयो न जायते | यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः | न स तत्पदमाप्नोति संसारञ्चाधिगच्छति | बालक्रीडितवत् सर्वं रूपनामादिकल्पनम् | विहाय ब्रह्मनिष्ठो यः स मुक्तो नात्र संशयः | मनसा कल्पिता मूर्त्तिर्नृणां चेन्मोक्षबाधिनी | स्वप्नलब्धेन राज्येन राजानो मानवास्तथा | मृच्छिलाधातुदार्वादिमूर्त्तावीश्वरबुद्धयः | क्लिश्यन्तस्तपसा ज्ञानं विना मोक्षं न यान्ति वै | आहारसंयमक्लिष्टा यथेष्टाहारतुन्दिलाः | ब्रह्मज्ञानविहीनाश्चेन्निष्कृतिं ते व्रजन्ति किम् | वायुपर्णकणातोयव्रतीनो मोक्षभागिनः | सन्ति चेत् पन्नगा मुक्ताः पशुपक्षिजलेचराः | उत्तमो ब्रह्मसद्भावो ध्यानभावस्तु मध्यमः | स्तुतिर्जपोऽधमो भावो वहिः पूजाऽधमाधमा | योगे जीवात्मनोरैक्यं पूजनं सेवकेशयोः | प्. ८६९) सर्वं ब्रह्मेति विदुषो न योगो न च पूजनम् || ननु योगा बहुविधास्तूक्ता एव कथं जीवात्मनोरैक्यमात्रं योग इत्युच्यते इति चेत् सत्यम् | ते योगाः प्राणायामादिकर्मरूपतया गौणा एव मुख्ययोगस्तु जीवात्मनोरैक्यमेव | तथा च कुलार्ण्वे || न पद्मासनतो योगो न नासाग्रनिरीक्षणात् | ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः || इति || महानिर्वाणे || ब्रह्मज्ञानं परं ज्ञानं यस्य चित्ते विराजते | किं तस्य जपयज्ञाद्यैस्तपोभिर्नियमव्रतैः | सत्यं विज्ञानमानन्दमेकं ब्रह्मेति पश्यतः | स्वभावाद् ब्रह्मभूतस्य किं पूजाध्यानधारणाः | न पापं नैव सुकृतं न स्वर्गो न पुनर्भवः | नापि ध्येयो न वा ध्याता सर्वं ब्रह्मेति जानतः | अयमात्मा सदा मुक्तो निर्लिप्तः सर्ववस्तुषु | किं तस्य बन्धनं कस्मान्मुक्तिमिच्छन्ति दुर्धियः | स्वयं विरचितं विश्वमवितर्क्यं सुरैरपि | राजते तत्र तत्रैव ह्यप्रविष्टः प्रविष्टवत् | वहिरन्तर्यथाकाशं वस्तूनामेव सर्वशः | तथैव भाति तद्रूपो ह्यात्मा साक्षी स्वरूपतः | न बाल्यमस्ति च जरा नात्मनो यौवनं जनुः | सदैकरूपश्चिन्मात्रो विकारपरिवर्जितः | जन्मयौवनवार्द्धक्यं देहस्यैव न चात्मनः | पश्यन्तोऽपि न पश्यन्ति मायाप्राकृतबुद्धयः | यथा शरावतोयस्थं रविं पश्यत्यनेकधा | तथैव मायया देहे बहुधात्मानमीक्षते || गन्धर्व तन्त्रे पञ्चमपटले || नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः | एकः सम्भिद्यते भ्रान्त्या मयया न स्वरूपतः | तस्माद्द्वैतञ्च मे नास्ति न प्रपञ्चो न संस्मृतिः | यथाकाशो घटाकाशो महाकाश इतीरितः | तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मा जीवेश्वरात्मना | नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च | न मनो नैव बुद्धिश्च नैव चित्तमहङ्कृतिः | नाहं प्. ८७०) पृथ्वी न सलिलं न च वह्निस्तथानिलः | न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः | न हि गन्धो न रूपञ्च न मायाहं न संसृतिः | सदा साक्षिस्वरूपात्मा ब्रह्म चैवास्मि केवलम् | सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत् कदाचन | इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः | समाधौ शुद्धरूपोऽसौ तुरीयस्वर एव हि | तुरीयांशः परा शक्तिर्विन्द्वात्मा ब्रह्मकेवलम् | जीवमीश्वरभावेन विद्यात् सोऽहमतिध्रुवम् | यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः | समुद्रे लीयते तद्वज्जगदात्मनि लीयते | यस्यैवं परमात्मा न पृथग्भूतः प्रकाशितः | स याति परमं भावं स्वयं साक्षात् परामृतम् | यदा मनसि चैतन्यं भाति सर्वत्रगं सदा | योगिभ्यो व्यवधानेन तदा सम्पद्यते स्वयम् | यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति | सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा | यदा सर्वाणि भूतानि समाधिस्थो न पश्यति | एकीभूतः परेणासौ तदा भवति केवलम् | तदा जन्मजरादुःखव्याधीनामेव भेषजम् | केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः | तस्माद्विज्ञानतो मुक्तिर्नान्यथा भावकोटिभिः | मन्त्रौषधिबलैर्यद्वजीर्यते भक्षितं विषम् | तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् | देहाभिमाने गलिते विदिते परमात्मनि | यत्र यत्र मनो याति तत्र यत्र समाधयः | अहं ब्रह्म न चान्योऽस्मिन् मुक्तोऽहमिति भावयेत् | सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् | एवं समाधियुक्तो यः स समाधाय कल्प्यते | सदाशिवोऽहमित्युक्त्वा स्वेच्छया विहरेद् यतिः | लिप्यते न स पापेन बध्यते न च कर्मणा | यथाग्निर्विद्रुतस्वर्णमालिन्यं दहति क्षणात् | तथा ब्रह्मार्पितात्मासौ सर्वकर्माणि नाशयेत् | आत्मस्थां देवतां त्यक्त्वा वहिर्देवो विचिन्त्यते | करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया || प्. ८७१) मुण्डमालातन्त्रे एकादशपटले || ज्ञानञ्च द्विविधं ज्ञेयं दुर्ज्ञेयं मनसापि च | ज्ञानं परमतत्त्वाख्यं ज्ञानं ज्ञेयार्थसाधनम् | अन्यद्विभ्रान्तिविषयं ज्ञानं साधारणं मतम् | एवञ्च त्रिविधं शेषमधमं तत्त्ववर्जितम् | तत्त्वज्ञानं वरारोहे ! योगीन्द्राणाञ्च दुर्लभम् | विना तत्त्वपरिज्ञानाद् विफलं पूजनं जपः | एको देवश्च एकोऽहं नात्मा भिन्नः शरीरतः | घटात्पटात् महेशानि ! कालचक्रान्महीरुहात् | एवं ज्ञानं तत्त्वमयं तदा मुक्तोऽचिरेण तु | नानाकारणमेवास्य पूजनं ध्यानमेव च | सेवनञ्चैव तीर्थानां शरणं तारिणीपदम् | स्मरणं मनुराजस्य भ्रमणं वै कुलाचले | सत्सङ्गः सेवनं विष्णोः शङ्करस्यापि पूजनम् | कालिकापादयुगलभजनं ज्ञानकारणम् || क्रियाया अपि मुक्तिसाधनत्वं दर्शयति द्वितीयपटले | भक्त्या च क्रियया चण्डि ! पूजयेद्यस्तु कालिकाम् | जीवः शिवत्वं लभते सत्यं सत्यं न संशयः || तथा || सदा क्रिया प्रकर्त्तव्या क्रियया सिद्धिमुत्तमाम् | प्राप्नोति साधकश्रेष्ठश्चात् एव न च त्यजेत् | एतत्तु वचनं गृहस्थपरमग्रेस्पष्टीभविष्यति प्रथमपटले || क्व यमः क्व तपो विष्णुः क्व कलिः कर्महिंसकः | सर्वञ्च मानसं क्लेशं सदा सत्यं विभावयेत् | एवं विधानमासाद्य प्रजपेद्भावयेत् सुधीः | सोऽचिरेणैव कालेन शिवत्वं लभते जनः || शिवजीवयोरुपाधिमात्रभेद इति यत् प्रागुक्तं तदेव स्पष्टीकरिष्यते यथा तत्रैव || जीवः शिवः शिवो देवः स जीवः केवलः शिवः | पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः | पाशस्तु कुलार्णवे पञ्चमखण्डे || घृणा लज्जा भयं शोको जुगुप्सा चेति पञ्चमी | कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीर्त्तिताः | पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः || मुण्डमालातन्त्रे तृतीयपटले || तुषेण बद्धो व्रीहि स्यात्तुषाभावे तु तण्डुलः | कर्मबद्धो भवेज्जीवः कर्ममुक्तः सदाशिवः || प्. ८७२) तथा | तोये क्षिप्तं हविर्यद्वत्तत्र क्षिप्तं न पूर्ववत् | पृथत्तया गुणेभ्यः स्यात्तद्वदात्मा इहोच्यते | क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् | अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः | यथा चन्द्रार्कयोर्विम्बौ जलपूर्णघटेषु च | घटे भग्ने जलेष्वेव प्रलीनौ चन्द्रसूर्यकौ | न जायते न म्रियते आत्मा तु परमः शिवः | आत्मज्ञानं समासाद्य संसारार्णवदुस्तरम् | तरत्येव सदा चण्डि ! जीवः शिवत्वमालभेत् | कठोपनिषदि द्वितीयवल्ल्यामपि || न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || भगवद्गीतायामप्येतत् | केवलं विपश्चिदित्यत्र कदाचिदिति नायं भूत्वा भविता वा न भूय इति च द्वितीयचरणे विशेषः || तथा षष्ठपटले || जीवः शिवस्तु विज्ञेयो विश्वेशः सर्वदारतिः | ब्रह्मतत्त्वं वरारोहे ! देवानामपि दुर्लभम् || तथा || जीवः शिवत्वं लभते ज्ञानात्तु वरवर्णिनि ! | विचित्रं गुरुपादाब्जं पार्वत्याः शङ्करस्य च | भजेदेकविधानेन जीवन्मुक्तः स एव हि | पिण्डे युक्ताः पदे युक्ता रूपे युक्ता वरानने ! | गुणातीतेषु ये युक्तास्ते मुक्ता नात्र संशयः | न पिण्डं न पदं रूपं न जानामि सुरोत्तम ! | कथ्यतामित्यादिदेवीप्रश्नानन्तरम् || शिव उवाच || पिण्डं कुण्डलिनीशक्तिः पदोऽहं सम्प्रर्त्तितः | रूपञ्चापि वरारोहे ! ध्यानमेव न संशयः | महाकुण्डलिनीं शक्तिं ये भजन्ति भुजङ्गिनीम् | स कृतार्थः स धन्यश्च स दिव्यो वीरसत्तमः | तथा || ये दिव्याः साधकेन्द्राश्च ये वीराः साधकोत्तमाः पशवः पशवो ज्ञेयाः सर्वशास्त्रार्थकोविदाः | साधको मुक्तिमाप्नोति सत्यं सत्यं वरानने ! | शृणु देवि ! जगद्धात्रि ! प्. ८७३) सर्वमङ्गलमङ्गलम् | तन्त्रं शृणुयाद्देवेशि ! ब्रह्मनिर्वाणमाप्नुयात् | तन्त्रश्रवणे कथं ब्रह्माप्तिरिति नाशङ्कनीयम् || परमार्थस्वरूपाम्नायाह्वयतन्त्रशास्त्रस्य तत्त्वज्ञानदर्शकत्वेन ब्रह्मविद्यात्वाद्वेदादीनां न तथात्वम् | तथा च मुण्डकोपनिषत् | द्वे विद्ये वेदितव्ये इति इस्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च | तत्र परा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति | अथापरा यया तदक्षरमधिगम्यते | ननु ऋग्वेदादिवाह्याद्वेदादिवाह्याचेत् परा विद्या तर्हि कथमुपनिषत् परा विद्या स्यान्मोक्षसाधनञ्च | या वेदवाह्याः स्मृतय इति स्मरन्ति कुदृष्टित्वान्निष्फलत्वादनादेयत्वात् | उपनिषदश्च ऋग्वेदादिवाह्यत्वं स्यात् | ऋग्वेदादित्वे च पृथक्करणमनर्थकमप्यपरेऽपि न वेद्यविषयविज्ञानस्य विवक्षितत्वादुपनिषद्वेद्याक्षरविषयं हि वेद्याक्षरविषयं हि विज्ञानमिह पराविद्येति प्राधान्येन विवक्षितम् | नोपनियच्छब्दराशिः | वेदशब्देन तु सर्वत्र राशिर्विवक्षितः | शब्दराश्यधिगमेऽपि यत्तु आन्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यञ्च नाक्षरादिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्यायाः परा विद्येति || ब्रह्मज्ञानप्रशंसामाह || गायत्रीतन्त्रे प्रथमपटले || तावद्विद्या भवेत् सर्वा यावज्ज्ञानं न जायते | ब्रह्मज्ञानपदं ज्ञात्वा सर्वाश्चैव तिरोहिताः | वेदशास्त्रपुराणानि सामान्यगणिका इव | या पुनः शाम्भवी विद्या गुप्ता कुलबधूरिव | देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः | देहस्थसर्वतीर्थाणि लभन्ते गुरुवाक्यतः | अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् | कर्माकर्म तथा जाप्यमेतत् सर्वं निवर्त्तते || अत एव कुलार्णवे || अभ्यस्य प्. ८७४) सर्वशास्त्राणि तत्त्वं ज्ञात्वा प्रयत्नतः | पलालमिव थान्यार्थी सर्वशास्त्राणि सन्त्यजेत् || गीतायामपि || त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन इत्यादि | गायत्रीतन्त्रे || काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयो घृतम् | देहमध्ये तथा देवः पुण्यपापविवर्जितः | आत्मतत्त्वज्ञानस्य बहुजन्मार्जितपुण्यफलत्वं दर्शयति कठोपनिषदि द्वितीयवल्ली | श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विदुः | आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः | न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः | अनन्यप्रोक्ते न गीरत्र नास्त्यणीयान् ह्यतर्क्यमनुप्रमाणात् || नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठः | यां त्वमापः सत्यवृतिर्वतासि त्वादृङ्नो भूयान्नाचिकेतः ! प्रष्टा || जानाम्यहं शेवधिरित्यनित्यम् नह्यध्रुवैः प्राप्यते ध्रुवं तत् | ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् || कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम् | स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नाचिकेतोऽत्यस्राक्षीः || तं दुर्द्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् | अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति || इतच्छ्रुत्वा सम्परिगृह्य मर्त्त्यः प्रगृह्य धर्म्यमनुमेतमाप्य | स मोदते मोदनीयं हि लब्ध्वा विवृतं पद्म नचिकेतसंमन्ये || अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् | अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद || सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योम् || इत्येतत् || नित्यातन्त्रे अष्टमपटले || देव्युवाच || प्. ८७५) देवदेव ! महादेव ! जगन्निस्तारतारक ! | परमात्मेति किं नाम कथयस्व महेश्वर ! | ईश्वर उवाच || साधु पृष्टं त्वया भद्रे ! कथयामि शृणुस्व तत् | यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः | विरजाख्ये महेशानि ! महापद्मवराटके | वैखरीपरमायोगात् पुष्करे तीर्थराजके | निराकारं परं ज्योतिः परंब्रह्मस्वरूपकम् | सर्वज्ञो निर्गुणो नित्योऽद्वयः सर्वप्रतिष्ठितः | महाकुण्डलिनीयोगात् यदा तेजोमयो भवेत् | तदैव चिन्तनीयोऽसौ परमात्मा सुरेश्वरि ! | जीवाद्याः परमेशानि ! तदंशाः परिकीर्त्तिताः || महानिर्वाणतन्त्रे द्वितीयोल्लासे || देव्युवाच || कथितं यत् परं ब्रह्म परमेशं परात् परम् | यस्योपासनतो मर्त्त्यो भुक्तिं मुक्तिञ्च विन्दति | केनोपायेन भगवन् ! परमात्मा प्रसीदति | किं तस्य साधनं देव ! मन्त्रः को वा प्रकीर्त्तितः | किं ध्यानं किं विधानञ्च परेशस्य परात्मनः | तत्त्वेन श्रोतुमिच्छामि कृपया कथय प्रभो ! || सदाशिव उवाच | तव स्नेहेन वक्ष्यामि मम प्राणाधिकं परम् | ज्ञेयं भवति तद्ब्रह्म सच्चिद्विश्वमयं परम् | यथातथस्वरूपेण लक्षणैर्वा महेश्वरि ! | सत्तामात्रं निर्विशेषमवाङ्मनसगोचरम् | असत्त्रिलोकीसद्भावं स्वरूपं ब्रह्मणः स्मृतम् | समाधियोगैस्तद्वेद्यं सर्वत्र समदृष्टिभिः | द्वन्द्वातीतैर्निर्विकल्पैर्देहात्माध्यासवर्जितैः | यतो विश्वं सदुद्भूतं येन जातञ्च तिष्ठति | यस्मिन् सर्वाणि लीयन्ते ज्ञेयं तद्ब्रह्म लक्षणैः || ब्रह्मज्ञानन्तु सन्न्यासिनामेव न गृहस्थानाम् | तथा च मुण्डकभाष्ये प्रथमे श्रीशङ्कराचार्यपादाः || ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारस्तथापि सन्न्यासनिष्ठा एव ब्रह्मविद्यामोक्षसाधनं न कर्मसहितेति भैक्षचर्यां चरन्तः सन्न्यासयोगादिति च ब्रुवन् दर्शयति | विद्याकर्मविरोधाच्च नहि प्. ८७६) ब्रह्मात्मैकत्वदर्शनेन सह कम स्वप्नेऽपिसम्पादयितुं शक्यम् | विद्यायाः कालविशेषाभावान्नियतनिमित्तत्वात् कालकर्मसङ्कोचानुपपत्तिः | यत्तु गृहस्थेषु ब्रह्मविद्याप्रदानकर्त्तृत्वादिलिङ्गं न तत् स्थितं न्यायं बाधितुमुत्सहते | नहि विधिशतेनापि तमःप्रकाशयोरेकत्र सम्भवः शक्यते कर्त्तुमित्यन्तेनाहुः | तर्हि वक्ष्यमाणमस्मिन् धर्मे स्यादित्युपक्रम्य मातापित्रोः सेवनतत्पर इति | कथमुक्तं गृहस्थस्यैव मातृपितृसेवनसम्भवादिति चेन्न | अस्मिन् धर्मे आरभ्यमाणे इति वक्तव्यमन्यथा परोपकारनिरत इति न सङ्गच्छते | ब्रह्मैकनिष्ठस्यात्मपरज्ञानाभावादिति || ब्रह्मणो जगत्सृष्टिमाह मुण्डकोपनिषत् || यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति | यथेशतः पुरुषात् केशलोमानि तथा क्षरात् सम्भवतीह विश्वम् || आत्मज्ञानप्रकारस्तु तृतीयमुण्डकोपनिषत् || स वेदैतत् परं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् | उपासते पुरुषं ये ह्यकामास्ते शुभ्रमेतदतिवर्त्तन्ति धीराः || कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र | पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः || नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन | यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा वृणुते तनुं स्वाम् || नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् | एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम || ब्रह्मज्ञानप्राप्तिफलमाह व || सम्प्राप्यैनमृषयो सै ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति || प्. ८७७) वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः | ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे || सन्न्यासिनां ब्रह्मविद्येति यत् प्रागुक्तं तदत्र सुस्पष्टीकृतमुपनिषदेति || तथा || गताः कलाः पञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति || यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् || स यो हवैतत् परमं ब्रह्म वेद ब्रह्मैव भवति | ना स्याद्ब्रह्मवित्कुले भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति || महानिर्वाणतन्त्रेऽपि || बहुजन्मार्जितैः पुण्यैः सद्गुरुर्यदि लभ्यते | तदा तद्वक्त्रतो लब्ध्वा जन्मसाफल्यमाप्नुयात् | चतुर्वर्गं करे कृत्वा परत्रेह च मोदते | स धन्यः स कृतार्थश्च स कृती स च धार्मिकः | स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः | सर्वशास्त्रेषु निष्णातः सर्वलोकप्रतिष्ठितः | यस्य कर्णपथोपान्ते प्राप्तो मन्त्रो महामणिः | धन्या माता पिता तस्य पवित्रं तत् कुलं शिवे ! | पितरस्तस्य सन्तुष्टा मोदन्ते त्रिदशैः सह | गायन्ति गायनीं गाथां पुलकाङ्कितविग्रहाः | अस्मत्कुले कुलश्रेष्ठो जातो ब्रह्मोपदेशिकः | किमस्माकं गयापिण्डैः किं तीर्थश्राद्धतर्पणैः | किं दानैः किं जपैर्होमैः किमन्यैर्बहुसाधनैः | वयमक्षयतृप्ताः स्मः सत्पुत्त्रस्यास्य साधनात् | शृणु देवि ! जगद्वन्द्ये ! सत्यं सत्यं मयोच्यते | वरब्रह्मोपासकानां किमन्यैः साधनान्तरैः | मन्त्रग्रहणमात्रेण देही ब्रह्ममयी भवेत् | ब्रह्मभूतस्य देवेशि ! किमवाप्यं जगत्त्रये | किं कुर्वन्ति ग्रहा रुष्टा वेतालापटकादयः | तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः | रचितो ब्रह्ममन्त्रेण प्रावृतो ब्रह्मतेजसा | प्. ८७८) किं बिभेति गृहादिभ्यो मार्त्तण्ड इव चापरः | तं दृष्ट्वा भयमापन्नाः सिंहं दृष्ट्वा यथा गजाः | विद्रवन्ति च नश्यन्ति पतङ्गा इव पावके | न तस्य दुरितं किञ्चिद् ब्रह्मनिष्ठस्य देहिनः | तस्य पूतस्य शुद्धस्य सर्वप्राणिहितस्य च | को वोपद्रवमन्विच्छेदात्मापघातकं विना | ये द्रुह्यन्ति खलाः पापाः परब्रह्मोपदेशिनः | स्वद्रोहं ते प्रकुर्व्न्ति नातिरिक्तो यतः स्मृतः | स तु सर्वहितः साधुः सर्वेषां प्रियकारकः | तस्यानिष्टे कृते देवि ! को वा स्यान्निरुपद्रवः | स्वरूपबुद्ध्या यद्वेद्यं तदेव लक्षणैः शिवे ! | लक्षणैराप्तुमिच्छूनां विहितं तत्र साधनम् | तत् साधनं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ! | तत्रादौ कथयाम्याद्ये ! मन्त्रोद्धारं महेशितुः | प्रणवं पूर्वमुद्धृत्य सच्चित्पदमुदाहरेत् | एकं पदान्ते ब्रह्मेति मन्त्रोद्धारः प्रकीर्त्तितः | सन्धिक्रमेण मिलितः सप्तार्णोऽयं मनुर्मतः | तारहीनेन देवेशि ! षड्वर्णोऽयं मनुर्मतः || एतन्मन्त्रप्रशंसापि तत्तैव || सर्वमन्त्रोत्तमः साक्षाद्धर्मार्थकाममोक्षदः | मात्रसिद्धाद्यपेक्षास्ति नारिमित्रादिदूषणम् | न तिथिर्न च नक्षत्रं न च राशिगणस्तथा | कुलाकुलानां नियमो न संस्कारोऽत्र विद्यते | सर्वथा सिद्धिमन्त्रोऽयं नात्र कार्या विचारणा || मन्त्रार्थं मन्त्रचैतन्यं नात्र कार्या विचारणा || मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधः | शतलक्षप्रजप्तेऽपि तस्य मन्त्रो न सिध्यति | अतोऽस्यार्थञ्च चैतन्यं कथयामि शृणु प्रिये ! | अकारेण जगत्पाता संहर्त्तास्यादुकारकः | मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः | स्वच्छन्देन सदास्थायि चिच्चैतन्यं प्रकीर्त्तितम् | एकमद्वैतमीशानि ! वृहत्वाद्ब्रह्मगीयते | मन्त्रार्थः कथितो देवि ! साधकाभीष्टसिद्धिदः | मन्त्रचैतन्यमेतद्धि तदधिष्ठातृदेवता | तज्ज्ञानं परमेशानि ! भक्तानां सिद्धिदायकम् | तस्याधिष्ठातृ देवेशि ! सर्वव्यापि प्. ८७९) सनातनम् | अवितर्क्यं निराकारं वाचातीतं निरञ्जनम् | वाङ्माया कमलाद्येन तारहीनेन पार्वति ! | दीयते विविधा विद्या मायाश्रीसर्वतोमुखी | तारेण तारहीनेन प्रत्येकं सकलं पदम् | युग्मयुग्मक्रमेणापि मन्त्रोऽयं विविधो भवेत् || अथ ब्रह्ममन्त्रोपासनाप्रकारस्तु तत्रैव || ब्राह्मे मुहूर्त्ते उत्थाय प्रणम्य ब्रह्मदं गुरुम् | ध्यात्वा च परमं ब्रह्म यथाशक्ति मनुं स्मरेत् | पूर्ववत् प्रणमेद्ब्रह्म प्रातःकृत्यमिदं स्मृतम् || तथा | अथ सन्ध्याविधिं वक्ष्ये ब्रह्ममन्त्रस्य शाम्भवि ! | यां कृत्वा ब्रह्मसम्पत्तिं लभते भुवि मानवः | प्रातर्मध्याह्नसायाह्ने यथादेशे यथासने | पूर्ववत् परमब्रह्म ध्यात्वा साधकसत्तमः | अष्टोत्तरशतं देवि ! गायत्रीजपमाचरेत् | जपं समर्प्य विधिवत् पूर्ववत् प्रणमेत् सुधीः | एषा सन्ध्या मया प्रोक्ता सर्वथा ब्रह्मसाधनम् | गायत्रीं शृणु चार्वङ्गि ! सर्वपापप्रणाशिनीम् | परमेश्वरं ङेऽन्तमुक्त्वा विद्महे तदनन्तरम् | परतत्त्वाय परतो धीमहीति वदेत् प्रिये ! | तदनन्तरमीशानि ! तन्नो ब्रह्म प्रचोदयात् | इयं श्रीब्रह्मगायत्री चतुर्वर्गप्रदायिनी | यजनं पूजनञ्चैव स्नानं पानञ्च भोजनम् | यद्यत् कर्म प्रकुर्वीत ब्रह्ममन्त्रेण साधयेत् | तत् सदिति वदेद्देवि ! प्रारम्भे सर्वकर्मणाम् | ब्रह्मार्पणमस्तु वाक्यं पानभोजनकर्मणोः | ऋषिः सदाशिवो ह्यस्य छन्दोऽनुष्टुवुदाहृतम् | देवता परमं ब्रह्म सर्वान्तर्यामि निर्गुणम् | चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्त्तितः | अङ्गन्यासकरन्यासौ कथयामि शृणु प्रिये ! | तारं सच्चिदेकमिति ब्रह्मेति सकलं ततः | अङ्गुष्ठतर्जनीमध्यानामिकासु महेश्वरि ! | कनिष्ठयोः करतलपृष्ठयोः सुरवन्दिते ! | नमःस्वाहावषड्वौषट्फडन्तैश्च यथाक्रमम् | प्. ८८०) न्यसेन्न्यासोक्तविधिना साधकः सुसमाहितः | हृदादिपादपर्यन्तमेवमेवं विधीयते | प्राणायामं ततः कुर्यान्मूलेन प्रणवेन वा | मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्वति ! | वामनासापुटं धृत्वा दक्षनासापुटेन च | पूरयेत् पवनं मन्त्री मूलमन्त्रमिदं जपन् | अङ्गुष्ठेन दक्षनासां धृत्वा कुम्भकयोगतः | जपेद्द्वात्रिंशतावृत्त्या ततो दक्षिणनासया | शनैः शनैस्त्र्यजेद्वायुं जपन् षोडशधा मनुम् | वामनासापुटेऽप्येवं पूरकुम्भकरेचकम् | पुनर्दक्षिणतः कुर्यात् पूर्ववत् सुरवन्दिते ! | प्राणायामविधिः प्रोक्तो ब्रह्ममन्त्रस्य साधने | ततो धयानं प्रकुर्वीत साधकाभीष्टसाधनम् || हृदयकमलमध्ये निर्विशेषं निरीहं हरिहरविधिवेद्यं योगिभिर्ध्यानगम्यम् | जननमरणभीतिध्वंसि सच्चित्स्वरूपं सकलभुवनवीजं ब्रह्मचैतन्यमीडे || ध्यत्वैवं परमं ब्रह्म मानसैरुपचारकैः | पूजयेत् परया भक्त्या ब्रह्मसायुज्यहेतवे | गन्धं दद्यान्महीतत्त्वं पुष्पमाकाशमेव च | धूपं दद्याद्वायुतत्त्वं दीपं तैजसमर्पयेत् | नैवेद्यं तोयतत्त्वेन प्रदद्यात् परमात्मने | ततो जप्त्वा महामन्त्रं मनसा साधकोत्तमः | समर्प्य ब्रह्मणे पश्चाद्वहिः पूजां समारभेत् | उपस्थितानि द्रव्याणि गन्धपुष्पादिकानि च वस्त्रालङ्करणादीनि भक्ष्यपेयानि यानि च | मन्त्रेणानेन संशोध्य ध्यात्वा ब्रह्म सनातनम् | निमील्य नेत्रे मतिमानर्पयेत् परमात्मने | ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नी ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना | ततो नेत्रे समुन्मील्य जप्त्वा मूलं स्वशक्तितः | तज्जपं ब्रह्मसात् कृत्वा स्तोत्रञ्च कवचं पठेत् | स्तोत्रं शृणु महेशानि ! ब्रह्मणः परमात्मनः | यत् श्रुत्वा साधको देवि ! ब्रह्मसायुज्यमश्नुते | नमस्ते सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय | नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय || प्. ८८१) त्वमेकं शरण्यं त्वमेकं वरेण्यं त्वमेकं जगत्कारणं विश्वरूपम् | त्वमेकं जगत्कर्त्तृपातृप्रहर्त्तृ त्वमेकं परं निश्चलं निर्विकल्पम् || भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् | महोच्चैःपदानां नियन्तृ त्वमेकं परेषां परं रक्षणं रक्षणानाम् | परेश ! प्रभो ! सर्वरूपाविनाशिन्ननिर्देश्य ! सर्वेन्द्रियागम्य ! सत्य ! | अचिन्त्याक्षर ! व्यापक ! व्यक्ततत्त्वाजपाभाषकाधीश ! पायादपायात् || तदेकं स्मरामस्तदेकं भजामस्तदेकं जगत्साक्षिरूपं नमामः | सदेकं विधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं व्रजामः || पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः सच्चिदात्मनः | यः पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् | प्रदोषे यः पठेन्नित्यं सोमवारे विशेषतः | श्रावयेद्बोधयेत्प्राज्ञो ब्रह्मनिष्ठान् सबान्धवान् || इति पञ्चरत्नस्तोत्रं समाप्तम् || कवचं शृणु चार्वङ्गि ! जगन्मङ्क्षलनामकम् | पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् | परमात्मा शिवः पातु हृदयं परमेश्वरः | कण्ठं पातु जगत्पाता वदनं सर्वदृग्विभुः | करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः | सर्वाङ्गं सर्वदा पातु परं ब्रह्म सनातनम् | श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः | ऋषिश्छ्न्दोऽनुष्टुविति परमब्रह्मदेवता | चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्त्तितः | यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् | स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् | भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि | कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् | इत्येतत् परमब्रह्मकवचं ते प्रकाशितम् | दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते || इति ब्रह्मकवचं समाप्तम् || एवं सम्पूज्य मतिमान् स्वजनैर्बान्धवैः सह | महाप्रसादं स्वीकुर्याद् ब्रह्मणः परमात्मनः | पूजने प्. ८८२) परमेशस्य नावाहनविसर्ज्जने | सर्वत्र सर्वकालेषु साधयेद्ब्रह्मसाधनम् | अस्नातो वा कृतस्नानो भुक्त्वा वापि बुभुक्षितः | पूजयेत् परमात्मानं सदा निर्मलमानसः | अनेन ब्रह्ममन्त्रेण भक्ष्यपेयादिकं चरेत् | दीयते परमेशाय तदेव पावनं महत् | गङ्गातोये शिवादौ च स्पर्शदोषोऽपि वर्त्तते | परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टिर्न दुष्यति || तथा | नात्र वर्णविचारोऽस्ति निच्छिष्टादिविचारणम् | न कालनियमोऽप्यत्र शौचाशौचं तथैव च || तथा | महापातकयुक्तो वा युक्तो वा चान्यपातकैः | सकृत् प्रसादंग्रहणान्मुच्यते नात्र संशयः | सार्द्धत्रिकोटितीर्थेषु स्नानदानेन यत् फलम् | तत् फलं लभते मर्त्त्यो ब्रह्मार्पितनिषेवणात् || तथा | पुण्यायन्ते क्रियाः सर्वा दुष्कृतं सुकृतायते | स्वेच्छाचारोऽत्र विहितो महामन्त्रस्य साधने | किं तस्य वैदिकाचारैस्तान्त्रिकैर्वापि तस्य किम् | ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः | कृतेनास्य फलं नास्ति नाकृतेनापि किल्विषम् | न विघ्नः प्रत्यवायोऽस्य महामन्त्रस्य साधने | अस्मिन् धर्मे महेशि ! स्यात् सत्यवादी जितेन्द्रियः | परोपकारनिरतो निर्विकारः सदाश्रयः | मात्सर्यहीनोऽदम्भी च दयावान् शुद्धमानसः | मातापित्रोः प्रीतिकरस्तयोः सेवनतत्परः || तथा | द्वात्रिंशता सहस्रेण जपेनास्य पुरस्क्रिया | तद्दशांशेन हवनं तर्पणं तद्दशांशतः | सेचनं तद्दशांशेन तद्दशांशेन सुन्दरि ! | ब्राह्मणान् भोजयेन्मन्त्री पुरश्चरणकर्मणि | भक्ष्याभक्ष्यविचारोऽत्र त्याज्यो ग्राह्यो न विद्यते | न कालशुद्धिनियमो नवा स्थाननिरूपणम् | अभक्तो वापि भक्तो वा स्नातो वाऽस्नात एव वा | साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः | ज्ञानिनो यत्र कुत्रापि मरणे मोक्ष एव च || तदुक्तं मुण्डमालातन्त्रे प्रथमपटले || गङ्गाद्वारे प्रयागे वा प्. ८८३) विमुक्तोऽपावनीमुखे | यत्र कुत्र मृतो ज्ञानी तत्रैव मोक्षमाप्नुयात् || निश्वासतः पञ्चभूतावस्थाः पूर्वं निरूपिताः इदानीं वर्णभेदेनावस्थापञ्चकं निरूपयन् वर्णतः प्रयोजनान्तरमपि दर्शितवान् | नरपतिजयचर्यास्वरोदयधृतब्रह्मजामले || मातृकायां स्वराः प्रोक्ताः स्वराः षोडशसंख्यया | तेषां द्वावन्तिमौत्याज्यौ चत्वारश्च नपुंसकाः | शेषा दशस्वरान्तेषु स्यादेकैको द्विके द्विके | ज्ञेया अतः स्वराद्याश्च ह्रस्वाः पञ्चस्वरोदये | स्वरा हि मातृकोच्चारा मात्राव्याप्तं जगत्त्रयम् | तस्मात् स्वरोद्भवं सर्वं त्रैलोक्यं सचराचरम् | अकारादिस्वराः पञ्च ब्रह्माद्याः पञ्च देवताः | निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम् | मायाद्याश्चक्रभेदाश्च धराद्यं भूतपञ्चकम् | गन्धाद्या विषयास्ते च कामवाणा इतीरिताः | पिण्डं पदं तथा रूपं रूपातीतं निरञ्जनम् | स्वरभेदे स्थितं ज्ञानं ज्ञायते गुरुतः सदा | अकारादिस्वराः प्ञ्च तेषामष्टौ भिदास्त्वमी | मात्रा वर्णो ग्रहो जीवो राशिर्भं पिण्डयोगकौ | प्रसुप्तो भाषते येन येन गच्छति शब्दितः | तत्र नाम्नाद्यवर्णे या मात्रा मात्रास्वरः स हि || इति मात्रास्वरचक्रम् || कादिहान्तान् लिखेद्वर्णान् स्वराधो ङञणोज्झितान् | तिर्यक्पंक्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके | नरनामादिमो वर्णो यस्मात् स्वरादधः स्थितः | स स्वरस्तस्य वर्णस्य वर्णस्वर इहोच्यते | न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि | चेद्भवन्ति तदा ज्ञेया जगडास्ते यथाक्रमम् | यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः | ग्राह्यस्तस्यादिमो वर्ण इत्युक्तं ब्रह्मजामले || इति वर्णस्वरचक्रम् || अस्वरे मेषसिंहालिरिः कन्यायुग्मकर्कटाः | उस्वरे च धनुर्मीनौ एस्वरे च तुलावृषौ | ओस्वरे मृगकुम्भौ च राशिशम्भूग्रहस्वराः | स्वराधः प्. ८८४) स्थापयेत् खेटं राशेर्यो यस्य नायकः || इति ग्रहस्वरचक्रम् || षोडशाक्षरो हवर्गः स्यात् कादिवर्गास्तु पञ्चकाः | चतुर्वर्णौ यशौ वर्गौ सङ्ख्या वर्गेषु कीर्त्तिताः | नाम्नो वर्णाः स्वरा ग्राह्या वर्गाणां वर्णसङ्ख्यया | पिण्डिताः पञ्चभिर्भक्ताः शेषं जीवस्वरं विदुः || इति जीवस्वरचक्रम् || मेषवृषावकारे च मिथुनाद्याः षडंशकाः | मिथुनांशास्त्रयश्चैव इकारे सिंहकर्कटाः | कन्या तुला उकारे च वृश्चिकस्य त्रयोंऽशकाः | एकारे वृश्चिकस्यान्त्याः कार्मुकं षड्मृगादिमाः | अंशास्त्रयो मृगस्यान्त्याः कुम्भमीनौ तथौस्वरे | एवं राशिस्वरः प्रोक्तो नवांशप्रक्रमोदयः || इति राशिस्वरचक्रम् || अकारे सप्तऋक्षाणि रेवत्यादिक्रमेण च | पञ्च पञ्च इकारादावेवमृक्षस्वरोदयः || इति नक्षत्रस्वरचक्रम् || मात्रावर्णस्वरात् सङ्ख्या सङ्ख्या वीजस्वरात्तथा | पिण्डीकृते शरैः शेषः पिण्डस्वर इहोच्यते || इति पिण्डस्वरचक्रम् || मात्रादिवर्णभेदेन स्वरानुत्पाद्य नामतः | योगे शरहृते तत्र शेषो योगस्वरो मतः || इति योगस्वरचक्रम् || प्रोक्ता नैसर्गिकाश्चाष्टौ मात्राद्या नामजाः स्वराः | एतेषामुदयान् वक्ष्ये द्वादशाब्दादिकालजान् | प्रभवादिक्रमेणैषां स्वराणामस्वरादितः | उदयो द्वादशाब्दानां प्रत्येकं द्वादशाब्दिकः | अस्यान्तरोदयो वर्षमेकं मासं दिनद्वयम् | लोकाब्दिघटिका प्रोक्ता चाष्टत्रिंशत् पलानि च | १ | १ | २ | ४३ | ३८ | १ || प्रभवाद्यब्दमेकैकमुदयस्त्वस्वरादितः | द्वादशाब्दस्य वर्षोना तद्भुक्तिर्वार्षिकस्वरे | ० | ० | १ | २ | ४३ | ३८ | २ || अस्वरो दक्षिणे स्वामी इस्वरश्चोत्तरायणे | वर्षभुक्त्यार्द्धमानेन भोगः षण्मासिकस्वरे | ० | ० | १६ | २१ | ४९ || ३ || अकारादिस्वराः पञ्च वसन्तादिक्रमोदयाः | एकैकस्मिन् स्वराः पञ्च द्विसप्ततिर्दिनोदयाः प्. ८८५) || ७२ || षड्दिनानि वदान्याढ्यो वह्निवेदपलानि च | अन्तरोदय एतस्य ऋतुनाडीस्वरोदये || ० || ० || ६ | ३२ | ४३ || ४ || नभस्यमार्गवैशाखे अस्वरस्योदयो भवेत् | आश्विनश्रावणाषाढे इकारो नायकः स्मृतः | उकारश्चैत्रपौषे स्यादेकारो ज्यैष्ठकार्त्तिके | ओकारश्चोदयं याति माघफाल्गुनमासयोः | द्वे दिने त्र्यब्धयो नाड्यश्चाष्टत्रिंशत्पलानि च | अन्तरोदय उक्तोऽसावत्र वै मासिकस्वरे | ० | ० | १ | २ | ४३ | ३८ || ५ || अस्वरः कृष्णपक्षेशः शुक्लपक्षेश इस्वरः | पक्षान्तरात्मिका भुक्तिर्मासभुक्त्यर्द्धमानतः | ० | ० | १ | २१ | ४९ || ६ || अकारादिक्रमान्न्यस्य नन्दादितिथिपञ्चकम् | दिनस्वरोदयो दित्यं स्वस्वतिथ्यादि जायते | तिथ्यादौ घटिकाः पञ्च पलानां सप्तविंशतिः | अन्तरोदय उक्तोऽसो दिनस्वरस्य सूरिभिः | ० | ० | ० | ५ || २७ || ७ || तिथ्यन्तरोदयमानेन उदयो घटिकास्वरे | ज्ञेयमेवं विधानेन समुक्तश्चादिजामले | घटीस्वरो घटीपञ्चपलानि सप्तविंशतिः | अस्यान्तरोदयः प्रोक्तो घटिकार्द्धप्रमाणटः | ० | ० | ० | ० || ३० || ८ || द्वादशाब्दादिनाड्यन्ताः स्वस्थानाच्च स्वकालतः | उदयान्ते पुनस्तत्र अन्तरेकादशोदयैः | वर्षो मासो दिनं नाडी पलानि च क्रमादिदम् | कालमानं मया प्रोक्तं पञ्चधात्र स्वरोदये | द्वादशाब्दस्वरादीनां भुक्तं पलमयन्तु यत् | तद्भुक्तं स्वरभेदेन लब्धः शेषो द्विकन्तु यत् | लब्धो भुक्तः स्वरा ज्ञेयाः शेषश्चैवोदितः स्वरः | अस्मिन् षष्ट्यादिभुक्तेन भुक्तः स्यादुदितः स्वरः | उदितस्य स्वरस्यस्युर्नामस्वरवशेन ताः | पञ्च बालादिकावस्थाः स्वस्वकालप्रमाणतः | आद्यो बालः कुमारश्च युवा वृद्धो मृतस्तथा निजावस्थास्वरूपेण फलदा नात्र संशयः | किञ्चिल्लाभकरो बालः कुमारश्चार्द्धलाभदः | प्. ८८६) सर्वसिद्धिं युवादत्ते वृद्धे हानिर्मृते क्षयः | यात्रायुद्धे विवादे च नष्टे दुष्टे रुजान्विते | बालस्वरो भवेद्दुष्टो विवाहादिशुभे शुभः | सर्वेषु शुभकार्येषु यात्राकाले तथैव च | कुमारः कुरुते सिद्धिं सङ्ग्रामे सक्षतो जयी | शुभाशुभेषु सर्वेषु मन्त्रयन्त्रादिसाधने | सर्वसिद्धिं युवादत्ते यात्रायुद्धे विशेषतः | दाने देवार्च्चने दीक्षागूढमन्त्रप्रजल्पने | वृद्धस्वरो भवेद्भव्यो रणे भङ्गो भयङ्गमे | विवाहादिशुभं सर्वं सङ्ग्रामाद्यशुभं तथा | न कर्त्तव्यं नृभिः किञ्चिद्याते मृत्युस्वरोदये | मृतो वृद्धस्तथा बालः कुमारस्तरुणः स्वरः | यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरवेदिभिः | यो यस्य पञ्चमस्थाने स स्वरो मृत्युदायकः | तृतीये तु भवेद्वृद्धिः शेषा मध्यफलप्रदाः | मृत्युर्हीनबले नाम्नि जयो नाम्नि स्वराधिके | समनाम्नि भवेत् साम्यं सन्धिर्जयपराजयौ | एकस्वरे भवेत् साम्यं द्वितीयेऽर्द्धफलं भवेत् | तृतीये च फलं पूर्णं तुर्ये बन्धः परे क्षयः | शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकीयके | तत्काले प्रारभेद् युद्धं विजयो भवति ध्रुवम् | तत्काले मातृको ग्राह्यो दिने वर्णस्वरस्तथा | पक्षे ग्रहस्वरो ज्ञेयो मासे जीवस्वरोदयः | ऋतौ राश्यंशको ग्राह्यः षण्मासे धिष्ण्यसम्भवः | अब्दे पिण्डस्वरो ज्ञेयो योगे द्वादशवार्षिकः | सर्वकाले बली वर्णः सर्वव्यापी न संशयः | तस्मात् सर्वत्र यत्नेन वर्णे वीक्ष्यं शुभाशुभम् || यथा पदा हस्तिपदे प्रविष्टा यथा हि नद्यः खलु सागरेषु | यथा हरेर्देहगताश्च देवास्तथा स्वरा वर्णफलोदयस्थाः || साधनं मन्त्रयन्त्रस्य यन्त्रयोगञ्च सर्वदा | अधोमुखानि कर्माणि मात्रास्वरबले कुरु | वर्णस्वरबले सर्वं कर्त्तव्यं च शुभाशुभम् | सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः | मारणं मोहनं स्तम्भं विद्वेषोच्चाटने वशम् | विवादं विग्रहं घातं प्. ८८७) कुर्याद्ग्रहस्वरोदये | यानपानादिकं सर्वं वस्त्रालङ्कारभूषणम् | विद्यारम्भं विवाहञ्च कुर्याज्जीवस्वरोदये | प्रासादारामहर्म्याणि देषतास्थापनानि च | राजाभिषेचनं दीक्षा कर्त्तव्यं राशिके स्वरे | शान्तिकं पौष्टिकञ्चैव प्रवेशो वीजवापनम् | स्त्रीविवाहस्तथा यात्रा कर्त्तव्या भस्वरोदये | शत्रूणां देशभङ्गश्च कौटयुद्धञ्च वेष्टनम् | सेनाध्यक्षस्तथा मन्त्री कर्त्तव्यः पिण्डकोदये | योगेन साधयेद्योगं देहस्थं ज्ञानसम्भवम् | आणवं शाम्भवञ्चैव शाक्तेयञ्च तृतीयकम् | तिथिवारौ च नक्षत्रं पृथक् पृथक् प्रभाषितम् | यत्तदेकत्र सम्मील्य कुर्याद्वर्णस्वरोदये | यस्य नामादिको वर्णस्तिथिवारर्क्षजं मृतम् | तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः | अनेन स्वरयोगेण शत्रूणां मारणादिकम् | मन्त्रयन्त्रक्रियां मोहं साधयेत्तद्दिने बुधः || १७ || बालस्वरादिकावस्था भानु १२ सङ्ख्या भवन्ति ताः | उदयास्तक्रमेणैव स्वरभुक्तिप्रमाणतः | घटिकाख्ये दिने पक्षे मासे चर्त्वयने तथा | वर्षे द्वादशवर्षे च अवस्था जायते स्वरे | भपलानि २७ घटीपञ्च ५ भमासार्द्धदिनद्वयम् | १ | २३० | द्विषट्कं ६ पक्षमासाश्च अवस्थाप्रमितिः क्रमात् | भुक्तस्वरप्रमाणन्तु स्वस्वभोगेन भाजयेत् | गतावस्था गताङ्केन शेषस्तत्कालजो मतः | पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे तथा | उस्वरः पश्चिमे भागे एसौम्ये मध्य ओस्वरः | यस्यां दिश्युदयं याति स्वरस्तत्पञ्चमीं दिशम् | वर्जयेत् सर्वकार्येषु यात्राकाले विशेषतः | पृच्छते पृच्छकः स्थास्नुः स्वरस्यास्तमितां दिशम् | हानिर्मृत्युर्भयं भङ्गो जायते नात्र संशयः || १८ || तिथ्यादावुदयं याति तिथिस्वराद्घटीस्वरः | बालस्वरादिअं प्रश्ने फलं तस्य वदाम्यहम् | तिथिभुक्तघटीसङ्ख्यां कृत्वा फलमयीं ततः | ऋक्षवह्नि ३२७ हृते शेषे स्वरस्तत्कालसम्भवः | समुद्दिश्य कृतः प्रश्नः फलं तस्य प्रजायते | यत्र नोदिश्यते किञ्चित् तत्र प्रष्टुः शुभाशुभम् | बालोदये यदि पृच्छा लाभार्थे स्वल्पलाभदा | रोगार्थे चिररोगश्च गमे हानिः क्षयो रणे || १ || कुमारोदयवेलायां लाभो भवति पुष्कलः | रुजां नाशो जयो युद्धे यात्रा सर्वत्र सिद्धिदा || २ || युवोदये लभेद्राज्यं क्लेशच्छेदश्च तत्क्षणात् | सङ्ग्रामे शत्रुहन्ता च यात्रा च फलदा भवेत् || ३ || वृद्धोदये न लाभः स्यात् क्लेशिनां क्लेशवर्द्धनम् | सग्रामे भङ्गमायाति यात्रायां न निवर्त्तते || ४ || मृदोदये यदा भूतः पृच्छति स्वं प्रयोजनम् | तत् सर्वं मृत्युदं ज्ञेयं युद्धे मृत्युः सभङ्गकः || ५ || १९ || ओजःस्वराः पुमांसः स्युः स्त्रियो युग्माः स्वरा मताः | स्वस्वस्वरोदये जाते पुंसां स्त्रीणां बलं भवेत् | गर्भार्थे पुंस्वरे पुत्त्रः कन्या कन्यास्वरोदये | युग्मे युग्मं क्षयो नष्टे मातुर्मृत्युश्च संक्रमे | द्युनाडीस्वरयोः पुंसोः पुंयुग्मं स्त्रीयुगं स्त्रियोः | तयोस्तु पुंस्त्रियोः पुंस्त्री युग्मं गर्भे विनिर्दिशेत् | जन्मर्क्षे जन्मपादो यस्तद्वर्णे योऽक्षरस्वरः | तेन नाडीस्वरो ज्ञेयः स्वभावः प्राणिनामिह | चपलः कातरो मूर्खः कृपणश्चाजितेन्द्रियः | असत्यबहुभाषी च जातो बालस्वरोदये || १ || व्यवसायी कलाभिज्ञः स्त्रीरतः सुभगः सुखी | दीर्घायुररिभिः शूरः कुमारोदयसम्भवः || २ || सर्वलक्षणसम्पूर्णो राजा भवति विश्रुतः | सर्वकालजयी युद्धे जातो युवोदये शिशुः || ३ || स्त्रीजितो धार्मिकः कामी विवेकी स्थिरसाहसः | सत्यवादी सदाचारः पुमान् वृद्धोदयोद्भवः || ४ || क्लेशी समत्सरः क्रूरो विभ्रमो विकलेन्द्रियः | सर्वकार्यालसो दुष्टो जन्म यस्य मृतोदये || ५ || आद्यतिथेस्त्रयो वर्णा द्वौ वर्णौ शेषयोर्मतौ | एवं तिथित्रये ज्ञेया वर्णसङ्ख्या तिथिस्वरे | वर्णास्तिथ्यादि तिथ्याख्या प्. ८८९) जन्महानिर्मृतिस्तथा | ऋक्षे त्रिजन्मनि हानौ मृतौ मृत्युर्न संशयः || २० || स्वरोदये || यदुक्तं जामले तन्त्रे ज्ञातं गुरुप्रसादतः | स्वराद्दिनफलं वक्ष्ये पुंसां कर्मप्रकाशकम् | योगपिण्डर्क्षराश्याख्यजीवखेटाक्षरस्वरान् | उत्पाद्य नामतश्चाष्टौ मात्रान्तान् स्थपयेत् क्रमात् | तस्याधस्ताल्लिखेच्चाष्टौ द्वादशाब्दाधिकान् स्वरान् | स्वभोगेन समायुक्तान् भोगश्चैकादशांशकः | यथोत्तरबला एते योगाद्या नामजाः स्वराः | कालोदयाः स्वराश्चापि ज्ञातव्याः स्वरवेदिभिः | अकारादिस्वराधस्तात् सङ्ख्यां वेदप्रमाणिकाम् | विन्यस्य क्रमयोगेन ते च विंशोपकाः स्मृताः | योगे द्वादशवर्षाः स्युरवस्थाः पिण्डतोऽब्दके | भस्वरादयने ज्ञेयो राशिस्वरादुत्तरस्वरे | जीवान्मासस्वरावस्था ग्रहात् पक्षस्वरे तथा | वर्णाद्दिनस्वरे ज्ञेये मात्रास्वराद्घटीस्वरे | द्वादशाब्दाधिकः कालो यस्याकारादिके स्वरे | स्थितस्तत्र शुभो न स्यात् पञ्चावस्थाशुभोऽपि च | स्वरौ वृद्धान्तिमौ दुष्टौ बालपूर्वदलं तथा | शेषं सार्द्धद्वयं भव्यमिति ज्ञेयं शुभाशुभम् | द्वादशवार्षिकाद्या ये स्वान्तरोदयसंस्थिताः | ते शुभा एकतः स्थाप्या अशुभाश्चान्यतः पृथक् | शुभाशुभस्वरूपस्य राशियुग्मस्य मध्यतः | एकस्मात् पातिते शेषे ज्ञेयं तद्दिनजं फलम् | विंशत्या ताडिते शेषे चतुःषष्टिविभाजिते | लब्धं विंशोपकास्तत्र शुभाशुभप्रकाशकाः | योगे स्वकर्मतः पिण्डे शरीरान्ते सुहृज्जनात् | राशौ स्वकुलतो जीवे स्वरिताद्ग्रहतो रिपोः | वर्णे स्वस्वामितो ज्ञेयं मात्रायां स्त्रीजनात् फलम् | एवं ज्ञात्वा वदेद्विद्वान् दिने फलं शुभाशुभम् || एतेषां व्याख्यानं प्रक्रिया सङ्केतश्चोच्यते || यथा | प्. ८९०) मातृकायामित्यादि सुगमम् | प्रसुप्त इत्यादि येन नाम्ना प्रसुप्तः पुरुषो भाषते येन च नाम्ना शब्दित आहतः सन्नागच्छति | तत्र नाम्नि आद्यवर्णप्रथमाक्षरे या मात्रा यः स्वरः स मात्रास्वर इत्यर्थः | यथा रामतोषणनाम्नि रेफे आकारमेलनादकारो मात्रास्वर इति || १ || कादीत्यादि || पूर्वपश्चिमक्रमेण षट् रेखा देयाः | एवं दक्षिणोत्तरक्रमेणाष्टौ रेखा दातव्यास्तदा कोष्ठानां पञ्चत्रिंशद्भवति | तत्र प्रथमकोष्ठके अ इ उ ए ओ एते वर्णा आदौ लिखिताः | अधुना ङ ञ णकारैर्हीनान् कादिहान्तान् वर्णानुत्तरदक्षिणरूपपंक्तौ द्वितीयकोष्ठपञ्चके क ख ग घ च एते वर्णाः तृतीयकोष्ठपञ्चके छ ज झ ट ठ एते वर्णाः चतुर्थे ड ढ त थ द एते पञ्चमे ध न प फ ब एते षष्ठे भ म य र ल एते सप्तमे व श ष स ह एते क्रमशो लेखनीयाः | नरनामाद्यवर्णो यस्मात् स्वरादधो विलेखनेन पतितः स तस्य वर्णस्वर इति | यथा उक्तनाम्न आद्यवर्णो रेफ एकारादधः पतितः | अतस्तस्य वर्णस्वर एकार इति || यदि नाम्नीत्यादि | यदि नामादौ संयुक्तवर्णो भवेत् तदा संयुक्तस्याद्यो वर्णो ग्राह्यः | यथा प्राणकृष्णनाम्नि संयुक्ताद्यः पकारो वर्णस्वरो ग्राह्यः | तेन तन्नाम्नो वर्णस्वर उकार इति || अस्वरे इत्यादि | अकाराधस्तात् मेषसिंहवृश्चिका लेख्याः | एवमिकाराधस्तात् कन्यामिथुनकर्कटाः | अन्यत् स्पष्टम् | मृगो मकरः || स्वराध इत्यादि | यस्य राशेः स्वामी यो ग्रहस्तं तदधस्ताल्लिखेत् | अधिपतिश्च ज्योतिषे यथा || मेषस्य वृश्चिकस्यारः शुक्रो वृषतुलाधिपः | बुधः कन्यामिथुनयोर्धनुर्मीनाधिपो गुरुः | शनिः कुम्भमकरयोः कर्कटाधिपतिर्विधुः | सिंहराश्यधिपो भानुरेते क्षेत्राधिपा मताः || एवं यो राशिर्यस्मात् स्वरादधः पतितः स स्वरस्तस्य ग्रहस्वर इति | यथा रामतोषणनाम्नि रेफेण तुलाराशिस्वरे स्वराधस्तात् स्थितः तेन तस्मै स्वरो ग्रहस्वर इति || प्. ८९१) षोडशेत्यादि || विसर्गपर्यन्तमवर्गः षोडशाक्षरः | कवर्ग चवर्ग टवर्ग तवर्ग पवर्गाः प्रत्येकं पञ्चाक्षराः | यवर्गशवर्गौ प्रत्येकं चतुरक्षरौ वर्गेष्वियं संख्या प्रकीर्त्तिता | नाम्नोऽक्षराणां वर्गवर्णानुसारेणाङ्कान् सङ्कलयय पञ्चभिर्हरेत् | भुक्तावशेषाङ्को यत्संख्यकः स्यादस्वरादिपञ्चके तत्सङ्ख्यया जीवस्वर इति | यया रामतोषणनाम्नि रेफस्य द्वौ आकारस्य च द्वौ मकारस्य पञ्चवर्णमिलिताकारो न गृह्यते इति सङ्केतः | अतो मकारादकारो न ग्राह्य इति | तकारस्यैकतुकारस्य त्रयोदशयकारस्य द्वौ णकारस्य पञ्च तेन सङ्केतेन सङ्कलने कृते त्रिंशदङ्काः पञ्चभिर्भुक्ताश्चेत्तदा शेषो न तिष्ठति शेषाभावे हारकाङ्को ग्राह्य इति सङ्केतात् तस्य नाम्नो जीवस्वर ओकार इति || मेशेत्यादि || नवांशक्रमेण मेषवृषौ मिथुनस्य षडंशा अस्वरे लेखनीयाः | एवमिस्वरे मिथुनस्य त्रयोऽंशाः सिंहकर्कटौ च | एवमुकारे कन्यातुले वृश्चिकस्याद्यास्त्रयोऽंशाः | एस्वरेऽवशिष्टा वृश्चिकस्य षडंशा धनुर्मकरस्याद्याः षडंशाः | ओस्वरे मकारावशिष्टांशाः | कुम्भमीनौ च | एतेन रामतोषणनाम्नि रेफस्य तुलाप्रथमांशनिपातनात् उस्वरो राशिस्वर इति | अकार इत्यादि || अस्वराधस्तात् रेवत्यादिक्रमेण सप्त नक्षत्राणि आर्द्रापर्यन्तानि लेखनीयानि | एवमिकारादौ पञ्चपञ्चकत्वाद् यथा इस्वराधस्तात् | ७ | ८ | ९ | १० | ११ || उकारे | १२ | १३ | १४ | १५ | १६ | एकारे | १७ | १८ | १९ | २० | २१ || ओकारे | २२ | २३ | २४ | २५ | २६ || मात्रेत्यादि | मात्राराद्वस्वर्णस्वराच्च या सङ्ख्या वृत्ता सा तथा जीवस्वरस्य या सङ्ख्या सा च पिण्डीकर्त्तव्या | अङ्कत्रयस्य सङ्कलनं कार्यम् | तत्तु पञ्चभिर्हर्त्तव्यं यद्धरणावशिष्टं स्वरपञ्चकमध्येऽवशिष्टाङ्कसङ्ख्यया पिण्डस्वरो ज्ञातव्य इति || ६ || यथा रामतोषणनाम्नो प्. ८९२) मात्रास्वरोऽकारस्तस्यैका सङ्ख्या वर्णस्वर एकारस्तस्य चतस्रः सङ्ख्याः जीवस्वर ओकारस्तस्य पञ्चसङ्ख्यात्रये पिण्डीकृते दशसङ्ख्या भवन्ति | पञ्चहृतासु दशसङ्ख्यासु किञ्चित्तदवशिष्टमत ओस्वरस्तस्य पिण्डस्वर इति || ७ || मात्रादीत्यादि | मात्रादिपिण्डस्वरान्तस्य रसप्तकस्य या या सङ्ख्या तां सर्वामेकीकृत्य पञ्चभिर्हरेत् | शेषो यस्तदङ्कसङ्ख्यया योगस्वर इति || ८ || यथा रामतोषणनाम्नि मात्रास्वरस्य एकारसङ्ख्या वर्णस्वरस्य चतस्रः सङ्ख्याः ग्रहस्वरस्य तिस्रः सङ्ख्या जीवस्वरस्य पञ्च सङ्ख्या राशिस्वरस्यतिस्रः सङ्ख्याः नक्षत्रस्वरस्य तिस्रः सङ्ख्याः पिण्डस्वरस्य पञ्च सङ्ख्याः | सर्वस्मिन्नङ्के एकीकृते चतुर्विंशतिभूता पञ्चभिर्हृतायां तस्यां चत्वारोऽङ्काः स्थिताः तेन तस्मै स्वरो योगस्वर इति || ८ || प्रोक्ता इत्यादि | नामत उत्पन्नाः स्वाभाविका एते मात्राद्या अष्टौ स्वराः | एतेषां स्वराणां उदयान् बालादिव्यवहारान् द्वादशाब्दवत्सरायनर्त्तुमासपक्षतिथिदण्डजान् वक्ष्ये इत्यर्थः | प्रभवादित्यादिस्वरादितोऽस्वरमारभ्यैषां स्वराणां षष्टिसंवत्सरे प्रभवादिक्रमेण प्रत्येकं द्वादशाब्दिक उदयः स्यादेवं द्वादश द्वादश कृत्वा इकारादीनां चतुर्णामिति | अत्र अस्वरे | प्रभव १ विभव २ क्रूर ३ प्रमोद | ४ | प्राजापत्यः ५ | अङ्गिरा ६ श्रीमुख ७ भाव ८ युवा ९ धात्री १० इस्वरे ११ बहुधान्याः १२ || ईस्वरे || प्रमाथि १३ विक्रम १४ वृष १५ चित्रभानु १६ स्वर्भानु १७ तोरण १८ पार्थिव १९ व्यय २० सर्वजित् २१ सर्वधारि २२ विरोधि २३ विकृताः २४ || उस्वरे || खर २५ नन्दन २६ विजय २७ क्षय २८ मन्मथ २९ दुर्मुख ३० हेलम्ब ३१ विलम्ब ३२ विरोध ३३ शर्वरी ३४ प्लव ३५ | शुभकृत् ३६ || एस्वरे | शोभन ३७ क्रोध ३८ विश्वावसु ३९ पराभव ४० प्लवङ्गः ४१ कीलक ४२ सौम्य ४३ साधारण ४४ विरोधि ४५ प्. ८९३) परिवारि ४६ प्रमाथि ४७ आनन्दाः ४८ || ओस्वरे || रक्षस ४९ अनल ५० पिङ्गल ५१ कालसूत्र ५२ सिद्धार्थ ५३ रौद्र ५४ दुर्मित ५५ दुन्दुभि ५६ रक्त ५७ रक्ताक्ष ५८ क्रोध ५९ क्रोधाः ६० || व्यवहारसमये द्वादशाब्दिके कस्योदयः कस्य चान्तरोदय एतज्ज्ञापनार्थं रत्नमालायाम् | शकेन्द्रकालः पृथगाकृतिघ्नः शशाङ्कनन्दाश्वियुगैः समेतः | शराद्रिवस्विन्दुहृतः स लब्धः षष्ट्याप्तशेषे प्रभवादतोऽब्दाः || वर्षवर्जन्तु यच्छिष्टं सूर्यैः सम्पूर्य खोर्मिभिः | हृते व्युत्क्रमतः खाग्निहृतेऽंशमासकादयः || अस्यार्थः | शकाब्दः पृथक् द्विष्ठस्तत्रैक आकृतिघ्नः २२ द्वाविंशत्या पूरितः | द्वाविंशत्यक्षरच्छन्दस आकृतिनामकरणेनाकृतिः द्वाविंशतिरिति सङ्केतः | शशाङ्कनन्दाश्वियुगैरेकनवत्युत्तरशतद्वयाधिकचतुःसह- स्रैः समेतः सोऽङ्कः शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्सङ्ख्यं गन्तुं शक्नोति तावता हृतः कर्त्तव्यः | स लब्धः पूर्वस्थितशकाब्दाङ्केन युतः कार्यः | षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ववत् षष्ट्या हृतलब्धस्यावशिष्टे प्रभवादयोऽब्दा भवन्ति एकावशेषे प्रभवः द्व्यवशेषे विभव इत्यादिः || वर्षवर्जमित्यस्यार्थः वर्षवर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृतावशिष्टं यत् तत् सूर्यैर्द्वादशभिः सम्पूर्य खोर्मिभिः षष्ट्या हृतं कर्त्तव्यम् | व्युत्क्रमत इत्यनेन षष्टिहृतावशेषाङ्का दण्डाः षष्टिहृते लब्धेऽंशके खाग्निहृते त्रिंशता हृतेऽवशिष्टा अंशका दिनानीति यावत् | लब्धा अङ्का मासा ज्ञेया इति || प्रभवादिषष्टिवर्षाण्युपक्रम्य | तत्राद्या विंशतिर्ब्राह्मी द्वितीया वैष्णवी तथा | तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा क्रमादिति | अधुना प्रक्रिया क्रियते १७४२ शकाब्दे वैशाखशुक्लप्रतिपदि शकाङ्कः १७४२ | द्वाविंशत्या २२ पूरितः | ३८३२४ शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः संयुक्तः सन् भूतः | प्. ८९४) ४२६१५ एष एव शराद्रिवस्विन्दुहृतः १८७५ लब्धः २२ अवशिष्टाङ्कः १३६५ एष च द्वादश १२ पूरितः सन् जातः १६३८० पूर्ववत् शशाङ्केत्याद्यङ्कैः १८७५ हृतलब्धो मासः | ८ | अवशिष्ट १३८० एष तु त्रिंशता ३० पूरितः सन् जातः ४१४०० पूर्ववत् शराद्रीत्याद्यङ्कैः १८७५ हृतलब्धाः ४ द्वाविंशति २२ दिनानि अवशिष्टाङ्कः १५० षष्टि ६० पूरितः सन् जातः ९३० पूर्ववत् शराद्रित्याद्यङ्कैः १८७५ हृतलब्धाः ४ दण्डा अवशिष्टाङ्कः १५०० षष्टिपूरितः ६० सन् जातः ९०००० पूर्ववत् शराद्रीत्याद्यङ्कैः १८७५ हृतलब्धाः ४८ पलानि अवशिष्टं किञ्चिदपि नास्ति | एतेन २२ वर्ष ८ मास २२ दिन ४ दण्ड ४८ पलानि समुदायप्रक्रियायामायातानि || शकाङ्क १७४२ सम्मतानि सन्ति जातानि १७६४ | ८ | २२ | ४ | ४८ | षष्ट्या हृतलब्धाः २४ वर्षा ८ मासा २२ दिनानि ४ दण्डाः ४८ पलानीति | तत्र द्वादशाब्दिकस्वरज्ञानार्थं द्वादशभागेन हृते भुक्तस्वर द्वितीय २ इकार ४ तृतीय ३ उकारस्वरो वर्त्तमानः तेन द्वादशाब्दिक उकारस्वरोदय इति || अत्र भुक्तभोग्यादिना अन्तरोदयऽग्रे व्यक्तीभविष्यति || अस्यान्तरोदय इति | अस्य द्वादशाब्दस्यान्तरोदय एकादशभागेन द्वादशे हृते लब्धवर्षः १ मास १ दिन २ दण्ड ४३ पल ३८ एतदेव || वर्षमेकमित्यादि | एतेन वर्षमासदिनदण्डाः पलीकर्त्तव्याः | तद् यथा वर्षं द्वादशेन सङ्गुण्य तत्र मासं संयोज्य तं त्रिंशता ३० सङ्गुण्य दिनीकृत्य दिनद्वयं २ तत्र दत्त्वा दिनानि षष्ट्या ६० सङ्गुण्य दण्डान् तत्र दत्त्वा दण्डान् षष्ट्या ६० सङ्गुण्य पलानि दत्त्वा वृत्तान्तरोदयमानपलानि ९४३४४० भागहारकाणि प्रकृतेर्भुक्तवर्षं द्वादशभिः १२ सङ्गुण्य ३ मासान् त्रिंशता ३० सङ्गुण्य तत्र दिनानि दत्त्वा तत्र षष्टिगुणिते प्. ८९५) नव दण्डान् दत्त्वा षष्ट्या सङ्गुण्य ६० पलमिलने तेन तत्रान्तरोदयपलमानेन भागे गृहीते लब्धाङ्कः २ एतेन द्वादशादिकस्वर उकारस्तदादिक ओकारोऽकारञ्च द्वौ स्वरावन्तरोदये भुक्तौ इकारो वर्त्तमानश्च भागशेषपलानि ८७३७४० अस्मिन्नन्तरोदये पलमाने पतिते भोग्यपतिते भोग्यपलानि ५४००७८ अत्र गते षष्ट्यामुद्धृते भुक्ते लब्धवर्ष मास ३ दिन २ दण्ड ४२ पल २० भोग्यलब्धवर्षः मास ५ दिनम् दण्ड १ पलानि १८ | अन्तरोदयमानन्तु सर्वत्रैकदशांश एव वर्षादि पलीकृत्य भुक्तान्तरोदयज्ञानप्रकारो यः | द्वादशाब्दस्वरादीनां भुक्तं पलमयन्तु यत् | तद्भुक्तं स्वस्वभोगेन लब्धं शेषो द्विकं भवेत् | इत्यग्रे वक्ष्यते | इति द्वादशस्वरवार्षिकम् || प्रभवेति एकैकं प्रत्येकं प्रभवाद्यब्दं अस्वरादिकस्तदधः | प्रभवो विभवः शुक्रः प्रमोदोऽथ प्रजापतिः | पञ्च वर्षाणि अकारादिपञ्चस्वरस्य | एवमग्रे पञ्चवर्षणि ५ पञ्चस्वराणां ५ | एवमाब्दिकस्वरे द्वादशवारं पुनः पुनर्भोगः | द्वादशाब्दस्यान्तरोदयभुक्तिर्वर्षोना सती वार्षिकस्वरे तद्भुक्तिरन्तरोदयभुक्तिः | वर्ष | ० | मास १ | दिनं २ | दण्डं ४३ | पलं ४८ | प्रकृते न्यासो यथा आब्दिकभुक्तवर्षशून्यं | ० | मासा ८ दिनं २२ दण्डा ४ पलं ४८ | अत्राब्दिकभुक्तावकारेकारौ | उकारस्वरो वर्त्तमानः | तत्र भुक्तमास ८ दिन २२ दण्ड ४ पलं ४८ पलीकृतान्तरोदयमानं ९४३४४० हारकभाज्यपलीकृतमानादि | तत्र हरणाल्लब्धभुक्तिस्वरद्वितीयावृत्तौ वर्त्तमानकारस्वरो भगशेषः गतगम्ये भोगपले अस्मिन् षष्ट्युद्धृते भोग्यदिनदण्डपलानि इत्याब्दिकस्वरः || अयनस्वर इति || दक्षिणे दक्षिणायने कर्कटादिराशिषट्के अकारः स्वरः ४ | उत्तरावणे मकरादिषण्मासे इकार ४ स्वर ४ षाण्मासिकस्वरे मयनस्वरे प्. ८९६) वर्षभुक्त्यर्द्धमानेन वर्षे यदन्तरोदयभुक्तिमानं तदर्द्धमन्तरोदयभुक्तिः स्वरमासदिनदण्डपलानि एतत् पलीकरणात् वृत्तहारक ४ शुद्धिदिनम् ३ अत उत्तरायणे भुक्तमासदिनम् अस्मिन् पलीकृते हारकेण लब्धस्वरकारात् षष्ठो द्वितीयावृत्तौ वर्त्तमानकारः भागशेषगतगम्ये षष्ट्युद्धृतवृत्तभोग्यादिदिनदण्डपलानि एतदन्तरं कारप्रवृत्तिरिति अन्यस्वरः || अकारादिति || पञ्चाकारादिस्वरवेधान्तादि षडृतौ क्रमेणोदयो येषाम् ते तथा ज्ञातव्याः | एकैकस्मिन् प्रत्येकं द्विसप्ततिदिनोदयाः ७२ प्रोक्ताः | पञ्च ५ स्वराः षडृतवः ६ तेनाग्रिमस्वरस्य द्वादशतिथ्यन्तर्भावेण द्विसप्तति ७२ दिनानि भवन्ति | एवं पञ्चस्वरा द्विसप्ततिसन्निवेशः अन्तरोदयमानं षड्दिनानीत्यादिदिनदण्डपलानि अत्र हारकान्तरोदयपलं वैशाखादिषु सौरक्रमेण गतदिनपलीकरणादेतद्वृत्तभाज्यं हारकेण लब्धभुक्तस्वरः | एतेन वसन्ते अकारोदयस्तदधिकश्चतुर्थः स्वरकारो वर्त्तमानः वर्त्तमाने भुक्तशेषपलगतगम्यकरणात् गम्यपलम् अस्मित् षष्ट्युद्धृतगम्यदिनदण्डपलानि एवमग्रेऽपि चिन्त्यम् || ऋतुस्वरः || नभस्य इति || तत्र भाद्रमार्गवैशाखानामकारोदयः | एवमाश्विनश्रावणाषाढानामिकारः चैत्रपौषयोरुकारः | ज्जैष्ठकार्त्तिकयोरेकारः | माघफाल्गुनयोरोकारः उदेति अत्र मासिकस्वरे द्वे दिने इत्याद्यस्यान्तरोदयः | दिन २ दण्ड ४३ पलं ३८ पलीकृतैतद्धारकं ९८१८ अत एव मासः कृष्णादिः स्वरक्रमेण कृष्णपक्षमादितः | वैशाखशुक्लप्रतिपदि गतदिनं अस्य पलीकरणात् वृत्तभाज्यम् अत्र हारकेण लब्धं तेन पञ्चस्वराः षष्ठस्वरे वर्त्तमानाः | स च कारादिक्रमेण द्वितीयावृत्ताकारो वर्त्तमानस्तस्य भुक्तपलम् | अस्मिन् षट्युद्वृतेन षट्स्वराः सप्तमो प्. ८९७) वर्त्तमानस्वराः कारादिद्वितीयावृत्ताविकारस्तस्य च भुक्तपलभोग्यः अस्मिन् षष्ट्युद्धृते वृत्तदिनदण्डपलमिति मासस्वरः || अस्वर इति || पक्षात्मिकाः पक्षरूपास्ता अन्तरे मध्ये भुक्तिरन्तरोदयभुक्तिमासभुक्त्यर्द्धमाने ज्ञेया मानान्तरोदयभुक्त्यर्द्धमाना पक्षस्यान्तरोदयभुक्तिः | सा च दिनं दण्डं पलम् एतत्पलीकरणाद्धारकः | वैशाखशुक्लप्रतिपदि गतदिनं अस्मिन् पलीकृते वृत्तं अत्र हारकेण लब्धं तेन शुक्लपक्षकारस्वर इति | स एवान्तरोदये वर्त्तमानप्रथमकारः तेन च भुक्तभोग्यपलम् अस्मिन् षष्ट्युद्धृते दिनदण्डपलमिति पक्षस्वरः || अकारादीति || अकारादिक्रमः येन क्रमेणाकार इकार उकार एकार ओकार औकारश्च तिर्यक् पंक्तिक्रमेण लिखितस्तेन क्रमेण तदधस्तात् नन्दादितिथिपञ्चकं प्रतिपदादि त्रिरावृत्तं न्यस्य लिखित्वा नित्य प्रत्यहं दिनस्वरोदयः | स्वस्वतिथ्यादि यथा स्यात् एवं जायते भवति यथा अकारस्याधस्तात् प्रतिपत्षष्ठ्येकादशीतिथयस्तासु अकारस्योदयः | द्वितीयासप्तमीद्वादशीषु इकारस्य तृतीयाष्टमीत्रयोदशीषु उकारस्य | चतुर्थीनवमीचतुर्दशीषु एकारस्य | पञ्चमीदशमीपौर्णमासीषु ओकारस्य | एवं तिथिषु स्वराणामुदयश्चिन्त्यः | अस्य अन्तरोदयपञ्चघटिका दण्डाः पलानि सप्तविंशतिः २७ | तथा तिथ्यन्तरोदयमानं दण्ड ५ पल २७ पलीकृताद्धारक ३२७ वैशाखभुक्तदिनभुक्तदण्डं अस्मिन् पलीकृते वृत्तभाज्यहारकेण लब्धभुक्तस्वरवर्त्तमानः | स चाध्यारोपक्रमात् पुनरावृत्त्या कारस्तेन भुक्तपलभोग्यपलम् | अत्र षष्ट्युद्धृते दण्डपले अयमर्थोऽग्रे तिथिभुक्तघटीसङ्ख्यां कृत्वा पलं ततः | ऋक्षवह्नि ३२७ शेषे स्वरस्तत्कालसम्भवः | इति वक्ष्यते | चक्रन्यासो यथा घटीस्वरस्य प्. ८९८) तत्स्थत्वात् प्रसङ्गेन तदनन्तरोदयं सङ्कथयति | अस्येति || अस्य तिथ्यन्तरोदयस्यान्तरोदया घटिकार्द्धमानतो दण्डार्द्धप्रमाणमिति || इति स्वरः || तिथ्यन्तरोदयमानेनेति | तिथ्यन्तरोदयमानेन पूर्वकथितेन घटिकास्वरे घटीस्वरस्य षष्ठीसप्तम्योरभेदात् उदयो ज्ञेयो ज्ञातव्यः | आदिजामले उपजीव्यग्रन्थे एवं विधानेन प्रकारेण उक्तः | तथा च पञ्चाशद्दण्डदशमस्य उकारस्यान्तरोदयस्तेन च सप्तपञ्चाशत् ५७ पलानि भुक्तानि तत्रान्तरोदयो घटिकार्द्धमानेन द्वितीयस्याकारस्य पलं यावदिति घटीस्वरः || अन्तरोदयादिकं यथा भवति तत्कथयति || द्वादशाब्देति || द्वादशाब्दादिस्वराणाद्यन्ता अष्टौ स्वराः संस्थानात् स्वभोगसमतात् स्वकालतः स्वभोगकालेन द्वादशाब्दवर्षादिना उदयास्तं तत्र स्वभोगमानेन एकादशोदयैरन्तः पुनरुदयन्ते इत्यनुयुज्यते | अत एवान्तरोदयजिज्ञासायामेकादशेन यो यत्र भागो लभ्यते स तत्रान्तरोदयमानं भवतीति द्योतितमिति पूर्वं तथैव कृतमिति || वर्षेति | अत्रान्तरोदयसंज्ञके स्वरोदये पञ्चप्रकारेण क्रमात् कालमानं समयमानं मयोक्तं वर्षं मासो दिननाडीपलानि चेति यथा द्वादशवार्षिके वर्षादिपञ्चापि वार्षिकस्वरमासादि अयने दिनानि ऋतौ दिनानि पक्षे दिनानि दिने दण्डादि घटिकायां पलादीति || गतसमये भुक्तवर्त्तमानस्वरज्ञानार्थमाह द्वादशाब्देति | द्वादशाब्दिकस्वराणां यद्भुक्तं तत् पलमवज्ञाय स्वरभोगेण प्रत्येकमेकादशलब्धान्तरोदयमानेन भुक्तं कर्त्तव्यम् | लब्धं भुक्तस्वरा ज्ञेयम् शेषा वर्त्तमानस्वराः | अस्मिन् वर्त्तमानभुक्तपले भागहारपलेषु पातिते भुक्तभोग्यपले भवतस्तत्र भुक्तभोग्ये च षष्ट्यादिना भुक्ते च भुक्तात् भुक्तमानभोग्यात् भौग्यमानं वर्त्तमानस्य भवति | प्. ८९९) एतदनुक्रमणिका द्वादशाब्दे स्वरस्य व्याख्याने अनुसरणीया || उदितस्येति | उदितस्य स्वरस्य नामवर्णमिलितेषु स्वस्वकालप्रमाणतः स्वस्वभोग्यसमयप्रामाण्यात् बालादिका अवस्थाः पञ्च स्युः || अवस्थां कथयति || आद्यो बाल इति निजावस्था बालत्वाद्यनुसारेण फलदा यथा बालाः कार्याः क्षमास्यथेत्यादि || किं लाभ इत्यादि || नष्टे गतद्रव्ये दष्टे सर्पादिदष्टे रुजान्विते सरोगे एतेषु कार्येषु बालस्वरो निषिद्धः | यथा यस्य बालस्वरोदयस्तदानीं द्रव्यनाशे सप्रदंशे सरोगे च निषिद्धं फलमित्यर्थः | विवाहादिषु शुभकार्येषु शुभदः | यात्रायां युद्धे च दीक्षामन्त्रोपदेशे च तत्र मृत्युस्वरोदयेषु बालस्वरावधिकस्पष्टस्वरोदयो योगस्वराद्यधिकनाम अष्टौ स्वरास्तेषां तेषां बालान्ततदबधिका द्वादशाब्दादि शिष्टं तदन्तरोदयः बालादिपञ्चस्वरव्यवस्थेत्यग्रे व्यक्तीभविष्यति || स्वराणां न्यूनाधिकबलमाह || मृत इति || मृताद्धृतो बली ततः कुमार इति ध्येयम् | अयमर्थः | एकस्य मृतस्वरोदयः अपरस्य वृद्धादिस्वरस्तदा पूर्वापेक्षया परो जनः सङ्ग्रामे जयम् यो यास्यति | यस्य बालस्वरमधिकृत्य यः पञ्चमे स्थाने स्वरः स तस्य मृत्युदायक इति मृतत्वेनाभिधीयते | तृतीये युद्धस्वरोदये सकलक्रियासु वृद्धिः | शेषा बालकुमारवृद्धा बद्धा मृत्युरिति || हीनस्वरे सति मृत्युर्भवति उदितस्वराधिक्ये जयः | साम्ये साम्यं समता योधयोः सन्धानं सन्धिः जयपराजयौ वा समौ || एकस्वर इति || एक उभयोर्योधयोर्बालवशे तु तदा साम्यं जयभङ्गौ समौ | द्वितीयेऽर्द्धफलं बालापेक्षया कुमारेऽर्द्धजयः यूनि पूर्णफलं वृद्धे बद्धः बन्धनं पराच्छत्रोर्जयश्च || शत्रोरिति || शत्रोः मृत्युस्वरे पञ्चमस्वरे उदिते स्वकीययूनि तस्मिन् तत्र जयो निश्चितः | नामजाश्च स्वरोत्पत्तिं प्. ९००) द्वादशाद्यष्टस्वरेषु पूर्वं प्रतिज्ञातुं दर्शयति || तत्काल इति || तत्काले घटीस्वरे मात्रास्वरे उदेतीति सङ्ग्राह्यः | तथा दिने तिथौ वर्णस्वरमुपक्रम्य बालादिकव्यवस्थापक्षे पक्षस्वरोदये ग्रहस्वरोदय इति ज्ञेयः | मासे मासस्वरे जीवस्वरोदयः जीवस्वरावधिका बालादिचिन्ता || ऋतौ राश्यंशस्वरे राशिस्वराधिका बालादिव्यवस्था || तद्यथा || नरहरिनामस्वरे चिन्ता षण्मासे अयनस्वरेऽपि * *? सम्भवो नक्षत्रस्वरः तदवधिका बालादिचिन्ता | अब्दे वर्ष *? पिण्डतः पिण्डस्वराद्बालादिव्यवस्था | द्वादशवार्षिके द्वादशाब्दिके योगस्वर इति तदवधिका बालादिव्यवस्था || तद्यथा रामतोषणनाम्नि मात्रास्वरोकारः वर्णस्वर एकारः ग्रहस्वरकारः जीवस्वरकारः राशिस्वरकारः पिण्डस्वरकारः योगस्वरकारः इत्यष्टौ नामजा मात्रास्वराद्या योगास्ताः प्रथमं लिखिताः | घट्यादिद्वादशाब्दान्ताकृष्टावादौ स्थूलक्रमेण ततोऽन्तरोदयक्रमेण लिखिताः | यत्र स्थूले सूक्ष्मे बालादिजिज्ञासा भवति अत्रेदं व्यवहरणीयम् | यथा मात्रास्वरकार इति स्थूलक्रमोदितः घटीस्वरकारः स च कारावधिकः पञ्चमः | अन्तरोदयघटीस्वरे कारोदयः मात्रास्वरकारः || इति बालस्वरोदयः || एवं वर्णस्वरकारस्तदवधिकः प्रतिपद्यकार उदितः स च पञ्चमो निषिद्धः | अत्रान्तरोदयकारोदयः सवर्णावधिकश्चतुर्थो वृद्ध इति फलदः ग्रहस्वरोकारस्तदवधिकपक्षस्वरे स्थूलक्रमेणोदितकारः स च कारद्वितीयः कुमारो भवति अन्तरोदयेऽपि कारः सोऽपि कारो द्वितीयः कुमार इति तत्फलदः | एवं जीवस्वरोऽकारा तस्य मासे उदयः मासस्वरस्तु कारः स चाकारावधिकस्थूलक्रमेण स्वरान्तरोदयः स च काराद्द्वितीयः इति कुमारफलदः | एवं राशिस्वरकारः तस्य गतावुदय प्. ९०१) ऋतुस्वरकारः स च राशिस्वरात् तृतीयः || इति स्वरोदयः | कार उदितः जीवराशिस्वरः इति बालोदयः एवं नक्षत्रस्वरकारः तस्यानयने उदयः स च राशिस्वरात्तृतीय इति स्वरोदयः | अन्तरोदयः कारोदयः स च नक्षत्रस्वरात्तृतीयः इति युवस्वरः | एवं पिण्डस्वरकारस्तस्य वार्षिकस्वर उदयः | वार्षिकस्वरकारः स पिण्डस्वरात् पञ्चमः अन्तरोदये कारोदयः स च पिण्डस्वराच्चतुर्थो वृद्धः | एवं योगस्वरकारस्तस्य द्वादशवार्षिके उदयः | द्वादशवार्षिके स्वरकारो योगस्वराद्द्वितीयः | कुमारः अन्तरोदयः कारः स एव योगस्वरः | इति बालोदयः | मात्रादियोगान्तास्तु स्वराणां नामजानां कालजवैपरीत्यक्रमन्यस्तघटीस्वरादिद्वादशवार्षिकस्वरेषु अष्टस्वरसमुत्पत्तिक्रमनिरसनं हृदा परिभावनीयमिति || अत्र नामजाष्टस्वरेष्विति प्राशस्त्यमवश्यापेक्षणीयम् | वर्णस्वरस्योपदर्शयति सर्वकालेबली वर्ण इति | वर्णो वर्णस्वरः सर्वकालबली सर्वस्मिन् काले द्वादशाब्दरूपे बली वलवान् स्वफलदः | अत्र संशयो न | हेतुगर्भविशेषणमाह सर्वव्यापीति सर्वेषां मात्रास्वरग्रहादीनां व्यापी व्यापकः तेषामेतद्व्याप्यत्वात् यतो वर्णस्वरबलेनातिबलिनोऽपि तस्य तेषामपि नैरपेक्ष्येण फलवत्वमिति तस्माद्धेतोः सर्वप्रयत्नेन शुभाशुभं वीक्ष्यम् || यदा पदा || यथा हस्तिपदचिह्ने अन्यपदचिह्नानि प्रविष्टानि तथा मात्रास्वराः कारादयः सप्तवर्णफलोदयस्थाः फलदानार्थं प्रविष्टाः | वर्णफलोदयस्था इति क्वचित् पाठः | वर्णफलं पुरस्कृत्य उदयस्थाः वर्णबलेन बलिन इत्यर्थः | तत्र विशेषमाह | साधनं वर्णबले युद्धे विशेषतो वर्णबलं ग्राह्यम् | योगेन योगस्वरेण शरीरस्य ज्ञानसम्भवं योगं साधयेत् | आणवं अणिमादिसिद्धिभवम् | शाम्भवं शम्भुविषयकं शाक्तेयं प्. ९०२) गौर्यादिभवम् || इति स्वरचक्रविवरणम् | वर्णेति वर्णस्वराधिकपृथक्प्रकाशिततिथिनक्षत्रादीनां बालादिव्यवस्थासु दर्शयन्नाह तिथिवाराविति | तिथिः नन्दादिः | वारो मङ्गलादिः | पृथक् पृथक् भिन्नक्रमेण सर्वं सम्भाषितं तत् सर्वमेकत्र सर्वस्वरस्थाने स्थितं तस्मिन्न वर्त्तुलीकृत्य वर्णस्वरोदयं कुर्यात् | अयमर्थः | अकारादिपञ्चको वर्णः स्वरस्तदधः स्वरचक्रतिथिवारनक्षत्रबले न्यस्तानि तानि बालस्वरस्य बालत्वे बालादिकुमारादित्वे कुमारादिफलदानि यथा श्रीरामतोषणनाम्नि कारोपस्थिते इकारो वर्णस्वरो बालस्तदधश्चक्रान्तरस्थिता द्वितीयासप्तमीद्वादशीतिथयो बालाः | एवं तदधो बुधचन्द्रौ वारौ तौ बालौ तदधश्चक्रान्तरस्थानि नक्षत्राणि बालानि तदग्रिमतिथिवारनक्षत्राणि कुमारादीनि व्यवहरणीयानि | एवमन्यनाम्नापि व्यवहारः कर्त्तव्यः || यस्येति | यस्य पुंसो नामादिकं वर्णं नामाद्याक्षरं तिथिवारौ नक्षत्रञ्च मृतं तदीयपञ्चमस्वरोदया यस्मिन् दिने तद्दिनं तस्याभिमतक्रियासु वर्जयेत् | यदृक्षं यद्दिनं तद्दिनं तस्य हानिमृत्युकरम् | अनेनेति || अनेन स्वरयोगेण यदा शत्रोर्मृतस्वरोदयः स्वस्य बालाद्युदयो विशेषः कुमारयुवोदयस्तदा शत्रूणां सावर्णादिकं मन्त्रादिक्रियाञ्च तद्दिने बुधः पण्डितः साधयेत् कुर्यादित्यर्थः || इति तिथिवारनक्षत्रस्वरचक्रविवरणम् || बालादीनां प्रत्येकं फलान्याह बालेति || बालस्वरादिकावस्था भानुसङ्ख्या भवन्ति ताश्च स्वभोगप्रमाणक्रमेणोदयन्तु घटिकाख्ये दिने पक्षे मासे ऋतौ अयने वर्षे द्वादशवार्षिके द्वादश भागाः | अयने षण्मासे पक्षे द्वादशभागः वर्षे मासो द्वादशभागः द्वादषवर्षे एकवर्षं प्रति क्रमात् एवं भोगप्रमाणात् स्वस्वावस्था भवन्ति | भुक्तस्वरप्रमाणन्त्विति | यस्य प्. ९०३) बालादिस्वरस्यावस्था घटीस्वरादौ ज्ञातुमिष्यते तेन यद्भुक्तं तत् पूर्वं प्रत्येकं पलीकृत्य स्वस्वभोगद्वादशभागेन विभजेत् | भागे हृते यल्लब्धं तत्सङ्ख्यागतावस्थाशेषो वर्त्तमानावस्थशेषे तु गतगम्यकरणात् गते षष्ट्याद्युद्धृते गतसमयः गम्ये षष्ट्याद्युद्धृते गम्यसमयो वर्त्तमानावस्था आयाति | क्रमणिका यथा | नाम्नो युवतिथिः तृतीया तस्य गतदण्डः | अत्र द्वादशावस्थाजिज्ञासायां भुक्तदण्डं पलीकृत्य पलानि तत्र संयोज्य वृत्ततिथिद्वादशभागेन पलीकृत्य तत् पञ्चदण्डेन वृत्तम् अनेन भागे गृहीते लब्धम् | चतस्रोऽवस्थागताः पञ्चमीवर्त्तमाना भागशेषाः | अस्मित् भागहारके पातिते भोग्यं उभयत्र षष्ट्या हरणात् लब्धपलम् | एतेन पञ्चमावस्थायां गतं गम्यञ्च सार्द्धदण्डद्वयात्मकम् | यत्र तु दिनमाससम्भावना तत्र दण्डे षष्ट्युद्धृते मास इति प्रकृते च द्वादशावस्था मध्ये वा पञ्चमावस्था कथितास्ति सा अशनफलदा एवमन्येषु घटीस्वरादिस्वरावस्थाः कार्याः अवस्थाश्लोकास्तु ग्रन्थे लिख्यन्ते || शूला च बाला शिशुहासिका च कुमारिका यौवनराज्यदा च | क्लेशप्रमोदा जरिता तथासौ मृता च बालस्वरजाद्यवस्थाः || १ || स्वस्थाभृता मेघनिघर्षवृद्धा महोदया शान्तिकरी न च स्त्री | वृद्धा समा सा तु गुणोदया च मङ्गल्यदा द्वादशिका कुमारे || २ || उत्साहधैर्योग्रजरा बला च मङ्गल्ययोगा च सकामपुष्टिः | शाखी च सिहा बधनेश्वरी च शान्ता भिधा द्वादशिका युवाख्ये || ३ || वैकल्यशेषा खलु या च मोघाच्युतिक्षमा दुःखितरात्रिनिद्रा | बुद्धिप्रसङ्गा च तथा च चण्डा जरा मृता द्वादशिका च वृद्धिः || ४ || चिन्ता च बद्ध्वा प्रतिघातकी च शेषो महीज्वालभवाब्धिदा च | प्राणी किरा भेदकरी वदाद्या मृत्युक्षया द्वादशमृत्युजाश्च || ५ || प्. ९०४) एवं षष्टिरवस्था स्युरवस्थापञ्चकं सदा | तासु सर्वासु विज्ञेयं स्वनामसदृशं फलम् | प्रथमश्लोकात् शिशुहासिका च यौवनराज्यदा च मेघनिघर्षा वृद्धा च गुणोदया च || ५ || उत्साहधैर्योग्रजवा च बाला सकामपुष्टिः वैकल्यशेषा च दुःखितो रात्रिर्निद्रा च महीजवा च भाववह्निदा च || इत्यवस्था || पूर्वस्मिन्निति || पूर्वस्मिन् प्रदेशे अस्वरस्वामी एवमष्टस्विकारादयः मध्ये ओकारः नन्दायामस्वरः प्राच्यामुदेति तत्राशनिस्वरो दक्षिणा इत्यादि || याम्यम् || यत्तिथौ यः स्वरः यस्यां सर्वदा उदयं याति तत्पञ्चमीं दिशं सर्वकार्येषु वर्जयेत् | विशेषतो यात्रायां यथा इकारस्वरो द्वितीयासप्तमीद्वादशीषु दक्षिणा दिगुणेति तत्पञ्चमी दिक् पूर्वाशा मन्तव्या | तत्र मृतस्वरस्योदितत्त्वात् मध्यदिक् व्यवस्था कथं कार्या इति संशये प्रतिपत् षष्ठ्यकादशीषु अकारोदयः पूर्वदिशीति तत्पञ्चमप्रवेशो मध्यं प्रासादादाबूर्द्धाधःस्थितगृहादि न गच्छेदिति सम्बन्धनीयम् || पृच्छत इति || स्वरस्य दिक् क्रमेणोदितस्य पञ्चमीं दिशं लक्षीकृत्य अवस्थासु पृच्छको यदि प्रश्नं करोति तदा हान्यादिकं जायते अत्र संशयो न | तथा च द्वितीयाकारस्य दक्षिणदिश्युदयात् पूर्वदिगस्तमिता तदरति स्थिते पृच्छके फलमेव वक्तव्यमित्यर्थः || इति दिक्स्वरविवरणम् || तिथिस्वरे अन्तरोदयस्थबालादिस्वरस्य प्रश्नात् फलमुमपदर्श्याह तिथ्यादाविति || तिथ्यादौ तिथ्यपक्रमे तिथिस्वराद्यारभ्य बालस्वरादिको घटीस्वर उदयं याति | तत्र प्रश्ने सति तस्य बालादिस्वरस्य बलं वदामि तदुदयप्रकारमाह तिथीति || तिथेर्यावती घटी दण्डरूपा भुक्ता तत्सङ्ख्या षष्ट्या सङ्गुण्य पलमयीं कृत्वा तत्र ऋक्षवह्निहृते प्. ९०५) सप्तविंशत्यधिकशतत्रयहृते यल्लब्धं तत्तिथिस्वरावधिके भुक्तः स्वरः शेषे तत्कालसम्भवः | तात्कालिकस्वरो ज्ञातव्यः | स एव तिथेरन्तरोदयघटीस्वर इति दातव्यः | तिथेरन्तरोदयवर्णस्वरक्रमिका बालादिव्यवस्था घटीस्वरे तु मात्रास्वराद्बालादिव्यवस्थेत्युक्तेरव्यवस्थितः पक्षः | फलभागित्वमुपदर्शयति यमुद्दिश्येति || यं जनमुद्दिश्य प्रश्नः कृतस्तस्य फलं प्रजायते फलभागित्वं भवति तन्नाम्नो बालादिस्वरवशेनेत्यर्थः | यत्र किञ्चिन्नाम नोद्दिश्यते प्रकाश्यते तत्र प्रष्टुरेव शुभमशुभञ्च फलं वक्ष्यमाणं वक्तव्यम् | एतत् फलं श्लोकपञ्चकेनाह कुमारेत्यादि स्फुटम् || विषमसमभेदेन प्रश्नान्तरमाह ओजस्वरा इति || ओजाः प्रथमतृतीरपञ्चमाः पुरुषस्वराः स्युः युग्मस्वरान् इकारोकारान् स्त्रिय इति विदुः | एवमन्यत् स्वस्वरे स्वपक्षीयस्वरे पुंसां स्त्रीणां बलं जायते | तथा च पुंस्वरे वर्त्तमाने बालादौ पुमान् बलवान् अधीने तु पुत्त्रोत्पत्तिः | एवं स्त्रीषु अन्यदाह गर्भार्थ इति | गर्भप्रश्ने पुंस्वरे पुत्त्रोत्पत्तिः समे कन्योत्पत्तिः युग्मविषयस्वरावधिस्वरनिर्व्यूहे प्रश्ने युग्मञ्च भवति नष्टस्वरावसाने क्षयो भवति गर्भनाशो वाच्यः | संक्रमे स्वरप्रारम्भे मातुर्मृत्युर्भवति | युग्मगर्भयोग्यतायोग्यमाह द्युनाडीस्वरयोरिति द्युर्दिवसः नाडी घटी तत्तन्निरूपितन्धरौ दिनस्वरघटीस्वरौ तयोः सतोः पुंयुग्मं पुरुषद्वयम् | समन्धरयोः कन्याद्वयम् पुंस्त्रियोः एको विषमः स्वरो द्वितीयः समस्वरः तदा पुंस्त्री कन्या पुत्त्रश्च इति गर्भयुग्मगर्भविगये प्रश्ने विनिर्दिशेत् वदेदिति तात्कालिकस्वरः || जन्मर्क्ष इति || जन्मक्षे जन्मनक्षत्रे जन्मपादा जन्मनक्षत्रपादिका तद्वण शतपदचक्रोक्त क्षेत्रे पादप्रकारस्वाक्षरे योऽक्षरो वर्णंस्वरः यथा केकीहहीत्यक्सरचतुष्टयं पुनर्वसुपादिकाचतुष्टयस्य तेन प्. ९०६) प्रथमद्वितीयपादिकयोः ककारः तस्य वर्णस्वरोऽकारः तृतीयचतुर्थयोर्हकारस्तस्य वर्णस्वर ओकारस्तत्पादिकयोर्जातस्य वर्णस्वरो नाडीस्वर इहाह्वयः प्राणीनां स्वभावः स्वभावसिद्ध इत्यर्थः || नडीस्वरप्रयोजनं जन्मन्याह च पलेति | तिथिस्वरो विशिष्य तदन्तरोदयस्वरो वा नाडीस्वरावधिकबालादिस्वरे श्लोकपञ्चकेन फलं स्फुटम् || तत्कालस्वरे जातकनिर्णयः || अथ योधयोर्युद्धे को जयी स्यादित्याह | ककारादिजकारान्ता वर्णास्तथा पञ्च ह्रस्वस्वराः कखगघचछजझटठ डढत थदध अ इ उ ए ओ एते सिते शुक्लपक्षे बलिनः स्युः | शेषा धनपफबभमयरलवशषसह आ ई ऊ ऐ औ एते सर्वे सितेतरे कृष्णपक्षे बलिनः स्युः || एकस्वर इति || यत्रोभयः स्वरः एकः पृथक्पक्षयोर्वर्णानामादौ भवति तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः | यथा कर्मुघर्मुरमुकयोरेकपक्षाक्षरयोर्नामादिवर्णस्वरः ककारः शुक्लपक्षे वकारः कृष्णपक्षेऽस्तीति तत्र पक्षे तौ प्रत्येकं जयिनौ शुक्लकृष्णभेदादिति स्वरैक्यया वाचा एकपक्षान्तरान्यतरतामाह || एकपक्षाक्षर इति || द्वयोर्योधयोरेकपक्षाक्षरयोर्नामादिवर्णस्वरः ककारः | एकश्चेत्तदा शुक्लपक्षे गौरो गौरवर्णः | अपरे कृष्णपक्षे कृष्णवर्णः श्यामवर्णः निश्चितं जयति यथा कर्मुर्गौरवर्णः घर्मुः सितेतरः श्यामवर्णः स्वरश्चोभयोरेकोऽकारः पञ्चैकञ्च तत्र कर्मुर्गौरत्वेन शुक्लपक्षे जयी तदितरश्यामवर्णत्वात् कृष्णपक्षे जयीति || यस्मिन्निति || यस्मिन् एकपक्षाक्षरे एक एव स्वरः योधो गौरौ कृष्णौ वा ह्रस्वदीर्घौ भवतः तत्र यदि ह्रस्वो यो वर्णस्वरे लिखनक्रमेण स्वरासन्नाक्षरः सन् स तदा जयी भवति | प्. ९०७) यस्तयोर्दीर्घः स यदि स्वराद्भवाक्षरस्तदा जयी भवतीत्यर्थः || प्रमाणेति || प्रमाणं ह्रस्वादि नामजाख्या वर्णा गौरवर्णादयः | तेषामैक्यं समता योधयोर्यदि भवति तत्र यायिस्थायिविभेदतो युद्धबलं ज्ञेयम् | एतदेव व्यक्तिकृत्य व्यवस्थापयति योधयोरिति | योधयोः सर्वभेदेन प्रमाणादिना पूर्वश्लोककथितेनैक्ये समतायां यूनि मारके च स्वरे उदिते सति यायी प्रथमोद्यतो जयी | तथा तेनैव प्रकारेण बाले वृद्धे अन्तिमे मृते च स्वरे स्थायी प्रतिवादी जयी | बालतिथित्रयोपरिस्थिते सप्ताक्षरेष्वक्षरभेदेन तिथिषु प्रत्येकं फलमाह आद्यतिथेरिति | प्रतिपत्षष्ठ्येकादशीनामुपरि अकछडधभब इति सप्ताक्षराणि सन्ति | तेषां ता एव तिथयो बालास्तासु आद्यतिथेः प्रतिपदस्तयोर्वर्णा अकारककारछकाराः एवं शेषयोः षष्ठ्येकादश्योर्द्द्वौ वर्णौ मतौ | ततः षष्ठ्यां डकारधकारौ एकादश्यां भकारबकारौ एवं तिथिस्वरे तिथित्रये वर्णसङ्ख्या ज्ञेया || वर्णतिथ्यादीति एवं यस्यास्तिथेर्यो वर्णस्तस्य सा तिथिर्भवति | तदाद्येकाद्यनुक्रमेण तिथित्रयस्य यमहादिस्तथा मृतिरिति मासत्रयं यस्य ककारस्य प्रतिपज्जन्मनाम्नी षष्ठ्यहादिनाम्नी एकादशी मृतिनामिका | अत्र प्रत्येकं फलमाह श्रीजन्मनीत्यादि || इति स्वरप्रकारविशेषनिर्णयः || अस्मिन् दिने पुरुषस्य किं फलं स्यादिति स्वरभेदेन विचारयन्नाह यदुक्तमिति | तदहं दिनफलं स्वरादकारादिस्वरात् मात्रादिनामकात् दिनफलं वक्ष्ये | कीदृशं पुंसां धर्मादिप्रकाशनं पुंसामित्युपलक्षणम् अन्येषामपि यद् जामले जामलादौ तन्मे गुरुप्रसादतो गुरुपदेशाज्ज्ञातम् | प्रकारमुपदर्शयन्नाह योगेति || योगस्वरपिण्डस्वरराशिस्वरजीवस्वरग्रहस्वरवर्णस्वरनक्षत्र- स्वर मात्रास्वरास्तान् अष्टौ स्वरान्नाम् उत्पाद्य स्थापयेत् प्. ९०८) तिर्यक्पंक्तिक्रमेण लिखेत् | तस्येति || तस्य योगस्वरादेरधस्तात् द्वादशाब्दादिकालजान् द्वादशाब्दाब्दायनत्तुमासपक्षदिनघटीसम्भवानष्टौ स्वरान्नामादौ लिखेत् कथम्भूतान् स्वरभोगेन समायुक्तान् स्थूलक्रमेणान्तरोदयमानेन च विशिष्य सहितान् | भोगमाह भोगाश्चैकादशांशकः स्थूलमानं प्रत्येकमेकादशेन यो भोगः प्राप्यते वार्षादि यो यस्मिन् यः स भोगोत्पत्तिरित्यर्थः | यथा द्वादशवार्षिके वर्षमेकमादौ दिनद्वयं लोकाब्धिनाडिका अष्टत्रिंशत् १ | १ | २ | ४३ | तत्पलानि चेत्यादि यथायथमष्टानीकानीति तत्रैव योगस्वरादिकान्तस्वराणां स्वराधिकस्वरेषु बालादिव्यवस्था | यथोत्तरेति | स्वरवेदिभिरेते स्वरा यथोत्तरबला ज्ञातव्याः | के ते योगादिका मात्रान्ता अष्टौ नामजा नामत उत्पादिताः तथा तेनैव प्रकारेण फलोदयाश्चापि द्वादशाब्दादिका घटीपर्यन्ता सर्वयोदिता यथोत्तरबला ज्ञातव्याः यथा योगस्वरात् पिण्डस्वरो बली पिण्डान्नक्षत्रस्वर एवं क्रमेणापि तथा द्वादशाब्दिकस्वराद्वार्षिको वार्षिकादयनस्वर एवं क्रमेणाग्रतोऽपि ज्ञातव्यमित्यर्थः || अकारादीति || अकारादिक्रमात् अ इ उ ए ओ एवं क्रमेण लिखित्वा तदधस्तात् वेदाश्चत्वारस्तत्प्रमाणिकाश्चतुःसङ्ख्या विन्यस्य स्वरज्ञैर्विशेषोपका मता स्वीकृता इत्यर्थः | प्रयोजनन्तु अस्याष्टस्वरेषु प्रत्येकमत एव चतुःसङ्ख्याविन्यासः शुभाशुभकोटिद्वये विभास्यत इति पूर्वप्रतिज्ञातानां नामजाष्टस्वराणां द्वादशाब्दिककालजां बालाद्यवस्थां सूचयन् कुतः कुत्र सा चिन्तनीयेत्याह योगादिति | योगात् योगस्वरात् बालभूतात् द्वादशवर्षे बालाद्यवस्थाः स्युः | अयमर्थः द्वादशवार्षिकस्वरे यः स्वरोऽकारादिषु उदितः स योगस्वरमानमधिकृत्य बालादिस्वरैः स्थले विशिष्यान्तरोदये सूक्ष्मे व्यवस्थापनीय इति एवमग्रेऽपि सप्तावस्थाः कथिता प्. ९०९) वर्षैर्बाला बोद्धव्याः || तद् यथा पिण्डतः पिण्डस्वरादाब्दिके वार्षिकस्वराद्भस्वरात् नक्षत्रस्वरात् अयने मकरकर्कटादिराशिषु द्वयोराशिस्वरात् ऋतुस्वराज्जीवस्वरान्मासस्वरे अवस्था बालाद्यवस्था ग्रहात् ग्रहस्वरात् पक्षस्वरे वर्णात् वर्णस्वरात्तिथिस्वरे मात्रास्वरात् घटीस्वरे बालाद्यवस्था चिन्तनीयेति || द्वादशाब्दिक इति || अकारादिस्वरे अ इ उ ए ओ एवंरूपद्वादशाब्दिककालः समयः स्थितः स यदि पञ्चावस्थासु शुभः स्यात् पञ्चावस्थासु अकारादिक्रमस्थितासु अशुभदो निषिद्धफलदः अन्तरोदयक्रमेण न स्यात् तदा शुभः स्यात् अवस्थासु पञ्चावस्थासु स्वरोदयवर्षमासदिननाडीपलरूपासु न शुभः स्यात्तदा शुभो न स्यात् | यद्वा पञ्चावस्थाशुभोऽपि पञ्चावस्थायां बालादिक्रमेण वर्षमासदिनेत्यादिक्रमेण शुभोऽपि यदि दिनचर्यायां कथितप्रकारेणाभद्रकराशिरवशिष्यते तदा शुभो न स्यात् | यदा पञ्चावस्थाशुभः पञ्चस्ववस्थासु अशुभः शुभग्रहः न शुभोऽशुभग्रहः स्यात् तदा फलं वाच्यं परिशेषक्रमेण इत्यभिप्रायः | यथा ये बालादिस्वरा अन्तरोदयगतास्तेषामस्तराशिपतिरशुभः शुभश्च तदुपरिस्थितस्वरेषु विंशोपकारं परिकल्प्य शुभाशुभकोटिद्वयाङ्कमालिख्य स्वल्पस्य बहुषु पातनात् परिशेषेण यदि शुभग्रहराशिस्तदा शुभं अन्यथा अशुभं सामान्यतो ज्ञात्वा विंशत्येत्यादिप्रकारेण वर्त्तमानस्वरं निरूप्य तदधःस्थग्रहवशेन फलं वाच्यं परिशेषे शुभग्रहकोटिः विंशत्येत्यादिक्रमेणाशुभकोटिस्तदा मिश्रफलं वाच्यं परिशेषे तु शुभग्रहकोटिस्तदा मिश्रफलं वाच्यं लाभालाभौ धातुमूलजीवाधिपग्रहवशेन तत्तद्द्रव्याणामिह परिपाटी चिन्तनीया | प्रागुक्तदिनफलव्यवस्थार्थं बालादिषु व्यवस्थामाह स्वराविति | वृद्धास्तमौ वृद्धमृतौ स्वरौ दुष्टौ निषिद्धफलदौ तथा प्. ९१०) बालापूर्वफलं बालस्वरप्रथमार्द्धं तथा दुष्टमित्यर्थः | शेषं सार्द्धद्वयं बालोत्तरार्द्धसहितकुमारयूनोरिति तत्र इत्यनेन प्रकारेण शुभाशुभं ज्ञेयम् || द्वादश इति || स्वान्तरोदयसंस्थिता ये द्वादशवार्षिकाद्या अष्टौ ते शुभाः बालोत्तरार्द्धकुमारयुवानः स्वरा विंशोपसङ्ख्यासहिता एकत एकदेशे स्थाप्या अशुभा बालपूर्वार्द्धमृतवृद्धस्वरा विंशोपकाः स्थाप्याः | विंशोपकाः प्रत्येकं कुमारादीनां चत्वारः | बालो मिश्रफलत्वेनोभयत्र द्विसङ्ख्या तत्र प्रथमार्द्धसमये अशुभद्विः || ४२ || उत्तरार्द्धसमये शुभद्विः || ४२ || शुभाशुभेति || शुभरूपस्याशुभस्वरूस्य च राशियुग्मस्य मध्यतः एकस्मादस्मिन् पातिते शेषे शुभराशयः शुभराशौ वा स्वरूपं तद्दिनजं फलं भवतीत्यर्थः || रोगादिकस्य फलं कुतो वा स्यादित्याकाङ्क्षायामाह विंशत्येति | शेषे पातितशेषे विंशत्या ताडिते गुणिते चतुःषष्टिविभाजिते चतुःषष्ट्या हृतभागे लब्धं तत्तत्र तेषां मध्ये विंशोपकाः शुभाः शुभप्रकाशकाः | यथा एकलाभे योगतः द्विलाभे पिण्डतः एकमष्टपर्यन्तेन मात्रान्तात् फलम् | तत्तत्कथितादिति पञ्चस्वरेषु प्रत्येकं चतुःसङ्ख्या विन्यस्य विंशतिसङ्ख्या भवति तेन विंशत्या गुणः योगादिमात्रान्ता स्वराणामष्टसङ्ख्या द्वादशाब्दादिघट्यन्तस्वराणामप्यष्टसङ्ख्या अतोऽष्ताभिरष्टगुणनाच्चतुःषष्टिसङ्ख्या भागहारकेत्यभिप्रायः || चतुःपञ्चविभाजिते इति नेत्रपाठः | तत्र चतुःपञ्चाशता भागो ग्राह्य इति || योगादिसङ्ख्यालाभे एकादिक्रमेण कुतः फलं स्यादित्याह || योग इति || योगलब्धे एकसङ्ख्यालाभे स्वकर्म्मतः स्वव्यापारात् पिण्डे द्विसङ्ख्यालाभे शरीरात् स्वकीयादेव मे नक्षत्रे तत्सङ्ख्यालब्धे सुहृज्जनात् राशौ चतुःसङ्ख्यातो लब्धे स्वकुलतः स्वकुलजनात् जीवे पञ्चसङ्ख्यातो लब्धे स्ववित्तात् प्. ९११) स्वधनात् स्वचित्तादिपाठे स्वमानसात् सुखं दुःखं वा भवतीति | ग्रहतो ग्रहे स्वसङ्ख्यातो लब्धे रिपोः शत्रुजनात् ग्रहत इत्यत्र सर्वे भक्तिकष्टमिति | वर्णे सप्तसङ्ख्यातो लब्धे स्वस्वामितः सेव्यात् सर्वेषामष्टसङ्ख्यातो लब्धे अष्टलब्धायां स्त्रीजनात् शुभं फलं अशुभं फलं वा भवतीति प्रकारः सामान्यतः प्राप्तोऽर्द्धव्यक्तीकरणाय लिख्यते | यस्य देवदत्तादिनाम्नो दिनफलं ज्ञातुमिष्यते तन्नाम्नो मात्राद्यष्टस्वरानुत्पाद्य व्युत्क्रमेण योगस्वरमुपक्रम्य मात्रान्ता तिर्यक्क्रमेणालिख्य द्वादशाब्दिकघट्यन्तान् स्थूलक्रमेण विशिष्यान्तरोदयक्रमेणाष्टस्वरानुत्पाद्य तधधोऽनुक्रमेण लिखित्वा तत्र योगस्वरादितः प्रत्येकं बालकुमारादिव्यवस्थां विधाय पञ्चस्वरविंशोपकं प्रत्येकं चतुःसङ्ख्याव्यवस्थितमत्र लिखेत् | तद् यथा बालोत्तरार्द्ध समये द्वयं कुमारे यूनि च प्रत्येकं चतुश्चतुः कृत्वा शुभराशिं परिकल्प्य लिखेत् | बालपूर्वार्द्ध समये द्वयं वृद्धे मृते च चतुश्चतुः सङ्ख्यामशुभकोटौ लिखित्वा शुभाशुभराश्योरन्तरे यत्रावशिष्यते तन्नामसदृशं फलं भवति | तत्र यदवशिष्यते तद्विंशगे सड्गुण चतुःषष्ट्या हरणात् यल्लब्धं तत्संख्यायोगादिषु ते भुक्तस्वराः तदुत्पत्तिज्ञानार्थं सकलसाधारणाधिकशत १०० शकवर्षीयशुक्लप्रतिपदि द्वादशाब्दाद्यष्टस्वराः स्वान्तरोदयस्था गतगम्यरूपाः पूर्वं लिखिताः | तथा दिनदर्शनार्थं लिख्यन्ते यथा श्रीरामतोषणनाम्नो मात्राद्यष्टस्वरा व्युत्क्रमेण योगादिकाः यद्यप्यादौ योगस्वरादिद्वादशाब्दादिस्वरूपेषूत्पत्तिस्तेन प्रथमत एव स्वरा व्यवस्थापयितुमर्हति | तत्रापि मात्रादिस्वरसप्तकव्यवस्थाव्यतिरेकेण तद्व्यवस्था न भवतीति शेषे तस्य कथनमिति तात्पर्यम् | अत्र द्वादशाब्दाद्यन्तरोदये योगस्वराद्यवधिकबालादिकव्यवस्थाया योगस्वरकारस्तदवधिको द्वादशाब्दे उदितकारो बालस्तस्योत्तरार्द्धमिति शुभराशौ द्विसंख्यापिण्डस्वर एकारस्तदवधिको वर्ष उदितकारो वृद्धस्तस्याशुभकोटी चतुःसंख्या | नक्षत्रस्वरकारस्तदवधिकोऽयने उदित एकारो युवा शुभराशौ तस्य चतुःसंख्या | राशिस्वरकारस्तदवधिक ऋतौ उदितकारो बालस्तस्योत्तरार्द्धमिति शुभराशौ द्विसंख्या | वस्वरोकारस्तदवधिको मास उदितकारः कुमारस्तस्य राशौ चतुःसंख्या | ग्रहस्वरोऽकारस्तदवधिकः पक्ष उदितः कारस्तस्य शुभराशौ चतुःसंख्या | वर्णस्वरकारस्तदवधिको दिने उदितकारोऽत्यशुभराशौ तस्य चतुःसंख्या | मात्रा स्वरकारस्तदवधिको घट्युदितकारो बालस्तस्योत्तरार्द्धमिति शुभराशौ द्विसंख्या | एतावता बालतयोत्तरार्द्धत्वेन षट्संख्या कुमारद्वयस्य चाष्टौ यूनः कारस्य चत्वारः वर्त्तुलीकरणादष्टादश १८ | शुभराशौ ह्वत्वमद्याष्टौ च बालत्रयस्य भुक्तपूर्वार्द्धस्य षट् ६ | वर्त्तुलीकरणादशुभराशौ चतुर्दशसंख्या १४ | राशिद्वयेऽधिकराशेरन्यो राशिः पातनीयः | प्रकृते यूनश्चाष्टमराशेरधिकशुभराशौ पातनादवशेषः | अवशेषेण शुभराशिस्थितौ फलं शुभं स्यात् | शेषे चतुःसंख्यायां विंशतिगुणितायां वृत्तं ८० | अत्र चतुःषष्टिहरणाल्लब्धशेषः | एवं द्वितीयो वर्त्तमानः पिण्डः स्वरः शुभः शुभफलं शरीरं चिन्तनीयं शरीरं मृत्यू पलक्षणं स्वीयजनादित्यर्थः | एवं साधारणे द्वादशाब्दादिसमयनिरूपितस्वरेऽपि प्रतिव्यक्ति नामजस्वराणां बालकुमारादिव्यवस्थामुत्पाद्य यथायथं कर्माणि दिनफले च कर्त्तर्व्यानीति || एवमिति || एवमनेन प्रकारेण विद्वान् पण्डितो ज्ञात्वा शुभाशुभं वा फलं वदेत् || इति श्रीप्राणतोषिण्यां षष्ठे काम्यमाण्डे शिक्षागुरूपदेशलब्धफलकबालादिचक्रकथनं नाम षष्ठः परिच्छेदः || अथातः सम्प्रवक्ष्यामि चक्रं त्रैलोक्यदीपकम् | विख्यातं प्. ९१३) सर्वतोभद्रं सद्यः प्रत्ययकारकम् | ऊर्द्ध्वगा दश विन्यस्य तिर्यग्रेखास्तथा दश | एकाशीतिपदं चक्रं ८१ जायते नात्र संशयः | अकारादिस्वराः कोष्ठे त्वीशादौ विदिशि क्रमात् | सृष्टिमार्गेण दातव्याः षोडशैव चतुर्भ्रमम् | कृत्तिकादीनि धिष्ण्यानि पूर्वाशादौ लिखेद्बुधः | सप्तसप्तक्रमादेतान्यष्टाविंशतिसंख्यया | लेख्या अवकहडाः प्राच्यां मटपवताश्च दक्षिणे | लयभजखाश्च वारुण्यां पसदचलास्तथोत्तरे | त्रयस्त्रयो वृषाद्याश्च पूर्वाशादिक्रमाद्बुधः | राशयो द्वादश ज्ञेया मेषान्ताः सृष्टिमार्गतः | शेषेषु कोष्ठकेष्वेवं नन्दादितिथिपञ्चकम् | वाराणां सप्तकं लेख्यं भौमादिप्रक्रमेण च | रवेर्मेषतुले प्रोक्ते चन्द्रस्य वृषवृश्चिकौ | भौमस्य मृगकर्कौ च कन्यामीनौ बुधस्य च | जीवस्य कर्कमकरौ मीनकन्ये सितस्य च | तुलामेषौ च मन्दस्य उच्चनीचौ प्रकीर्त्तितौ | शन्यर्कराहुकेत्वाराः क्रूराः शेषाः शुभग्रहाः | क्रूरयुक्तो बुधः क्रूरः क्षीणचन्द्रस्तथैव च | यस्मिन्नृक्षे स्थितः खेटस्ततो वेधत्रयं भवेत् | ग्रहदृष्टिवशेनात्र वामसम्मुखदिक्षिणे | भुक्तं भोग्यं तथा क्रान्तं विद्धं क्रूरग्रहेण भम् | शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः | वक्रगे दक्षिणा दृष्टिर्वामादृष्टिश्च शीघ्रगे | मध्यचारे तथा मध्या ज्ञेया भौमादिपञ्चके | सूर्यमुक्ता घटीयन्त्रे शीघ्राश्चार्के द्वितीयगे | समास्तृतीयगे ज्ञेया मन्दा भानौ चतुर्थगे | मन्दाः स्युः पञ्च षष्ठेऽर्के अतिवक्रा नगाष्टगे | नवमे दशमे भानौ जायते कुटिला गतिः | द्वादशैकादशे सूर्ये लभन्ते शीघ्रतां पुनः | राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ | गतेरेकस्वभावत्वादेषां सृष्टित्रयं सदा | क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः | स्युः सहजस्वभावस्थाः सौम्याः क्रूराश्च शीघ्रगाः | घङछाः प्. ९१४) षणठाश्चैव धफडाः स्थझञास्तथा | एतत्त्रिकं त्रिकं बिद्धं बिद्धैः कफभदैः क्रमात् | घङछा रौद्रवेधेन षणठा हस्तगे ग्रहे | धफडाः पूर्वाषाढायां खझञा भाद्र उत्तरे | रवौ शसौ यजौ तत्र ङञौ चैव परस्परम् | एकेन द्वितीयं बिद्धं शुभाशुभग्रहव्यधे | अवर्णादिस्वरो वेधे नैकवेधे द्वयोर्व्यधः | युग्मस्वरात्मके वेधे चानुस्वारविसर्गयोः | कोणस्थधिष्ण्ययोर्मध्ये अन्त्यादिपादगे ग्रहे | अस्वरादिचतुष्कस्य वेधः पूर्वतिथेस्तथा | एकादिक्रूरवेधेन फलं पुंसां प्रजायते | उद्वेगश्च भयं हानीरोगो मृत्युः क्रमेण च | ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिभयं तिथौ | राशौ बिद्धे महाविघनः पञ्चबिद्धो न जीवति | एकबिद्धे भयं युद्धे युग्मवेधे धनक्षयः | त्रिवेधेन भवेद्भङ्गो मृत्युर्वेधे चतुर्ग्रहे | यथा दुष्टफलाः क्रूरास्तथा सौम्याः शुभावहाः | क्रूरयुक्तः पुनः सौम्यो ज्ञेयः क्रूरफलप्रदः | अर्कवेधे मनस्तापो द्रव्यहानिश्च भूसुते | रोगपीडाकरः सौरीराहुकेतू च विघ्नदौ | चन्द्रे मिश्रफलं पुंसां रतिलाभश्च भार्गवे | बुधवेधे भवेत् प्रज्ञा जीवः सर्वशुभप्रदः | स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे गृहे | अर्द्धं समगृहे ज्ञेयं पादं शत्रुगृहे स्थिते | इदञ्च सौम्यक्रूराणां बलं स्थानवशात् स्वयम् | एतदेव फलं ज्ञेयं सौम्यैः क्रूरैर्विपर्यये | स्थानवेधसमायोगे यत्सङ्ख्यं जायते बलं | तत्सङ्ख्यं वेध्यवस्तूनां बलं ज्ञात्वा फलं वदेत् | वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते | स्वभावजं फलं शीघ्रे नीचस्थेऽर्द्धफलो ग्रहः | तिथिराश्यंशनक्षत्रं बिद्धं क्रूरग्रहेण यत् | शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः | न नन्दति विवाहे च यात्रायां न निवर्त्तते | स रोगान्मुच्यते रोगी वेधवेलाकृतोद्यमः | रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः | वक्रगत्या भवेन्मृत्युः शीघ्रे प्. ९१५) चाप्यरुजान्वितः | वेधस्थाने भवेद्भङ्गो दुर्गे खण्डिः प्रजायते | कविप्रवेशनं तत्र योधाघातश्च तत्र वै | यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः | सा दिगस्तमिता ज्ञेया तिस्रः शेषाः सदोदिताः | ईशानस्थाः स्वराः प्राच्यां ज्ञेया आग्नेययाम्यके | नैरृतस्थांस्तु वारुण्यां वायव्यां सौम्यगा मताः | नक्षत्राणि स्वरा वर्णा राशयस्तिथयो दिशः | ते सर्वेऽस्तमिता ज्ञेया यत्र भानुस्त्रिमासिकः | नक्षत्रेऽस्ते रुजा वर्णे हानिः शोकस्तथा स्वरे | राशौ विघ्नस्तथा भीतिः पञ्चास्ते मरणं ध्रुवम् | यात्रा युद्धं विवादश्च द्वारं प्रासादहर्म्ययोः न कर्त्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः | अस्ताशायां स्थितं यस्य पुंसो नामाद्यमक्षरम् | स आर्त्तः सर्वकार्येषु ज्ञेयो दैवहतो नरः | कवौ कोटे तथा युद्धे चातुरङ्गे महाहवे | वर्ज्या अस्तङ्गता योधा यदीच्छेद्विजयं रणे | नक्षत्रेऽभ्युदिते पुष्टिर्वर्णे लाभः स्वरे सुखम् | राशौ जयस्तिथौ तेजः पदाप्तिः पञ्चकोदये | प्रश्नकाले भवेद्बिद्धं यल्लग्नं क्रूरखेचरैः | तद्दृष्टं शोभनं सौम्यैर्मिश्रैर्मिश्रफलं मतम् | ग्रहाबिद्धञ्च यल्लग्नं फलं तस्य स्वभावतः | ज्ञातव्यमीक्षणे केन्द्रे भाषितं यच्चरादिकम् | क्रूरैरुभयतो बिद्धा यस्याक्षरतिथिस्वराः | राशिर्धिष्ण्यञ्च पञ्चापि तस्य मृत्युर्न संशयः | मण्डलं नगरं ग्रामं दुर्गं देवालयं पुरम् | क्रूरोभयस्थिते वेधे विनश्यति यथाक्रमम् | कृत्तिकादिद्वित्रिकर्क्षेक्रूरबेधे च कूर्मतः | सर्वे नाभिस्थदेशाद्या विनश्यन्ति यथाक्रमम् | कृत्तिकायां तथा पुष्ये रेवत्याञ्च पुनर्वसौ | वेधे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु | तैलं भाण्डं रसो धान्यं गजाश्वादिचतुष्पदाः | सर्वं महार्घ्यतां याति यत्र क्रूरो व्यवस्थितः | क्रूरवेधसमायोगे यस्योपग्रहसम्भवः | तस्य प्. ९१६) मृत्युर्न सन्देहो रोगाद्वापि रणेऽपि वा | सूर्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम् | शूलञ्चाष्टतमं प्रोक्तंसन्निपातं चतुर्दशम् | केतुमष्टादशं विद्यादुल्का स्यादेकविंशतिः | द्वाविंशतितमे कल्पस्त्रयोविंशे च वज्रकम् | निर्घातश्च चतुर्विंशे उक्ताश्चाष्टावुपग्रहाः | प्रस्थाने विघ्नदाः प्रोक्ताः सर्वकार्येषु सर्वदा | जन्मभं कर्म चाधानं वैनाशं सामुदायिकम् | साङ्घातिकमिदं धिष्ण्याष्टकं सर्वजनीनकम् | जातिदेशाभिषेकैश्च नवाधिष्ठानभूपतेः | वेधं ज्ञात्वा फलं ब्रूहि सौम्यैः क्रूरैः शुभाशुभम् | जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् | एकविंशं तथाधानं त्रयोविंशं विनाशकम् | अष्टादशञ्च नक्षत्रं सामुदायिकसंज्ञकम् | साङ्घातिकञ्च विज्ञेयं ऋक्षं षोडशमेव हि | शरीरं राज्यजातं हि जातिनामधनाभिधम् | देशभं देशनामर्क्षं राज्यर्क्षञ्चाभिषेककम् | मृत्युः स्याज्जन्मभे बिद्धे कर्मभे क्लेश एव च | आधानभे प्रवासः स्याद् विनाशे वर्णविग्रहः | सामुदायिकभेऽनिष्टं हानिः साङ्घातिके तथा | जातिभे कुलनाशः स्याद् बन्धनञ्चाभिषेकभे | देशभे देशभङ्गश्च क्रूरो वरं शुभैः शुभम् | उपग्रहसमायोगे मृत्युर्भवति नान्यथा | भयं भङ्गश्च घातश्च मृत्युभङ्गयुता मृतिः || अथातः सम्प्रवक्ष्यामि यदुक्तं ब्रह्मजामले | एकाशीतिपदे चक्रे ग्रहवेधात् शुभाशुभम् | क्रूरैरेकादिपञ्चास्ते युधि वेधे फलं लभेत् | तिथिर्धिष्ण्यं स्वरा राशिर्वर्णश्चैव तु पञ्चमः | यद्दिने बिध्यते चन्द्रात् तद्दिने स्यात् शुभाशुभम् | देशः कालस्ततः पण्यमिति त्रीण्यर्घ्यनिर्णये | चिन्तनीयानि वेधानि सर्वकालं विचक्षणैः | देशोऽथ मण्डलं स्थानमिति देशस्त्रिधोच्यते | वर्षं मासं दिनञ्चेति त्रिकालेऽपि च कथ्यते | धातुर्मूलञ्च जीवश्च पण्यमेवं त्रिधा मतम् | अथ त्रिकत्रयस्यास्य वक्ष्यामि प्. ९१७) स्वामिखेचरान् | देशेशा राहुमन्देज्या मण्डलस्वामिनः पुनः | केतुसूर्यसिताः स्थाननाथाश्चन्द्रारचन्द्रजाः | वर्षेशा राहुकेत्वार्किजीवा मासाधिपाः पुनः | भौमोऽर्कस्तु सितो ज्ञेयश्चन्द्रः स्याद्दिवसाधिपः | धात्वीशाः सौरिपोतारा जीवेशा ज्ञेन्दुसूरयः | मूलेशाः केतुशुक्रार्का इति पण्याधिपा ग्रहाः | पुंग्रहा राहुकेत्वर्कजीवभूमिसुता मताः | स्त्रीग्रहौ सितशीतांशू सौरिसौम्यौ नपुंसकौ | सितेन्दू सितवर्णेशौ रक्तेशौ भौम्यभास्करौ | पीतौ सौम्यगुरू कृष्णा राहुकेत्वर्कजा मताः | ग्रहे वक्रोदयो यः स्यादुदये च बलाधिकः | देशादीनां स एवैकः स्वामिखेटस्तथा मतः | वक्रोदयः स्वहर्म्येषु पूर्णवीर्यो भवेद् ग्रहः | तदग्रपृष्ठगे खेटे बलं त्रैराशिकं मतम् | उच्चस्थे च बलं पूर्णं नीचांशस्थे बलं दलम् | त्रैराशिकवशाज्ज्ञेयमन्तरे तु बलं बुधैः | एवं देशादिनाथानां वेधो ज्ञेयो गृहं प्रति | सुहृदः शत्रवो मध्याश्चिन्तनीयाः प्रयत्नतः | स्वमित्रसमशत्रूणां वेधाद्देशादिके क्रमात् | शुभो ग्रहः शुभं दत्ते चतुस्त्रिद्व्येकपादतः | दुष्टं दुष्टग्रहः कुर्यादेकद्वित्रिचतुष्पदैः | बिद्धः पूर्णदृशा पश्यन् तत्पादेन फलं ग्रहः | विदधात्यन्यथा ज्ञेयं फल दृष्ट्यनुसारतः | वर्णादिस्वरराशीनां मेषाद्ये राशिमण्डले | ग्रहदृष्टिवशात् सोऽपि वेधो वर्णादिके मतः | स्वरवर्णाः स्वचक्रोक्तास्तिथिवेधस्य पीडकाः | तिथौ वर्णे च राशौ च स्वदृष्ट्या दृष्टिजं फलम् | अशुभो वा शुभो वापि शुक्रो वेध्यतिथौ ग्रहः | सर्वं निजफलं दत्ते कृष्णपक्षे तु तद्बलम् | खेटकस्यांशको ज्ञेया पूर्णा दृष्टिः सदा बुधैः | दृष्टिहीने पुनर्वेधे न स्यात् किञ्चिच्छुभाशुभम् | सौम्यः पूर्णदृशा पश्यन् बिध्यन् वर्णादिपञ्चके | फलं विंशोपकान् पञ्च क्रूरश्च चतुरो दिशेत् | वेध्यवर्णादिके यावत् स्थाने वेधे च यावतौ | दृष्टिस्तदनुमानेन वाच्या विंशोपकाबुधैः | एवं विंशोपका यत्र सम्भवन्ति प्. ९१८) शुभाशुभम् | तस्मादेवं विधानेन तेषां ज्ञेयं शुभाशुभम् | वर्त्तमानार्घ्यविंशांशकल्पना तेषु च क्रमात् | वर्त्तमानार्घ्यके दद्यादुत्पाद्य च शुभाशुभम् | देशध्वंसः प्रजापीडा मृतिः प्राणिबधस्तथा | यत्र दृष्टिस्तु तत्र स्याद् दुर्भिषं मण्डले स्फुटम् | अकालेऽपि फल पुष्पं वृक्षाणां यत्र जायते | स्वजातिमांसभुक्तिश्च दुर्भिक्षं तत्र रौरवम् | परचक्रागमस्तत्र दुर्भिक्षञ्च स्वराज्यके | ऋतौ विपर्ययो यत्र दुर्भिक्षं मण्डले भवेत् | भूमिकम्पो रजःपातो रक्तपातश्च जायते | देशे सर्वसुखोपेते वेधादर्घ्यो भवेद्भयम् | दीपो यथा गृहस्यान्तरुद्व्योतयति सर्वतः | तस्येदं सर्वतोभ्द्रचक्रं ज्ञानप्रकाशकम् || अस्य व्याख्यानं प्रक्रिया सङ्केतश्चोच्यते ऊर्द्ध्वगेति | पूर्वपश्चिमक्रमेण रेखादशकं विन्यस्योत्तरदक्षिणक्रमेण पुनस्तत्र रेखादशकं न्यसेत् | एतेनैकाशीतिः कोष्ठकानि भवन्ति | तत्र कोष्ठे ईशानादिकोणकोष्ठेषु सृष्टिमार्गेणादावीशानकोणे ततश्चाग्निकोणे ततो नैरृते ततश्च वायव्ये एवं चतुरावृत्त्या अकारादिस्वरान् लिखेत् | पूर्वदिगवधिसप्तसप्तक्रमेण कृत्तिकादीन्यष्टाविंशतिनक्षत्राणि चतुर्दिक्षु प्रथमपंक्तौ लिखेत् | तदधः पंक्तौ अवकहेत्यादिवर्णविंशतिकं तदधःपंक्तौ वृषादिराशिद्वादशकञ्च लिखेत् | अवशिष्टकोष्ठपञ्चके नन्दादितिथिपञ्चकं लिखेत् | तत्रेशाने अ उ ऌ ओ इति स्वरचतुष्कम् | आग्नेये आ ई ॡ औ इति स्वरचतुष्कम् | नैरृते इ ऋ ए अं इति स्वरचतुष्कम् | वायव्ये ई ॠ ऐ अः इति स्वरचतुष्कञ्च लिखेत् | ततः पूर्वदिशि प्रथमे पंक्तौ कृत्तिकादीनि सप्त ऋक्षाणि द्वितीयपंक्तौ अवकहडेति तृतीयपंक्तौ वृषमिथुनकर्कटेति | तदधःकोष्ठे नन्दादितिथिञ्च लिखेत् | ततो दक्षिणदिशि पूर्ववत् प्. ९१९) पंक्तिक्रमेण मधादीनि मटपवतेति सिंहकन्यातुलेति भद्राञ्च लिखेत् | पश्चिमायां दिशि पूर्ववत् तत्र नन्दाकोष्ठे रविमण्डलौ भद्राकोष्ठे इन्दुबुधौ जयाकोष्ठे गुरुं रिक्ताकोष्ठे शुक्रं पूर्णाकोष्ठे शनिं लिखेत् | ग्रहाणां बलविज्ञानाय उच्चनोचस्थानमाह रवेर्मेष इत्यादि || ग्रहाधीना हि सकलशुभाशुभचिन्तेत्यतो ग्रहाणां क्रूरसौम्यत्वमाह शन्यर्केति | शनिरविराहुकेतुमङ्गलाः क्रूराश्च बुधगुरुशुक्राः शुभाः | बुधस्तु क्रूरयुक्तः पापः | एवं क्षीणचन्द्रः क्षीणस्तु ज्योतिषे | कृष्णाष्टमीदलादूर्द्ध्वं यावत् शुक्लाष्टमीदलम् | तावदेव शशी क्षीणः पूर्णः स्यादन्यतः शशी || इति | एतत्कथनप्रयोजनमाह यस्मिन्निति | यत्र चक्रे ग्रहाश्रयनक्षत्रस्य वामस्म्मुखदक्षिणक्रमेण नक्षत्रेण सह वेधत्रयं भवेत् | भुक्तग्रहाश्रयनक्षत्रे पूर्वं भोग्यं तन्नक्षत्रात् परम् आक्रान्तं ग्रहेणाधिष्ठितम् | तत्र कर्म न कर्त्तव्यमित्यर्थः || दृष्टिफलं कथयति वक्रगेति || मङ्गलादिग्रहपञ्चके वक्रगामिणि सति दक्षिणा दृष्टिर्ज्ञातव्या | अत्र दक्षिणवेधफलं वाच्यं शीघ्रगामिणि वामदृष्टिर्वामवेधफलं वाच्यम् | मध्यचारे प्रकृतगतौ मध्या सम्मुखे दृष्टिर्ज्ञेया तत्र सम्मुखवेधफलं वाच्यम् | ग्रहाणां वक्रशीघ्रादिसमयमाह सूर्ययुक्तं इति | सूर्येण सह एकराशिस्था ग्रहा अंशविशेषे अस्ता भवन्ति | उक्तञ्च ज्योतिस्तत्त्वे | सूर्येण युक्ता अग्रिमराशिं गता उदिताः स्युः | सूर्ये द्वितीयगे ग्रहाक्रान्तराशेरग्रिमराशिगते सूर्ये तु ग्रहाः शीघ्राः शीघ्रगतयो भवन्ति | एवं क्रमेण तृतीयराशिगे सूर्ये ग्रहाः समाः प्रकृतगतयो भवन्ति | चतुर्थे सूर्ये मन्दाश्चक्रपूर्वसमगतयो भवन्ति | एवं पञ्चमराशिगे सूर्येऽपि सप्तमाष्टमराशिगे सूर्ये ग्रहा अतिवक्रगतयो भवन्ति | एवं नवमदशमराशिगे सूर्ये ग्रहाणामकुटिला सहजा गतिर्जायते | एकादशद्वादशराशिगे सूर्ये ग्रहाः शीघ्रगतयो प्. ९२०) भवन्ति | एषा वक्रशीघ्रादिगतिस्तु मङ्गलादिपञ्चकानामेव | अन्येषां गतिविशेषमाह राहुकेतू इति | राहुकेतुचन्द्रसूर्याणामेकगतित्वात् सदा दृष्टित्रयं वामदक्षिणमध्यदृष्टिः सदैव भवति | क्रूरा इत्यादि | शुन्यादिग्रहा वक्रगतयः सन्तो महाक्रूरा एवं सौम्याः शुभग्रहा वक्राः सन्तो महाशुभा भवन्ति | तथा च तयोः शुभाशुभयोर्वक्रगत्योर्द्दृष्ट्यनुक्रमेण शुभं विरुद्धञ्च फलं भवति | सहजगत्या प्रकृतगत्या स्वभावे स्वराशौ स्थिता वक्रा वा उभयथापि सौम्याः शुभग्रहा महाशुभा भवन्ति | एवं सौम्याः क्रूराश्च ग्रहाः शीघ्रगाः सन्तोऽपि शुभा भवन्ति क प भ द इत्यक्षरचतुष्टये बिद्धे धृति घ ङ छेत्यक्षरत्रिकं ष ण ठेति ध फ डेति त्रिकं थ झ ञेति त्रिकं यथाक्रमं बिद्धं भवति | तथा च घकारे बिद्धे घ ङ छेति वर्णत्रयं बिद्धं भवति | एवं पकारे बिद्धे ष ण ठेति वर्णत्रयं भकारे बिद्धे ध फ डेति वर्णत्रयं दकारे बिद्धे थ झ ञेति वर्णत्रयं क्रमेण बिद्धं भवति | आर्द्रानक्षत्रे बिद्धे सति क घ ङ छेति वर्णचतुष्कं बिद्धम् | एवं हस्तानक्षत्रे बिद्धे प ष ण ठेत्यक्षरचतुष्कं पूर्वाषाढानक्षत्रे बिद्धे भ ध फ डेति वर्णचतुष्कं उत्तरभाद्रनक्षत्रे बिद्धे द थ ध ञेति वर्णचतुष्कं क्रमाद् बिद्धं भवति | रवावित्यादिवचनोपात्तौ एकविभक्त्यन्तौ यौ द्वौ द्वौ वर्णौ स्तः तयोर्मध्ये शुभाशुभग्रहैरेकस्मिन् बिद्धे सति अपरमपि बिद्धं भवति | एवमनुस्वारविसर्गयोरेकस्मिन् बिद्धेऽपरमपि || कोणस्थेति || कोणस्थनक्षत्रयोः भरणीकृत्तिकयोरश्लेषामघयोर्विशाखानुराधयोः श्रवणाधनिष्ठयोरन्त्याद्यपादगते ग्रहे सति प्रत्येकमकारादिस्वरचतुष्केषु पूर्णातिथेः पञ्चमीदशमीपौर्णमास्यमावस्यानां वेधो भवति | यथा भरण्या अन्त्यपादे कृत्तिकाया आद्यपादे यदि ग्रहो वर्त्तते तदा प्. ९२१) अकारादयः स्वराश्चत्वारो बिद्धाः पूर्णातिथ्या सह भवन्ति एवमन्येष्वपि कोणेषु ज्ञेयम् || एकेत्यादि || एकक्रूरवेधे उद्वेगः द्विवेधे भयं त्रिवेधे हानिश्चतुर्वेधे रोगः पञ्चवेधे मृत्युः || ऋक्षेत्यादि || पापग्रहेण नक्षत्रे बिद्धे सति भ्रमो बुद्धिभ्रंशः | अन्यत् सुगमम् || युद्धे विशेषमाह एकेति | नामवर्णादिके एकपापेन बिद्धे युद्धे भयं द्वाभ्यां धनहानिस्त्रिभिर्भङ्गश्चतुर्भिर्मृत्युरित्यर्थः || शुभग्रहफलमाह यथेति || अर्केत्यादि || भृगुसुतो मङ्गलः सौरिः शनिः | चन्द्रेत्यादि | यदि चन्द्रः क्षीणस्तदा पापफलं यदा पूर्णश्चन्द्रस्तदा शुभफलं सर्वप्रकारेण शुभफलदः | ग्रहाणां यादृग्बलं तादृक् फलं स्यादिति बलं दर्शयति स्वक्षेत्रे इत्यादि सुगमम् | इदञ्चेति स्थानबलं शुभाशुभग्रहाणां तुल्यम् | फलन्तु विपर्ययेण ज्ञेयम् | यदा पापग्रहः पूर्णबलस्तदा फलं मन्दं यदा शुभग्रहः पूर्णबलस्तदा अतीव शुभम् || तिथीत्यादि || तिथिराशिनवांशक्रमेण नक्षत्रञ्च यत् क्रूरग्रहेण बिद्धं यत्तद्वर्ज्यं तत्र शुभक्रम न कर्त्तव्यमित्यर्थः | वेधफलमाह न नन्दतीत्यादि सुगमम् | बिद्धनक्षत्रादौ राज्ञा दुर्गे कृते खण्डिः खण्डनं जायते तस्य भङ्गो भवतीति तात्पर्यम् | कविडाकारीति प्रसिद्धस्तस्य तस्य प्रवेशनं बिद्धनक्षत्रदिक्कृत दुर्गे भवति | एवं तत्र कोष्ठे कृते योधानामवघातश्च | अत्र तु यत् सेनाङ्गनामाद्यवर्णो बिद्धपुरुषस्य दुर्गादेर्वा पापग्रहबिद्धो भवति इत्यप्यूह्यम् | यत्रेति यत्र पूर्वादिदिशि वृषादित्रिराशिगो रविर्भवति सा दिगस्तमिता ज्ञेया इत्यर्थः | शेषा दिश उदिता भवन्ति | ईशानेति || ईशानदिक्स्थाः स्वराः अ उ ऌ ओ एवं रूपाश्चत्वारः प्राच्यां तत्र स्थिता ज्ञेयास्तस्यामस्तमितायां तेऽप्यस्तमिता ज्ञेया इत्यर्थः | एवमन्यत्र नक्षत्राणीति || प्. ९२२) यत्र दिशि राशित्रयभोगक्रमेण सूर्यः स्थितस्तत्रस्था नक्षत्रवर्णराशितिथिवाराः सर्वेऽस्तमिता भवन्ति | तत्फलमाह नक्षत्रेति | सुगमम् || यात्रेति || शुभं यात्रादि अशुभं मरणादि अस्तदिगभिमुखं नरैर्न कार्यमित्यर्थः || अस्ताशायामिति || यस्य पुंसो नामाक्षरमस्तदिशिस्थं भवति स दैवहत इव ज्ञेयः | कराविति सुगमम् || पदावभिमतलाभः प्रश्नेति | प्रश्नलग्नं अशुभबिद्धञ्चेत्तदा अशुभं शुभबिद्धञ्चेत्तदा शुभं शुभाशुभबिद्धञ्चेत्तदा मिश्रम् || ग्रहाबिद्धेत्यादि || ग्रहेणाबिद्धं लग्नं चरस्तिरद्व्यात्मकरूपं ग्रहदृष्ट्यनुसारेण च यद्यत् फलं स्वभावजफलञ्च वाच्यमित्यर्थः | अयमभिप्रायः || यल्लग्नमस्मिन् चक्रे ग्रहेणाबिद्धं स्यात् तस्य केन्द्रगतदृष्ट्यनुसारेण फलं वाच्यम् | किन्तु स ग्रहो यदि स्वाभिव्यतिरिक्तपापः स्यात् तदा कार्यस्यासिद्धिर्वाच्या यदि स शुभस्तदा कार्यसिद्धिर्मिश्रश्चेन्मिश्रफलं वाच्यम् || चरादिसंज्ञा दीपिकायाम् || चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टा इति || क्रूरैरित्यादि || पापग्रहैर्यस्य वर्णादयः पञ्चमोत्क्रमाभ्यां मण्डलादिकं पापबिद्धञ्चेत्तदा विनश्यति | मण्डलं देशः || नगरं राजस्थितिस्थानम् | दुर्गं कोटादि | देवालयः प्रसिद्धः | पुरं राजनामचिह्नितराजधानी | कृत्तिकेत्यादि कूर्मचक्रे त्रीणि त्रीणि कृत्वा सप्तविंशतिनक्षत्राणि नवभागक्रमेणाङ्गानि व्यवस्थेयानि | तत्र कृत्तिकादिनक्षत्रत्रिके क्रूरबिद्धे सति नाभिस्थदेशा नश्यन्ति एवमन्यत्र | अयमभिप्रायः कूर्मचक्रे सर्वतोभद्रचक्रे च यदि पापबिद्धं नक्षत्रं स्यात्तदा तन्नक्षत्राङ्कितदेशा नश्यन्ति महोपद्रुता भवन्ति | एकचक्रे बिद्धञ्चेत्तदा किञ्चिदुपद्रुता इति || कृत्तिकायामिति || कृत्तिकायां बिद्धायां ब्राह्मणो बिध्यति एवं पुष्ये बिद्धे क्षत्रियो बिध्यति रेवत्यां वैश्यः पुनर्वसौ शुद्रश्च | तत्र शुभबिद्धे शुभं प्. ९२३) पापबिद्धे अशुभं मिश्रे मिश्रफलम् | मतान्तरे त्वन्यवेधेनापि यदाह वराहः | पूर्वात्रयं सानलमग्रजानां राज्ञान्तु पुष्येण सहोत्तराणि | सपौष्णमैत्रं पितृदैवतञ्च प्रजापतेर्भञ्च कृषीवलानाम् | आनित्यहस्ताभिजिदश्विभानि वणिग् जनानां प्रवदन्ति भानि | मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाम् || सौम्येन्दुचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि | सर्पं विशाखा श्रवणाभरण्यश्चाण्डालजातेरपि निर्दिशन्ति || तौल्यमिति || तौल्यं तुलनार्हद्रव्यं भाण्डं रत्नं रसो घृततैलादि | धान्यं शस्यं महार्घ्यतामधिकन्यूनतामित्यर्थः | शुभवेधे सुभिक्षमिति | क्रूरवेध इति सुगमम् || उपग्रहमाह सूर्यभादिति सुगमम् | नाडीनक्षत्रमाह जन्मनि भेति | इदं नक्षत्रषट्कं सर्वजनसाधारणं ज्ञातव्यम् | जातिभमुक्तम् | देशभं देशनामाद्यक्षरेण शतपदचक्रे ज्ञातव्यम् | यस्मिन्नृक्षे राज्ञोऽभिषेको भवति तन्नक्षत्रमभिषेकभम् | तत्र क्रूरवेधफलमुक्तं शुभफलं वाच्यम् | तिथिरिति यस्मिन् दिने शुभाशुभवेधे सति चन्द्रवेधेन तद्बिध्यते तिथ्यादिपञ्चकेषु यत्र यदा चन्द्रवेधस्तदा तस्य कथितफलं वाच्यम् | तिथ्यादिपञ्चके बिद्धे चन्द्रयोगो यदा भवेत् | तदुक्तं फलं तदा वाच्यं तद्दिने ग्रहसम्भवम् || देश इति || पण्यं विक्रेयद्रव्यम् | धातुरिति धातुः स्वर्णादिपृथिव्यन्तः | मूलं वृक्षादिगुल्मान्तम् | जीवो मनुष्यादिकीटपर्यन्तः | देशेत्यादि राहुशनिवृहस्पतयः देशस्वराः | केतुरविशुक्रा मण्डलेशाः | चन्द्रमण्डलबुधाः स्थानपतयः | राहुकेतुशनिवृहस्पतयो वर्षाधिपाः | रविभौमबुधशुक्रा मासाधिपाः | चन्द्रो दिवसाधिपः | शनिराहुकुजा धात्वधिपाः | बुधचन्द्रवृहस्पतयो जीवेशाः | रविकेतुशुक्रामूलेशाः | राहुकेतुरविजीवमङ्गलाः पुरुषाधिपाः | शुक्रचन्द्रौ स्त्रीग्रहौ | शनिबुधौ नपुंसकौ | प्. ९२४) गृहे इति | गृहे स्वगृहे स्वस्वराशौ यथा सिंहे सूर्य इत्यादि वक्रे भुक्तांशेषु परावृत्य गमने स्वहर्म्येषु स्वगृहेषु तत्पूर्वपरगृहेऽपि पूर्णबल इति त्रैराशिकं बलम् | उच्चेति दलमर्द्धम् | अन्तरे उच्चनीचमध्ये त्रैराशिकवशादनुपातेन बलं ज्ञेयम् | अनुपातो यथा | उच्चावधिप्रतिराशित्रिंशांशके प्रत्येकं दश दश विकला हानिरेवं नीचावधिप्रतिराशित्रिंशांशके प्रत्येकं दश दश विकला वृद्धिरिति | एवमिति | तत्तत्प्रभुत्वविषयकदेशादौ वेधचिन्ता कार्या इत्यर्थः | एवं गृहं प्रति वेधका ग्रहाः के सुहृदः के वा शत्रवः के वा मध्या इति चिन्तनीयम् | यथा मण्डलस्वामी सूर्यः तस्य मित्राणि चन्द्रकुजगुरवः | तैर्यदि मण्डलं बिद्धं तदा शुभफलम् | सौम्यो बुधस्तस्य वेधान्न निषिद्धं शनिशुक्रौ शत्रू तयोर्वेधाद्विरुद्धफलमेवमन्येष्वपि ज्ञेयम् | स्वमित्रेति देशादिके देशमण्डलपण्ये स्वस्य मित्रस्य समस्य शत्रोश्च वेधात् शुभग्रहः शुभफलं ददाति चतुस्त्रिद्व्येकपादकैः | तथा च स्ववेधे पूर्णं मित्रवेधे पादोनं समवेधेऽर्द्धं शत्रुवेधे पादफलमिति | दुष्टग्रहो विरुद्धफलं दत्ते तथा च स्ववेधे पादफलं मित्रवेधे अर्द्धफलं समवेधे पादोनं शत्रुवेधे पूर्णम् | बिद्धमिति बिद्धराशिं पूर्णदृष्ट्या पश्यन् यद्राश्यक्षरं यदा बिद्धम् करोति तदा पादेन फलं विदधाति दृष्ट्यनुसारतोऽत्र विपरीतक्रमो यथा | पूर्णदृष्ट्यात्र कपालफलं तथा पाददृष्ट्या पूर्णफलम् | अर्द्धदृष्ट्या पादत्रयं पादत्रयदृष्ट्या अर्द्धम् || वर्णेति || मेषादिद्वादशराशिषु वर्ण आदिभूतो येषां अ इ उ ए ओ इत्येतेषां वर्णसङ्घटनतो रविर्बुधो वा एवं क्रमेण राश्यंशकव्यवस्थितराशीनां ग्रहदृष्टिवशाद्वेधफलदः सोऽपि वेधो वर्णादिको मतः | यत्रांशकवेधस्तत्र तन्नवांशवर्णस्वरयोरपि वेधस्तत्रापि फलं बिद्धनवांशक राशौ ग्रहस्य दृष्टिवशेन | स्वरवर्णेति || प्. ९२५) एषां ये च वर्णास्ते स्वरचक्रोक्ता नामजाः स्वीयचक्रे कथिताः | ककारादिनाम्नः ककारो वर्णः अकारस्वरः एवं स्वस्ववर्णाः पापग्रहबिद्धाः पीडकास्तिथिवेधाश्चैतादृशाः पीडका एव | एवं तिथौ यो वर्णो यश्च राशिस्तत्रापि शुभाशुभग्रहवेधात् स्वदृष्ट्या पाददृष्टिक्रमेण दृष्टिजं फलं ज्ञेयम् | अशुभेति || पापग्रहः शुभग्रहो वा शुक्लपक्षे तिथिवेधं कुर्वन् सर्वं स्वकीयफलं दृष्टिकल्पितं दत्ते कृष्णपक्षे तु तदर्द्धमिति | खेटेति | ग्रहस्य अंशके पूर्णा दृष्टिः पण्डितैः सदा चिन्तनीया यतो दृष्टिहीने वेधे पुनः किञ्चिदपि शुभाशुभफलं न स्यादिति हेतुगर्भेण योजना | सौम्येति || एवं प्रकारेण वर्णादिपञ्चके वर्णस्वरर्क्षराशितिथ्यात्मके बिद्धे सति ग्रहो वेधकः शुभाशुभफलं दत्ते | सौम्य इति || दिशि सर्वतोभद्रचक्रपूर्वादौ वर्णादिपञ्चके पूर्णदृशा पश्यन् बिध्यन् पञ्चविंशोपकान् पतितपादं पञ्चपञ्चविंशोपकसंज्ञकं फलं शुभग्रहो ददाति | क्रूरग्रहः पतिपादं चतुर्विंशोपकान् फलं ददाति | वृषादिराशित्रये अवदहडा वर्णाः कृत्तिकादीनि सप्तभानि सिंहादित्रये मटपबभा वर्णा मघादीनि सप्तभानि वृश्चिकादित्रये णषभजस्वा वर्णा अनुराधादीनि सप्तभानि कुम्भादित्रये गशदचला वर्णा धनिष्ठादीनि सप्तभानि एवं नक्षत्राणि वर्णाश्च राशीनां ज्ञेयाः यदि पश्यन्ति ते खेटाः पाददृष्ट्या प्रकल्पयेत् | बिंशोपकाः स्युः पञ्चैव प्रतिपादं शुभग्रहैः | अशुभैर्वेदमिता ज्ञेयाः पाददृष्ट्या विचक्षणैरिति || वेधे इति || वर्णादिपञ्चके वेधे यावद्दृष्टिबलं स्थानवेधे च यावती दृष्टिस्तदनुमानेन बुधैर्विंशोपकावाच्या इति | एवमिति || एवं प्रकारेण यत्राशुभे शुभे वा ग्रहे दृष्ट्यादिबलभेदेन विंशोपका व्यवस्थाक्रमेण सम्भवन्ति शुभग्रहविंशोपका प्. ९२६) एकत्र धार्या अशुभग्रहविंशोपका अपरत्र धार्याः | तेषां मध्ये परस्परं ये यस्मान्न्यूनास्ते अधिके परिशोधनीयाः | शेषं यद्दृश्यं तच्चिह्नितं शुभमशुभं वा फलं वाच्यम् | यत्र यावती दृष्टिरित्यस्यार्थो विविच्य लिख्यते | द्वितीये दशमे वा वेधे पञ्चविंशोपकाः | नवमे पञ्चमे वा दशविंशोपकाः | चतुर्थेऽष्टमे वा प्रत्येकं पञ्चदश | समसप्तके विंशतिः || तथा च दृष्टिकथने ज्योतिःशास्त्रम् | पादैकदृष्टिर्दशमे तृतीये द्विपाददृष्टिर्नवपञ्चके च | द्विपाददृष्टिश्चतुरष्टके च सम्पूर्णदृष्टिः समसप्तके चेति | सर्वक्रूरग्रहाणां पादवृद्ध्या चत्वारश्चत्वारो विंशोपका जायन्ते | इति सम्पूर्णदृष्टौ षोडशविंशोपका भवन्ति | एवं क्रमेण यत्र यत्र ये विंशोपकाः शुभात्मका अशुभात्मका भवन्ति तत्र शुभग्रहविंशोपकान् एकत्रैव परचक्रक्रूरग्रहविंशोपकान् लिखित्वा यो यत्र पतति तं तत्र पातयित्वा अवशिष्टौ यदि शुभग्रहस्य तदनुमानेन शुभम् | पापग्रहस्य चेत्तदा अशुभं फलं भवति || वर्त्तमानेत्यादि | तेषु विक्रेयद्रव्येषु वर्त्तमानधान्यादिद्रव्यमूल्ये तन्नामनक्षत्रस्वरवर्णतिथिराशिभेदेन पूर्वोक्तप्रकारेण विंशांशकल्पना अन्योन्यपरिशोधनपर्यन्ता कार्या | ततोऽवशिष्टविंशोपकभागे परिकल्पनेन शुभग्रहादिष्वे कावशेषे विंशत्यंशो मूल्ये ह्रसति | तद्विशेषे द्वौ भागौ ह्रसतः | एवमधिके चिन्तनीयम् | यत्र देशादेर्वर्णादिपञ्चकं शुभक्रूरविंशोपकशेष एवं क्रमेण एकद्वित्र्यादिविंशान्तभागान्मध्ये अधिकीक्रियते | मूल्यमेवाधिकं भवति शुभाशुभञ्चोत्पाद्यम् | एवं यत्रादौ पापग्रहवेधस्तत्राशुभं किञ्चिद्वस्तु वेधादपि चिन्तनीयम् | यत्र देशादेर्वर्णादिपञ्चकं शुभमात्रेण बिद्धं तत्रातीव शुभम् | यत्र पापमात्रेण तत्रातीवाशुभम् | यत्र भूतवेधस्तत्र दृष्टिभेदेन विंशोपकान् परिकल्प्य प्. ९२७) शुभाशुभविंशोपकाच्छुभमशुभफलं वाच्यम् | देश इत्यादि यत्र देशे क्रूरग्रहवेधे सति तद्दृष्टिरधिका कथितप्रकारेण सम्पद्यते तस्य विनाशः | एवं तस्मिन् देशे प्रजापीडाप्रकारोपद्रवः | राजविनाशो मण्डले च दुर्भिक्षम् | कूर्मचक्रे पापग्रहपीडा यत्र सर्वतोभद्रेऽपि पापग्रहपीडा तस्यावश्यं देशादेर्विनाशः प्रजापीडादिकञ्च फलं भवति | एतत्सकलनिमित्तान्युपदर्शयति | अकालेऽपीत्यादि | यत्र देशादौ वृक्षाणामकाले पुष्पाद्युद्गमनसमयान्यसमये पुष्पं फलं वा भवति तत्र स्वजातिमांसभुक्तिर्मनुष्यमांसं मनुष्यो भुंक्ते एवमन्यजातीयानामपि तत्र रौरवं भयानकं दुर्भिक्षं यत्रैव भवति तत्र परचक्रागमोऽपि भवति | सुराजके शोभनराज्ञि अपि देशे दुर्भिक्षम् | ऋतोरित्यादि | यत्र देशे ऋतोर्विपर्ययः अन्यादृशः क्रमः पौषादिसम्भावितकुहेलिकादिर्ग्रीष्मादौ सम्भवति यथा साधारणक्रमे शीतलसमये उष्णता ग्रीष्मादौ शैत्यम् | अन्यत्तु धर्मवद्धेतुविपर्ययो वा तत्रापि दुर्भिषं भवति | भूकम्प इत्यादि | सर्वसुखोपेतदेशे वेधात् पापग्रहकृतो दीर्घभूमिकम्पो रजःपातो धूलीवृष्टिः रक्तवृष्टिर्वा जायते || दीपो यथेति | इदं सर्वतोभद्रचक्रं तथा ज्ञानप्रकाशकम् | यथा दीपो गृहस्यान्तर्मध्यं द्योतयति | यथा दीपद्योतवशेन गृहान्तर्वर्त्तिद्रव्यज्ञानं भवति तथास्मात् सर्वतोभद्रचक्रात् सर्वविषयकज्ञानमुत्पद्यते || चक्रं शतपदं वक्ष्ये ऋक्षांशाक्षरसम्भवम् | नामादिवर्णतो ज्ञेया ऋक्षराश्यंशकास्तथा | तिर्यगूर्द्ध्वगता रेखा रुद्रसङ्ख्या लिखेद्बुधः | जायते कोष्ठकानान्तु शतमेकं न संशयः | विन्यस्यावकहडादीनि रुद्रादिविदिशि क्रमात् | पञ्च पञ्च क्रमेणैव शुद्धवर्णान् नियोजयेत् | पञ्चस्वरसमायोगादेकैकं पञ्चधा कुरु | प्. ९२८) कुर्यात् कुपुभुदुस्थाने त्रीणि त्रीण्यरक्षराणि च | कुघङस्था भवेत् स्तम्भे रौद्रे त्वीशानयोगके | पुषणठो भवेत् स्तम्भे हस्ते आग्नेयसंज्ञिते | भवेद्भुधफढाः स्तम्भे पूर्वाषाढे च नैरृते | हथझञा भवेत् स्तम्भे वायव्ये भाद्र उत्तरे | एवं स्तम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः धिष्ण्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः | साभिजित्यं शकस्तत्र शतैकं द्वादशाधिकम् | यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः | सौम्यवेधे शुभं ज्ञेयमशुभं क्रूरखेचरैः | मिश्रैर्मिश्रफलं तत्र निर्वेधेन शुभाशुभम् | यदुक्तं सर्वतोभद्रे ग्रहोपग्रहवेधतः | शुभाशुफलं सर्वं तदिहापि विचिन्तयेत् || अस्यार्थः | शतपदं कोष्ठचक्रं वक्ष्ये किम्भूतं ऋक्षांशाक्षरसम्भवम् | ऋक्षस्य नक्षत्रस्य येऽंशाः पादरूपास्तेषां यान्यक्षराणि वक्ष्यमाणानि तैः सम्भवो यस्य तत् | तत्तदक्षरघटितमित्यर्थः | नामादिवर्णेन नक्षत्रसम्बन्धांशो ज्ञेयः | चक्रन्यासमाह तिर्यगित्यादि | रुद्रसंख्या एकादशसंख्याः | रेखास्तिर्यगूर्द्ध्वगताः पूर्वपश्चिमक्रेमेणैकादश दक्षिणोत्तरक्रमेणाप्येकादश लिखेत् | ईशाणकोणमारभ्य पूर्वपंक्तौ प्रथमकोष्ठपञ्चकेषु अवकहडेति वर्णपञ्चकं शुद्धमकारस्वरमात्रयुक्तं नियोजयेत् लिखेत् | एवमाग्नेयकोणाद्यारभ्य दक्षिणपश्चिमोत्तरपंक्तिषु कोष्ठपञ्चकेषु मटपरतेति लयभजस्वेति गशदचलेति वर्णपञ्चकं क्रमेण लिखेत् | अ-इ-उ-ए-ओ इति पञ्चस्वरयोगेन लिखितवर्णः पञ्चधातुः | अ-इ-उ-ए-ओ वविवुवेवो इति क्रमेणाधोऽधो लिखेदिति तात्पर्यार्थः | लिखितमध्ये कुपुभुदुस्थाने अन्यानि त्रीणि त्रीण्यक्षराणि कुर्याल्लिखेदित्यर्थः | ईशानकोणावस्थितस्तम्भे आर्द्रानक्षत्रे कुघङछ इति वर्णचतुष्कम् एवमग्निकोणे हस्तानक्षत्रे पुषणठेति वर्णचतुष्कं नैरृतकोणस्तम्भे प्. ९२९) पूर्वाषाढानक्षत्रे भुधफढेति वर्णचतुष्कं वायुकोणस्तम्भे उत्तरभाद्रपदनक्षत्रे हथझञेति वर्णचतुष्कम् | एवं प्रत्येकं वर्णचतुष्टयं मात्रादिचतुष्टये व्यवस्थापकस्वरवेदिभिः स्तम्भचतुष्टयं ज्ञातव्यम् | धिष्ण्यानीत्यादि | न्यस्ताक्षरेष्वकारमारभ्य चतुर्भिश्चतुर्भिरक्षरैः साभिजित्सहितानि कृत्तिकादीन्यष्टाविंशतिनक्षत्राणि भवन्ति | तत्र प्रतिनक्षत्रं चत्वारश्चत्वारोऽंशा द्वादशाधिकशतसङ्ख्या भवन्ति | एतेन अ इ उ ए कृत्तिका | ओ व वी वु रोहिणी | वे वो क कि मृगशिराः | कुघ ङ छ आर्द्रा | के को ह हि पुनर्वसुः | हु हे हो ड पुष्या | डि डु डे डो अश्लेषा | म मि मु मे मघा | मो ट टि टु पूर्वफल्गुनी | टे टो प पि उत्तरफल्गुनी | पु ष ण ठ हस्ता | पे पो व वि चित्रा | व्यवेवोत स्वाती | ति तु ते तो विशाखा | ल लि लु ले अनुराधा | नो या ये यु ज्येष्ठा | ये यो भ भि मूला | भु ध फ ढ पूर्वाषाढा | भे भो ज जि उत्तराषाढा | जु जे जो थ अभिजित् | खि खु खे खो श्रवणा | ग गि गे गो धनिष्ठा | शो श शि शु शतभिषा | शे शो द दि पूर्वभाद्रपदम् | ह ख झ ञ उत्तरभाद्रपदम् | दे दो च चि रेवती | चु चे चो ल अश्विनी | लि लु ल लो भरणी | इत्यष्टाविंशतिनक्षत्राणि || प्रयोजनमुपदर्शयति यदृक्षांशक इत्यादि | क्रूरः सौम्यो वा ग्रहः यस्मिन्नक्षत्रे स्थितस्तस्मात् पुनस्तिर्यक्क्रमेण पुंसः पुरुषस्य नामाद्यक्षरं वेधयेत् | यदीति योजनीयम् | वेधफलमाह सौम्यवेध इत्यादि | शुभवेधे शुभं पापवेधे त्वशुभमिति | मिश्रैः शुभपापैर्वेधे मिश्रं शुभाशुभम् | वेधशून्येन किमपीति | सर्वतोभद्रचक्रे ग्रहतो ग्रहवेधतो यत् फलमुक्तं तदत्रापि | पेपीववीति चित्रानक्षत्रं तेन रामतोषणनाम्नश्चित्रानक्षत्रं तृतीयपादाश्रिततुलाराशिरेवमन्यनाम्नोऽपि नक्षत्रंयम् | प्रश्ने तु प्रष्टारं दृष्ट्वा ओं मनश्चिन्तितवस्तूनां प्. ९३०) प्रष्टुरास्येन भाषिणीम् | तां वर्णरूपिणीं वन्दे भारतीं भक्तवत्सलाम् | इत्यनेन सरस्वतीं नत्वा मनसा शतधा वाग्भवं स्वीयेष्टमन्त्रं वा जप्त्वा किमर्थमत्रागतस्त्वं कथयेत्यादि पृच्छेत् | ततः प्रष्टा प्रथमं यद्वदिष्यति तस्याद्यक्षरेण लग्ननवांशकैः ज्ञात्वा ग्रहवेधवशेन ग्रहदृष्टिवशेन च धातुमूलजीवादिकं वर्णाकारादिकं तच्छुभाशुभञ्च वाच्यमिति || त्रयोदशोर्द्ध्वगा रेखास्तिर्यग्रेखास्तथा दश | भवेयुः कोष्ठकास्तत्र संख्यायाश्चोत्तरं शतम् | कवर्गं नवधालिख्य कोष्ठके प्रथमेऽष्टमे | द्वितीये सप्तमे चाद्या नटाभ्यां तस्य त्रिषष्ठके | यशौ वर्गौ चतुर्थे च तथा वर्गञ्च पञ्चमे | नवद्वादशके ताद्यान् शेषे पाद्यान् द्विकोष्ठके | चतुरक्षरसंयोगे अश्विन्यादिक्रमेण च | ज्ञेया नवांशका वर्णा मेषादौ राशिमण्डले | भौमं शुक्रं बुधं चन्द्रं भानुं सौम्यं सितं कुजम् | गुरुं सौरिं शनिं जीवं विदध्यात् कोष्ठकोपरि | कोष्ठकाक्षरतो ज्ञेयश्चन्द्रस्तत्कालसम्भवः | तदधीनं फलं सर्वं लाभालाभं जयाजयम् | इष्टनाड्या हताधिष्ण्यैः षष्टिभागाप्तशेषकै | अश्विन्यादीन्दुभुक्तेन योगात्तत्कालचन्द्रमाः | क्रूरक्षेत्राक्षरे चन्द्रे न शुभं सर्वकर्मसु | शुभक्षेत्रे शुभन्त्वेवं प्रस्तारे चन्द्रनिर्णयः | च तु ४ स्त्री ३ मुनयः ७ सूर्याः १२ सप्त ७ नन्द ९ गुणे ३ षवः ५ | मासाः १२ शैलाः ७ इना १२ स्तुत्या २४ राशीनाञ्च ध्रुवा इमे || गुणाः ३ शैला ७ युगाः ४ पञ्च सप्त पञ्च ५ त्रयो ३ युगाः ४ | नागा ८ वाणा ५ रसा ६ भूता ५ मासादेरंशका ध्रुवाः | अंशकेनांशकं गुण्यं ध्रुवयुक्तकृतं पुनः | स्वगुणे गुणयेत् पश्चात् मूलाङ्के भाजयेत् सुधीः | षष्टि ६० र्वाणा ५ रविः १२ पक्षौ २ वह्नि ३ र्नेत्रं २ रवि १२ स्तथा | चन्द्रभूसुतशुक्राणां गुरुज्ञरविसौरिणाम् | नाडीफलौ यशौ प्. ९३१) वर्गा वर्गो दिनफलोदयः | कः पक्षेण च मासेन टतपा त्वयनाब्धकैः | प्रश्नकाले विवाहे च घाते जन्मनि सङ्करे | शशाङ्कस्य फलं श्रेष्ठं सर्वशास्त्रे प्रकाशितम् || इति प्रस्तारचक्रम् || अस्यार्थः प्रक्रिया सङ्केतश्चोच्यते | त्रयोदश इत्यादि | एतेन ऊर्द्धाधःक्रमेण नव कोष्ठानि द्वादशस्थानेषु भवन्ति | तत्र वर्गक्षेमविन्यासः | नवांशक्रमेण द्वादशसु नव नव पादिका भवन्ति इति दर्शयन्नाह कवर्गमित्यादि | कवर्गप्रथमे मेषे अष्टमे वृश्चिके ऊर्द्धाधःक्रमेण नवकोष्ठकेन नवधा नवप्रकारेण क ख ग घ ङ क ख ग घ एवं विलिख्य तथैव द्वितीये वृषरूपे सप्तमे तुलारूपे चाद्यान् चकारादीन् वर्गवर्णान् लिखेत् | त्रिषष्ठके मिथुनकन्यास्वरूपे टाद्यान् टकारादीन् वर्णान् विलिख्य चतुर्थे कर्कटरूपे यशवर्गौ तथैवावर्गं अ इ उ ए ऐ ओ औ अं अः स्वरूपं पञ्चमे सिंहस्वरूपे नवद्वादशे धनुर्मीनस्वरूपे ताद्यान् तवर्गवर्णान् शेषे द्विकोष्ठके मकरकुम्भस्वरूपाद्यान् पवर्गवर्णान् लिखेत् | चतुरक्षरेति | क ख ग घ एवं क्रमेण मेलनादश्विन्यादिसप्तविंशतिनक्षत्राणि भवन्ति | तत्र नवभिर्नवभिरक्षरैर्नवांशैः पादिकारूपैर्द्वादश राशयस्तदंशा व्यवस्थिता इति || भौममिति || विदध्याल्लिखेत् | तत्कालसम्भव एव नक्षत्रमाने सप्तविंशतिनक्षत्राणामन्यतमभोगभागस्थश्चन्द्रः कोष्ठाक्षरतत्तत्पादिकारूपनवांशस्थो ज्ञेयः | इष्टनाड्य इति || इष्टदण्डाः सप्तविंशतिभिः पूरिताः पुनः षष्ट्या हरणेन लब्धमेकनक्षत्रं पञ्चदशाद्यन्तरपलावशेषे नक्षत्रस्य प्रथमप्रथमपादिका तदुपरि त्रिंशांशदण्डाभ्यन्तरे द्वितीयपादिका तदुपरि पञ्चचत्वारिंशत्पलाभ्यन्तरे तृतीयपादिका तदुपरि षष्ट्यभ्यन्तरे चतुर्थपादिके तु तत्तदवशेषे तत्र तत्र तात्कालिकश्चन्द्रः स्थाप्यः | एतेनैतदायातं षष्ट्याप्तं यत्तद्भुक्तनक्षत्रं यच्छेषं तद्भुज्यमानमिति प्. ९३२) तत्र चन्द्रभुक्तनक्षत्राङ्कयोगेन यदि सप्तविंशत्यधिकं भवति तदा सप्तविंशतिमपास्य तात्कालिकश्चन्द्रः स्थाप्य इति सत्युदयं गन्तव्यमिति || तात्कालिकीकरणप्रकारमुपदर्शयति | इष्टनाड्यो नक्षत्रभुक्तदण्डा धिष्ण्यैः सप्तविंशत्या हताः कर्त्तव्याः | तत्र षष्टिभागाप्तशेषिके अधिकरणे षष्ट्या हरणादग्रे भुक्तनक्षत्रसंख्याङ्के शेषे च भुज्यमाननक्षत्रशरीरे उपर्यधःक्रमेण ऋते प्रकृतक्रमेणाश्वीत्यादीन्दुभुक्ते न नक्षत्राङ्केन युक्तो यदि सप्तविंशतिमपास्यावशिष्टं भुक्तनक्षत्रं शेषञ्च तदप्रमाणनक्षत्रभागश्चन्द्रभुज्यमान एवं तत्कालचन्द्रो भवति | नक्षत्रभोगसमयस्तु त्रयोदशपलाधिकदण्डद्वयाधिक इत्यर्थः | अपवादस्तु पले षष्टिन्यूनाधिकनक्षत्रमाने सति भवति | तत्फलान्युपदर्शयति क्रूरक्षेत्राक्षरमिति || चन्द्रे क्रूरक्षेत्राक्षरे पापग्रहराश्यक्षरस्थे सर्वकर्मसु न शुभम् | शुभक्षेत्रे शुभग्रहराशिनक्षत्रे चन्द्रे स्थिते सति शुभं कालमिति | प्रस्तारे चक्रे चन्द्रनिर्णयः कथितः | कथितफलं कदा स्यादित्यादिशङ्कायामाह || नाडीफलाविति || यशौ यवर्गशवर्गौ नाडौफलौ दिनाभ्यन्तरफलदौ तत्र चन्द्रेणैकपादिकालङ्घने त्रयस्त्रिंशत्पलानि तदुपरि कार्यं सिद्धिरेवं प्रतिपादमवधिकपादलङ्घने तत्पादपवमानं वर्त्तुलीकृत्य दण्डरूपः समयो वक्तव्यः | स च राशिशेषे पलत्रयन्यूनाः पञ्च दण्डाः परं भवन्ति | अवर्गौ दिनफलोदय एकदिनेन कथितफलदाता कः कवर्गः पक्षे | चवर्गो मासे | टः टवर्ग ऋतून् प्रति | तपौ तवर्गपवर्गौ अयनाब्दयोः | षण्मासे तवर्गः अब्दे पवर्गः फलदातरीति | प्रश्नकाल इति | एतेषु कार्येषु शशाङ्कस्यानेन प्रकारेण सर्वशास्त्रेषु गोपितेषु न प्रकटीकृतप्रश्नकाले विवाहे कृत्यादौ तत्कालचन्द्रात् शुभाशुभं चिन्त्यम् || इति प्रस्तारचक्रम् || प्. ९३३) जयति निखिलमान्यः प्राणकृष्णः शरण्यः सुकृतविततकिर्त्त्युत्सर्गगण्यो वरेण्यः | लिपिकृतनवकीर्त्त्याख्येय एकोऽतिपुण्यो निरसितगुणिदैन्यो गौडभूमध्यधन्यः || श्रीरामतोषणलिपिप्रतिरूढशाखं व्याकोषपुष्पसुरभीकृतदिग्विभागम् | सत्त्वैकलभ्यमतिकर्मठगम्यभावं श्रीप्राणकृष्णहृदये मुदमातनोतु || इति श्रीप्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्य विरचितायां श्रीप्राणतोषिण्यां पञ्चपुष्पस्तवकान्वितं षष्ठं ज्ञानकाण्डं समाप्तम् || महाकालोल्लासप्रथितरतियुद्धप्रणयिनी गलद्वेणीबन्धा गगनवसना स्विन्नवदना | नवाम्भोदस्निग्धा शवविहितरक्तेक्षणयुता हृदि ध्वान्तागारे तडिदिव सदा सा स्फुरतु मे || निर्गुणाख्यस्य काण्डस्य सप्तमस्य विधीयते | निर्घण्टः प्रथमस्तत्र पशुभावादिनिर्णयः | भावत्रयफलं पूर्वाह्णादौ भावत्रयं ततः | पशुभावे सिद्धिबीजं दिव्यवीरप्रशंसनम् | पश्वादिलक्षणं तेषां कृत्याकृत्यविनिर्णयः | भावत्रयस्योत्तमत्वादिनिर्णीतिस्ततः परम् | आरम्भादिप्रभेदेन भावत्रयनिरूपणम् | भावनिरूपणं ब्रह्मचर्यनिरूपणं ततः | ताम्रस्य धारणफलमङ्गभेदादनेकधा | आश्रमत्रयमात्रन्तु कलौ ज्ञेयं मनीषिभिः | गृहस्थकृत्यमातिथ्यं पित्रार्च्चा दारलक्षणम् | परस्त्रीवर्जनं पुत्रकन्यादिलालनादि च | कृत्याकृत्ये गृहस्थस्यान्यद्विज्ञेयं यथास्थलम् | भिक्षुकाश्रमकृत्यादि कलौ तत्प्रतिषेधनम् | दशावधूतनामानि ततोऽवधूतनिर्णयः | तत्कृत्यं लक्षणं तेषां प्रशंसा च ततः परम् | ओं तत्सदिति निर्द्देशफलं तस्य प्रशंसनम् | आचारभेदकथनमिति च्छेदोऽग्रिमः स्मृतः | पूर्णाभिषेकस्तस्यापि प्रयोगस्तदनन्तरम् | अभिषेकान्तरं वीरप्रशंसा वीरकृत्यकम् | वैधेतरसुरापाणनिषिद्धं शास्त्रसम्मतम् | द्रव्याभावे चानुकल्पविधानं तदनन्तरम् | प्. ९३४) असंस्कृतसुरापाणनिन्दा विप्राधिकारिता | तत्र तत्फलसंयुक्ता शापमुक्तिफलं ततः | रसासक्तौ जपफलं मानसो भाव एव च | धर्मः पञ्चमकारस्य निर्णयस्तदनन्तरम् | फलं पञ्चमकाराणां तैर्विनार्चननिन्दनम् | वैष्णवानां पञ्चतत्त्वं पञ्चतत्त्वस्य शोधनम् | स्वयम्भूकुसुमादीनां निरूपणमतः परम् | तदुत्पत्तिप्रकारश्च तेषां शोधनमेव च | कारणानां मन्त्रादिश्च पात्राणां स्थापनक्रमः | तर्पणस्य क्रमश्चैव तत्त्वमुद्रानिरूपणम् | तर्पणस्थाननिर्णीति र्भावभेदक्रमेण तु | तत्त्वशुद्धिरिति च्छेदद्वितीयस्य समापनम् || वीरपूजा तु तत्रादौ द्वाविंशत्यक्षरो मनुः | ऋष्यादिन्यसनं ध्यानं पीठपूजादिरेव च | ततो महाकालपूजा परनिन्दा ततः परम् | जपार्द्धेन फलप्राप्ति र्वीजञ्च सिद्धिकारणम् | ब्राह्मणादिविभेदेन पुरश्चर्याविधिस्ततः | मालासिद्धिक्रमादिश्च ततः कूलवटीक्रमः | अन्यान्यपि साधनानि प्रयोगत्रयं ततः परम् | सिद्धिर्न जायते चेत्तत्रोपायान्तरमेव च | दक्षिणादिसाधनञ्च द्वितीयायजनक्रमः | महामन्त्रप्रशंसा च मन्त्रशुद्ध्यादिरेव च | द्वितीयानामशतकं वीरहोमस्ततः परम् | द्रव्यदानफलञ्चैव सुराभेदफलं ततः | महाशङ्खप्रकरणमशोकादिनतिस्ततः | पर्वतादौ करणीयं नतिमन्त्रस्ततः परम् | श्मशानादिक्रियानिन्दा तेषामकरणे ततः | रसास्वादश्च वीराणां तत्फलं तदनन्तरम् | षट्कर्मसाधनञ्चैव वीराणां तदनन्तरम् | तृतीयपरिच्छेदस्य समापनमिदं स्मृतम् | कुलाचारः कुलीनस्य लक्षणं तदनन्तरम् | कुलाचारो द्विधा कौलकर्त्तव्यं तदनन्तरम् | कौलनिन्दानिषेधश्च गृहावधूतनिर्णयः | रात्रिकृत्यं कुलाचारः कौलप्रशंसनं ततः | अन्तर्यागप्रकरणं ज्ञानहोमविधिस्ततः | श्रीचक्रस्य क्रमो लोभपाननिन्दा ततः प्. ९३५) परम् | अज्ञानि पाननिन्दादिपूजके लक्षणादि च | आवश्यकं पञ्चशुद्धेर्मण्डलस्य च लक्षणम् | तर्पणे यन्निषिद्धञ्च विहितञ्च ततः परम् | द्रव्यशुद्ध्यादि च ततो गुरुपंक्तिक्रमस्ततः | कुलाचारक्रमश्चैव कुपात्रादिनिषेधनम् | अस्नातादेः कुलद्रव्यनिषेधस्तदनन्तरम् | उच्छिष्टस्पर्शनस्यैव प्रतिषेधस्ततः परम् | द्रव्यभाण्डोद्धारदोषश्चक्रविघ्नः सशान्तिकः | प्रौढोल्लासे ज्ञानिमत्तज्ञानचिह्नान्यतः परम् | चक्रे च परिहासादिवर्ज्जनं पात्रगोपनम् | पशुसङ्गेन कृत्यं यद् वाग्वादादिविवर्ज्जनम् | पशुशास्त्रवर्जनञ्चाश्रद्दधानस्य निन्दनम् | अकामो गुरुशक्त्यादावर्च्चनं देवताधिया | बलात्कारनिषेधश्चाममांसाद्यभिवन्दनम् | कुलशास्त्रादिनिन्दायाः प्रतिषेधस्ततः परम् | आनन्दरूपकथनमतिपानादिनिन्दनम् | सुखार्थपानदोषश्चानुकल्पस्तदनन्तरम् | धुस्तूरादिनिषेधश्च सर्वानुकल्प एव च | पारम्पर्यं विना पञ्चतत्त्वसेवनगर्हणम् | महापापं पशूनान्तु पञ्चतत्त्वनिषेवणे | चक्रानुष्ठाननिर्णीतिस्ततश्च पात्रवन्दनम् | पात्रमानञ्च चक्रेशशक्त्युच्छिष्टविचारणम् | शान्तिस्तोत्रं ततश्चक्रसमाप्तिक्रमनिर्णयः | आनन्दस्तोत्रकथनमानन्दोल्लासनिर्णयः | इति च्छेदचतुर्थस्य समाप्तिरभिधीयते || चक्रपञ्चककर्त्तव्यानुष्ठानञ्चक्रनाम च | चक्राधिकारी श्रीराजचक्रशक्त्यादिनिर्णयः | महाचक्रशक्तिसुधाशुद्ध्यादिनिर्णयस्ततः | देवचक्रस्य शक्त्यादिनिर्णयस्तदनन्तरम् | वीरचक्रे तथा शक्त्यादिनिर्णीतिस्ततः परम् | मात्रादिनिर्णयः सङ्केताज्ञवीरविवर्जनम् | पशुचक्रस्य शक्त्यादिनिर्णीतिस्तदनन्तरम् | कुलशक्तिः स्वीयशक्तिपूजनं प्रथमं ततः | परशक्त्यर्च्चनं सिद्धमन्त्रिणामेव केवलम् | शक्तिसाधनकर्मापि शक्त्याङ्गपीठनिर्णयः | तत्र तत्र जपफलं नानाशक्तिफलं ततः | शक्तेः पूजा च शीर्षादौ प्. ९३६) जपनिर्णय एव च | लिङ्गमन्त्रजपादिश्च होमः पूर्णाहुतिस्ततः | चक्रे च कामनासिद्धिकथनं तदनन्तरम् | लतासाधनमन्यच्च शययाशुद्धिस्ततः परम् | नवशक्तिविनिर्द्देशः कापालिक्यादिलक्षणम् | वेश्याविशेषनिर्द्देशो विपरीतजपे फलम् | वयःक्रमेण सा शक्तिः काल्यादिनामधारिणी | श्यामादिविद्यासिद्धिश्च शक्तिविशेषयोगतः | तत्प्रयोगश्चैव योनेर्ध्यानं स्तोत्रं ततः परम् | कवचं योनियोगे च जपस्य फलनिर्णयः | नवपुष्पविनिर्णीतिः शक्तिप्राशस्त्यनिश्चयः | शक्त्यर्पितफञ्चैव शक्त्यङ्गे देवतास्थितः | अन्यल्लतासाधनञ्चार्चनेऽन्यदारसङ्गमः | स्त्रीदेहे सर्वतीर्थानि योनिपूजाविधिस्ततः | योनिपूजाविधा योनिस्मरणादिफलं ततः | आवाहनादिरहितं योनिपूजनमेव च | शक्तिपादोदकादेश्च पानादिजफलं ततः | भगतत्त्वकुन्तलयोर्माहात्म्यं तदनन्तरम् | बन्धाश्चेति परिच्छेदपञ्चमस्य समापनम् | ज्ञेयमन्यद् यथास्थानं धीमद्भिर्ग्रन्थमध्यतः || भावसारमतियत्नचिन्तनै रामतोषणविनिर्मितं बुध ! | पश्य काण्डमिदमेव निर्गुणं मोक्तुमिच्छसि भवार्णवाद्यदि || अथ भावनिर्णयः || रुद्रजामले उत्तरखण्डे षष्ठपटले || पशुभावस्थितां नाथ ! देवतां शृणु विस्तरात् | दुर्गापूजां विष्णुपूजां शिवपूजाञ्च नित्यशः | अवश्यं हि यः करोति स पशुरुत्तमः स्मृतः | केवलं शिवपूजाञ्च यः करोति स साधकः | पशूनां मध्यतः श्रीमान् शिवया सह चोत्तमः | केवलं वैष्णवो धीरः पशूनां मध्यमः स्मृतः | भूतानां देवतानाञ्च सेवां कुर्वन्ति सर्वदा | पशूनां मध्यमाः प्रोक्ता नरकस्था न संशयः | त्वत्सेवां मम सेवाञ्च ब्रह्मविष्ण्वादिसेवनम् | कृत्वान्यसर्वभूतानां नायिकानां प्. ९३७) महाप्रभो ! | यक्षिणीनां भूतिनीनां ततः सेवां शुभप्रदाम् | यः पशुर्ब्रह्मकृष्णादिसेवाञ्च कुरुते सदा | तथा श्रीतारकब्रह्मसेवां ये वा नरोत्तमाः | तेषामसाध्या भूतादिदेवता सर्वकामहा | वर्ज्जयेत् पशुमार्गेण विष्णुपूजापरो जनः | द्वितीयपटले || नित्यं श्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् | देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् | गुरोराज्ञापालनञ्च देवतानित्यपूजनम् | पशुभावस्थितो मर्त्त्यो महासिद्धिं लभेद्ध्रुवम् || षष्ठपटले || पुनर्भावं पशोरेव शृणु सादरपूर्वकम् | अकस्मात् सिद्धिमाप्नोति पशुर्नारायणोपमः | वैकुण्ठनगरे याति चतुर्भुजकलेवरः | शङ्कचक्रगदापद्महस्तो गरुडवाहनः | महाधर्मस्वरूपोऽसौ महाविद्याप्रसादतः | पशुभावं महाभावं भावानां सिद्धिदं परम् | आदौ भावं पशोः कृत्वा पश्चादावश्यकं चरेत् | वीरभावं महाभावं सर्वभावोत्तमोत्तमम् | तत्पश्चादतिसौन्दर्यं दिव्यभावं महाफलम् || इति भावाः || भावफलमपि तत्रैव || फलाकाङ्क्षी मोक्षगामी सर्वभूतहिते रतः | विद्याकाङ्क्षी धनाकाङ्क्षी रत्नाकाङ्क्षी च यो नरः | कुर्याद्भावत्रयं दिव्यं भावसाधनमुत्तमम् | भावेन लभते राज्यं धनं रत्नं महाफलम् | वाराणस्यां कोटिलिङ्गपूजनेन च यत् फलम् | तत् फलं लभते मर्त्त्यः क्षणादेव न संशयः || इति भावफलम् || भावविशेषफलमपि तत्रैव || आदौ दशमदण्डेन पशुभावमथापि वा | मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् | सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् | अथवा पशुभावेन यजेदिष्टादिदेवताम् | जन्मावधि जपेन्मन्त्री महासिद्धिमवाप्नुयात् | पीठब्रह्मणमात्रेण महाषोढाश्रमेण च | पशुभाव स्थितो मन्त्री प्. ९३८) सिद्धिमेकामवाप्नुयात् | यदि पूर्वपरस्थाञ्च महाकौलिकदेवताम् | कुलमार्गस्थितो मन्त्री सिद्धिमाप्नोति निश्चितम् | यदि विद्याः प्रसीदन्ति वीरभावं तदा भवेत् | वीरभावप्रसादेन दिव्यभावमवाप्नुयात् | दिव्यभावं वीरभावं ये गृह्णन्ति नरोत्तमाः | वाञ्छाकल्पद्रुमलतापतयस्ते न संशयः | आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः | भूत्वा भ्रामन्महापीठं साक्षान्मुक्तो भवेद् यतिः | किमन्येन पलेनापि यदि भावादिकं भवेत् | भावग्रहणमात्रेण मम ज्ञानी भवेन्नरः | वाक्यसिद्धिर्भवेत् क्षिप्रं वाणी हृदयगामिनी | नारायणं प्रविहाय लक्ष्मीस्तिष्ठति मन्दिरे | मम पूर्णोत्तमा दृष्टिस्तस्य देहे न संशयः | अवश्यं सिद्धिमाप्नोति सत्यं सत्यं सदाशिव ! || तथा | भावस्तु त्रिविधो देव ! दिव्यवीरपशुक्रमात् | गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता | दिव्यभावो महादेव ! श्रेयान् स सर्वसिद्धिदः | द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः | बहुजापात्तथा होमात् कायक्लेशादिविस्तरैः | न भावेन महादेव ! मन्त्रतन्त्राः फलप्रदाः || तथा | प्रथमं दिव्यभावन्तु कौलिके शृणु यत्नतः | सर्वदेवार्चितां विद्यां तेजःपुञ्जप्रपूरिताम् | तेजोमयीं जगत् सर्वां विभाव्य मूर्त्तिकल्पनाम् || एकादशपटले || त्रिविधं दिव्यभावञ्च वेदागमविवेकजम् | वेदार्थमधमं प्रोक्तं मध्यमञ्चागमोद्भवम् | उत्तमं सफलं प्रोक्तं विवेकोल्लाससम्भवम् | तत्रैव त्रिविधं भावं दिव्यवीरपशुक्रमम् | दिव्यवीरैकजं प्रोक्तं सर्वसिद्धिप्रदायकम् | उत्तमं तद्विजानीयादानन्दरससागरम् | मध्यमञ्चागमोल्लासं वीरभावं क्रियान्वितम् | वेदोद्भवं फलार्थञ्च पशुभावं हि चाधमम् | सर्वनिन्दासमाव्याप्तं भावानामधमं पशोः | उत्तमे उत्तमं ज्ञानं भावसिद्धिप्रदं नृणाम् | मध्यमे मधुमत्याश्च मत्कुलागमसम्भवम् | अकालमृत्युहरणं प्. ९३९) भावानामतिदुर्लभम् | वीरभावं विना नाथ ! न सिध्यति कदाचन | अधमे अधमं व्याख्यानिन्दार्थवाचकं सदा | यदा निन्दां न करोति तदा तत्फलमाप्नुयात् | पशुभावेऽपि सिद्धिः स्याद्यदि वेदं सदाभ्यसेत् | वेदार्थचिन्तनं नित्यं वेदपाठध्वनिप्रियम् | सर्वनिन्दाविरहितं हिंसालस्यविवर्जितम् | लोभमोहकामक्रोधमदमात्सर्य वर्जितम् | यदि भावस्थितो मन्त्री पशुभावोऽपि सिद्धिभाक् | पशुभावं महाभावं ये जानन्ति महीतले | किमसाध्यं महादेव ! श्रमाभ्यासेन यान्ति तत् | श्रमाधीनं जगत् सर्वं शर्माधीनाश्च देवताः | श्रमाधीनं जगत् सर्वं श्रमाधीनं परं तपः | श्रमाधीनं कुलाचारं पशुभावोपलक्षणम् | वेदार्थज्ञानमात्रेण पशुभावं कुलप्रियम् | स्मृत्यागमपुराणाणि वेदार्थविहितानि च | भावाश्रमप्रकारमाह तत्रैव || अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा तु बुद्धिमान् | पललानीव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् | ज्ञानी भूत्वा भावसारमाश्रयेत् साधकोत्तमः वेदे वेदक्रिया कार्या मदुक्तवचनाद्यतः | पशूनां श्रमदाहानामिति लक्षणमीरितम् | आगमार्थक्रिया कार्या सदा मत्कुलचेष्टया | वीराणामुद्धतानाञ्च मच्छरीरानुगामिनाम् | मच्चेष्टाकुलतत्त्वानामिति लक्षणमीरितम् | विवेकसूत्रसंज्ञानां क्रियासु दृढचेतसाम् | सर्वत्र समभावानां भावमात्रं हि साधनम् | सर्वत्र मत्पदाम्भोजसम्भवं हि चराचरम् | दृष्ट्वा यत् कुरुते कर्म चातुलं फलसिद्धिदम् | अखण्डज्ञानचित्तानामिति भावं विवेकिनाम् | निर्मलानन्ददिव्यानामिति लक्षणमीरितम् | दिव्यन्तु त्रिविधं भावं यो जानाति महीतले | न नश्यति महावीरः कदाचित् साधकोत्तमः | क्रमेण दिव्यभावादीनाश्रित्य साधयेद् यदि | दिव्यभावे महासिद्धिं प्राप्नोति साधकोत्तमः | प्. ९४०) दिव्यभावं विना नाथ ! मत्पदाम्भोजदर्शनम् | य इच्छति महादेव ! स मूढः साधकः कथम् | पशुभावं हि प्रथमे द्वितीये वीरभावकम् | तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् | तत्प्रकारं शृणु शिव ! त्रैलोक्यपरिपालन ! | भावत्रयविशेषज्ञः षडाधारस्य भेदिनः | पञ्चतत्त्वार्थभावज्ञो दिव्याचाररतः सदा | स एव भवति श्रीमान् साध्यानामादिपारगः | शिववद्विहरेल्लोके अष्टैश्वर्यसमन्वितः | सर्वत्र शुचिभावेन आनन्दघनसाधनम् | जापनं धारणं वापि चित्तमायाति यत्नतः | एकान्ते निर्जने देशे सिद्धो भवति निश्चितम् | तत्कालं वीजभावार्थं भावमात्रं हि साधनम् | भावेन लभ्यते सिद्धिर्वीरादन्यत्र कुत्रचित् | रात्रौ सन्ध्यादि सम्पूज्य ताम्बुलपूरिताननः | विजयानन्दसम्पूर्णो जीवात्मपरमात्मनोः | ऐक्यं चित्ते समादाय आनन्दोद्रेकसम्भ्रमः | यो जपेत् सकलां रात्रिं गतभीर्निर्जने गृहे | स भवेत् कालिकादासो दिव्यानामुत्तमोत्तमः | एवं भावत्रयं ज्ञात्वा यः कर्म साधयेत्ततः | अष्टैश्वर्ययुतो भूत्वा सर्वज्ञो भवति ध्रुवम् || कुब्जिकातन्त्रे सप्तमपटले च | भावश्च त्रिविधो देवि ! दिव्यवीरपशुक्रमात् | विश्वञ्च देवतारूपं भावयेत् सुरसुन्दरि ! | स्त्रीमयञ्च जगत् सर्वं पुरुषं शिवरूपिणम् | अभेदे चिन्तयेद् यस्तु स एव देवतात्मकः | देवतात्मको देवतास्वभाव इत्यर्थः | सर्वत्राभेदचिन्तनेन शिवशक्तिमयत्वमखिलस्येत्यायातञ्चेत्तदा स्नानादिकं न कर्त्तव्यमिति शङ्कानिरासायोक्तं तत्रैव यथा | नित्यस्नानं नित्यदानं त्रिसन्ध्यञ्च जपार्चनम् निर्मलं वसनं देवि ! परिधानं समाचरेत् | वेदशास्त्रे दृढज्ञानं गुरौ देवे तथैव च | मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा | बलिवस्यं तथा श्राद्धं नित्यकार्यं शुचिस्मिते ! | शत्रुं मित्रसमं देवि ! चिन्तयेत्तु महेश्वरि ! | अन्न्ञ्चैव महेशानि ! प्. ९४१) सर्वेषां परिवर्जयेत् | गुरोरन्नं महेशानि ! भोक्तव्यं सर्वसिद्धये | कदर्यञ्च महेशानि ! निष्ठुरं परिवर्जयेत् | देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत् | सत्यञ्च कथयेद्देवि ! न मिथ्या च कदाचन | केवलं दिव्यभावेन पूजयेत् परमेश्वरीम् | गुरोराराधनं देवि ! प्रत्यहं चिन्तयेत् सुधीः | सर्वञ्च देवतारूपं परमेष्ठिस्वरूपकम् | एकाग्रामे स्थितो नित्यं त्रिसन्ध्यं पूजयेद्गुरुम् | गुरुतुल्यं महेशानि ! नमस्कुर्याद्वरानने ! | स्त्रीणां पादतलं दृष्ट्वा गुरुवद्भावयेत् सदा | श्रीखण्डपङ्कं रुधिरं भूषितं सुमनोहरम् | शरीरं कारयेद्देवि ! गन्धर्वदेवमुत्तमम् | त्रिपुण्ड्रं भस्मना वापि रक्तचन्दनकेन वा | रुद्राक्षभूषणं देवि ! सर्वाङ्गे च महेश्वरि ! | केवलं भैरवो भूत्वा यजेद्देवीं सनातनीम् | प्रत्यहञ्च बलिं दद्याद् देवताभावसिद्धये | समयाञ्च गृहीत्वा तु पूजादौ च महेश्वरि ! | निशीथे पूजनञ्चैव कर्त्तव्यञ्च महेश्वरि ! | कुलवृक्षं तथा दृष्ट्वा कर्त्तव्यञ्च वरानने | प्रणामं वन्दनञ्चैव प्रत्यहञ्च महेश्वरि ! | रात्रौ चैव यजेद्देवीं न दिवापि कदाचन | रात्रौ ताम्बूलपूरास्यो जपेन्मन्त्रं महेश्वरि ! | सर्वञ्चैव महादेवि ! परदेव्यै समर्पयेत् || पशुभावकर्त्तव्याकर्त्तव्यगर्भतद्भावनिन्दामाह तत्रैव || पशुभावरता ये च केवलं पशुरूपिणः | रात्रौ यन्त्रञ्च मनत्रञ्च न स्पृशेन्न जपेत् क्वचित् | संशयो बलिदाने च तन्त्रे च संशयः सदा | मन्त्रे चाक्षरबुद्धिश्च अविश्वासो गुरौ सदा | प्रतिमासु शिलाबुद्धिर्भेदको दैवते पुनः | निरामिषेण देवेशि ! देवतायाः प्रपूजनम् | अज्ञानेन सदा स्नानं प्रत्यहं देवताडनम् | सर्वेषाञ्चैव निन्दान्तु यः कुर्याच्च महेश्वरि ! | स एव पशुभावेन अधमः परिकीर्त्तितः || नित्यातन्त्रे प्रथमपटलेऽपि || रात्रौ नैव यजेद्देवीं सन्ध्यायां वापराह्णके | ऋतुकालं विना देवि ! रमणं परिवर्जयेत् | मांसादिकं महेशानि | त्यजेत् प्. ९४२) पञ्चसु पर्वसु | यदन्यद्वेदविहितं कुर्यान्नियमतत्परः || इति पशुभावनिन्दा || दिव्यवीरयोरुत्तमत्वमपि तत्रैव || उत्तमो दिव्यभावश्च वीरभावश्च मध्यमः | अधमः पशुभावश्च देवि ! सत्यं न संशयः | पशुभावे स्तिता मन्त्राः केवलं वर्णरूपिणः | कर्त्तव्यञ्च महेशानि ! देवताभावबोधनम् | तस्मात् खलु प्रयत्नेन वीरभावेन साधयेत् | दृष्ट्वा कुलस्त्रियं देवि ! कुलवृक्षं विशेषतः | कुलगेहं तथा देवि ! नमस्कुर्याद्वरानने ! | कुलस्त्रियं महेशानि ! तन्त्रमन्त्रविशारदाम् | दूतीं यागरताञ्चैव वेश्यां वा पुंश्चलीं तथा | बृद्धां वा युवतीं वापि नमस्कुर्याद्वरानने ! || पिच्छिलातन्त्रे दशमपटले | दिव्यवीरौ महाभावावधमः पशुभावकः | वैष्णवः पशुभावेन पूजयेत् परमेश्वरम् | शक्तिमन्त्रे वरारोहे ! पशुभावो भयानकः | दिव्यैर्वीरैर्महेशानि ! जायते सिद्धिरुत्तमा | दिव्ये वीरे न भेदोऽस्ति भेदो वीरो महोद्धतः | दिव्यवीरौ प्रवक्ष्यामि सर्वभावोत्तमौ मतौ | विना शक्तिं न पूजास्ति मत्स्यमांसं विना प्रिये ! | मुद्राञ्च मैथुनञ्चापि विना नैव प्रपूजयेत् | स्त्रीभगं पुजनाधारः स्वर्णरूप्यात्मकः कुशः | अभावे सर्वद्रव्याणामनुकल्पः कलौ युगे | अथवा परमेशानि ! मानसं सर्वमाचरेत् | स्नानन्तु मानसं प्रोक्तं वैदिको मानसः सदा | यत्र भुक्त्वा महापूजा मानसं भोजनन्तु तत् | स्वकीयां परकीयां वा मानसन्तु रमेत् स्त्रियम् | मानसं मद्यमांसादि स्वीकुर्यात् साधकोत्तमः | स्वयम्भूकुसुमं तद्वन्मानसं समुपाचरेत् | मानसं भगरोमादि मानसं भगपूजनम् | सर्वन्तु मानसं कुर्यात्तेन सिध्यति साधकः | न कलौ प्रकृताचारः संशयात्मनि नैव सः | मानसेनैव भावेन सर्वसिद्धिमुपालभेत् || निगमकल्पद्रुमे द्वितीयपटले || प्. ९४३) पशुनाञ्चैव वीराणां दिव्यानां परमेश्वर ! | आरम्भश्च समाप्तिश्च तेषाञ्चैव पृथक् पृठक् | पशुभावसमाप्तिश्च वीरभावावरब्धकः | दिव्यावरब्धको वीरभावनाशक एव च | यथा बाल्यं यौवनञ्च वृद्धभावः क्रमात् प्रियम् | यथा पुष्पं फलञ्चैव वीजञ्चैव यथाक्रमम् | यथा दुग्धं नवनीतं घृतञ्चेति महेश्वर ! | यथा सङ्कल्पकार्यञ्च दक्षिणा चेति भरव ! | तथा भावत्रयं ज्ञेयमारम्भारम्भजन्मकम् ! अज्ञानप्रभवं सर्वं जगत् स्थावरजङ्गमम् | अज्ञानरज्जुभिर्बद्धः सृजामीह पुनः पुनः | अज्ञानञ्च क्रियामूलं यावत्तत्त्वं न विन्दति | तत्त्वे समुद्गते किञ्चित् क्रियायां नास्ति वासना | वासनारहितो यस्तु ह्यभिषेकः प्रपूर्वकः | तस्यापि कारणं कार्यं शृणु मद्वाक्यसम्भवम् | अत एव महेशानि ! वीराणां कारणं पशुः | दिव्यानां वीरभावश्च तस्मात् किञ्चिन्न विद्यते | मद्वाक्यं त्यजतः कोऽपि यदि शुद्धिं न चाचरेत् | कार्यं न विद्यते तस्य यथेष्टकुलभागिनः | अत एव वामकेश्वरतन्त्रे एकपञ्चाशत्पटले || जन्ममात्रं पशुभावं वर्षषोडशकावधि | ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् | द्वितीयांशे वीरभावस्तृतीयो दिव्यभावकः | एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ! | ऐक्यज्ञानात् कुलाचारो येन देवमयो भवेत् | भावो हि मानसो धर्मो मनसैव सदाभ्यसेत् | आश्रमिणो भावग्रहणस्य प्रागुक्तत्वेनाश्रमज्ञानाकाङ्क्षायामाश्रमा निरूप्यन्ते | तत्रापि ब्रह्मचर्यस्य प्रथमोपस्थितत्वात् तदेवादौ निरूप्यते || निर्वाणतन्त्रे चतुर्दशपटले | यथा | ब्रह्मार्च्चनं प्रवक्ष्यामि शृणु देवि ! समाहिता | यस्याचरणमात्रेण नरो नारायणो भवेत् | गैरिकं वसनं कुर्याद् देवताध्यानतत्परः | फलमूलाहाररतो दुग्धं गव्यं समाहरेत् | शाल्युद्भवं न गृह्णियात् शूद्रानीतं तथा जलम् | ऋतुकालं विना नैव प्. ९४४) स्वकान्तागमनं चरेत् | गृहस्थोऽपि महेशानि ! ब्रह्मचारी सदा गुरुः | उदासीनः कदाचिद्वै गुरुकर्माधिपो भवेत् | तस्य शिष्यस्य कल्याणं कदाचिन्नास्ति चण्डिके ! | नखलोमादिकं देवि ! न त्याज्यं ब्रह्मचारिणा | सदैव तु सदा भावं सदैव ध्यानतत्परः | त्रिशूलं धारयेच्चैकं त्रिशिखां वापि धारयेत् | ताम्रयुक्तञ्च रुद्राक्षं कर्णयुग्मे निवेशयेत् || ताम्रधारणस्य फलमुक्तम् योगसारे द्वितीयपरिच्छेदे || बाहौ च धारणात्ताम्रं ब्रह्महत्यां व्यपोहति | हस्तयोर्धारणादेव सर्वतीर्थफलं लभेत् | कर्णयोर्धारणात्ताम्रं कोटितीर्थफलं लभेत् | कण्ठे च धारणात्ताम्रं योगी मोक्षमवाप्नुयात् || ताम्रमिति षष्ठ्यर्थे द्वितीया || ब्रह्मचर्यफलमुक्तं निर्वाणतन्त्रे चतुर्दशपटले || उद्देशे विद्यते देवि ! ब्रह्मचारी तपोधनः | तद्देशे च स्थिरा लक्ष्मीर्जायते नात्र संशयः || वस्तुतस्तु कौलस्य ब्रह्मचर्याश्रमो नास्ति || तदुक्तं महानिर्वाणतन्त्रे अष्टमोल्लासे || श्रीसदाशिव उवाच || चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते ! | आचारश्चापि वर्णानामाश्रमाणां पृथक् पृथक् | कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्त्तिताः | ब्राह्मणः क्षत्रियो वैष्यः शूद्रः सामान्य एव च ! एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि ! | तेषामाचारधर्मांश्च शृणुष्वाद्ये ! वदामि ते | पुरैव कथितं तावत् कलिसम्भवचेष्टितम् | तपःस्वाध्यायहीनानां नृणामल्पायुषामपि | क्लेशप्रयासशक्तानां कुतो देहपरिश्रमः | ब्रह्मचर्यासमो नास्ति वानप्रस्थोऽपि न प्रिये ! | गृहस्थो भिक्षुकश्चैव आश्रमौ द्वौ कलौ युगे | इति लिखितस्तु स आश्रमः क्वचित् क्वचित् व्यवहारदर्शनादिति || प्. ९४५) अथ गार्हस्थ्यम् || निर्वाणतन्त्रे || अथ वक्ष्ये गृहस्थस्य लक्षणं शृणु चण्डिके ! | पाठो होमश्चातिथीनां सेवनं देव पूजनम् | पितृश्राद्धं कुलाचारं तत्त्वज्ञानं समाचरेत् | निजकान्ता सदा पूज्या निजकान्ता हि देवता | मानसं पूजनं कुर्यात् मानसं जपमाचरेत् | मानसो हि महाधर्मो मानसं नास्ति पातकम् || महानिर्वाणतन्त्रे || गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे ! | नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् | विप्राणामितरेषाञ्च वर्णानामितरे कलौ | उभयत्राश्रमे देवि ! सर्वेषामधिकारिता | सर्वेषामेव संस्कारकर्माणि शैववर्त्मना | कर्मणामितरेषाञ्च कर्मलिङ्गं पृथक् पृथक् | जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् | गाहस्थ्यं प्रथमं कुर्याद् यथाविधि महेश्वरि ! | तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा | तदा सर्वं परित्यज्य सन्न्यासाश्रममाश्रयेत् | विद्यामुपार्जयेद्बाल्ये धनदारांश्च यौवने | प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत् सुधीः | मातरं पितरं वृद्धं भार्याञ्चैव पतिव्रताम् | शिशुञ्च तनयं हित्वा मावधूताश्रमं व्रजेत् | मातॄः पितृन् शिशून् दारान् स्वजनान् बान्धवानपि | यः प्रव्रजति हित्वैतान् स महापातकी भवेत् | मातृहा पितृहा स स्यात् स्त्रीबधी विप्रघातकः | असन्तर्प्य तु पित्रादीन् यो गच्छेद्भिक्षुकाश्रमे | ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् | शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे || श्रीदेव्युवाच || को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो ! | विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद || श्रीसदाशिव उवाच || गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् | तदेव कथयाम्यादौ शृणुकौलिनि ! तत्त्वतः | ब्रह्मनिष्ठो गृहस्थः स्याद् ब्रह्मज्ञानपरायणः | यद्यत् कर्म प्रकुर्वीत तद्ब्रह्मणि प्. ९४६) समर्पयेत् | न मिथ्याभाषणं नान्यत्र चासाध्यं समाचरेत् | देवतातिथिपूजासु गृहस्थो निरतो भवेत् || अतिथिर्यथा नारदपञ्चरात्रे षष्ठाध्याये || अतिथिः पूजितो येन विश्वञ्च तेन पूजितम् | अतिथिर्यस्य तुष्टो हि तस्य तुष्टो हरिः स्वयम् | अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः | तीर्थान्येनानि सर्वाणि पुण्यानि च ब्रतानि च | तपांसि यज्ञाः सत्यञ्च शीलं धर्मः सुकर्म च | अपूजितैरतिथिभिः सार्द्धं सर्वैः प्रयान्ति ते | अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते | पितरस्तस्य देवाश्च पुण्यधर्महुताशनाः | यशः प्रतिष्ठा लक्ष्मीश्चापीष्टदेवो गुरुस्तथा | निराशाः प्रतिगच्छन्ति त्यक्त्वा पापञ्च पूरुषम् | स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः | विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च | सत्यघ्नैश्च कृतघ्नैश्च कीर्त्तिघ्नैः पापिभिस्तथा | आलापवारकैश्चैव कन्याविक्रयिभिस्तथा | सोमापहारिभिश्चैव मिथ्यासाक्ष्यप्रदातृभिः | ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्य हारिभिः | वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः | शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः | श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातकैः | गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः | विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च | अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः | पितृमातृघातिभिश्च शरणागतघातिभिः | ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः | तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः | मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् | सदा गृही निषेवेत सदा सर्वप्रयत्नतः | तुष्टायां मातरि शिवे ! तुष्टे पितरि पार्वति ! | तव प्रीति र्भवेद्देवि ! परं ब्रह्म प्रसीदति | त्वमाद्ये ! जगतां माता पिता ब्रह्म परात् परम् | युवयोः प्रीणनं यत् स्यात् तस्मात् किं गृहिणां तपः | आसनं भोजनं वस्त्रं पानं भजनमेव च | तत्तत् प्. ९४७) समयमाज्ञाय मात्रे पित्रे नियोजयेत् | श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् | पित्रो राज्ञानुसारी स्यात् स पुत्रः कुलपावनः | औद्धत्यं परिहासञ्च तद्वर्ज्यं बहुभाषणम् | पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् | मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः | विनाज्ञया नोपविशेत् संस्थितः पितृशासने | विद्याधनमदोन्मत्तो यः कुर्यात् पितृहेलनम् | स याति नरकं घोरं सर्वधर्मवहिष्कृतः | मातरं पितरं पुत्रदारानतिथिसोदरान् | हित्वा गृहीन भुञ्जीयात् प्राणैः कण्ठगतैरपि | वञ्चयित्वा गुरुन् बन्धून् यो भुङ्क्ते स्वोदरम्भरिः | इहैव लोके गर्ह्योऽसौ परत्र नारकी भवेत् | गृहस्थो गोपयेद्दारान् विद्यामभ्यासयेत् सुतान् | गोपयेत् स्वजनान् बन्दूनेष धर्मः सनातनः | जनन्या वर्द्धिता देहो जनकेन प्रवर्द्धितः | स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् | एषामर्थे महेशानि ! कृत्वा कष्टशतान्यपि | पीणयेत् सततं यस्तु धर्मो ह्येष सनातनः | स धन्यः पुरुषो लोके स कृती परमार्थवित् | ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः | न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा | न त्यजेद्घोरकष्टेऽपि यदि साध्वी पतिव्रता | स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् | दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् | विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया | अयुक्तभाषणञ्चैव स्त्रियै शौर्यं न दर्शयेत् | धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः | सततं तोषयेद्दारान्नाप्रियं क्वचिदाचरेत् | उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने | न पत्नीं प्रेषयेत् प्राज्ञः पुत्रमात्यविवर्जिताम् | यस्मिन् नरे महेशानि ! तुष्टा भार्या पतिव्रता | सर्वं धर्मं कृतं तेन भवति प्रिय एव सः | चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता | ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् | विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद् प्. ९४८) गृहकर्मसु | ततस्तान् तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् | कन्याप्येवं पालनीया शिक्षणीयातियत्नतः | देया वराय विदुषे धनरत्नसमन्विता | एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि | ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद्गृही | ततः स्वधर्मनिरतानेकग्रामनिवासिनः | अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् | यद्येवं नाचरेद्देवि ! गृहस्थो विभवे सति | पशुरेव स विज्ञेयः स पापी लोकगर्हितः | निद्रालस्यं देहयत्नं केशविन्यासमेव च | आसत्तिमशने वस्त्रे नातिरिक्तं समाचरेत् | युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः | स्वच्छो नम्रः शुचिर्द्दक्षो युक्तः स्यात् सर्वकर्मसु | शूरः शत्रौ विनीतः स्याद्बान्धवे गुरुसन्निधौ | जुगुप्सितान्न मन्येत् नावमन्येत मानिनः | सौहृदं व्यवहारांश्च प्रवृत्तिं प्रकृतं नृणाम् | सहवासेन तर्के च विदित्वा विश्वसेत्ततः | एष द्वेष्ट्युपरि क्षुद्रात् समयं वीक्ष्य बुद्धिमान् | प्रदर्शयेदात्मभावानैव धैर्यं विलङ्घयेत् | स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् | कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् | जुगुप्सितप्रवृत्तौ च लिखितेऽपि पराजयः | गुरुणा लघुना वापि यशस्वी न विवादयेत् | विद्याधनयशोधर्मान् यत्र मानमुपार्जयेत् | व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् | अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः | तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् | योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः | मितवाङ्मितहास्यः स्यान्मान्याग्रे तु विशेषतः | जितेन्द्रियः प्रसन्नात्मा सुचिन्तः स्याद्दृढव्रतः | अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विशोधयेत् | सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् | आत्मोत्कर्षं तथा निन्दां परेषां परिवर्जयेत् | जलाशयश्च वृक्षश्च विश्रामगृहमध्वनि | सेतुः प्रतिष्ठितो येन तेत लोकत्रयं जितम् | प्. ९४९) सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृज्जनाः | गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् | सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा | कामक्रोधौ यस्य वश्यौ तेन लोकत्रयं जितम् | शौचन्तु द्विविधं देवि ! वाह्माभ्यन्तरभेदतः | ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् | अद्भिर्वा भस्मना वापि मलानामपकर्षणम् | देहशुद्धिर्भवेद्येन वहिःशौचं तदुच्यते | भस्मात्र याज्ञिकं श्रेष्ठं मृत्स्नापि मलवर्जिता | निदान्ते मैथुनस्यान्ते त्यागे च मलमूत्रयोः | भोजनान्ते मले स्पृष्टे वहिःशौचं विधीयते | किन्त्वत्र बहुनोक्तेन शोचाशौचविधौ शिवे ! मनः पूतं भवेद्येन गृहस्थस्तु तदाचरेत् | सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् | उपासनादिभेदेन पूजां कुर्याद्यथाविधि || तथा | अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा | अष्टोत्तरसहस्रं वा शतं वा दशधापि वा | जपानां नियमो भद्रे ! सर्वत्राह्निककर्मणि | शूद्रसामन्यजातीनामधिकारोऽस्ति केवलम् | आगमोक्तविधौ देवि ! सर्वसिद्धिस्ततो भवेत् || निर्वाणतन्त्रे द्वितीयपटले || गृहस्थस्य दिव्यमूर्त्तिं चन्दनादि-विभूषिताम् | सर्वेषां पितृरूपोऽसौ गृहस्थः साधुरूपकः | सदा दानरतः श्रीमान् सदा यज्ञपरायणः | स्थापयेत् पञ्च तत्त्वानि गेहमध्ये प्रयत्नतः | तदैव सर्वसिद्धीशो भवत्येव न संशयः | यस्मिन्मन्त्रे विचारोऽपि सिद्धादिगणदूषणम् | तत्तत् सर्वं महेशानि ! गृहस्थस्य मुनिश्चितम् | सुविचार्य महामन्त्रं गृह्णीयात् साधकोत्तमः | एकाक्षरे तथा कूटे मालामन्त्रादिके तथा | विचारो नास्ति देवेशि ! स्वप्नलब्धे तथैव हि | तथापि च गृहस्थस्य सुविचार्यो महामनुः | दण्डिनो भूषणं नास्ति सर्वमन्त्रस्य दीक्षणे | प्. ९५०) गृहस्थाश्रममासाद्य तत्त्वज्ञानेषु यो रतः | स मुक्तः सर्वपापेभ्यः स तु साक्षान्महेश्वरः | अन्नदानेन यत् पुण्यं तोयदानेन यत् फलम् तत्तत्सर्वं गृहस्थस्य नान्यस्य सुरसुन्दरि ! || नित्यातन्त्रे अष्टमपटले || देव्युवाच || कथितं परमेशान ! कौलाचारस्य लक्षणम् | वर्त्तते तत्कथं नाथ ! गृहस्थेषु च राजसु | ईश्वर उवाच | सत्त्वं रजस्तम इति गुणत्रयविभेदतः | सर्वेषु वर्त्तते देवि ! कौलधर्मः सनातनः | सत्त्वं स्याद्भक्तियोगेन सर्वोत्पत्त्येककारणम् | अत एव महेशानि ! गृहस्थाः सात्त्विकामताः | रजः स्यात् कर्मयोगेन कर्मकर्त्ता महीपतिः | अत एव महेशानि ! राजा राजसिकः स्मृतः | तमोभावस्थितः शम्भुर्योगीशः परमेश्वरः | अत एव तमोभावमाश्रयेत् सङ्गवर्जितः | शक्तिचक्रं राजचक्रं वीरचक्रं महेश्वरि ! | अत एव प्रकर्त्तव्यं क्रमेण परमेश्वरि ! || कुब्जिकातन्त्रे सप्तमपटले || अशोकं विल्ववृक्षं च शिवां चैव सुरेश्वरि ! दृष्ट्वा प्रणामं कुर्याच्च सर्वकामार्थसिद्धये | उलूकं शङ्खचिल्लञ्च गृध्रं चैव सुरेश्वरि ! | नमस्कुर्यान्महाकालीं युद्धेषु जयमालभेत् | चतुष्पथं श्मशानञ्च नमस्कुर्याद्विशेषतः | तन्त्रज्ञं चावधूतञ्च नमस्कुर्याद्वरानने ! | उपासकं सदा दृष्ट्वा मधुरं भाषणं चरेत् | समयाञ्च विना देवि ! न सिद्धिः स्यात् कदाचन | तस्माच्चैव प्रयत्नेन गृह्णीयान्नात्र संशयः || अथ यत्याश्रमः || निर्वाणतन्त्रे त्रयोदशपटले || सर्वलक्षणसंयुक्तो ब्राह्मणो गमनं चरेत् | गत्वा च दण्डिनिकटे प्रणमेद्दण्डवद्भुवि | त्वमेव देवदेवेश ! त्वमेव त्राणकारकः | त्वमेव जगतां वस्ता पाहि मां शरणागतम् | वस्तेत्यत्रान्तर्भूतण्यर्थो विवक्षितो वस्ता वासयितेति यावत् | इति श्रुत्वा दण्डधारी पप्रच्छ सादराज्जनम् | कस्त्वं कस्य सुतस्त्वं हि केन वागमनं वद | श्रुत्वा तद्वचनं विप्रः प्. ९५१) प्रोवाचात्मनिवेदनम् | विप्रवंशे समुद्भूतो ह्यमुकोऽहं विवेकवान् | नास्ति मे तु पिता साक्षान्नास्ति मे स्त्रीसुतादिकम् | मृतौ च मातापितरौ मृता भ्रातादयः सुताः | पश्चात् स्वकान्तानाशे तु ह्यहमत्यन्ततापवान् | अत एव हि भोः स्वामिन् ! देहि मे परमाश्रमम् | एतेन पित्रादिषु तिष्ठत्सु यत्याश्रमो न भवतीति सूचितम् | तान् विहाय दण्डस्य धर्त्तुर्दोषकथनगर्भदण्डिवचनं तत्रैव || सत्यं कुरु द्विजश्रेष्ठ ! यदुक्तं वै ममान्तिके | मिथ्याभाषणदोषेण ब्रह्मवर्त्म विवर्जितम् | भवत्येव न सन्देहो द्विज ! मत्पुरतो वद | स्थितायां यौवनयुतकान्तायां परमेश्वरि ! | सर्वं हि विफलं तस्य यः कुर्याद्दण्डधारणम् | विद्येते पितरौ देवि ! यः कुर्याद्दण्डधारणम् | सन्न्यासो विफलस्तस्य रौरवाख्यं गमिष्यति | विद्यते बालभावेन यस्य कान्ता सुतस्तथा | सन्न्यासधारणं तस्य वृथा हि परमेश्वरि ! | स गुरुश्चापि शिष्यश्च रौरवाख्यं प्रपद्यते | इत्यादि दृढवाक्यञ्च श्रुत्वा दण्डी जितेन्द्रियः | सन्न्यासदानं तस्यैव दद्यान्मुक्तिञ्च शाश्वतीम् || इत्यादिना दोषदर्शनेन पुनः पित्रादिमरणनिश्चायकं दृढवाक्यं श्रुत्वा तस्य सन्न्यासदानमर्पयेदित्यन्वयः || तत्प्रकारमाह | आदौ दशाक्षरं मन्त्रं प्रथमे श्रावयेद्गुरुः || श्रीशङ्कर उवाच || शृणु देवि ! प्रवक्ष्यामि मन्त्रं दशाक्षरं परम् | यस्य श्रवणमात्रेण मूढोऽपि विष्णुरूपधृक् | पुंमन्त्रोऽपि च देवेशि ! शक्तिमन्त्रं जपेद् यदि | अज्ञात्वा तं महामन्त्रं स भवेद्ब्रह्मराक्षसः | अज्ञात्वा तं महामन्त्रं तत्त्वज्ञानी भवेद् यदि | तथापि नरकं गच्छेदिति वेदस्य सम्मतम् | शृणु देवि ! प्रवक्ष्यामि दर्शनं मन्त्रमुत्तमम् | मयावीजं बधूवीजं प्. ९५२) लक्ष्मीः काली च पाशकम् | गगनं पक्षिवीजञ्च वह्निकान्ता ततः प्रिये ! | इति ते कथितं चण्डि ! दशाक्षरमनुत्तमम् | यज्ज्ञानादमरत्वञ्च लभते नात्र संशयः | अस्य ग्रहणमात्रेण नरो नारायणो भवेत् | अस्य प्रसादमात्रेण दण्डी निर्वाणतां व्रजेत् | दण्डोपरि जपेदेतद्दशार्णं परमेश्वरि ! | अस्मान्मन्त्रान्महामन्त्रा जायन्ते नात्र संशयः | सर्वो देवसमाचारो दशार्णाज्जायते ध्रुवम् | महाविद्योपासकश्च दशार्णं न हि पश्यति | इह लोके दरिद्रश्च परे च ब्रह्मराक्षसः | तस्माद् यत्नेन देवेशि ! दशार्णं श्रावयेद्गुरुः | केवलं श्रवणं कुर्यान्न जपेत् साधकोत्तमः | श्रावयेद् यो दशार्णञ्च स नरो गुरुसत्तमः | मन्त्रदाता यदा देवि ! तवैव स गुरुः स्मृतः | दशार्णदाता यो देवि ! स एव परमो गुरुः | यथामरतरङ्गिण्या असमाः सकलापगाः | दशार्णस्य समो नास्ति मन्त्रस्य सुरपूजिते ! || तथा || अतः परम् प्रवक्ष्यामि यद्रूपं दण्डधारणम् | साधुरूपो गृहस्थश्च ब्राह्मणो ब्रह्मवादकः | सर्वमायासमात्यक्तः सर्वधर्मपरायणः | जितेन्द्रियो जितक्रोधः समत्वं सर्वजातिषु | पुत्रे रिपौ समत्वञ्च सन्ध्यायां पौष्टिके तथा | कायप्राणे न सम्बन्धो मृत्यरद्य युगान्तिके | ब्रह्मज्ञानं विना ज्ञानं यस्य चित्ते मनोरमम् | सन्न्यासधारणं कार्यं विप्राणां मुक्तिहेतवे | यो विप्रो धारयेद्दण्डं सैव नारायणः स्वयम् | चतुर्भुजाः प्रजायन्ते दण्डधारणमात्रतः | तत् श्रुत्वा च महारम्भगमनं कारयेत् | क्रोशं वा क्रोशयुग्मं वा वेगेन गमनञ्चरेत् | गुरुणा ह शिष्येण पृष्ठे पृष्ठे विधानतः | तिष्ठ तिष्ठ महाबाहो ! मां त्यक्त्वा नहि गच्छतु | शिष्यः परमहंसस्त्वं त्वत्समो नास्ति भूतले | क्षन्तव्यमपराधं मे त्वमेव विष्णुरूपधृक् | त्वमेव जगतां वन्द्यस्त्वमेव सर्वपूजितः | त्वमेव परमो हंसस्तिष्ठ प्. ९५३) तिष्ठेति मा व्रज | स शिष्यो दण्डिना देवि ! इति वाक्यं वदेद्यतः अतः स परमो हंसः पथि शेते प्रमोहितः | तस्यैव दर्शनार्थाय चान्तरीक्षे च देवताः | सस्त्रीकाः सपरीवाराश्चायान्ति दिग्विदिक्षु च | एतस्मिन् समये दण्डी सान्त्वयेच्छिष्यमुत्तमम् | फुत्कारं बहुशो दत्वा मन्त्रेणानेन सुव्रतः | फुत्कारैर्वायुवेगैश्च पुनः प्राणान् प्रयोजयेत् | जन्मान्तरञ्च तस्यैव तत्क्षणे जायते किल | जन्मान्तरं यमालोक्य संस्कारमाचरेद्गुरुः | दण्डान्तिके समानीय अन्नप्राशनमाचरेत् | अमुकस्त्वं समाभाष्य पुष्पं वह्नौ विनिक्षेपेत् | इति नाम्ना तु संस्थाप्य महासंस्कारमाचरेत् | ततोऽपि दण्डिना देवि ! शिष्याय ज्ञानहेतवे | शृणु शिष्य ! महाधीर ! मद्वाक्यं हृदये कुरु | जन्मान्तरन्तु तस्यैव प्राणाधिकं विकारयेत् | मृतदेहस्वरूपोऽयं शरीरोऽयं न संशयः | विरतो भव सर्वत्र तोषान्नाहारचेष्टया | ब्राह्मणेनैव यद्दत्तं तन्मात्रभोजनं कुरु | पञ्चतत्त्वं सदा सेव्यं गुप्तभावो जितेन्द्रियः | सदैव मानसीं पूजां सदा मानसतर्पणम् | त्रिसन्ध्यं मानसं योगं नाभिकुण्डे प्रयत्नतः | सदैव मानसं भोगं त्यागं कुरु प्रयत्नतः | षड्वर्गेषु जितो भूत्वा नरो नारायणः स्वयम् | भवत्येव न सन्देहो दण्डधारणमात्रतः | पितृवंशे सप्तदश मातृवंशे त्रयोदश | कान्तायाः सप्तमश्चैव लक्ष्मीनारायणो भवेत् | इति श्रुत्वा वचस्तस्य शिष्यश्चैवाब्रवीद्वचः | यदुक्तं मयि मुक्त्यर्थं तत्करोमि निरन्तरम् | पञ्चतत्त्वं सदा सेव्यं कस्माल्लाभो वदस्व मे | यत्रैव वर्त्तते दण्डी बहुशिष्यसमावृतः | तत्र गत्वा प्रयत्नेन बहुशिष्यं विचेष्टय | अथवा वीरमध्ये तु यत्नेन गमनं चर | तत्त्वज्ञानं गृहस्थस्य सन्निधाने व्रजेत् किल | सुदूरमपि गन्तव्यं यत्रास्ते कुलनायकः | भिक्षुचर्या न च स्वार्थं देवतायाः कृते पुनः | प्. ९५४) आचार्यपत्नीं दृष्ट्वा तु भिक्षां कुर्यात् समाहितः | हे मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् | एवमुक्त्वा ततो दण्डी महासंस्कारमाचरेत् | दण्डान्तिके समानीय होमयेद्विधिपूर्वकम् | ततो हुमेत् करं धृत्वा आज्यैरष्टाहुतीः पुनः || विपरीतक्रमेणैव कुर्यादङ्गविशोधनम् | ततः कुर्यात् प्रयत्नेन अन्तर्यज्ञोपवीतकम् | शिखां तस्य शिखां मन्ये पूगमध्ये विधारयेत् | मूलेन यज्ञसूत्रन्तु तस्मिन्नेव निवेशयेत् | घृतैर्मृत्तिकया पूगं विलिप्य शोधयेत्ततः | तत्पूगं मूलमन्त्रेण कुण्डमध्ये विनिक्षिपेत् | पूर्णाहुतिं ततो दद्यात् तत्पूगमानयेत् सुधीः | सयज्ञसूत्रं सशिखं तत्पूगं प्रेषयेत् प्रिये ! | मूलमन्त्रं जपेत्तत्र गजान्तकसहस्रकम् | ततश्चश्रावयेन्मन्त्रं कालिकायाश्च सुन्दरि ! | अथवा श्रावयेन्मन्त्रं ताराया दुर्लभं परम् | मूलमन्त्रं समुच्चार्य पूगभस्म प्रयत्नतः | भक्षणात् तत्क्षणे साक्षादन्तर्यज्ञोपवीतवान् | भवत्येव न सन्देहो नरो नारायणः स्वयम् | विल्वदण्डं समानीय वंशस्यैकं समानयेत् | विल्वदण्डे न्यसेन्न्यासान् कालिकायाः प्रयत्नतः | जीवन्यासं ततः कृत्वा दण्डे देवीं विचिन्तयेत् | विल्वे स्थितञ्च चैतन्यम् वंशदण्डे नियोजयेत् | इष्टदेवीस्वरूपोऽयं दण्डश्च परमेश्वरि ! | शिष्यस्य दक्षिणे हस्ते दण्डस्थापनमाचरेत् | कमण्डलुं समानीय वारुणं प्रजपेत् सुधीः | वारुणीं निक्षिपेत्तत्र ततो मूलमनुं जपेत् | अष्टोत्तरशतं जप्त्वा तस्य वामकरे न्यसेत् | गैरिकं कपिलं वस्त्रं यत्नेन परिधापयेत् | दण्डधारणमात्रेण नरो नारायणी भवेत् | अद्यावधि महामायां दण्डोपरि विभावय | कुरु पूजां महाकाल्या दण्डोपरि हृदा ततः | साक्षान्नारायणस्त्वं हि धर्माधर्मपरो भव | तव माता पिता स्वामी सर्वं दण्डान्तिके स्थितम् || इति परमाश्रमग्रहणम् || प्. ९५५) दण्डिनो भिक्षाचरणप्रकारस्तु तत्रैव || सुदूरं गमनं गेहे गृहस्थस्य द्विजस्य च | नारायणं समाभाष्य द्वारे तस्य व्रजेत् सुधीः | दण्डिगमनानन्तरं गृहस्थकर्त्तव्यमाह तत्रैव || इति श्रुत्वा गृहस्थश्च पुटाञ्जलिपरो भवेत् | द्वारे च दण्डिनं दृष्ट्वा प्रणमेद्ब्रह्मणो वरः | भिक्षां दद्यात् प्रयत्नेन मधु मांसं विना प्रिये ! | आदाय भिक्षां देवेशि ! चौरवद्गमनं चरेत् || दण्डिनोऽवस्थितिप्रकारोऽपि तत्रैव || गृहस्थस्यालये देवि ! रात्रिवासञ्च कारयेत् | तथा हि नगरं गत्वा त्रिरात्रं वसतिं चरेत् | तीर्थभूमिं ततो गत्वा सप्तरात्रं वसेत्ततः || दण्डिनं दृष्ट्वा ब्राह्मणस्य कर्त्तव्यमुक्तं तत्रैव || ब्राह्मणो दण्डिनं दृष्ट्वा प्रणमेद्विधिपूर्वकम् | तोयपूर्णञ्च देवेशि ! किं वा शून्यं कमण्डलुम् | दृष्टिमात्रेण तत्पात्रं पूर्णं कुर्याद्द्विजोत्तमः | कमण्डलौ जलदानफलमपि तत्रैव || कुशाग्रमाणं विन्दुञ्च यदि यद्यात् कमण्डलौ | समुद्रसप्तदानस्य फलं स लभते ध्रुवम् || जलदाननिन्दापि तत्रैव || दद्यान्न यदि मोहेन स भवेदापदाश्रयः | त्रिंशद्वर्षसहस्राणि स पुनर्विटपी भवेत् | इति ते कथितं चण्डि ! सन्न्यासधारणं परम् | न वक्तव्यं पशोरग्रे प्राणान्तेऽपि कदाचन | वस्तुतस्तु कलौ दण्डग्रहणं नास्ति || दीर्घकालं ब्रह्मचर्यं धारणञ्च कमण्डलोः | इत्यादिभिर्वचनैरुद्वाहतत्त्वादिधृतैर्निषिद्धत्वात् || महानिर्वाणतन्त्रे अष्टमोल्लासेऽपि || भिक्षुकेऽप्याश्रमे देवि ! वेदोक्तं दण्डधारणम् | कलौ नास्त्येव तत्त्वज्ञो यतस्तत् श्रौतसंस्कृतिः | शैवसंस्कारविधिनावधूताश्रमधारणम् | तदेव कथितं भद्रे ! सन्न्यासग्रहणं कलौ || नारदपञ्चरात्रे द्वितीयरात्रे च || कलौ च दण्डग्रहणं नैव निर्वाणकारणम् | परं वेदविरुद्धञ्च विपरीताय कल्प्यते || इत्यादिभिः प्. ९५६) प्रतिषिद्धत्वाच्च || यत्तु निर्वाणतन्त्रे चतुर्दशपटले || ब्राह्मणेन विनान्यत्र सन्न्यासो नास्ति चण्डिके ! | कुर्यान्मोहेन योऽन्यत्र स वै पापाश्रयो नरः | गुप्तभावेन देवेशि ! शृणु मत्प्राणवल्लभे ! | सन्न्यासिना सदा सेव्यं पञ्चतत्त्वं वरानने ! | द्वादशाब्दस्य मध्ये तु यदि मृत्युर्न जायते | दण्डं तोये विनिक्षिप्य भवेत् परमहंसकः | अवधूताचाररतो हंसः परमपूर्वकः | सैव चानन्दविख्यातो द्वादशाब्दे सरस्वती || इति वचनमपि कलीतरपरम् | सरस्वतीति दशानामावधूतमध्ये संज्ञाविशेषः तत्प्रमाणन्तु || तीर्थाश्रमवनारण्यगिरिपर्वतसागरः | सरस्वती भारती च पुरीति दश कीर्त्तिताः || इति || एषां लक्षणवृहच्छङ्करविजये || विद्यारण्यस्वामिधृतं यथा | त्रिवेणी सङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे | स्नायात्तत्त्वार्थभावेन तीर्थनामा स उच्यते || १ || आश्रमग्रहणे प्रौढ आशापाशविवर्जितः | यातायातविनिर्मुक्त एतदाश्रमलक्षणम् || २ || सुरम्ये निर्झरे देशे वने वासं करोति यः | आशापाशविनिर्मुक्तो वननामा स उच्यते || ३ || अरण्ये संस्थितो नित्यमानन्दनन्दने वने | त्यक्त्वा सर्वमिदं विश्वमानन्दलक्षणं किल || ४ || वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः | गम्भीरचलबुद्धिश्च गिरिनामा स उच्यते || ५ || वसेत् पर्वतमूलेषु प्रौढो यो ध्यानधारणात् | सारात्सारं विजानाति पर्वतः परिकीर्त्तितः || ६ || वसेत् सागरगम्भीरो वनरत्नपरिग्रहः | मर्यादाञ्च न लङ्घेत सागरः परिकीर्त्तितः || ७ || स्वरज्ञानवशो नित्यं स्वरवादी कवीश्वरः | संसारसागरे साराभिज्ञो यो हि सरस्वती || ८ || विद्याभरेण सम्पूर्णः सर्वभारं परित्यजेत् | दुःखभारं न जानाति भारती परिकीर्त्तितः || ९ || ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः | पदब्रह्मरतो नित्यं पुरीनामा स उच्यते || १० || केवलनिर्वाणतन्त्रदर्शिनस्त्वधुनापि प्. ९५७) तथाचरन्ति | अवधूततापि चतुर्थाश्रमिणामेव || तथा च योनितन्त्रे || चतुर्थाश्रमिणां मध्ये अवधूताश्रमो महान् | तत्राहं कुलयोगेन महादेवत्वमागतः || अथावधूताश्रमः | महानिर्वाणतन्त्रे अष्टमोल्लासे || श्रीसदाशिव उवाच || अवधूताश्रमो देवि ! कलौ सन्न्यास उच्यते | विधिना येन कर्त्तव्यं तत्सर्वं शृणु साम्प्रतम् | ब्रह्मज्ञाने समुत्पन्ने विरते सर्वकर्मणि | अध्यात्मविद्यानिपुणः सन्न्यासाश्रममाचरेत् | विहाय वृद्धौ पितरौ शिशुं भार्यां पतिव्रताम् | त्यक्त्वा समर्थान् बन्दूंश्च प्रव्रजन्नारकी भवेत् | सम्पाद्य गृहकर्माणि परितोष्यागमानपि | निर्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः | आहूय स्वजनान् बन्दून् ग्रामस्थान् प्रतिवासिनः | प्रीत्यानुमतिमन्विच्छेद्गृहाज्जिगमिषुर्नरः | तेषामनुज्ञामादाय प्रणम्य परदेवताम् | ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादि यत् | मुक्तः संसारपाशैर्यः परमानन्दवृंहितः | कुलावधूतं ब्रह्मज्ञं गत्वा सम्प्रार्थयेदिदम् | गृहाश्रमे परं ब्रह्मन् ! ममैतद् विगतं वयः | प्रसादं कुरु मे नाथ ! सन्न्यासग्रहणं प्रति | निवृत्तगृहकर्माणं विचार्य विधिवद्गुरुः | शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत् | ततः शिष्यः कृतस्नानो यतात्मा विहिताह्निकः | ऋणत्रयविमुक्त्यर्थं देवर्षींश्चार्चयेत् पितॄन् | देवा ब्रह्मा च विष्णुश्च रुद्रश्च सगणैः सह | ऋषयः सनकाद्याश्चात्र्याद्या देवर्षयस्तथा | अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि | पिता पितामहश्चैव प्रपितामह एव च | माता पितामही देवि ! तथैव प्रपितामही | मातामहादयोऽप्येवं मातामह्यादयोऽपि च | प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन् यजेत् | मातामहान् प्रतीच्यान्तु पूजयेन्न्यासकर्मणि | पूर्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् | देवादीन् क्रमतस्तत्राबाह्य पूजां समाचरेत् | प्. ९५८) समर्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक् पृथक् | पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम् | कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पितृदेवताः | तृप्यध्वं पितरो ! देवा ! देवर्षिमातृका ! गणाः ! | गुणातीतपदे यूयमनृणीकुरुताचिरात् | आनृण्यमर्थयित्वा तु प्रणम्य च पुनः पुनः | ऋणत्रयविनिर्मुक्तमात्मश्राद्धं प्रकल्पयेत् | पितामह्यात्मैव सर्वेषां तत्पिता प्रपितामहः | आत्मन्यात्मार्पणार्थाय कुर्यादात्मक्रियां सुधीः | उत्तराभिमुखो भूत्वा पूर्ववत् कल्पितासने | आवाह्यात्मपितॄन् देवि ! दद्यात् पिण्डं समर्चयेत् | प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथाक्रमात् | पिण्डार्थमास्तरेद्दर्भानुदग्रान् स्वस्वकर्मणि | समाप्य श्राधकर्माणि गुरुदर्शितवर्त्मना | मुमुक्षुश्चित्तशुद्ध्यर्थमिमंमन्त्रशतं जपेत् | ह्रीं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् | उपासनानुसारेण विद्यां मण्डलपूर्वकम् | संस्थाप्य कलसं तत्र गुरुः पूजां समारभेत् | ततस्तु परमं ब्रह्म ध्यात्वा शाम्भववर्त्मना | विधाय पूजां ब्रह्मज्ञो ब्रह्मस्थापनमाचरेत् | प्रागुक्तसंस्कृते वह्नौ सङ्कल्पोक्ताहुतिं गुरुः | दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् | आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् | प्राणोऽपानः समानश्चोदानव्यानौ च वायवः | तत्र होमं ततः कुर्याद्देहामेध्यस्य मुक्तये | पृथिवी सलिलं वह्निर्वायुराकाशमेव च | गन्धो रसश्च रूपञ्च स्पर्शः शब्दो यथाक्रमात् | ततो वाक्पाणिपादाश्च पायूपस्थौ ततः परम् | श्रोत्रं त्वक् नयनं जिह्वा घ्राणबुद्धीन्द्रियाणि च | एतानि मे पदान्ते च शुध्यन्ति पदमुच्चरेत् | ह्रीं ज्योतिरहं विरजा विपाप्मा भूयासं द्विठ इत्यपि | चतुर्विंशतितत्त्वानि कर्माणि वैदिकानि च | हुत्वाग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः | प्. ९५९) विभाव्य मृतवत्कार्यं रहितं सर्वकर्मणा | स्मरन् तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत् | ऐं क्लीं हूं इति मन्त्रेण स्कन्धादुत्तार्य तत्त्ववित् | यज्ञसूत्रं करे धृत्वा पठित्वा व्याहृतित्रयम् | वह्निजायां समुच्चार्य घृताक्तमनले क्षिपेत् | हुत्वैवमुपवीतञ्च कामवीजं समुच्चरन् | छित्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत् | ब्रह्मपुत्त्रि ! शिखे ! त्वं हि बालरूपा सनातनी | दीयते पावके स्थानं गच्छदेवि ! नमोऽस्तु ते | कामं मायां कूर्चमन्त्रं वह्निजायामुदीरयेत् | शिखामाश्रित्य पितरो देवा देवर्षयस्तथा | सर्वाण्याश्रयकर्माणि निवसन्ति शिखोपरि | ततः सन्तर्प्य ताः सर्वा देवर्षिपितृदेवताः | शिखासूत्रपरित्यागाद्देही ब्रह्ममयो भवेत् | यज्ञसूत्रशिखात्यागात् सन्न्यासः स्याद्द्विजन्मनाम् | शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया | ततो मुक्तशिखासूत्रः प्रणमेद्दण्डवद्गुरुम् | गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वददिमम् | तत्त्वमसि महाप्राज्ञ ! हंसः सोऽहं विभावय | निर्ममो निरहङ्कारः स्वभावेन सुखं चर | ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् | आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुम् | नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नम्ः | त्वमेव त्वदहमेव विश्वरूप ! नमोऽस्तु ते | ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् | स्वमन्त्रेण शिखाच्छेदात् सन्न्यासग्रहणं भवेत् | ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः | स्वेच्छाचारपराणान्तु प्रत्यवायो न विद्यते | ततो निर्द्द्वन्द्वरूपोऽसौ निष्कामः स्थिरमानसः | निर्ममो विहरेच्छिष्यः साक्षाद्ब्रह्ममयो भुवि | मुक्तो विधिनिषेधाभ्यां निर्योगक्षेममात्मवित् | सुखदुःखसमो धीरो जितात्मा विगतस्पृहः | स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निःस्पृहः | सदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः | नोद्वेजकः प्. ९६०) स्याज्जीवानां सदा प्राणिहिते रतः | विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः | शोकद्वेषविमुक्तः स्याच्छत्रौ मित्रे समो भवेत् | शीतवातातपसहः समो मानापमानयोः | समः शुभाशुभे तुष्टो यदृच्छालाभवस्तुना | निस्त्रैगुण्यो निर्विकल्पो निर्लोभः स्यात्त्वसञ्चयी | यथा सत्यमुपाश्रित्य मृषा विश्वं प्रतिष्ठति | आत्माश्रितस्तथा देहो जानन्नैवं सुखी भवेत् | इन्द्रियाण्येव कुर्वन्ति स्वं स्वं कर्म पृथक् पृथक् | आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग्भवेत् | धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया | रतस्तागमसूयाञ्च सन्न्यासौ परिवर्जयेत् | सर्वत्र समदृष्टिः स्यात् कीटे दैवे तथा नरे | सर्वं ब्रह्मेति जानीयात् परिब्राट् सर्वकर्मसु | विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम् | देशं कालं तथा चान्नमश्नीयादविचारयन् | अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः | अवधूतो नयेत् कालं स्वेच्छाचारपरायणः | सन्न्यासिनां मृतं कायं दाहयेन्न कदाचन | सम्पूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् | अप्राप्तयोगमर्त्त्यानां सदा कामाभिलाषिणाम् | प्रभावाज्जायते देवि ! प्रवृत्तिः कर्मसङ्कुले | अत्रापि ते सानुरक्ता ध्यानार्चा जपसाधने | श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयः | अतः कर्मविधानानि प्रोक्तानि चित्तशुद्धये | नामरूपं बहुविधं तदर्थं कल्पितं मया | ब्रह्मज्ञानं विना देवि ! कर्मसन्न्यसनं विना | कुर्वन् कल्पशतं कर्म न भवेन्मुक्तिभाजनः | कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः | साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् | यतेर्दर्शनमात्रेण विमुक्तः सर्वपातकात् | तीर्थव्रततपोदानसर्वयज्ञफलं लभेत् || इत्यवधूताश्रमः || तद्भेदास्तु चतुर्दशोल्लासे || देव्यु वाच || द्विविधावाश्रमौ प्रोक्तौ गार्हस्थो भैक्षुकस्तथा | प्. ९६१) किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः | एतद्वेदितुगिच्छामि तत्त्वतः कथय प्रभो ! | चतुर्विधावधूतानां लक्षणं सविशेषतः || श्रीसदाशिव उवाच || ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः | गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ! | पूर्णाभिषेकविधिना संस्कृता ये च मानवाः | शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्चिते ! | ब्रह्मावधूताः शैवाश्च साग्रिमाचारवर्त्तिनः | विदध्यः सर्वकर्माणि शश्वदीरितवर्त्मना | विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना | निषिद्धमन्नं तोयञ्च न गृह्णीयुः कदाचन | ब्रह्मावधूतकौलानां कौलानामभिषेकिणाम् | प्रागेव कथितं धर्म्ममाचाराश्च वरानने ! | स्नानं सन्न्यसनं पानं दानञ्च दाररक्षणम् | सर्वमागममार्गेण शैवब्रह्मावधूतयोः || निर्वाणतन्त्रे चतुर्दशपटले || श्रीशङ्कर उवाच || शृणु देवि ! प्रवक्ष्यामि अवधूतो यथा भवेत् | वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः | यद्रूपं कथितं सर्वं सन्न्यासधारणं परम् | तद्रूपसर्वकर्माणि प्रकुर्याद्वीरवल्लभः | दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा | तथा चैव प्रकुर्यात्तु वीरस्य मुण्डनं प्रिये ! | असंस्कृतं केशजालमुक्तालम्बिकचोच्चयम् | अस्थिमालाविभूषा वा रुद्राक्षानपि धारयेत् | दिगम्बरो वा वीरेन्द्रश्चाथवा कौपिनी भवेत् | रक्तचन्दनसिक्ताङ्गं कुर्याद्भस्माङ्गभूषणम् || योगसारे द्वितीयपरिच्छेदे || नृकरोटिं विधार्यञ्च काष्ठदण्डं तथा प्रिये ! परशुं चाजिनञ्चैव योगीव धारयेत् सदा | खट्टाङ्गं धारयेद्योगी वासरूपकवाससी | कपाले धारयेच्चन्द्रं चन्दनाद्यैर्विशेषतः | ईषत्पिङ्गलकं वस्त्रं धारयेत् सर्वदा सुत | सत इति शिवस्य सम्बोधनम् || सुदर्शनाख्यं यच्चक्रं तत्तु सन्धारयेद्बुधः | विपञ्चीं कपिलञ्चैव प्. ९६२) मड्डुडिण्डिमझर्झरान् | वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः || निर्वाणतन्त्रे || क्षमा दानं ततो ध्यानं बालभावेन शैलजे ! | शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः | एवं भावपरो मन्त्रो हेतुयुक्तः सदाशिवः | संविदासेवनं कुर्यात् सदा कारणसेवनम् | भवेत् साक्षात् स पुरुषः सम्भु रूपो न संशयः || महानिर्वाणतन्त्रे || ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च | कुलावधूतसंस्कारे पञ्चानामधिकारिता || निर्वाणतन्त्रे || निर्वाणमुक्तिमाप्नोति ब्राह्मणो वीरभावतः | अवधूतः क्षत्रियश्च महायोगी न संशयः | स्वरूपोऽपि भवेद्वैश्यः शुद्रोऽपि सह लोकवान् | सम्पूर्णफलमाप्नोति विप्रो निर्वाणतां व्रजेत् | त्रिभागं फलमाप्नोति क्षत्रियो वीरभावतः | पादद्वयन्तु वैश्यस्य शुद्रस्य चैकपादकम् || दशानामवधूतानां प्रत्येकं नाम प्रागुक्तमिदानीमपि तेषां प्रधानत्वेनाङ्गीकरणार्थं संज्ञाकथनं गर्भलक्षणविशेषमाह तत्रैव || अवधूतस्य चाख्यानं शृणुष्व पर्वतात्मजे ! | वनारण्ये भारती च गिरिश्च पुरिरेव च एकस्थाने तु संस्थित्य इष्टध्यानादिकं चरेत् | यो मन्त्रदानं तपसा स वनः परिकीर्त्तितः | स्रस्तकेशो जटाजूटः सदा वातूलवद्भवेत् | अन्तर्योगी महावीरोऽरण्यसङ्गश्च शैलजे ! | नानाशास्त्रेषु यो विज्ञो नानाकर्मविशारदः | सदेष्टदेवीभावेन भावयेद्यो हि चामलाम् | स एव भारती वीरो महाज्ञानी जितेन्द्रियः | सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः | सर्वत्र समभावेन भावयेद्यो नरोत्तमः | इष्टदेवीं विना नास्ति स गिरिः परिकीर्त्तितः | नानादेशेषु पीठेषु क्षेत्रेषु तीर्थभूमिषु | भ्रमणं कुरुते नित्यं कुर्याद्यत्नेन पूजनम् | देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा | अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च | अवधूताश्रमे देवि ! यस्य भक्तिः सुनिश्चला | तस्य तुष्टा भवेत् काली किं न सिध्यति भूतले | प्. ९६३) अवधूतं समालोक्य शम्भुवत् पूजनं चरेत् | शक्तितः पञ्चतत्त्वानि यत्नेनैव निवेदयेत् | अशक्तः परमेशानि ! भक्तितः परितोषयेत् || महानिर्वाणतन्त्रे || भक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः | पूर्णः परमहंसाख्यः परिव्राडपरः स्मृतः | कृतावधूतसंस्कारो यदि स्याज्ज्ञानदुर्बलः | तदा लोकालये तिष्ठन्नात्मानं स तु शोधयेत् | रक्षन् स्वजातिचिह्नञ्च कुर्वन् कर्माणि केवलम् | सदा ब्रह्मपरो भूत्वा साधयेज्ज्ञानमुत्तमम् || मुण्डमालातन्त्रे द्वितीयपटले || अवधूतः शिवः साक्षादवधूतः सदाशिवः | अवधूती शिवा देवी अवधूताशुभं शृणु | चतुराश्रमिणां मध्ये अवधूताश्रमो महान् | अवधूतश्च द्विविधो गृहस्थश्च चितानुगः | सचेलश्चापि दिग्वासा विधियोनिविहारवान् | सदारः सर्वदारस्थो अट्टहासो दिगम्बरः | गृहावधूतो देवेशि ! द्वितीयस्तु सदाशिवः | अवधूतस्य ओं तत्सदिति मन्त्रेण कर्म कर्त्तव्यमाह महानिर्वाणतन्त्रे || ओं तत्सन्मन्त्रमुच्चार्य सोऽहस्मीति चिन्तयन् | कुर्यादात्मोचितं कर्म सदा वैराग्यमाश्रितः | कुर्वन् कर्माण्यनासक्तो नलिनीदलनीरवत् | यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः | सर्वेषामींतत्सदिति निर्देशेन कर्मफलमाह तत्रैव || ओं तत्सदिति मन्त्रेण यो यत्कर्मसमाचरेत् | गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत् | तन्मन्त्रक्रियमाणकर्मणः सम्पूर्णत्वमपि तत्रैव || जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः | ओं तत्सदिति निष्पन्नाः सम्पूर्णाः स्युर्न संशयः | किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्भूरिसाधनैः | ब्राह्म्येणानेन मन्त्रेण सर्वकर्माणि साधयेत् | सुखसाध्यमबाहुल्यं सम्पूर्णफलदायकम् | नास्त्ये तस्मान्महामन्त्रादुपायान्तरमम्बिके ! | पुरप्रदेशे देहे वा प्. ९६४) लिखित्वा धारयेदिदम् | गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् | निगमागमतन्त्राणां सारात्सारतरो मनुः | ओं तत्सदिति देवेशि ! तवाग्रे सत्यमीरितम् | चतुर्विधानां तत्त्वानामन्येवामपि वस्तुनाम् | मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितम् | पश्यन् सर्वत्र सद्रूपं जपंस्तत्सन्महामनुम् | स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् | जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् | साक्षाद्ब्रह्ममयो देही सर्थमेनं जपेन्मनुम् | त्रिपदोऽयं महामन्त्रः सर्वकारणकारणम् | साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयम् | युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा | जप्त्वैतस्य महेशानि ! साधकः सिद्धिभाग्भवेत् || इति मन्त्रप्रशंसा || शैवावधुतस्य सर्व कर्मानधिकारमाह तत्रैव || शैवावधूतसंस्कारविधूताखिलकर्मणः | नापि दैवे न वा पित्रे नार्षे कृत्येऽधिकारिता || अथ परमहंसः || चतुर्णामवधूतानां तुरीयो हंस उच्यते | त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्वे शिवोपमाः | हंसो न कुर्यात् स्त्रीसङ्गं न विधत्ते परिग्रहम् | प्रारब्धमश्नन् विहरेन्निषेधविधिवर्जितः | त्यजेत् स्वजातिचिह्नानि कर्माणि गृहमेधिनाम् | तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः | सदात्मभावसन्तुष्टः शोकमोहविवर्जितः | निर्निकेतस्तितिक्षु स्यान्निःसङ्गो निरुपद्रवः | नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा | मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः | इति ते कथितं देवि ! चतुर्णां कुलयोगिनाम् | लक्षणं सविशेषेण साधूनां मत्स्वरूपिणाम् | एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् | सर्वतीर्थफलावाप्तिर्जायते मनुजन्मनाम् || प्. ९६५) अथ आचारभेदाः || वेदाचारस्तु पूर्वमुक्तः | अधुना वैष्णवादिरुच्यते | नित्यातन्त्रे प्रथमपटले || अथ वक्ष्ये महेशानि! वैष्णवाचारमुत्तमम् | यस्य विज्ञानमात्रेन कालः स्याद्विहिताञ्जलिः | वेदाचारक्रमेणैव सदा नियमतत्परः | मैथुनं तत्कथालापं कदाचिन्नैव कारयेत् | हिंसां निन्दाञ्च कौटिल्यं वर्जयेन्मांसभोजनम् | रात्रौ मालाञ्च यन्त्रञ्च स्पृशेन्नैव कदाचन | विष्णुं समर्चयेद्देवि ! विष्णौ कर्म निवेदयेत् | भावयेत् सर्वदा देवि ! सर्वं विष्णुमयं जगत् | इति वैष्णवाचारः || तथा || शृणु चार्वङ्गि ! सुभगे ! शैवाचारं सुदुर्लभम् | वेदाचारक्रमेणैव शैवे शाक्ते व्यवस्थितम् | तद्विशेषं महादेवि ! केवलं पशुघातनम् | इदानीं शृणु वक्ष्यामि दक्षिणाचारमद्रिजे ! | दक्षिणामूर्त्तिमुनिना आश्रितोऽसौ यतः पुरा | अत एव महेशानि ! दक्षिणाचार उच्यते | प्रावर्त्तकोऽयमाचारः प्रथमो दिव्यवीरयोः | वेदाचारक्रमेणैव पूजयेत् परमेश्वरीम् | स्वीकृत्य विजयां रात्रौ जपेन्मन्त्रमनन्यधीः || तृतीयपटले || दिव्यवीरमतं भद्रे ! शृणु सर्वाङ्गसुन्दरि ! | समासतः प्रवक्ष्यामि पञ्चमाचारमुत्तमम् | दिवसेषु महेशानि ! ब्रह्मचारी समाहितः | पञ्चतत्त्वानुकल्पेन रात्रौ देवीं समर्च्चयेत् | अपरं शृणु वक्ष्यामि सारात्सारं परात्परम् | ब्रह्मानन्दमये ज्ञाने तव स्नेहेन पार्वति ! | वेदशास्त्रपुराणेषु गूढो ज्ञानसमुच्चयः | काष्ठमध्ये यथा वह्निस्तथा देवि ! प्रतिष्ठितः | अश्वमेधकृतौ नैव वाजिहत्या यथा भवेत् ! तथैव परमेशानि ! यज्ञे दोषो न विद्यते | शुद्धाशुद्धं भवेच्छद्धं शोधनादेव पार्वति ! | एतदेव महेशानि ! सिद्धान्ताचारलक्षणम् || समयाचारतन्त्रे द्वितीयपटले || स्नातः शुक्लाम्बरधरः शुद्धवेशधरस्तथा | देवपूजारतो नित्यं तथा विष्णुपरो दिवा | नक्तं द्रव्यादिकं सर्वं यथा लाभेन चोत्तमम् | विधिवत् क्रियते भक्त्या स सर्वञ्च फलं लभेत् || कुलाचारं पश्चादुपपादयिष्यति || इत्याचारभेदाः || इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे पशुभावादिनिर्णयादिरूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः || अथ पूर्णाभिषेकः || महानिर्वाणतन्त्रे दशमोल्लासे || श्रीसदाशिव उवाच || विधानमेतत् परमं गुप्तमासीज्जगत्त्रये | गुप्तभावेन कुर्वन्तो नरा मोक्षं ययुः पुरा | प्रबले कलिकाले तु प्रकाशे कुलवर्त्मनः | नक्तं वा दिवसे कुर्यात् सप्रकाशाभिषेचनम् | नाभिषेकं विना कौलः केवलं मद्यसेवनात् | पूर्णाभिषिक्तः कौलः स्याच्चक्राधीशः कुलार्चकः | तत्राभिषेकपूर्वाह्णे सर्वविघ्नोपशान्तये | यथाशक्त्युपचारेण विघ्नेशं पूजयेद्गुरुः | गुरुश्चेन्नाधिकारी स्याच्छुभपूर्णाभिषेचने | तथाभिषिक्तकौलेन तत्सर्वं साधयेत् प्रिये ! | खान्तार्णं विन्दुसंयुक्तं वीजमस्य प्रकीर्त्तितम् | गणकोऽस्य ऋषिश्छन्दो नीवृद्विघ्नस्तु देवता | कर्त्तव्यकर्मणो विघ्नशान्त्यर्थं विनियोगिता | षड्दीर्घयुक्तमूलेन षडङ्गानि समाचरेत् | प्राणायामं ततः कृत्वा ध्यायेद्गणपतिं शिवे ! || सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानम् खड्गं पाशाङ्कुशेष्टान्यरुणकरलसद्वारुणीपूर्णकुम्भम् | बालेन्दूद्दीप्तमौलिं करिपतिवदनं वीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् || ध्यात्वैवं मानसैरिष्ट्वा पीठशक्तिं प्रपूजयेत् | तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी | उग्रा तेजस्वती सत्या मध्ये विघ्नविनाशिनी | पूर्वादितोऽर्चयित्वैताः पूजयेत् कमलासनम् | पुनर्ध्यात्वा गणेशानं पञ्चतत्त्वोपचारकैः | अभ्यर्च्य च चतुर्दिक्षु गणेशं गणनायकम् | गणनाथं गणक्रीडं यजेत् कौलिनि ! सत्तमः | एकदन्त वक्रतुण्डं लम्बोदरगजाननौ | महादेवञ्च विकटं धूम्राभं विघ्ननाशनम् | ततो ब्राह्मीमुखा शक्तीर्दिक्पालांश्च प्रपूजयेत् | तेषामस्त्राणि सम्पूज्य विघ्नराजं विसर्जयेत् | एवं सम्पूज्य विघ्नेशमधिवासनमाचरेत् | भोजयेच्च पञ्चतत्त्वैर्ब्रह्मज्ञान् कुलसाधकान् | ततः परदिने स्नातः कृतनित्योदितक्रियः | आजन्मकृतपापानां क्षयार्थं तिलकाञ्चनम् | उत्सृजेत् कौलतृप्त्यर्थं भोज्यैकैकमपि प्रिये ! | अर्घ्यं दत्त्वा दिनेशाय ब्रह्मविष्णुनवग्रहान् | अर्चयित्वा मातृगणान् वसुधारां प्रकल्पयेत् | कर्मणोऽभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् | ततो गत्वा गुरोः पार्श्वं प्रणम्य प्रार्थयेदिदम् | एहि नाय ! कुलाचार ! नलिनीकुलवल्लभ ! | त्वत्पदाम्भोरुहच्छायां देहि मूर्ध्नि कृपानिधे ! | आज्ञां देहि महाभाग ! शुभपूर्णाभिषेचने | निर्विघ्नं कर्मणः सिद्धिर्मुपैमि त्वत्प्रसादतः | शिवशक्त्याज्ञया वत्स ! कुरु पूर्णाभिषेचनम् | मनोरथमयी सिद्धिर्जायतां शिवशासनात् | इत्थमाज्ञां गुरोः प्राप्य सर्वोपद्रवशान्तये | आयुलक्ष्मीबलारोग्यावाप्त्यै सङ्कल्पमाचरेत् | ततस्तु कृतसङ्कल्पो वस्त्रालङ्कारभूषणैः | कारणैः शुद्धिसहितैरभ्यर्च्य वृणुयाद्गुरुम् | गुरुर्मनोहरे गेहे गैरिकादिविचित्रिते | चित्रध्वजपताकाभिः फलपुष्पेण शोभिते | किङ्किणीजालमालाभिश्चन्द्रातपविभूषिते | घृतप्रदीपावलिभिस्तमोलेशविवर्जिते | कर्पूरसहितैर्धूपैर्यक्षधूपैः सुवासिते | व्यजनैश्चामरैर्बर्हैर्दर्पणाद्यैरलङ्कृते | सार्द्धहस्तमितां वेदीमुच्चकैश्चतुरङ्गुलाम् | रचयेन्मृण्मयीं तत्र चूर्णैरक्षतसम्भवैः | मण्डलं सर्वतोभद्रं विदध्यात् श्रीगुरुस्ततः | स्वस्वकल्पोक्तविधिना कुर्यादर्चाविधिक्रियाम् | कृत्वा पूर्वोक्तविधिना पञ्चतत्त्वानि शोधयेत् | संशोध्य पञ्चतत्त्वानि पूर्वकल्पितमण्डले | स्वर्णं वा राजतं ताम्रं मृण्मयं घटमेव वा | क्षालितं चन्द्रवीजेन दध्यक्षतविचर्चितम् | स्थापयेद्ब्रह्मवीजेन सिन्दूरेणाङ्कयेत् श्रिया | प्. ९६८) क्षकाराद्यैरकारान्तैर्वर्णैर्विन्दुविभूषितैः | मूलमन्त्रप्रजापेन पूरयेत् कारणेन तम् | अथवा तीर्थतोयेन शुद्धेन पाथसापि वा | नवरत्नं सुवर्णं वा घटमध्ये विनिक्षिपेत् | पनसोडुम्बराश्वत्थवकुलाम्रसमुद्भवम् | पल्लवं तन्मुखे दद्याद्वाग्भवेन कृपानिधिः | शरावं मार्त्तिकञ्चापि फलाक्षतसमन्वितम् | रमां मायां समुच्चार्य स्थापयेत् पल्लवोपरि | बध्नीयाद् वस्त्रयुग्मेन ग्रीवां तस्य वरानने ! | शक्तौ रक्तं शिवे विष्णौ श्वेतवासः प्रकीर्त्तितम् | स्थां स्थीं मायां रमां स्मृत्वा स्थिरीकृत्य घटान्तरे | निक्षिप्य पञ्चतत्त्वानि नवपात्राणि विन्यसेत् | राजतं शक्तिपात्रं स्याद्गुरुपात्रं हिरण्मयम् | श्रीपात्रन्तु महाशङ्खं ताम्राण्यन्यानि कल्पयेत् | पाषाणदारुलौहानां पात्राणि परिवर्ज्जयेत् | शक्त्या प्रकल्पयेत् पात्रं महादेव्याः प्रपूजने | पात्राणां स्थापनं कृत्वा गुरून् देवीं प्रतर्पयेत् | ततस्त्वमृतसम्पूर्णघटमभ्यर्च्ययेत् सुधीः | दर्शयित्वा धूपदीपौ सर्वभूतबलिं हरेत् | प्राणायामं ततः कृत्वा ध्यात्वावाह्य महेश्वरीम् | स्वशक्त्या पूजयेदिष्टां वित्तशाठ्यं विवर्जयेत् | होमन्तु कृत्वा निष्पाद्य कुमारीशक्तिसाधनम् | पुष्पचन्दनवासोभिरर्चयेत् स गुरुः शिवे ! | अनुगृह्णन्तु कौला मे शिष्यं प्रति कुलव्रताः | पूर्णाभिषेकसंस्कारे भवद्भिरनुमन्यताम् | एवं पृच्छति चक्रेशेते ब्रूयुर्गुरुमादरात् | महामायाप्रसादेन प्रभावात् परमात्मनः | शिष्यो भवति पूर्णस्ते परतत्त्वपरायणः | शिष्येण च गुरुर्देवीमर्चयित्वार्चिते घटे | कामं मायां रमां जप्त्वा चालयेद्घटमुत्तमम् | उत्तिष्ठ ब्रह्मकलसमुत्तराभिमुखं गुरुः | मन्त्रैरेतैर्वक्ष्यमाणैरभिषिञ्चेत् कृपान्वितः | शुभपूर्णाभिषेकस्य सदाशिव ऋषिः स्मृतः | छन्दोऽनुष्टुप् देवताद्या प्रणवं वीजमीरितम् | शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्त्तितः | गुरुवस्त्वाभिषिञ्चन्तु प्. ९६९) ब्रह्मविष्णुमहेश्वराः | दुर्गालश्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः || १ || षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ || जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती | एतास्त्वाम्भिषिञ्चन्तु बगला वरदा शिवा || ३ || नारसिंही च वाराही वैष्णवी वनमालिनी | इन्द्राणी वारुणी रौद्री त्वाभिषिञ्चन्तु शक्तयः || ४ || भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा | श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा || ५ || महाकाली महालक्ष्मीर्महानीलसरस्वती | उग्रचण्डा प्रचण्डा च अभिषिञ्चन्तु सर्वदा || ६ || मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा | रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा || ७ || असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तभयङ्करः | कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा || ८ || काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी | विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा || ९ || इन्द्रोऽग्निः शमनो रक्षो वरुणः पवनस्तथा | धनदश्च महेशानः सिञ्चन्तु त्वां दिगीश्वराः || १० || रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः | राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः || ११ || नक्षत्रं करणं योगो वाराः पक्षौ दिनानि च | ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा || १२ || लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः | समुद्रास्त्वाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १३ || अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः | तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां दिगीश्वराः || १४ || पातालभूतलव्योमचारिणः क्षेमचारिणः | पूर्णाभिषेकसन्तुष्टा अभिषिञ्चन्तु पाथसा || १५ || दौर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः | विनश्यन्त्वभिषेकेन कालीवीजेन ताडिताः || १६ || भूतप्रेतपिशाचाश्च ग्रहा ये रिष्टकारिणः | विद्रुतास्ते विनश्यन्तु प्. ९७०) रमावीजेन ताडिताः || १७ || अभिसारकृता दोषा वैरिमन्त्रोद्भवाश्च ये | मनोवाक्कायजा दोषा विनश्यन्त्वभिषेचनात् || १८ || नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः | अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः || १९ || इत्येकाधिकविंशत्या मन्त्रैः संसिक्तसाधनम् | पशोर्मुखाल्लब्धमन्त्रं पुनः संश्रावयेद्गुरुः || पूर्वोक्तनाम्ना सम्बोध्य ज्ञापयन् शक्तिसाधकान् | दद्यादीन् कुलनाथान्तमाख्यानं कौलिको गुरुः | श्रुतमन्त्रगुरौ देवि ! सम्पूज्य निजदेवताम् | पञ्चतत्त्वोपचारेण गुरुमभ्यर्चयेत्ततः | गोभूहिरण्यवासांसि यानालङ्करणानि च | गुरवे दक्सिणां दत्त्वा यजेत्कौलान् शिवात्मकान् | कृतकौलार्चनो धीरः शान्तोऽतिविनयान्वितः | श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नत्वेदमर्थयेत् | श्रीनाथ ! जगतां नाथ ! मन्नाथ ! करुणानिधे ! | परामृतप्रदानेन पूरयास्मन्मनोरथम् | आज्ञा मे दीयतां कौलाः ! प्रत्यक्षशिवरूपिणः ! | मच्छिष्याय विनीताय ददामि परमामृतम् | चक्रेश ! परमेशान ! कौलपङ्कजभास्कर ! | कृतार्थं कुरु सच्छिष्यं देह्यमुष्मैः कुलामृतम् | आज्ञामादाय कौलानां परमामृतपूरितम् || सशुद्धिकं पानपात्रं शिष्यहस्ते समर्पयेत् | हृद्याकृष्य गुरौ देवीं स्रुवसंलग्नभस्मना | स्वस्य शिष्यस्य कौलानां कूर्चे च तिलकं न्यसेत् || कूर्चे भ्रूमध्ये || ततः प्रसादतत्त्वानि कौलेभ्यः परिवेशयेत् | भक्तानुष्ठानविधिना विदध्यात् पानभोजनम् | इति ते कथितं देवि ! शुभपूर्णाभिषेचनम् | ब्रह्मज्ञानैकजननं शिवत्वफलसाधनम् | नवरात्रं सप्तरात्रं पञ्चरात्रं त्रिरात्रकम् | अथवाप्येकरात्रञ्च कूर्यात् पूर्णाभिषेचनम् | संस्कारेऽस्मिन् महेशानि ! पञ्चकल्पाः प्रकीर्त्तिताः | नवरात्रे विधातव्यं सर्वतोभद्रमण्डलम् | नवनाथं सप्तरात्रे प्. ९७१) पञ्चाब्जं पञ्चरात्रके | त्रिरात्रं चैकरात्रे च पद्ममष्टदलं प्रिये ! | मण्डले सर्वतोभद्रे नवनाभेऽपि साधकैः | स्थापनीया नवघटाः पञ्चाब्जे पञ्चसङ्ख्यकाः | नलिनेऽष्टदले देवि ! घटस्त्वेकः प्रकीर्त्तितः | अङ्गावरणदेवांश्च केशरादिषु पूजयेत् | पूर्णाभिषेकसिद्धानां कौलानां निर्मलात्मनाम् | दर्शनात् स्पर्शनाद्घ्राणाद्गुरुशुद्धिर्विधीयते | शाक्तैर्वा वैष्णवैः शैवैः सौरैर्गाणपतैरपि | कौलवर्त्माश्रितः साधुः साधयेदतियत्नतः | तथा शक्तिपूजनं स्यात् पञ्चतत्त्वादि शोधयेत् | स्वेष्टपूजाविधानेन न तु चक्रेश्वरो भवेत् || तथा || उक्ताः प्रयोगा बहवः कर्माणि विविधानि च ब्रह्मैकनिष्ठकौलस्य त्यागानुष्ठानयोः समम् | एकमेव परं ब्रह्म जगदावृत्य तिष्ठति | सर्वं तदन्वितं कर्म जानन्तो हि रताः प्रिये ! | पृथक्त्वेन यजन्तोऽपि तत् प्रयान्ति विशन्ति च | सर्वं ब्रह्मणि सर्वत्र ब्रह्मैव पर्यवस्यति | ज्ञेयः स एव सत्कौलो जीवन्मुक्तो न संशयः || अथ पूर्णाभिषेकप्रयोगः || महानिर्वाणतन्त्रे || अभिषेकपूर्वाहे सर्वविघ्नोपशान्त्यर्थं यथाशक्त्युपचारेण गुरुर्विघ्नेशं पूजयेत् | गुरुस्तत्र चेन्नाधिकारी तदाभिषिक्तकौलं गुरुत्वेन स्वीकृत्य तेन सर्वं कारयेत् | गमिति गणेशस्य वीजं कृतनित्यक्रिय आसने उपविश्याचान्तोऽर्घ्य स्थापनादिभूतशुद्ध्यन्तं कर्म कृत्वा ऋष्यादिन्यासं कुर्याद् यथा | गणक ऋषिर्नीवृच्छन्दो विघ्नराजो देवता स्वकर्त्तव्यपूर्णाभिषेककर्मणः सर्वविघ्नशान्त्यर्थं जपे विनियोगः | शिरसि ओं गणक ऋषये नमः | मुखे नोवृच्छन्दसे नमः हृदि विघ्नराजाय देवतायै नमः | गां हृदयाय नम इत्यादिनाङ्गन्यासकरन्यासौ विधाय मूलेन प्राणायामत्रयं कृत्वा ध्यायेद्यथा || सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं खड्गं पाशाङ्कुशेष्टान्यरुणकरलसद्वारुणीपूर्णकुम्भम् | प्. ९७२) बालेन्दूद्दीप्तमौलिं करिपतिवदनं वीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् || एवं ध्यात्वा मानसोपचारेण सम्पूज्य यन्त्रे घटे वा पीठशक्तीः पूजयेद्यथा | एते गन्धपुष्पे ओं तीव्रायै नमः | एवं सर्वत्र प्रणवादिनमोऽन्तेन ज्वालिन्यै नन्दायै कामरुपिण्यै उग्रायै तेजस्वत्यै सत्यायै मध्ये विघ्ननाशिन्यै पूर्वादिक्रमेण पूजयेत् | तत् एते गन्धपुष्पे ओं कमलासनाय नमः | पुनर्ध्यात्वा घटादौ दत्त्वा गणेश इहागच्छेत्यावाह्य पाद्यादिभिः पञ्चतत्त्वोपचारैश्च सम्पूज्य चतुर्दिक्षु एते गन्धपुष्पे गणेशाय नमः | एवं गणनायकाय गणनाथाय गणक्रीडाय एकदन्ताय वक्रतुण्डाय लम्बोदराय गजाननाय महादेवाय विकटाय धूमाभाय विघ्ननाशनाय सर्वत्र प्रणवादिनमोऽन्तेन गन्धपुष्पाभ्यां पूजयेत् | ब्राह्मयै माहेश्वर्यै कौमार्यै वैष्णव्यै वाराह्यै इन्द्राण्यै नारसिंह्यै महालक्ष्म्यै इन्द्रादिदिक्पालेभ्यो वज्राद्यस्त्रेभ्यो नम इत्यनेन पूजयित्वा ततो यथाशक्ति मूलमन्त्रं जप्त्वा जपं समर्प्य प्रणम्य गणपते क्षमस्वेति विसर्जयेत् | ततो दीक्षापद्धत्युक्तमधिवासनं कृत्वा ब्रह्मज्ञकुलसाधकान् पञ्चतत्त्वैर्भोजयेत् | ततः परदिने स्नातः कृतनित्यक्रियः ओं तत्सदित्युचार्य ओं अद्येत्यादि अमुके मासि अमुकराशिस्थे भास्करेऽमुके पक्षेऽमुकतिथौ अमुकगोत्रः श्री-अमुकदेवशर्मा आजन्मज्ञानाज्ञानकृतपापक्षयकाम एतत् सतिलकाञ्चनं विष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्मणायाहं सम्प्रददे || इति तिलकाञ्चनमुत्सृज्य दक्षिणां दद्यात् | ततः कौलतृप्त्यर्थं भोज्यमेकमुत्सृजेत् | ततः सूर्यायार्घ्यं दत्त्वा ब्रह्मविष्णुनवग्रहान् सम्पूज्य गौर्यादिषोडशमातृकापूजावसुधारासम्पातनायुष्यसूक्त- जपाभ्युदयिकश्राद्धानि कृत्वा गुरोः पार्श्वं गत्वा प्रणम्य प्रार्थयेत् | ओं एहि नाथ ! कुलाचार ! नलिनीकुलवल्लभ ! || प्. ९७३) त्वत्पादाम्भोरुहच्छायां देहि मूर्द्ध्नि कृपानिधे ! | आज्ञां देहि महाभाग ! शुभपूर्णाभिषेचने | निर्विघ्नं कर्मणः सिद्धिमुपैमि त्वत्प्रसादतः || ततो गुरुर्वदेत् || ओं शिवशक्त्याज्ञया वत्स ! कुरु पूर्णाभिषेचनम् | मनोरथमयी सिद्धिर्जायतां शिवशासनात् | इति गुरोरनुज्ञां गृहीत्वा अद्येत्यादि अमुकगोत्रः श्री-अमुकदेवशर्मा आयुर्लक्ष्मीबलारोग्यप्राप्तिकामो महानिर्वाणतन्त्रीयदशमपरिच्छेदोक्तपूर्णाभिषेकमहं करिष्ये | इति सङ्कल्प्य ओं यज्जाग्रत इति ओं देवो व इति वा पठेत् | ततः ओं साधुभवानास्तामित्यादि कर्म कृत्वा वस्त्रालङ्करणादिना सशुद्धिकारणेन च गुरुमभ्यर्च्य ओं अद्येत्यादिमत्सङ्कल्पितमहानिर्वाणतन्त्रीयदशमपरिच्छेदोक्त- पूर्णाभिषेककर्मणि अमुकगोत्रं श्री-अमुकानन्दनाथं गुरुत्वेन गुरुकर्मकरणाय वा भवन्तमहं वृणे इति शिष्ये वदति | ओं वृतोऽस्मीति गुरुर्ब्रूयात् | ततः शिष्यः ओं यथाविहितं गुरुकर्म कुरु इति शिष्ये वदति | ओं यथाज्ञानतः करवाणीति गुरुर्ब्रूयात् | ततो गुरुर्मनोहरगृहे सुचित्रिते चित्रध्वजपताकाचन्द्रातपाद्युंपशोभिते धूपगुग्गुल्वादिभिः सुवासिते धृतप्रदीपमालाविगतान्धकारलेशे चतुरङ्गुलोच्छ्रायसार्द्धहस्तमितमृण्मयवेदिकायां सर्वतोभद्रादिमण्डलं पञ्चवर्णरजोभिर्विदध्यात् || तत्र क्रमः || नवरात्राभिषेके सर्वतोभद्रं सप्तरात्राभिषेके नवनाभं पञ्चरात्राभिषेके पञ्चाब्जं त्रिरात्रैकरात्राभिषेके अष्टदलपद्मं निर्माय तत्र घटस्थापनं दीक्षापद्धत्युक्तं कुर्यात् | ततः पञ्चतत्त्वादिकं संशोध्य ठमिति चन्द्रवीजेन घटे दध्यक्षतौ दद्यात् | ओमिति ब्रह्मवीजेन घटं स्थापयेत् | श्रीमिति लक्ष्मीबीजेन घटे सिन्दूरं दद्यात् | सविन्दुकैः क्षकाराद्यकारान्तैर्वर्णैर्मूलमन्त्रेण ठकारेण घटं पूरयेत् | अथवा तीर्थतोयेन शुद्धजलेन वा पूरयेत् | नवरत्नं प्. ९७४) स्वर्णं वा घटमध्ये निक्षिपेत् | पनसोडुम्बराश्वत्थवकुलाम्राणां पञ्चपल्लवानि ऐमिति वाग्भववीजेन घटमुखे दद्यात् | फलाक्षतयुक्तनूतनशरावं श्रीमिति ह्रीमिति मन्त्रेण तदुपरि दद्यात् | वस्त्रयुग्मेन घटस्य ग्रीवां वध्नीयात् | तत्र क्रमः | शाक्ते रक्तेन शैवे वैष्णवे च श्वेतेन | ततः स्थां स्थीं ह्रीमिति श्रीमिति मन्त्रेण घटं स्थिरीकृत्य घटश्रीपात्रयोर्म्मध्ये दक्षिणादितो नव पात्राणि स्थापयेत् | तत्र क्रमः | शक्तिपात्रं राजतं गुरुपात्रं हिरण्मयं वीरपात्रं महाशङ्खमात्मपात्रमपि तथा | अथवा पाषाणदारुलौहभिन्नानि पात्राणि कुर्यात् | ततो गुरुं देवीञ्च कारणेन तर्पयेत् | ततः कारणपूर्णघटे स्वस्वकल्पोक्तविधिना देवतां सम्पूज्य यथाशक्ति जप्त्वा जपं समर्प्य बलिदानादिकं कृत्वा स्तवकवचादिकं पठित्वाष्टोत्तरं सहस्रं शतं वा हुत्वा गन्धपुष्पवस्त्रमाल्यपात्रादिभिः कुमारीशक्तिसाधकान् सम्पूज्य | ओं अनुगृह्णन्तु कौला मे शिष्यं प्रतिकुलव्रताः | पूर्णाभिषेक संस्कारे भवद्भिरनुमन्यताम् | इति चक्रेश्वरे पठति ते ब्रूयुः | ओं महामायाप्रभावेण प्रभावात् परमात्मनः | शिष्यो भवति पूर्णस्ते परतत्त्वपरायणः | ततो गुरुः पूर्वोक्तघटे शिष्येण देवीमर्चयित्वा श्रीमिति ह्रीमिति जप्त्वा घटं चालयेत् | ओं उत्तिष्ठ ब्रह्मकलस ! देवताभीष्टसिद्धिदः | सर्वतीर्थाम्बुपूर्णेन पूरयास्य मनोरथम् | इति पठित्वा | सदाशिव ऋषिरनुष्टुप्छन्दः शिष्येष्टदेवता प्रणवो वीजं आयुःकीर्त्तिबलारोग्याद्यवाप्त्यै पूर्णाभिषेके विनियोगः | ओं गुरवस्त्वाभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः | दुर्गालक्ष्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः || १ || षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ || जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती | एतस्त्वामभिषिञ्चन्तु वगला प्. ९७५) वरदा शिवा || ३ || नारसिंही च वाराही वैष्णवी वनमालिनी | इन्द्राणी वारुणी रौद्री त्वाभिषिञ्चन्तु शक्तयः || ४ || भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा | श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा || ५ || महाकाली महालक्ष्मीर्महानीलसरस्वती | उग्रचण्डा प्रचण्डाद्या अभिषिञ्चन्तु सर्वदा || ६ || मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा | रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा || ७ || असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः | कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा || ८ || काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी | विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा || ९ || इन्द्रोऽग्निः शमनी रक्षो वरुणः पवनस्तथा | धनदश्च तथेशानः सिञ्चन्तु त्वां दिगीश्वराः || १० || रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः | राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः || ११ || नक्षत्रं करणं योगा वाराः पक्षौ दिनानि च | ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा || १२ || लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः | समुद्रास्त्वाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १३ || अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः | तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां दिगीश्वराः || १४ || पातालभूतलव्योमचारिणः क्षेमचारिणः | पूर्णाभिषेकसन्तुष्टास्त्वाभिषिञ्चन्तु पाथसा || १५ || दौर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः | विनश्यन्त्वभिषेकेण कालीवीजेन ताडिताः || १६ || भूताः प्रेताः पिशाचाश्च ग्रहा ये रिष्टकारकाः | विद्रुतास्ते विनश्यन्तु रमावीजेन ताडिताः || १७ || अभिचारकृता दोषा वैरिमन्त्रोद्भवाश्च ये | मनोवाक्कायजा दोषा विनश्यन्त्वभिषेचनात् || १८ || नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः | अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः || १९ || इत्येतैर्मन्त्रैः शिष्यमभिषिच्य ९७६) पशोर्मुखाद् यन्मन्त्रो लब्धस्तं पुनस्तं गुरुः श्रावयेत् | पूर्वोक्तनाम्ना शिष्यं सम्बोध्य शक्तिसाधकान् विज्ञाप्य गुरुरानन्दनाथान्तं नाम शिष्याय दद्यात् | श्रुतमन्त्रो गुरौ इष्टदेवतां सम्पूज्य पञ्चतत्त्वैर्गुरुमर्चयेत् | ततो गोभूहिरण्यवासोयानालङ्करणानि गुरवे दक्षिणां दद्यात् | ततः पञ्चतत्त्वैः कौलशक्तिसाधकान् अभ्यर्च्य गुरोश्चरणौ स्पृष्ट्वा प्रार्थयेद् यथा | श्रीनाथ ! जगतां नाथ ! मन्नाथ ! करुणानिधे ! | परामृतप्रदानेन पूरयास्मन्मनोरथम् || ततो गुरुः || आज्ञा मे दीयतां कौलाः ! प्रत्यक्षशिवरूपिणः ! | सच्छिष्याय विनीताय ददामि परमामृतम् || ते ब्रूयुः || चक्रेश ! परमेशान ! कौलपङ्कजभास्कर ! | कृतार्थं कुरु सच्छिष्यं देह्यमुष्मैकुलामृतम् || इति कौलाज्ञामादाय शुद्धिसहितं कारणपात्रं शिष्याय दद्यात् | ततः स्रुवलग्नभस्मना सर्वेषां ललाटे तिलकं दद्यात् | ततश्चक्रसम्पूर्णं कृत्वा यथेष्टं विहरेदिति || इति पूर्णाभिषेकप्रयोगः || पूर्णाभिषेकानन्तरन्तु वामकेश्वरतन्त्रे चतुःपञ्चशत्पटले || भैरव उवाच || मण्डपं विधिवत् कुर्यात् पूजोपकरणानि च | परमहंसेन गुरुणा पूर्णाभिषेचनञ्चरेत् | नवरत्नं जले स्थाप्य जलेनापूर्य कुम्भकम् || द्विपञ्चाशत्पटले || नातिह्रस्वं नातिदीर्घं कलसाष्टकमुत्तमम् | अभिषेकात्मकमिति रत्नादिभिरलङ्कृतम् | ईशाने च पुनः कुम्भं स्वर्णादिभिरलङ्कृतम् | वस्त्रेण वेष्टयेत् कुम्भान् माल्यचन्दनपूर्वकम् | गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च | नदा ह्रदाः पुण्यतमा नद्यः पातालवर्त्मगाः | सर्वतीर्थाणि पुण्यानि घटे कुर्वन्तु सन्निधिम् | रमावीजेन जप्तेन पल्लवं प्रतिपादयेत् | कूर्चेन फलदानं स्यात् स्त्रीवीजेन स्थिराकृतिः | सिन्दूरं वह्निवीजेन पुष्पं प्रेतेन विन्यसेत् | प्. ९७७) मूलेन प्रणवेनापि दूर्वां दद्याद्विचक्षणः | हूं फट् स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् | ईशकुम्भे यजेद्देवीं सङ्कल्पोक्तविधानतः | सङ्कल्पोक्तेन विधिना यजेदावरणं ततः | बलिं दद्यात् प्रयत्नेन होमयेत्तन्त्रवित् सुधीः | आगमोक्तविधानेन कुर्यात्तत्र कुशण्डिकाम् | त्रिमध्वाक्तेन विधिना विल्वपत्रेण होमयेत् || उपचारैः षोडशैस्तु पुनर्देवीं प्रपूजयेत् | पुनरावरणं देवि ! पूजयेद् यत्नतः सुधीः | ततः पूर्णाहुतिं दत्वा प्रकुर्याद् गुरुपूजनम् | सुवेद्याः पूजयेदष्टौ कुमारीश्च प्रपूजयेत् || चतुःपञ्चाशत्पटले || पूजावसाने देवेशि ! कलसैरभिषेचयेत् | विशेषतश्च तन्मन्त्रं वक्ष्यामि शृणु सादरात् | ओं ह्रीं श्रीं ह्सौः पुत्र ! त्वं सर्वसिद्धीश्वरो भव | इति पूर्वकलसेन गुरुः सिञ्चेच्छिशुं शुभम् | ओं ऐं ह्रीं श्रीं क्रों हौः हं सः पुत्र ! त्वं वेतालो भव | इत्यग्निकलसेनैव गुरुः सिञ्चेच्छिशुं शुभम् | ओं ह्रीं ऐं ह्रीं ह्सौः हंसः पुत्र ! त्वमणिमादिसिद्धीश्वरो भव | इति दक्षिणकलसेन गुरुः सिञ्चेच्छिशुं शुभम् | ओं हु/ ह्रीं क्रीं श्रीं पुत्र ! त्वमञ्जनासिद्धीश्वरो भव इति नैरृतकलसेन गुरुः सिञ्चेच्छिशुं शुभम् | अं आं ऐं क्रों श्रीं ह्रीं पुत्त्र ! त्वं लघिमादिसिद्धीश्वरो भव | इति वारुणकलसेन गुरुः सिञ्चेच्छिशुं शुभम् | ओं आं ऐं क्रीं ह्रीं पुत्त्र ! त्वं काम्यसिद्धीश्वरो भव | इति मरुत्कलसेन गुरुः सिञ्चेच्छिशुं शुभम् | ऐं ओं ह्रीं पुत्त्र ! त्वं स्तम्भनादिसिद्धिश्वरो भव | इति कुवेरकलसेन गुरुः सिञ्चेच्छिशुं शुभम् | हंस ऐं ह्रीं नवनवनामकरणाभिधानपूर्वकं पुत्त्र ! त्वमाकर्षणसिद्धीश्वरो भव | इतीशानकलसेन गुरुः सिञ्चेत् शिशुं शुभम् | दक्षिणान्तं क्रियाकाण्डं कुर्यात्साधकसत्तमः || इत्यभिषेकप्रकरणम् || प्. ९७८) अथ वीरप्रशंसा || उत्पत्तितन्त्रे त्रिषष्टिपटले || यत्र वीरोवसेद्देवि ! दिव्यो वा परमेश्वरि ! | तत्र सर्वाणि तीर्थाणि वसन्ति वीरसाधने | यो वीरः स शिवः साक्षाद्देव एव न संशयः | यत्र वीरो वसेद्देवि ! तत्र कस्य भयं भवेत् | नाकालमरणं तत्र न दुर्भिषभयं तथा | राजपीडाभयं देवि ! तत्र नास्ति कदाचन || अथ वीरकृत्यं तत्रैव || कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् | संविदासेवनं कुर्यात् सोमपानं महेश्वरि ! | सर्वथा कुरुते देवि ! वीरश्चोद्धतमानसः | दिव्यस्तु देवताप्रायश्चन्दनागुरुलेपनैः | रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः | भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः | सुरापानरतो नित्यं बलिपूजापरायणः | नरश्छागश्च महिषो मेषः शूकर एव च | शशकः शल्लकी गोधा खड्गी कूर्मो दश स्मृताः | वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः | इत्यादिभिर्बलेर्दानैः पूजयेत् स्वेष्टदेवताम् || तथा | नित्यं नैमित्तिकं काम्यं प्रकुर्याच्च दिने दिने | कुलवारे कुलर्क्षे च तिथौ चन्दनके तथा | भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये ! | सुराणां शोधनं कुर्याद् यथावत् परमेश्वरि ! | प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः | निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् | ननु ब्रह्महत्यासुरापानमित्यादि स्मृत्युक्ते न महापातकजनकस्य सुरापानस्य निषिद्धत्वात् सुरापानरत इति सुराणां शोधनम् इति च कथं सङ्गच्छत इति चेत् सत्यम् | तत्तद्वचनं नैमित्तिकवैधेतरपाननिषेधकमित्यवगन्तव्यमन्यथा वेदविरुद्धत्वेन तत्तत्स्मृतेरप्रामाण्यापत्तिः स्यात् | तथा च सौत्रामणीष्टौ वाजपेय यागे च सुराग्रहान् गृह्णाति सोमग्रहांश्च सुराग्रहांश्च गृह्णाति वाजसृद्भ्यः सुराग्रहान् हवन्तीत्यादि | इति हंसः शुचिसदित्यादिना प्. ९७९) सुराशोधनञ्चोक्तम् | तर्हि मद्यमदेयमपेयमग्राह्यमिति श्रुत्यन्तरस्य का गतिरिति चेन्नैवमर्थापरिज्ञानेन दोषमाशङ्कसे | तथा हि देवताभ्योऽदेयं देवतासम्प्रदानकभिन्नं मद्यमपेयमग्राह्यञ्चेति तस्या अर्थः | निमित्तयागादीतरत्र मद्यदानपानादिनिषेधार्था वा सा श्रुतिरिति मन्तव्यम् | नराश्वमेधौ मद्यञ्च कौलवर्ज्यं द्विजातिभिरित्यादिवचनैकवाक्यतया कलीतरपरत्वं वाजपेयादीनामिति न वाच्यम् | विद्याकरवाजपेयिप्रभृतीनां नामानुसारेण कलावपि तस्यावधारितत्वात् | विजयाञ्चानुकल्पञ्च द्विजो दद्याद् युगे युगे || इत्यादिवचनादनुकल्पेन यागनिर्वाह इति तु कुधियां सिद्धान्तः मुख्यालाभ एवानुकल्पस्य उक्तत्वात् || तथा च निरुत्तरतन्त्रे पञ्चमपटले || द्रव्याभावे चानुकल्पैः पूजयेत् परदेवतामिति | सुराभावे च गोक्षीरं द्विजो दद्याद् युगे युगे | इत्यादिवचनादनुकल्पेन यागनिर्वाह इति तु कुधियां सिद्धान्तो मुख्यालाभ एवानुकल्पस्योक्तत्वात् || तथा च निरुत्तरतन्त्रे पञ्चमपटले || द्रव्याभावे चानुकल्पैः पूजयेत् परदेवतामिति | सुराभावे च गोक्षीरं द्विजो दद्याद् युगे युगे | इति चोक्तमत एव | न मांसभक्षणे दोषो न दोषो मद्यपानतः | प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला | इति मद्यपानदोषाभावो मनुना उक्त इति असंस्कृतसुरापानपरं वा | तदुक्तमुत्पत्तितन्त्रे || असंस्कृतां सुरां पीत्वा ब्राह्मणो ब्रह्महा भवेत् | संस्कृतान्तु सुरां पीत्वा ब्राह्मणो ज्वलदग्निवत् | सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् | अन्यत्र कामतः पीत्वा ब्राह्मण्यादेव हीयते | यद्वा सुरानिषेधकवचनानि अनभिषिक्तपराणीति ज्ञेयम् | तत्रैव सर्वेषां सुरापानविधिदर्शनात् | तत्प्रमाणन्तु किञ्चिल्लिखितम् | लेखितव्यञ्च यत्तु मातृकाभेदतन्त्रे तृतीयपटले || सर्वयज्ञाधिपो प्. ९८०) विप्रः संशयो नास्ति पार्वति ! | सौत्रामण्यां महायज्ञे चत्वारो ब्राह्मणादयः ! ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ! | ब्राह्मणः परमेशानि ! यदि पानादिकञ्चरेत् | तत्क्षणाच्छिवरूपोऽसौ सत्यं सत्यं हि शैलजे ! | तोये तोयं यथा लीनं तैजसं तेजसे यथा | घटे भग्ने यथाकाशं वायौ वायुर्यथा प्रिये ! | तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ! | लीयते नात्र सन्देहः परमात्मनि शैलजे ! | सायुज्यादिमहामोक्षं नियुक्तं क्षत्रियादिषु | मद्यपानं विना देवि ! तत्त्वज्ञानं न लभ्यते | अत एव हि विप्रस्तु मद्यपानं समाचरेत् | वेदमातृजपेनैव ब्राह्मणो न हि शैलजे ! | ब्रह्मज्ञानं यदा देवि ! तदा ब्राह्मण उच्यते | देवानाममृतं ब्रह्म तदेव लौकिकी सुरा | सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्त्तिता | इति ब्राह्मणस्य मद्यपानविधायकवचनं तदप्यभिषिक्तब्राह्मणपरम् | ननु अभिषेके स्वस्ववर्णं परित्यज्य शिवत्वं लभते ध्रुवमिति प्रागुक्तवचनादभिषिक्तस्य जातिविचाराभावात् कथमभिषिक्तपरमिति चेत् सत्यम् | स्वजातिचिह्नरक्षकस्य ज्ञानदुर्बलस्य पानार्थमेतद्वचनमित्यवेहि | अथवा अभिशप्तसुरापाणनिषेधार्थं सुरापाणनिषिद्धवचनम् | सुरातु चतुर्युग एव पवित्रकारिणी | केवलमभिशापेनैवापेया अतः शापमोचनपूर्वरूपतया पेयैव तदाह तत्रैव || मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादिमोचनम् | प्रकुर्यात्तर्हि येनैव तदा ब्रह्ममयी सुरा | हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् | शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी | अत एव हि देवेशि ! ब्राह्मणः पानमाचरेत् | स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः | बहु किं कथ्यते देवि ! स एव निर्गुणात्मकः | मुक्तिमार्गमिदं देवि ! गोप्तव्यं पशुसङ्कटे | प्रकाशात् सिद्धिहानिः स्यान्निन्दनीयो न चान्यथा | यदि शापमोचनादप्यग्राह्यत्वं तस्या इत्युच्यते तदा गायत्रीग्रहणमपि ब्राह्मणानामसङ्गतं स्यात्तत्रापि शापदर्शनादिति | उत्पत्तितन्त्रे | कुलस्त्रीसेवनं कुर्यात् सर्वथा परमेश्वरि ! रमते युवतिं रम्यां कामान्मत्तविशालिनीम् | नटीं कपालिकां वेश्यां हड्डिपानां वराङ्गनाम् | शूद्राणीं म्लेच्छरमणीं यवनीं परमेश्वरि ! | मातृयोनिविचारोऽस्ति मातृयोनिं विना प्रिये ! | कुलाचारपरो वीरः कुलपूजापरायणः | भगलिङ्गसमायोगादाकृष्य जपमाचरेत् | निश्चलन्तु भवेच्चित्तं कोटिसूर्यग्रहेण किम् | चले चित्ते भवेद्व्याधिर्निश्चले निश्चलं यथा || तथा || शवानां साधनं देवि ! लतासाधनमुत्तमम् | चितायाः साधनं देवि ! सिद्धिरस्ति कलौ युगे | महाकाल्या महापीठे यत्र कुत्र महेश्वरि ! | बलिदानं नरस्यापि हटाद्बाधा भविष्यति | निवृत्तं हि ततो देवि ! बलिदानं नरादिकम् | ततः प्रभृति देवेशि ! भावद्वयं विवर्जयेत् || एतद्वचनं प्रबलकलीतरपरम् || तदुक्तं महानिर्वाणतन्त्रे || दिव्यवीरमयो भावः कलौ नास्ति कदाचन | केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् || उत्पत्तितन्त्रे चतुःषष्टिपटले || भावः को वा महादेव ! वीरः को वा महेश्वर ! | दिव्य एव कथं देव ! वद मे शङ्कर ! स्वयम् | इति देवीप्रश्नानन्तरं महादेव उवाच || भावस्तु मानसो धर्मः स तु साङ्गः कथं भवेत् | निर्विकल्पं महेशानि ! परं ब्रह्ममयो भवेत् | मानसः कारणं देवि ! शिव एव न संशयः | सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः | कलौ तु भारते वर्षे लोका भारतवासिनः | गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि | दिव्ये वीरेन भेदोऽस्ति ज्ञानी स्यात् कुलसाधनैः | त्रिसूत्रज्ञः कुलाचारो ज्ञानी कुलगुरुः स्मृतः | षट्चक्रं षोडशधारं प्. ९८२) त्रैलोक्यं व्योमपञ्चकम् | स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः || अथ पञ्चमकारः || निर्वाणतन्त्रे एकादशपटले || शङ्कर उवाच || शृणु देवि ! प्रवक्ष्यामि तत्त्वं परमगोपनम् | श्रुत्वा गोपय यत्नेन स्वयोनिमिव सुन्दरि ! | गुप्तसाधनतन्त्रे सप्तमपटले || शृणु देवि ! प्रवक्ष्यामि तत्त्वं परमगोपनम् | मन्त्रोद्धारक्रमेणैव तत्सर्वं कथयामि ते | भमं तकारसंयुक्तम् थान्तं वायुयुतं कुरु | विन्दुयुक्तं पुनर्भान्तं साकारं विन्दुसंयुतम् | चन्द्रबीजं समुचार्य अकारसंयुतं कुरु | पुनर्भान्तं तकारान्तं चन्द्रं वायुसमन्वितम् | पुनर्भान्तं महेशानि ! पञ्चमस्वरभूषितम् | थान्तं वह्निसमारूढमाकारसंयुतं कुरु | पुनर्भान्तं महेशानि ! सूर्यस्वरसमन्वितम् | तान्तकुमारसंयुक्तं धान्तमकारसंयुतम् | पञ्चतत्त्वमिदं देवि ! सर्वतन्त्रेषु गोपितम् | कैवल्यतन्त्रे प्रथमपटले || पञ्चतत्त्वात् परं नास्ति शाक्तानां मुखमोक्षयोः | केवलैः पञ्चमैरेव सिद्धो भवति साधकः | एषां मध्ये महेशानि ! परतत्त्वं विशिष्यते || तथा || केवलेनाद्ययोगेन साधको भैरवो भवेत् | द्वितीयेन च तत्त्वेन महाभैरवतां व्रजेत् | तृतीयेन च तत्त्वेन साधकः शिवरूपधृक् | चतुर्थेन वरारोहे ! रुद्ररूपधरो भवेत् | परेण परतां याति मम तुल्यो न संशयः | मद्यं मांसं तथा मत्स्यंमुद्रा मैथुनमेव च | पञ्चतत्त्वमिदं देवि ! निर्वाणमुक्तिहेतवे | मकारपञ्चकं देवि ! देवानामपि दुर्लभमिति || कामाख्यातन्त्रे पञ्चमपटले || मद्यैर्मांसैस्तथा मत्स्यैर्मुद्राभिर्मैथुनैरपि | स्त्रीभिः सार्द्धं महासाधुरर्च्चयेद् जगदम्बिकाम् | अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः | कायेन मनसा वाचा | तस्मात्तत्त्वपरो भवेत् | कालिकातारिणीदीक्षां गृहीत्वा मद्यसेवनम् | न करोति नरो यस्तु स प्. ९८३) कलौ पतितो भवेत् | वैदिके तान्त्रिके चैव जपहोमवहिष्कृतः | अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः | शुनीसूत्रसमं तस्य तर्पणं यत् पितृष्वपि | कली तारामनुं प्राप्य वीराचारं करोति न | शूद्रत्वं तच्छरीरेण प्राप्नुयात् स न चान्यथा | समयाचारतन्त्रे द्वितीयपटले | या सुरा सर्वकार्येषु कथिता भुवि मुक्तिदा | तस्या नाम भवेद्देवि ! तीर्थं पानं सुदुर्लभम् | शूद्राणां भक्ष्ययोग्यानां यन्मांसं देवनिर्मितम् | वेदमन्त्रेण विधिवत् प्रोक्ता सा शुद्धिरुत्तमा | भक्ष्ययोग्याश्च कथिता ये ये मत्स्या वरानने ! | ते रहस्ये मया प्रोक्ता मीनाः सिद्धिप्रदायकाः | पृथुका तण्डुला भृष्टा गोधूमचणकादयः | तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी | भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये ! | तस्य नाम भवेद्देवि ! पञ्चमं परिकीर्त्तितम् | प्रथमन्तु भवेन्मद्यं मांसञ्चैव द्वितीयकम् | मत्स्यञ्चैव तृतीयं स्यान्मुद्रा चैव चतुर्थिका | पञ्चमं पञ्चमं विद्यात् पञ्चैते नामतः स्मृताः || मत्स्यादिशब्दव्युत्पत्तिस्तु कुलार्णवतन्त्रे पञ्चमखण्डे सप्तदशोल्लासे || मायामलादिशमनान्मोक्षमार्गनिरूपणात् | अष्टदुःखादिविरहान्मत्स्येति परिकीर्त्तितः | माङ्गल्यजननाद्देवि ! संविदानन्ददानतः | सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते || तथा | पञ्चमं देवि ! सर्वेषु मम प्राणप्रियं भवेत् | पञ्चमेन विना देवि ! चण्डीमन्त्रं कथं जपेत् | यदि पञ्चमकारेषु भ्रान्तिं चेत् कुरुते प्रिये ! | तस्य सिद्धिः कथं देवि ! चण्डीमन्त्रं कथं जपेत् | आनन्दं परमं ब्रह्म मकारास्तस्य सूचकाः || अथैषां फलम् निर्वाणतन्त्रे एकादशपटले || अष्टैश्वर्य परं मोक्षं मद्यपानेन शैलजे ! | मांसभक्षणमात्रेण साक्षान्नारयणो भवेत् | मत्स्यभक्षणमात्रेण काली प्रत्यक्षतामियात् | प्. ९८४) मुद्रासेवनमात्रेण भूसुरो विष्णुरूपधृक् | मैथुनेन महायोगी मम तुल्यो न संशयः || तथा || एकां शक्तिं समानीय एक एव तु साधकः | पूजयेदबहुयत्नेन पञ्चतत्त्वेन कौलिकः | एवं कृत्वा लभेत् सिद्धिं नान्यस्य दृष्टिगोचरे | शैवे शाक्ते गाणपत्ये सौरे चान्द्रे सुलोचने ! | तत्त्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः || द्वादश पटले || गुरुतत्त्वं मन्त्रतत्त्वं मनस्त्वत्त्वं सुरेश्वरि ! | देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं वरानने ! | तत्रादौ श्रीगुरोस्तत्त्वं स्नेहाद्वक्ष्यामि पार्वति ! | सतैलं वर्त्तिकायुक्तं देहस्थं ब्र्ह्मतेजसम् | गुरुणा मन्त्रदानेन तत्सूत्रं दीपितं भवेत् | देवतायाः शरीरं हि मन्त्रादुत्पद्यते ध्रुवम् | अत एव हि तस्यात्मा देवरूपो न संशयः | ईश्वरस्य तु यद्वीर्यं तदेव अक्षयात्मकम् | तेन वर्णात्मकं देहं जन्तोरेव न संशयः | मन्त्रवर्णे सर्ववर्णमयास्ते परमेश्वरि ! | वर्णतत्त्वमिदं देवि ! सर्वस्वं मम यद्भवेत् | स्वयं देवो न चान्योऽस्मि निर्मलो देवरूपकः | सर्वत्र देवतां ध्यायेत् तृणगुल्मलतादिषु | ध्यानेन लभते सर्वं ध्यानेन विष्णुरूपकः | ध्यानेन सिद्धिमाप्नोति विना ध्यानं न सिध्यति | इति ते कथितं तत्त्वं वैष्णवस्य सुरेश्वरि ! | यज्ज्ञानादमरत्वञ्च विष्णुरूपो भवेन्नरः | ते नरा न हि गच्छन्ति कदाचिद्यममन्दिरम् || तत्त्वशोधनप्रकारस्तु कैवल्यतन्त्रे द्वितीयपटले || श्रीशिव उवाच || शृणु पार्वति ! वक्ष्यामि तेषां वै शोधनक्रियाम् | पद्मासनेन संविश्य करपुटं समाचरेत् | वामे गुरून् नमस्कृत्य दक्षिणे गणपतिं स्मरेत् | मध्ये देवीं नमस्कृत्य प्राणायामत्रयं चरेत् | शरीरे मातृकां न्यस्य ऋष्यादिन्यासमाचरेत् | स्वकल्पोक्तविधानेन षडङ्गन्यासमाचरेत् | पश्चाद्भूमौ त्रिकोणं वा षट्कोणं वा महेश्वरि ! | विलिख्य मण्डलं प्. ९८५) शुद्धं तस्योपरि घटं न्यसेत् | त्रिकोणं वेत्यादिवाद्वयं सन्नियोगशिष्टचकारवत् समुच्चयसूचकम् | तेन तन्मण्डलद्वयं कर्त्तव्यमित्यर्थः | वक्ष्यमाणभावचूडामणिवचनैकवाक्यत्वादिति स्वतन्त्रतन्त्रवचनैकवाक्यत्वादिति तया च चतुरस्रमपि || बहुधा प्रोक्षणं कृत्वा फट्कारेण पुनः पुनः | ततस्तस्मिन् कारणन्तु मूलेनैव च स्थापयेत् | मातृकार्णेन देवेशि ! विपरीतेन चैव हि | पुनः फट्कारमन्त्रेण प्रोक्षणं कारयेत् सुधीः | ततो वियच्छक्तिवीजं चतुर्दशस्वरान्वितम् | नादविन्दुयुतं कृत्वा तस्योपरि शतं जपेत् | ततो मूलं जपेन्मन्त्रं मायावीजं ततः परम् | धेनुं योनिं गालिनीञ्च त्रिखण्डं मीनसंज्ञकम् | दर्शयित्वा वरारोहे ! घटं धृत्वा पठेन्मनुम् | ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् | कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् | ओं सूर्यमण्डलसम्भूते ! वरुणालयसम्भवे ! | अमावीजमये ! देवि ! शुक्रशापाद्विमुच्यताम् | ओं वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि | तेन सत्येन देवेशि ! ब्रह्महत्यां व्यपोहतु | ततः षडङ्गयुक्तञ्च वकारं विन्दुसंयुतम् | एवं सकारणञ्चापि वर्णाक्षरसमन्वितम् | जप्त्वा मन्त्री ततो ध्यायेत् स्वमन्त्रं कुलसुन्दरि ! | आनन्दभैरवं ध्यायेद् यथा तन्त्रानुसारतः | रक्तवर्णं चतुर्बाहुं त्रिनेत्रं वरदं शिवम् | जटाजूटधरं देवं वासुकीकण्ठभूषितम् | डमरुञ्च कपालञ्च मुद्गरं पाशमुत्तमम् | धारिणं तं भजेद्देवं व्याघ्रचर्माम्बरं शिवम् | एवं ध्यात्वा महेशानि ! तस्य मध्ये प्रपूजयेत् | मायावीजं ततो हु/ फट् मन्त्रेणानेन सन्त्यजेत् | ततस्तस्मिन् महेशानि ! आनन्दभैरवीं स्मरेत् | आनन्दभैरवीं देवीं वराभयलसत्कराम् | घोररूपां वरारोहां त्रिनेत्रां रक्तवाससम् | रक्तवर्णां महारौद्रीं सहस्रभैरवान्विताम् | ब्रह्मविष्णुमहेशाद्यैः स्तूयमानां शिवां भजे | प्. ९८६) इति ध्यात्वा महेशानि ! तेनैव मनुना यजेत् | तयोरैक्यं विभाव्यैव गायत्रींदशधा जपेत् | भैरवं ङेऽन्तकञ्चोक्त्वा विद्महे तदनन्तरम् | सुधादेव्यै ततः पञ्चाद्धीमहीति ततो वदेत् | तन्नो देवि ! ततः पश्चात्तदन्ते च प्रचोदयात् | इति ते कथिता देवि ! गायत्री परमाक्षरी | तस्याः स्मरणमात्रेण द्रव्यशुद्धिश्च जायते | तस्य प्रसादादीशोऽहं सत्यं सत्यं न संशयः | तस्य मध्ये मूलमन्त्रं विल्वदण्डैर्लिखेत् सकृत् | रक्तवस्त्रेण सम्पूज्य सुधां वस्त्रेण गोपयेत् || कारणशब्दार्थस्तु तत्रैव || धर्मार्थकाममोक्षाणां विषयाणाञ्च पार्वति ! | सर्वेषां कारणं यस्मात् कारणं परिकीर्त्तितम् | अस्माकञ्च महेशानि ! शरीरकारणं हि तत् | मृत्युञ्जयोऽहं वीरेशि ! वीरकार्यप्रसादतः | निर्विकारेण देवेशि ! निर्विकल्पेन चेतसा | सेव्यमानं कुलं भद्रे ! भुक्तिमुक्तिप्रदायकम् | निर्विकल्पो महेशानि ! मुक्तिभागी न संशयः | सविकल्पो वरारोहे ! रौरवं याति निश्चितम् || अथ मांसादिशोधनं तृतीयपटले || श्रीशिव उवाच || वक्ष्येऽहं परमेशानि ! मांसादेः शोधनं प्रिये ! | पूर्ववन्मण्डलं कृत्वा पूजयेन्मण्डलोपरि | आधारशक्तिं कूर्मञ्च अनन्तं पृथिवीं तथा | तन्मध्ये स्थापयेन्मांसं मत्स्यं मुद्राञ्च पार्वति ! | हु/ वीजेन च संमन्त्र्यफट्कारैः प्रोक्षणञ्चरेत् | वारुणेन च धेन्वादिं दर्शयेत् साधकोत्तमः | ततो मायां बधूञ्चैव श्रीवीजं क्रमशो जपेत् | शुद्धिमन्त्रं पठेद्भक्त्या मूलमन्त्रं समुच्चरन् | पवित्रं कुरु देवेशि ! मांसं मत्स्यं कुलेश्वरि ! | मुद्रां शस्योद्भवां दिव्यां पूजार्थं कुलनायिके ! | ततो हु/ फट् वारुणञ्च तस्योपरि जपेत् प्रिये ! | मूलमन्त्रं च तन्मध्ये दशधा जपनं चरेत् || अथ शक्तिशोधनं तत्रैव || इदानीं कथयिष्यामि नारीणां शोधनं प्रिये ! | अग्रे वा दक्षिणे वापि संस्थाप्य प्. ९८७) मण्डलोपरि | भाले च मण्डलं कुर्यात्त्रैपुरं सिन्दुरेण च | नयने कज्जलं दद्यान्मूलमन्त्रं जपेत् सुधीः | अन्यैश्च विविधैर्द्रव्यैर्भक्षयेत् शक्तिमग्रतः | ताम्बूलं वदने दद्यादिष्टमूर्त्तिं विभाव्य च | ततः षडङ्गमन्त्रैश्च षडङ्गन्यासमाचरेत् | मातृकार्णं ततो न्यस्य ऋष्यादिन्यासमाचरेत् | मूलेन व्यापकं कृत्वा मूर्ध्नि मूलं शतं जपेत् | हृदये कामवीजञ्च बध्वीजञ्च सञ्जपेत् | नाभौ श्रीं गुह्यदेशे च सर्ववीजञ्च पार्वति ! | मौलौ च वाग्भवं कामं कुण्डलीं कुलकुण्डलीम् | शक्तिवीजं जपेन्मन्त्री सर्वसिद्धीश्वरो भवेत् | वामे मायां श्रावयेच्च कर्णे चैव महेश्वरि ! | एवं क्रमेण देवेशि ! नारीशुद्धिः प्रजायते || इति शक्तिशोधनम् || शुद्धशक्तिफलमाह तत्रैव || साधिता च जगद्धात्री यद्यद्वदति पार्वति ! | तत् सर्वं सत्यतां याति सत्यं सत्यं न संशयः | दीक्षितानाञ्च देवेशि ! शुद्धिर्नास्ति कदापि हि || श्यामारहस्यधृतपञ्चमकारशोधनादिर्यथा || स्ववामे षट्कोणान्तर्गतत्रिकोणविन्दुं विलिख्य वाह्ये वृत्तचतुरस्रं विधाय सामान्यार्घ्योदकेनाभ्युक्ष्य तत्राधारशक्तिभ्यो नम इति पूजयेत् | नम इत्याधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य मं वह्निमण्डलाय दशकलात्मने नम इति सम्पूज्य फडिति कलसं प्रक्षाल्य कारणेन सम्पर्य रक्तवस्त्रमाल्यादिना भूषयित्वा ओं इत्याधारोपरि देवीबुद्ध्या संस्थाप्य मं वह्निमण्डलाय दशकलात्मने नम इत्याधारं पूजयित्वा अं अर्कमण्डलाय द्वादशकलात्मने नम इति कलसं सम्पूज्य उं सोममण्डलाय षोडशकलात्मने नम इति पूजयेत् | ततः फडिति दर्भैर्द्रव्यं सन्ताड्य हुमित्यवगुण्ठनमुद्रयावगुण्ठ्य मूलमन्त्रेण संवीक्ष्य नम इत्यभ्युक्षणं कृत्वा मूलेन त्रिधा गन्धमादाय ओं इति कुम्भे पुष्पं दत्त्वा द्रव्यम्ध्ये हसौः इत्यनेन त्रिकोणं विलिखेत् | प्. ९८८) हसौः हसौः नम इति इष्ट्वा ह्रीं क्रीं परमस्वामिनि परमाकाशशून्यवाहिनि चन्द्रसूर्याग्निभक्षिणि पात्रं शिवशिव स्वाहा | इति घटं धृत्वा दशधा प्रजप्य ऐं ह्रीं क्रीं आनन्देश्वराय विद्महे सुधादेव्यै धीमहि तन्नोर्द्ध्वनारीश्वरः प्रचोदयात् | इति तदुपरि जप्त्वा शापमोचनं कुर्यात् || तदुक्तं स्वतन्त्रे || ततश्च कारणं दिव्यं समानीय घटस्थितम् | वेष्टितं रक्तवस्त्रेण रक्तमाल्येन भूषितम् | वामभागे महेशानि ! मण्डलं चतुरस्रकम् | तत्र संस्थापयेद्भक्त्या देवीबुद्ध्या वरानने ! | मण्डले कलसे द्रव्ये वह्न्यर्के शशिमण्डलम् | इति पूजयेदित्यर्थः || भावचूडामणौ च || वामभागे तु षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् | लिखित्वा तत्र कुम्भं वै सौवर्णं राजतञ्च वा | ताम्रं भूमिमयं वापि यद्वा लौहविवर्जितमिति || तन्त्रान्तरे च || आधारे स्थापयेन्मन्त्री सौवर्णं वाथ राजतम् | कांस्यजं मृण्मयं वाति घटमव्रणशालिनम् || सुवर्णादिमयघटस्य प्रत्येकफलमाह तत्रैव || सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदं तथा | कांस्यं शान्तिकरञ्चैव मृण्मयं पुष्टिदं भवेत् || अथ शापमोचनमन्त्रास्तदुक्तं कुमारीतन्त्रे || अन्यच्च शुणु देवेशि ! यथा पानादिकर्मणि | दोषो न जायते देवि ! तान् वै मन्त्रान् शृणुष्व मे | एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् | कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् | सूर्यमण्डलसम्भूते ! वरुणालयसम्भवे ! | अमावीजमये ! देवि ! शुक्रशापाद्विमुच्यताम् | वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि || इति | तेन सत्ये न ते देवि ! ब्रह्महत्यां व्यपोहति | एवं मन्त्रत्रयेणैव अभिमन्त्र्य सुरां शुभाम् | प्रदद्यात् कालिकायै च ततो नैवेद्यभुग्भवेत् | इति मन्त्रत्रयं देवि ! प्. ९८९) घटं धृत्वा त्रिधा पठेत् | ततः ओं वा/ वी/ वू/ वै/ वौ/ वः ब्रह्मशापविमोचितायै सुधादेव्यै नम इति त्रिधा पठेत् | इति ब्रह्मशापविमोचनम् || ततः ओं शा/ शी/ शू/ शै/ शौ/ शः शुक्रशापाद्विमोचितायै सुधादेव्यै नम इति दशधा जपेत् | इति शुक्रशापविमोचनम् || ततः ऐ/ ह्री/ श्री/ क्रा/ क्री/ क्रू/ क्र/ क्रौ/ क्रः कृष्णशापं विमोचय अमृतं श्रावय श्रावय स्वाहा | इति दशधा जपेत् | इति कृष्णशापविमोचनम् || अथ उत्तरतन्त्रे || ओं हंसः शुचिसद्वसुरन्तरीक्षं सद्धोता वेदिसदतिथिर्दुरोनसत् | नृसद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् | इति द्रव्योपरि वारत्रयं पठएत् | ततो द्रव्यमध्ये आनन्दभैरवं आनन्दभरवीञ्च ध्यायेत् || यथा || सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् | अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् | अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् | वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् | कपालखट्टाङ्गधरं घण्टाडमरुवादिनम् | पाशाङ्कुशधरं देव गदामुषलधारिणम् | खड्गखेटकपट्टीशमुद्गरं शूलदण्डधृक् | विचित्रं खेटकं मुण्डं वरदाभयपाणिनम् | लोहितं देवदेवेशं भावयेत् साधकोत्तमः | एवं ध्यात्वा हसक्षमलवरयूं आनन्दभैरवाय वषट् | इत्यानन्दभैरवं वारत्रयं जपेत् || अथानन्दभैरवीं ध्यायेद् यथा | भावयेच्च सुधां देवीं चन्द्रकोट्ययुतप्रभाम् | हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् | अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् | प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् | एवं ध्यात्वा हसक्षमलवरयीं सुधादेव्यै वौषट् | इत्यानन्दभैरवीं सम्पूज्य द्रव्यमध्ये शक्तिचक्रं लिखेत् | ततस्त्रिपंक्त्या दक्षिणावर्त्तेन अं १६ कं १६ खं १६ क्रमेण विलिख्य मध्ये हं लं क्षं विलिखेत् | ततः शिवशक्त्योः प्. ९९०) समायोगाद् द्रव्यमध्ये अमृतत्वं विचिन्त्य धेनुमुद्रया अमृतीकृत्य वमिति वरुणवीजं मूलमन्त्रञ्चाष्टधा जप्त्वा देवतामयं भावयन् घटं धृत्वा पठेत् | इति द्रव्यशुद्धिः || तदुक्तं स्वतन्त्रतन्त्रे || ततश्च भावयेद्द्रव्यं मध्ये रक्तनिभं प्रिये ! | अकथादित्रिपंक्त्या तु हलक्षत्रयमण्डितम् | पूर्वोक्तयोनिमुद्रायां शिवशक्त्याः समागमे | अमृतं चिन्तयेद्द्रव्यमष्टधा अमृतं जपेत् | अष्टधा मूलमन्त्रञ्च जपेद्धृत्वा घटं ततः | एतत्तु कारणं देवि ! सुरसङ्घनिषेवितम् | अत एव तस्या नाम सुरेति भुवनत्रये | अस्या गन्धः केशवस्तु तेन गन्धेन कौलिकः | पूजयेच्च परां देवीं कालिकां दक्षिणां शिवाम् || अथ मांसशोधनम् || ओं प्रतद्विष्णुस्तव ते वीर्येण मृगो न भीमः कुचरो गरिष्ठा यस्योरुषु त्रिषु विक्रमे धियन्ति भुवनानि विश्वा | इत्यनेन मांसं शोधयेत् | ततः ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् || इति मीनशुद्धिः || ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम् | ओं तद्विप्रासो विपन्यवो जागृवांसः समिन्धते | विष्णोर्यत् परमं पदम् || इति मुद्राशुद्धिः || ओं विष्णोर्योनिं कल्पयतु त्वष्टा रूपाणि पिंसतु | आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते | गर्भं देहि सिनीवाली गर्भं देहि सरस्वति ! | गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ || अथ स्वयम्भूकुसुमादि || मुण्डमालातन्त्रे द्वितीयपटले || हरसम्पर्कहीनाया लतायाः काममन्दिरे | जातं कुसुममादौ यन्महादेव्यै निवेदयेत् | स्वयम्भूकुसुमं देवि ! रक्तचन्दनसंज्ञितम् | तथा त्रिशूलपुष्पञ्च वज्रपुऽपं वरानने ! | अनुकल्पं लोहिताक्षचन्दनं हरवल्लभम् || प्. ९९१) समायाचारतन्त्रे द्वितीयपटले || स्त्रीणां ऋतुः प्रथमतो यस्मिन् वयसि जायते | गृह्णीयादाशु सुभगे ! ब्रह्मादीनाञ्च दुर्लभम् | स्वयम्भूकुसुमं नाम देवताप्रीतये सदा | यदि भाग्यवशाद्देवि ! लभते कुसुमन्द्विदम् | ततः स्वदेवतानाञ्च कुर्यात् स्नानमनुत्तमम् | वाञ्छितं लभते मन्त्री सत्यं सत्यं वरानने ! | इदं रहस्यं कथितं देवतास्नानहेतवे | न कुर्याद्भक्षणं देवि ! एतयोरुभयोरपि | एतयोः शक्तिकुसुमस्वयम्भूकुसुमयोरित्यर्थः || तथा || जीवद्भर्त्तृकनारीणां पञ्चमं कारयेत् प्रिये ! | तस्या भगस्य यद्रव्यं तत्कुण्डोद्भवमुच्यते | मृतभर्त्तृकनारीणां पञ्चमञ्चैव कारयेत् | तस्या भगस्य यद्द्रव्यं तद्गोलोद्भवमुच्यते | कुण्डगोलोद्भवं पुष्पं अभावे शृणु सुन्दरि ! | अभावे स्वयम्भूकुसुमाभावे || वल्लीपुष्पाणि सर्वाणि तरोः पुष्पाणि यानि च | तानि सर्वाणि सुभगे ! देवतायै निवेदयेत् | अपराजितायाः पुष्पं यद्वज्रपुष्पञ्च यद्भवेत् | करवीरस्य यत् पुष्पं यत् पुष्पं बन्धुजीवकम् | कमलस्य च यत् पुष्पं यत् पुष्पं चम्पकस्य च | विशेषतस्तु योग्यानि पुष्पाणि सुरसुन्दरि ! | वर्वरापत्रपुष्पाणि विल्वपत्राणि सुन्दरि ! | पूजार्थं सर्वमादाय सर्वसौभाग्यसिद्धये || उत्पत्तितन्त्रे प्रथमपटले || स्वयम्भूकुसुमैर्हुत्वा स्वयम्भूपुष्पपूजनम् | यः करोति महादेवि ! स वीरः शिव एव तु || गन्धर्वतन्त्रे द्वितीयपटले || आनीय कन्यकां दिव्यां प्रमदां यौवनान्विताम् | प्रोक्षितां मूलमन्त्रेण सुशीलाञ्चारुहासिनीम् | सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् | गुरुभक्तां सुवेशाञ्च देवतापूजने रताम् | तस्य गात्रे न्यसेन्मन्त्री पञ्चकामान् शवानपि | पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृका न्यसेत् | दिव्यमालां समादाय साधको प्. ९९२) विजितेन्द्रियः सहस्रैकप्रमाणेन जपेत् स्वप्नावतीं ततः | अनेनैव विधानेन भवेदाकर्षणं महत् | तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् | सर्वसङ्क्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् | कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः | कामेश्वरस्वरूपञ्च आत्मानमपि भावयन् | स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् | तस्याः पुष्पं स्वयं यावद्रक्षणीयं प्रयत्नतः | ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् | नानारसान्नपानेन तृप्तिमाचर्य यत्नतः | वस्त्रालङ्कारभूषाद्यैस्तस्याः सन्तोषमानयेत् | यथाकाले तथा पुष्पं स्वयं तद्योग्यरूपतः | गृह्णीयात्तु प्रयत्नेन स्वयम्भूकुसुमं हि तत् | स्वम्भूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् | प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि | स्वयम्भूपष्पयोगेन साक्षात्तेन सदार्चयेत् | विद्यां स्वप्नावती जप्त्वा क्षिप्रमाकर्षणं भवेत् | देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये | राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि | स्वयम्भूकुसुमैः पूजां प्रत्यहं यः समाचरेत् | जप्त्वा वै दिव्यमालायां सर्वकाममुपालभेत् || अथ स्वयम्भूकुसुमादिशुद्धिः || प्लुं स्लुं म्लुं श्लुं स्वाहा ! अमृते ! अमृतोद्भवे ! अमृतेश्वरि ! अमृतवर्षिणि ! अमृतं श्रावय श्रावय स्वाहा | इति कुण्डगोलोद्भवादिशुद्धिः || ततः सर्वं हुं इत्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य तालत्रयं दत्त्वा दशदिग्बन्धनञ्च कृत्वा तदुपरि मूलं सप्तधा जपेदिति शोधनम् || हसक्षमलवरयूं आनन्दभैरवाय वषट् | इत्यानन्दभैरवं सम्पूज्य अर्घ्यपात्रं धृत्वा पठेत् | ऐं क्रीं सौः ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् | आपूरितं महापात्रं पीयूषरसमाहर | ऐं खण्डैकरसानन्दककरे रयसुधाशुनि | स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ! | क्लीं अकुलस्थामृताकारे शुद्धिज्ञानकरे प्. ९९३) परे | अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ! | सौः तद्रूपेणैकरम्यञ्च कृत्वास्यैतत्स्वरूपिणि | भूत्वा परामृताकारं मयि विस्फुरणं कुरु | ऐं स्लुं व्लुं अं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं श्रावय श्रावय स्वाहा | ऐं वदवदवाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु ऐं क्लीं सौः महामोक्षं कुरु हौः हसौः | अनेन कारणमभिमन्त्र्य तत्र देवीमावाह्य तालत्रयदिग्बन्धनं कृत्वा अवगुण्ठनमुद्रया अवगुण्ठ्य धेनुमुद्रयामृतीकृत्य योनिमुद्रां प्रदर्श्य हसौर्नम इति सम्पूज्य तत्र शङ्खमुद्रां प्रदर्श्य षडङ्गेन सकलीकृत्य मत्स्यमुद्रया पात्रमाच्छाद्य मूलं दशधा जप्त्वा देवीस्वरूपं पात्रं भावयेत् | ततो देव्या आज्ञां गृहीत्वा घटश्रीपात्रयोर्मध्ये पात्राणि स्थापयेत् | ततो घटसमीपे गुरुपात्रं ततो भोगपात्रं ततः शक्तिपात्रं योगिनीपात्रं वीरपात्रं बलिपात्रं पाद्यपात्रमाचमनीयपात्रञ्च स्थापयेत् सामान्यार्घ्यवत् | ततो मत्स्यमांसादियुक्तकारणेन तत्त्वमुद्रया श्रीपात्रात् स्वमूर्ध्नि श्री-आनन्दभैरवं तर्पयामीति तन्मन्त्रेण त्रिःसन्तर्प्य तत्तन्मन्त्रेण अमुकानन्दनाथगुरुश्रीपादुकां तर्पयामि इति त्रिः सकृद्वा सन्तर्प्य एवं परमपरापरपरमेष्टिगुरून् तर्पयेत् | ततः श्रीपात्रामृतेन देवीं सायुधां सवाहनां सपरिवारां हृदि तर्पयेत् || तत्त्वमुद्रा यथा निरुत्तरतन्त्रे चतुर्दशपटले || अङ्गुष्ठानामिकायोगाद्वामहस्तस्य पार्वति ! | तर्पयेत् कालिकां देवीं सायुधां सपरीकराम् | अङ्गुष्ठो भैरवो देवश्चानामा शक्तिरुच्यते | शिवशक्तिसमायोगात्तर्पयेद्देवि ! देवताम् | तर्पणं त्रिविधं देवि ! श्रेष्ठं मध्यं कनीयसम् | श्रेष्ठञ्च दिव्यभावस्य वीरभावस्य मध्यमम् | कनीयसं पशूनाञ्च हृदि यन्त्रे जले क्रमात् | ततस्तत्त्वशुद्धिं कुर्यात् | तदुक्तं श्रुतौ | प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा प्. ९९४) विपाप्मा भूयासं स्वाहा || १ || ओं पृथिव्यप्तेजोवायवाकाशानि मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || २ || ओं प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे इत्यादि || ३ || ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे इत्यादि || ४ || ओं पाणिपादपायूपस्थशब्दा मे इत्यादि || ५ || ओं वायुतेजःसलिलभूम्यात्मानो मे इत्यादि || ६ || ओं स्पर्शरूपरसगन्धघोषाणि मे शुध्यन्तां ज्योतिरहमित्यादि || ७ || इति सप्तमात्रान् पठित्वा कारणेन करतलं सम्मार्ज्य दक्षहस्ते त्रिकोणं लिखित्वा कलासदृशीं शुद्धिं त्रिकोणदक्षिणोत्तरसम्मुखमध्ये तु निधाय वामहस्ताङ्गुष्ठमध्यमानामायोगैरेकां गृहीत्वा मूलमन्त्रान्ते ह्रीं श्रीं आत्मतत्त्वेन स्थूलदेहं शोधयामि स्वाहा | अनेनाधःशुद्धिं स्वीकृत्य ह्रीं श्रीं विद्यातत्त्वेन सूक्ष्मदेहं शोधयामि स्वाहा | अनेन दक्षिणस्थां स्वीकृत्य ह्रीं श्रीं शिवतत्त्वेन परदेहं शोधयामि स्वाहा | अनेनोत्तरस्थां स्वीकृत्य ह्रीं श्रीं सर्वतत्त्वेन तत्त्वत्रयाश्रयं जीवं शोधयामि स्वाहा | अनेन वाममध्यमाञ्च स्वीकृत्य वस्त्रेण हस्तौ संशोध्य हस्ताभ्यां सर्वाङ्गं मार्जयेदिति तत्त्वशुद्धिः || इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे पूर्णाभिषेकादिकथनं नाम द्वितीयः परिच्छेदः || अथ वीराचारपूजा || कृकलासदीपिकायां तृतीयपटले || आदौ दीपनी देवेशि ! वक्तव्या वीरपूजिते ! | यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः | सर्वेषामेव देवानां दीपनीया प्रकीर्त्तिता | चतुर्वर्गप्रदा विद्या सिद्धिविद्यासु पार्वति ! | अनया तु विना विद्या न सिध्यति कदाचन | विना पूजां विना ध्यानं विनाचारं महेश्वरि ! | साधको ज्ञानमात्रेण भवेन्मुक्तो महानघः | तत्कुले नैव दारिद्र्यं तद्गोत्रे नास्त्यपण्डितः | प्. ९९५) प्राणं देयाद्धनं देयात् कुलं देयात् स्त्रियोऽपि च | एनां विद्यां महेशानि ! न दद्याद्यस्य कस्यचित् | कालीवीजत्रयं कूर्चयुगलं तदनन्तरम् | लज्जावीजद्वयं देवि ! दक्षिणे कालिके तथा | पुनस्तान्येव वीजानि वह्निकान्तावधिर्मनुः | भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द उदाहृतम् | दक्षिणाकालिका प्रोक्ता देवता तन्त्रगोपिता | वीजं शक्तिञ्च देवेशि ! कूर्चं लज्जां क्रमात् प्रिये ! | अङ्गन्यासकरन्यासौ मायया परिकीर्त्तितौ | करालवदनां घोरां मुक्तकेशीं दिगम्बराम् | चतुर्भुजां महादेवीं मुण्डमालाविभूषिताम् | सद्यः कृत्तशिरःखड्गवामोर्द्ध्वाधःकराम्बुजाम् | अभयं वरदञ्चैव दक्षिणाधोर्द्ध्वपाणिकाम् | महामेघप्रभां श्यामां करकङ्कालकान्विताम् | कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् | घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् | शवरूपमहादेवहृदयोपरिसंस्थिताम् | महाकालेन च समं विपरीतरतातुराम् | एवं ध्यात्वा प्रयत्नेन मद्यैर्मांसैश्च भक्तितः | रक्तपुष्पै रक्तपद्मै रक्ताम्बरसमन्वितैः | सम्पूज्य यत्नतो मन्त्री परिवारान् समर्च्चयेत् | पीठपूजां ततो देवि ! आधारशक्तिपूर्वकम् | प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च | सुधाम्बुधिं मणिद्वीपं चिन्तामणिगृहं तथा | श्मशानं पारिजातञ्च तन्मूले मणिवेदिकाम् | तस्योपरि मणेः पीठं न्यसेत् साधकत्तमः | चतुर्दिक्षु मिनीन् देवान् शिवाश्च नरमुण्डकान् || धर्माद्यधर्मादींश्चैव ओं ह्रीं ज्ञानात्मने नमः | केशरेषु च पूर्वादिष्विच्छाज्ञानक्रिया तथा | कामिनी कामदा चैव रतिः प्रीतिस्तथैव च | श्रियानन्दा महेशानि ! मध्ये चैव मनोन्मनी | कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् | विप्रचित्तां महेशानि ! वहिः षट्कोणके बुधः | उग्रामुग्रप्रभां दीप्तां न्यसेत् पत्रत्रिकोणके | मात्रां मुद्रां मिताञ्चैव न्यसेच्चान्यत्रिकोणके | सर्वाः श्यामा असिकरा प्. ९९६) मुण्डमालाविभूषिताः | तर्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः | दिगम्बरा हसन्मुख्यः स्वस्ववाहनभूषिताः | एवं ध्यात्वा प्रयत्नेन पूजयेदष्टपत्रके | ब्रह्माणीं नारायणीञ्चैव तथा माहेश्वरीं प्रिये ! | अपराजिताञ्च कौमारीं वाराहीमर्च्चयेद्बुधः | नारसिंहीं प्रपूज्यैव ततो दक्षिणतो जयेत् | महाकालं यजेद्देवि ! विपरीतरतान्तरे | दिगम्बरं मुक्तकेशं चण्डवेशं प्रयत्नतः | एवं सम्पूज्य यत्नेन यजेन्मन्त्रमनन्यधीः | विना मद्यं विना मांसं यदि देवीम् प्रपूजयेत् | देवताशापमाप्नोति मृते नरकमश्नुते | विना परस्त्रिया देवि ! जपेद् यदि तु साधकः | शतकोटिजपेनैव तस्य सिद्धिर्न जायते | स्त्रियो गतिः स्त्रियः प्राणाः स्त्रियः सिद्धिर्न संशयः | नारीणां स्मरणे काली स्मारिता स्यान्न संशयः | कण्ठे कण्ठं मुखे वक्त्रं वक्षोजं चोरसि प्रिये ! | कुलागारे तथा दण्डं दत्त्वा यो जपते नरः | जपार्द्धेनैव देवेशि ! साक्षाद्भवति कालिका | तस्यै कुलरसं देवि ! पाययित्वा यथोचितम् | स्वयं पीत्वा जपेन्मन्त्रं सिद्धिर्भवति नान्यथा | एतस्य च प्रयोगेण ग्लानिर्यस्य प्रजायते | कालिकामन्त्रवर्गेषु नाधिकारी स उच्यते | लक्षमात्रजपेनैव पुरश्चरणमुच्यते | क्षत्त्रियाणां द्विलक्षं स्याद्वैश्यानाञ्च त्रिलक्षकम् | शुद्राणान्तु चतुर्लक्षं पुरश्च्रणमुच्यते | लक्षमात्रं जपेद्देवि ! हविष्याशी दिवा शुचिः | रात्रौ निशीथे तावच्च पीत्वा कुलरसं प्रिये ! | कुलनारीगणोपेतो जपेन्मन्त्रमनन्यधीः | एवमुक्तविधानेन दशांशं होममाचरेत् | तद्दशांशं तर्पणञ्च तद्दाशांशाभिषेचनम् | तद्दशांशविप्रभोज्यं कीर्त्तितं परमेश्वरि ! | पुष्पिणीमकरन्देन होमतर्पणमाचरेत् | एवं प्रयोगमात्रेण सिद्धो भवति नन्यथा | वाक्सिद्धिं लभते देवि ! कवित्वं निर्मलं प्रिये ! | धनेनापि कुवेरः स्याद्विद्यया प्. ९९७) स्याद्वृहस्पतिः | आकल्पजीवनो भूत्वा अन्ते मुक्तिमवाप्नुयात् | प्रयोगारम्भकाले च सुरा दुग्धमयी भवेत् | लोहितं वा भवेद्देवि ! मांसं पुष्पमयं भवेत् | सुरापात्रं भवेच्छून्यं मांसपात्रं विशेषतः | कलाकलान्तरञ्चैव पुष्पं पुष्पान्तरं भवेत् | नवनीतं मांसतुल्यं मांसं पुष्पं भवेत् प्रिये ! | एवं ज्ञात्वा साधकेन्द्रो जायते च क्रमेण तु | यस्यात्र प्रत्ययो देवि ! लभते नात्र संशयः | मनोयोगं तदर्द्धे स्याद्यत्नेन वरवर्णिनि! | सौवर्णं राजतञ्चैव तथा मौक्तिकमेव च | विद्रुमं पद्मरागञ्च तथैव वरवर्णिनि ! | प्रोक्तं मालाचतुष्कञ्च समभागेन मालिकाम् | ग्रथयेत् पट्टसूत्रेण पुष्पिणी गृहवर्त्तिनी | लोहितेन वरारोहे ! सर्पाकारां सुशोभनाम् | स्नापयेत् पञ्चगव्येन मकरन्देन पार्वति ! | तारं मायां कूर्च्चयुग्मं माले माले पदं तथा | वह्निकान्तां समुच्चार्य शतं जप्त्वाभिमन्त्रयेत् | स्नापयेत् पीठमध्ये तु शून्यागारे वरानने ! | ततस्तां मालिकां देवि ! गृहीत्वा यत्नतः सुधीः | ज्ञात्वा सिद्धिन्तु निकटे महोत्सवमथाचरेत् | षोडशाब्दां सुयुवतीं समानीय प्रयत्नतः | तामुद्वर्त्त्य स्वयं गन्धैः स्नापयेच्चुद्धवारिणा | दिव्यालङ्कारशोभाभिर्दिव्यपुष्पैः सुगन्धिभिः | पूजयित्वा च मिष्टान्नैर्भोजयेत्तां वराननाम् | आसवं पाययेद्यत्नान्निश्चयं तन्मयं पिबेत् | ततो मन्त्री रमयेत्तां रतिमिच्छति सा यदा | तस्या हस्ते ततो मालां दत्त्वा तां याचयेद्बुधः | नीत्वा मालां तया दत्तां ब्राह्मणान् भोजयेत्ततः | तदा जपेदर्द्धरात्रौ साक्षाद्भवति नान्यथा | तत्रापि प्रत्ययो नो चेत् कलामध्ये विशेद्बुधः | पर्यङ्कस्य चतुष्पार्श्वे पट्टसूत्रं मनोरमम् | बद्ध्वा द्वाविंशतिग्रन्थिं रमापुटितमूलकैः | निवेश्यैव स्वरक्षार्थं पाञ्चालीं सैन्धवीं तथा | वक्ष्यमाणक्रमेणैव वस्त्रोपरि निधापयेत् | षोडशाब्दां प्. ९९८) परलतां गणिकाञ्च विशेषतः | समानीय प्रयत्नेन दिव्यपुष्पैर्निवेदयेत् | भोजयेन्मिष्टभोज्यानि क्षौमवस्त्रं परिधापयेत् | लेपयेद्दिव्यगन्धेन भूषणैर्भूषयेत् स्वयम् | रमयेत् परया भक्त्या साधकः सिद्धिहेतवे | जपस्यार्द्धजपेनैव सिद्धिर्भवति नान्यथा | विना मद्यं महेशानि ! न सिध्यति कदाचन | तस्मादादौ प्रयत्नेन पीत्वा तां पाययेद्बुधः | तत्रापि प्रत्ययो नो चेच्चारुहोमं प्रकल्पयेत् | निशीथे निर्भयो देवि ! श्मशाने प्रान्तरे तथा गन्धैः स्नानादिकं कृत्वा पादशौचादिपूर्वकम् | घटमारोपयेत्तत्र सौवर्णं राजतं तथा | ताम्रं वा तं महेशानि ! विभवानुक्रमेण तु | कल्पयित्वा निशाभागे पूजयेत् परमेश्वरीम् | उपाचारैर्यथाशक्ति वित्तशाठ्यं विवर्जयेत् | देवीपूजां विधायैव पिष्टन्तु परिदापयेत् | चरौ निधाय यत्नेन चतुष्पिष्टकवर्त्तुलम् | ततश्चरुं पाययेत्तु कुण्डमध्ये तु पूजयेत् | रक्तां घनां बलाकाञ्च नीलां कालीं कलावतीम् | द्वारेषु पूजयेन्मन्त्री लोकपालान् प्रयत्नतः | ग्रहान् सम्पूजयेन्मन्त्री चतुष्कोणक्रमेण तु | हविर्धारां हुमेन्मन्त्री यथाशक्त्या ततश्चरुम् | श्रावयेन्मूलमन्त्रेण मधुना सिद्धिहेतवे | हुता सञ्छादयेन्मन्त्री हुताशं पीतवाससा | पूजयेद् यत्नतो मन्त्री ततो दक्षिणकालिकाम् | धूपदीपैश्च नैवेद्यैः प्रदक्षिणमथाचरेत् | पिष्टवर्त्तुलसङ्ख्यातं सुवर्णादि प्रजायते | एकेनैव प्रयोगेण यदि सिद्धिर्भवेत् प्रिये ! | तथा होमो द्वितीयेन रौप्यं वापि सुरेश्वरि ! | तृतीयेन भवेत्ताम्रं लौहं तुर्येण च स्मृतम् | एषामन्यतमां ज्ञात्वा साधयेत् सिद्धिमुत्तमाम् | सिद्धायां कालिकायाञ्च नैन्द्रं दुर्लभमुच्यते | गुरुमूलमिदं सर्वं तस्मादादौ समर्चयेत् | तस्य प्रसादमात्रेण सिद्धो भवति नान्यथा | तत्रापि प्रत्ययो नोचेत् प्. ९९९) प्रदक्षिणमथाचरेत् | अमावस्यादिने चैव निशीथे गतसाध्वसः | श्मशाने प्रान्तरे वापि गत्वा देवीं प्रपूजयेत् | मद्यमांसोपचारैश्च धूपदीपैर्मनोरमैः | नैवेद्यैः समिषान्नैश्च तथैव वरवर्णिनि ! | द्रव्यैर्लोहितवस्त्रैश्च स्वर्णाभरणभूषितैः | जपन्मूलं क्रोधरुद्धं प्रदक्षिणमथाचरेत् | प्रणमेद्दण्डवद्भूमावनिशं गिरिसम्भवे ! | निशायामुत्तमं यावन्निशाशेषं महेश्वरि ! | यदि भीतिर्भवेत्तत्र तदा दृधतरो भवेत् | दन्तादन्ति विधायैव मनसैव मनुं स्मरेत् | अवश्यं श्रूयते शब्दः शिखा च दृश्यते स्थले | यदि तत्र भवेद्देवि ! शब्दो गुणगुणो भवेत् | ततः परलतासक्तः पुनः कार्यं तथैव च | तदा भवति चार्वङ्गि ! देववाणी सुशोभना | सिद्धिमावश्यकीं ज्ञात्वा महोत्सवमथाचरेत् | तथापि प्रत्ययो नोचेत् भगयागमथाचरेत् | कामिनीं युवतीं यत्नात् पुष्पिताञ्च विशेषतः | तामानीय प्रयत्नेन स्वञ्च भूषणमाचरेत् | तामुद्वर्त्त्य स्वयं गन्धैर्भूषणैर्वसनैस्तथा | मिष्टान्नैर्भोजयित्वा च भक्त्या परमया शिवे ! | तां विवस्त्रां विधायैव स्थापयेदूर्द्ध्वतल्पगे | ततः पूजां विधायैव नानासम्भारसंयुतैः | तत्रैव रचयेद्यन्त्रं रक्तचन्दनयावकैः | भगनासां भगप्राणां भगदेहां भगस्तनीम् | पूजयेदष्टपत्रेषु मध्ये देवीं प्रपूजयेत् | रक्तगन्धै रक्तमाल्यै रक्तवस्त्रैर्मनोरमैः | पूजयेद्भक्तितो मन्त्री देवीदर्शनकाम्यया | एतस्मिन् समये देवि ! रतिमिच्छति सा यदा | लतान्तु रमयेद्देवि ! यावद्धोमं करोति न | पुष्पिणीमकरन्देन ततो होमं समाचरेत् | ओं नमस्ते भगमालायै भगरूपधरे ! शुभे ! | भगरूपे ! महाभागे ! भोगमोक्षैकदायिनि ! | भगवत्याः प्रसादेन मम सिद्धिर्भविष्यति | कालि ! कालकलारूपे ! कुलीने ! कुलरूपिणि ! | कुलमार्ग प्रसादेन मम सिद्धिर्भविष्यति | एवं स्तुत्वा महेशानि ! कूर्चवीजसहस्रकम् | जप्यं देवेशि ! वचसा नारसिंहं प्. १०००) शतावधि | उन्मत्ता सा स्वयं ब्रूते यदा साक्षाद्भविष्यति | अवश्यं कथयेत् कान्ता नात्र कार्या विचारणा | इति ते कथितं देवि ! गुह्याद्गुह्यतरं परम् | प्रकाशात् कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत् | अत्राशक्तो महेशानि ! कलावटीं समाचरेत् | कुङ्कुमं चन्दनं चन्द्रं एकीकृत्य तु पेषयेत् | जपेत् सहस्रं देवेशि ! देवीञ्चैव प्रपूजयेत् | कामिनीं पूजयेद्भक्त्या तस्या मूर्द्ध्वनि कारयेत् | तिलकं वश्यमात्रेण स्वयं शिरसि धारयेत् | रमा वाणी भवानी च सर्वसम्मोहिनी तथा | ङेयुता परमेशानि ! वह्निकान्तावधिर्मनुः | अनेन शतजप्तेन तिलकं मूर्ध्नि कारयेत् | कलाञ्च पूजयेद्यत्नान्नानाभरणभूषिताम् | पाययेत् सा स्वयं यत्नात् स्वयं पीत्वा च यत्नतः | जायते देववाणी च ततो देवी न संशयः | एवं भूत्वा वरारोहे ! ततो यत्नं समाचरेत् | अथवा देवदेवेशि ! नग्नीभूय विचक्षणः | नग्नां परलतां पश्यन् जपेन्मन्त्रमनन्यधीः | यामोत्तरं समारभ्य यमद्वयमतन्द्रितः | मध्यमांसोपचारैश्च पूजयित्वेष्टदेवताम् | रक्षार्थं खड्गपाणिस्तु स्वपार्श्वेऽपि नियोजयेत् | गणनाथं क्षेत्रपालं वटुकं योगिनीं तथा | बलिभिः सामिषान्नैश्च यजेत् परमसुन्दरि ! | घृतप्रदीपं प्रज्वाल्य ततो देवीं समर्चयेत् | ततः सहस्रं जपतो देवतादर्शनं भवेत् | अथवा नियमौ भूत्वा भूतलिप्यादिसम्पुटम् | जपेत् प्रतिदिनं देवि ! सहस्रं सिद्धिहेतवे | दिवारात्रौ संस्मरणं हविष्याशनमेव च | सर्वदा धौतवस्त्रञ्च परिधाय प्रयत्नतः | म्लेच्छसम्भाषणञ्चैव पिष्टकं यत्नतस्त्यजेत् | केवलं दुग्धपायौ स्यादथवा यावकाशनः | शाकाहारो जलाहारो निराहारोऽथवा भवेत् | तीर्थमासाद्य निवसेद्भुवो वा प्रियमेव च कुमारीं पूजयेद्यत्नान्नानाभरणसंयुताम् | मासे पूर्णे वरारोहे ! प्. १००१) निशीथे गतसाध्वसः | महापूजां प्रकुर्वीत लतामण्डलमध्यगः | मद्यैर्मांसैश्च विविधैरन्यैश्च विविधैस्तथा | सम्पूज्य विधिवद्भक्त्या सर्वदा तिमिरालये | सहस्रजपमात्रेण सिद्धिर्भवति नान्यथा | साक्षादायाति सा देवी सत्यं सत्यं न संशयः | साक्षाद्याति वरारोहे ! भवेदिन्दुसमो नरः | अञ्जनं पादुकासिद्धिः खड्गसिद्धिर्वरानने ! | अजरामरता देवि ! कामिनीसिद्धिहेतवे | तथा मधुमतीसिद्धिर्जायते नात्र संशयः | देवचेटीशतं तस्या वश्यं भवति नान्यथा | स्वर्गे मर्त्त्ये च पाताले स यत्र गन्तुमिच्छति | तत्रैव चेटिकाः सर्वा नयन्ति नात्र संशयः | रम्भा वापि घृताची वा यदि जपति साधकः | तदैव याति सा देवी नात्र कार्या विचारणा | इच्छामृत्युर्भवेद्देवि ! किमन्यत् कथयामि ते | एष विधिर्दक्षिणाया गुह्यस्तन्त्रसहस्रके | तव स्नेहाद्वरारोहे ! कथितो हि न संशयः | अथवा गणिकां गत्वा पूजयेद्भक्तिभावतः | तया सह जपेन्मन्त्रं पिबेदनिशमासवम् | निवेद्य परया भक्त्या पाययेत्तां प्रयत्नतः | एवं ज्ञात्वा विधानन्तु मासमेकं वरानने ! | प्रत्यहं होमयेद्विद्वान् नित्यं स्याद्विप्रभोजनम् | मासे पूर्णे साधकेन्द्रो निशीथे तु लतायुतः | साक्षात् पूजाक्रमेणैव पूजयेत् परमेश्वरीम् | महातिमिरमध्यस्थो जपेन्मन्त्रमनन्यधीः | तत्क्षणाज्जायते सिद्धिः सत्यं देवि ! वदामि ते | अथवा निम्बकाष्ठेन पाञ्चालीं रचयेद्बुधः | कान्ताकारामसिद्धाञ्च स्नातामूर्द्ध्वकरेवतीम् | गत्वा निर्जनदेशे तु महाकान्तारके प्रिये ! | तत्र पूजाविधिं कृत्वा प्रयोगविधिमाचरेत् | विलिखेच्चन्दनेनैव भुवि मन्त्रं मनोरमे ! | पाञ्चालीं स्थापयेत्तत्र रक्तवस्त्रोपरि प्रिये ! | तत्र गत्वा चतुर्दिक्षु कीलकान् रोपयेत् प्रिये ! | तत्रैव लोकपालांश्च स्वस्वमन्त्रेण कीलितान् प्. १००२) | गणेशं वटुकं क्षेत्रं योगिनीं चन्द्रदिक्षु च | सम्पूज्य विधिवन्मन्त्री दूर्वाक्षतसमन्वितः | ओं ये चात्र संस्थिता भूताः श्वेताः कुष्माण्डरूपिणः | योगिन्यो यातुधानाश्च महारौद्राश्च ये तथा | गन्धर्वा विघ्न कर्त्तारः किन्नराश्च पिपीलिकाः | चिपिटाः शङ्कराश्चैव घोरदंष्ट्रा महोत्कटाः | सूचीमुखा महापापाः पापकर्मरताश्च ये | ताडितास्तु मया सर्वे प्रयान्तु शङ्कराज्ञया | कूर्चमन्त्रं ससुचार्य ताडयेदक्षतैर्भृशम् | महापूजाविधानेन देवीं सम्पूज्य यत्नतः | ततः पुत्तलिकाभाले मूलमन्त्रं लिखेत् सुधीः | पूजयेद्देवतास्तस्या अङ्गे देवि ! यथोचिताः | ललाटे कालिकाञ्चैव नेत्रयोर्भद्रकालिकाम् | कर्णयोर्गुह्यकालीञ्च जिह्वायां सिद्धिकालिकाम् | श्मशानकालिकां मूर्ध्नि महाकालीञ्च वक्षसि | कट्याञ्च कालिकां यत्नाद् गले श्रीयोनिकालिकाम् | एवं सम्पूज्य यत्नेन हृदि मूलं शतं जपेत् | अन्धकारे महाघोरे निर्जने वा सुरालये | सहस्रजपमात्रेण साक्षाद्भवति नान्यथा | अथवापि चितामध्ये रम्भामूलं समाश्रयेत् | पूजयेत् परया भक्त्या नानाभरणसंयुताम् | मद्यमांसोपचारेण तरुणीगणमध्यगः | अनिशीथं जपेन्मन्त्रं साक्षाद्भवति नान्यथा | अथवा कर्णिकारस्य वीजेन परमेश्वरि ! | रचयेन्मालिकां दिव्यां रक्तवस्त्रेण पार्वति ! | पुष्पिणीगृहरक्तेन शोभयेत् परमेश्वरि ! | ततोऽपि धूपयेद्देवि ! कालागुरुसमुद्भवैः | धूमैरम्भोजनयने ! देवीं सम्पूज्य यत्नतः | मद्यमांसोपचारैस्तु साक्षाद्भवति नान्यथा | इति ते कथितं देवि ! गुह्याद् गुह्यतरं परम् | प्रकाशात् सिद्धिहानिः स्यात्तस्माद् यत्नेन गोपयेत् | अथवा काकजङ्घाया लतां दग्ध्वा प्रयत्नतः | तद्भस्मना वरारोहे ! भूषयेत् स्वतनुं तथा | ततश्चितायां देवेशि ! नग्नीभूय विचक्षणः | जपेदेकान्तरात्मा प्. १००३) च साक्षाद्भवति नान्यथा | अथवापि वराहाणां भुक्तानां भुवि रोपयेत् | तत्र देवीं समभर्च्य मद्यमांसप्रयोगतः | पूजयेत् परमेशानि ! नानाद्रव्यैर्मनोरमैः | पूजयित्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः | ततः साक्षाद्वरारोहे ! नात्र कार्या विचारणा | अथवापि वरारोहे ! प्रयोगविधिमाचरेत् | नरमुण्डं समानीय मार्जारस्यापि पार्वति ! | गोमुण्डं सार्द्रमानीय भूमौ निक्षिप्य यत्नतः | ततः पीठं समारोप्य देवीं ध्यात्वा तु साधकः | पूजयेदर्द्धरात्रौ तामासवादिसमन्वितः | जपेत्तु परया भक्त्या सहस्रावधि साधकः | ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा | अथवा वनितां रम्यां गत्वा देवेशि ! यत्नतः | पीत्वा तदधरं सम्यक् कर्पूरेण तु पूरयेत् | तद्योनौ कुङ्कुमञ्चैव तत्कर्णे क्षौद्रमेव च | ततो भुक्त्वा तु तां कान्तां तन्मन्त्रं परमेश्वरि ! | तत् कुङ्कुमञ्च तत् क्षौद्रमेकीकृत्य प्रयत्नतः | तदेव तिलकं कृत्वा निशीथे गतसाध्वसः | सहस्रञ्च जपेन्मन्त्री ततः साक्षाद्भवेत्तदा | अथवापि शरीरोत्थरुधिरेण वरानने ! | यन्त्रं निर्माय यत्नेन तत्र देवीं समर्चयेत् | मद्यमांसोपचारैश्च अर्कपुष्पैर्वरानने ! | सहस्रजपमात्रेण सिद्धिर्भवति नान्यथा | अथवा परमेशानि ! गङ्गातीरे वसेत् सुधीः | उपवासद्वयं कृत्वा कुर्यात् स्नानमतन्द्रितः | ततो देवीं समभ्यर्च्य धूपदीपैर्मनोरमैः | हविष्यान्नैश्च नैवेद्यैः स्वयं भुञ्जीत वाग्यतः | भुक्त्वा पीत्वा स्त्रिया सार्द्धं निशीथे गतसाध्वसः | जपेत् सहस्रं देवेशि ! ततः सिद्धिर्वरानने ! | अथवा वटमूलस्थो दिग्वासा मुक्तकेशवान् | लताभिर्वेष्टितो भूत्वा जपेन्मन्त्रमनन्यधीः | ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा | एतेनापि प्रयोगेण यदि साक्षान्न जायते | ततो देवि ! प्रवक्ष्यामि उपायं परमाद्भुतम् | एकेनैव प्रयोगेण यदि साक्षान्न जायते | द्वितीयं प्. १००४) वापि कुर्वीत तृतीयं वाथवा प्रिये ! | तृतीयेन नचेत् सिद्धिस्तत्रोपायं वदामि ते | वस्त्रे शुक्ले रक्ते पीते वा नीलवाससि | पुत्तलीं रचयेद्देव्याः सर्वावयवसुन्दरीम् | पूजयेत् क्रोधरूपेण रक्तवस्त्रैर्मनोहरैः | तत्र देवीं जपेद् यन्त्रे समभ्यर्च्य सहस्रकम् रक्तचन्दनवीजेन तत्र कल्पितमालया | ततः शाल्मलिकाष्ठेन निम्बकाष्ठेन वा प्रिये ! | वह्निं प्रज्वाल्य यत्नेन तत्र वह्निं प्रपूजयेत् | ततः पुत्तलिकाभाले लिखेन्मन्त्रं वरानेने ! | सिन्दूरपुत्तलीं देवि ! ततो वह्नौ तु तापयेत् | ताडयेन्मूलमन्त्रेण मूलमन्त्रेण रक्षयेत् | क्षालयेत् शुद्धदुग्धेन अथवा दधिवारिणा | ततो हु/कारं प्रजपेत् सहस्रं परमेश्वरि ! | ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा | अथवा ताडयेद्देवि ! नारसिंहेन पार्वति ! | हविष्याशी दिवा भूत्वा ब्रह्मचारिसमो नरः | रात्रौ ताम्बूलपूरास्यो तलामण्डलमध्यगः | नारसिंहेन देवेशि ! पुटितन्तु मनुं जपेत् | ततो लक्षजपेनैव साक्षाद्भवति नान्यथा | अवश्यं जायते साक्षान्ममैव वचनं यथा | अथवापि वरारोहे ! नौकालौहेन पार्वति ! | शूलं निर्माय यत्नेन पटे देवीन्तु कल्पयेत् | तां पूजयेत् प्रयत्नेन रक्तचन्दनपुष्पकैः | पूजयित्वा प्रयत्नेन तस्याङ्गे पीठदेवताम् | आवाह्य विधिवद्भक्त्या जपेन्मन्त्रमनन्यधीः | शूलं सम्पूजयेद् यत्नात्तीक्ष्णं परमदुर्लभम् | ओं महाशूल ! नमस्तुभ्यं सर्वदैत्यान्तकारिणे | अस्त्रद्वयं समुच्चार्य ततः शूलेन वक्षसि | उद्यमेनैव सा काली आयाति च न संशयः | अवश्यं जायते साक्षान्ममैव वचनं यथा | अथवा कालिकावीजं शतं संलिख्य यत्नतः | पूर्वपत्रे कुङ्कुमेन मन्त्रं स्वर्णशलाकया | विलिख्य भुवि देवेशि ! तत्र कान्तां समानयेत् | तद्गात्रे पूजयेद्देवीं नानाभरणसंयुताम् | निशीथे तु जपेन्मन्त्रमेकान्ते कान्तया सह | जपेन्मन्त्रं सहस्रन्तु ततः प्. १००५) साक्षाद्भवेद्ध्रुवम् | इति ते कथितं देवि ! गुह्याद्गुह्यतरं परम् | अप्रकाश्यमिदं देवि ! गोपयेत् मातृजारवत् || चतुर्दशपटले || दक्षिणायाश्च विद्याया गुह्यायाश्चापि सुन्दरि ! | महाकाल्या महाविद्या सिद्धिकाल्याश्च पार्वति ! | श्मशानकालिकायाश्च नायिकायाश्च शैलजे ! | तन्नायिकानां देवेशि ! वक्ष्यते साधनं ततः | उक्तञ्च परमेशानि ! वक्तव्यश्चापि पार्वति ! | कालीवीजं महेशानि ! मन्त्रः सर्वोत्तमोत्तमः | त्रिगुणा देवि विख्याता विद्या परमदुर्लभा | पूर्वोक्तं सकलं कुर्यात् फलं तावद्भवेत् प्रिये ! | नमोऽन्तो वा भवेन्मन्त्रो वषडन्तोऽपि भाविनि ! | लज्जाद्यो वा भवेद्देवि ! वाग्भवाद्यो महामनुः | एतन्मन्त्रं वरारोहे ! सर्वतन्त्रेषु गोपितम् | भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द इति स्मृतम् | पूजाध्यानादिकं सर्वं पूर्ववत् परिकीर्त्तितम् | साधनं सकलं देवि ! पूर्ववत् परिकीर्त्तितम् | या ख्याता त्र्यक्षरी विद्या स्वाहान्ता परिकीर्त्तिता | पञ्चाक्षरी महाविद्या सर्वतन्त्रेषु गोपिता | ध्यानं पूजादिकं सर्वं पूर्ववत् परिकीर्त्तितम् | साधनं सकलं देवि ! लतागणसमन्वितम् | एकाक्षरी महाविद्या स्वाहान्ता त्र्यक्षरी स्मृता | साधनं परमेशानि ! मद्यमांसोपचारतः | एकाक्षरी महाविद्या स्वाहान्ता परिकीर्त्तिता | फडन्ता वा महेशानि ! वसडन्ता समीरिता | नमोऽन्ता वा महेशानि ! सर्वसिद्धिप्रदायिनी | पूर्ववीजं वरारोहे ! काली चान्द्रं वरानने ! | कालिकाया महाविद्या गोपिता सर्वतन्त्रके | धरावीजं वरारोहे ! काली लक्ष्मीश्च वाग्भवम् | एतन्मन्त्राक्षरं देवि ! कालिकायाः सुदुर्लभम् | एतेषां मन्त्रवर्याणां ऋषिः स्यादुग्रभैरवः | छन्दोऽनुष्टुविति ख्यातं देवता दक्षिणेरिता || प्. १००६) अथ वक्ष्ये महेशानि ! गुह्यकाल्याः शुभावहा | कालीवीजत्रयं देवि ! गुह्यकालीयुतं ततः | स्वाहान्ता कथिता विद्या विद्येयं परमा मता | नमोऽन्ता वापि सा ज्ञेया वषडन्तापि सा स्मृता | कालीवीजं समुद्धृत्य धरावीजं समुद्धरेत् | लज्जावीजं समुद्धृत्य कूर्चवीजं समुद्धरेत् | स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा | कूर्चलज्जायुगं देवि ! तथा काली प्रकीर्त्तिता | स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता | एतासामेव विद्यानां छन्द उष्णिगिति स्मृतम् | ऋषिः स्याद्दक्षिणामूर्त्तिर्देवता दक्षिणा स्मृता | कूर्चत्रयं वरारोहे ! स्वाहान्ता हि प्रकीर्त्तिता | कालीवीजं समुद्धृत्य कालीकालीपदं तथा | महाकालीपदं तस्मात् स्वाहान्तः प्रतिमानतः | सर्वतन्त्रेषु विख्यातो महाकाल्या महामनुः | कालीवीजं समुद्धृत्य महाकाली च ङेयुता | स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा | असितावीजमुद्धृत्य महाकालीपदं द्विधा | स्वाहान्ता कथिता विद्या महाभूतिविवर्द्धिनी | काली लक्ष्मी रमा माया स्फें परः परिकीर्त्तितः | नमोन्तोऽयं मनुर्देवि ! साक्षान्मुक्तिप्रदो मतः | कालीवीजं समुद्धृत्य लज्जावीजं समुद्धरेत् | सिद्धिकालीपदं ङेऽन्तमसितान्तं वरानने ! | एतासामेव विद्यानां गायत्रीच्छन्द ईरितम् | देवतास्या महाकाली चतुर्वर्गफलप्रदा | स्वाहान्ता वा वरारोहे ! फडन्ता वापि कालिका | लज्जावीजं समुद्धृत्य निजवीजं समुद्धरेत् | सिद्धिकाली ततो ङेऽन्ता स्वाहान्तेयं प्रकीर्त्तिता | नमोऽन्ता सा महादेवी चतुर्वर्गफलप्रदा | असितामेतदुद्धृत्य भवानीवीजमुद्धरेत् | वाग्भवं परमेशानि ! परावीजं ततः स्मृतम् | कालीकालीपदं तस्मात् सिद्धिकाईपदं ततः | फडन्तासौ महाविद्या सर्वतन्त्रेषु गोपिता | रमावीजत्रयं देवि ! लज्जावीजत्रयं तथा | प्. १००७) कामवीजत्रयं देवि ! सिद्धिकाली च ङेयुता | स्वाहान्ता कथिता विद्या मुक्तिमार्गप्रदीपिका | एतासां सौम्यविद्यानां गायत्रिच्छन्द ईरितम् | ऋषिः स्यात् कपिलो देवि ! देवता सिद्धिकालिका | कालीवीजं समुद्धृत्य श्मशानकालिकापदम् | ङेयुतं परमेशानि ! सर्वसिद्धिप्रदायिनौ | कालीवीजं समुद्धृत्य कूर्चवीजं वरानने ! | स्वाहान्ता कथिता विद्या सर्वसिद्धिप्रदायिनी | कूर्चद्वयं वरारोहे ! देवीवीजं महेश्वरि ! | सर्वसिद्धिप्रदा विद्या सर्वशास्त्राविरोधिनी | विश्वामित्रो मुनिः प्रोक्तो गायत्रीच्छन्द उच्यते | श्मशानकालिका देवी सर्वतन्त्रेषु गोपिता | एतासां साधनं देवि ! पूर्वोक्तं परमेश्वरि ! | सर्वासां वक्ष्यमाणन्तु पुरश्चरणमुच्यते | अनेनापि प्रयोगेण सिद्धिर्भवति नान्यथा | श्मशानकालिकायास्तु कलायामुपवेशनम् | कलास्थाने महेशानि ! कुमारीयोग उच्यते | अष्टवर्षा तु या बाला द्वादशाधो महेश्वरि ! | स्थापयेत्तु चतुष्पार्श्वे मिष्टभोजनभोजिता | पूजयेत् परया भक्त्या स्वयं भुञ्जीत साधकः | पाययेदासवं यत्नात् स्वयञ्चापि पिबेत्ततः | सकारञ्च घकारञ्च लकारेण समन्वितम् | जपेदष्टोत्तरशतं तासां कर्णे पृथक् पृथक् | तमभ्यर्च्य प्रयत्नेन कृत्वा वक्षसि साधकः | अङ्गन्यासयुतं देवि ! जपेन्मन्त्रमनन्यधीः | एतस्मिन् समये देवि ! रतिमिच्छति सा यदा | तदा तां रमयेन्मन्त्री पीडा न जायते यथा | शनैरधरपानञ्च शनैर्वक्षोजमर्दनम् | शनैर्गुदनिवेशञ्च शनैरालिङ्गनं प्रिये ! | यद्यत्र जायते पीडा तदा सिद्धिविनाशिनी | एवं प्रयोगे तु काली साक्षाद्भवति नान्यथा | इति ते कथितं देवि ! गुह्याद्गुह्यतरं परम् | भक्तिहीनं क्रियाहीनं विधिहीनञ्च यद्भवेत् | तदा सिद्धिर्विलम्बेन निष्फलं नैव जायते | अविश्वासो न कर्त्तव्य आलस्यं नैव पार्वति ! | प्. १००८) सर्वेषां मन्त्रवर्याणां सारमुद्धृत्य पार्वति ! | दुग्धमध्ये यथा सर्पिः काष्ठमध्ये यथानलः | तथा समुद्धृतः सारो देवि ! नास्त्यत्र संशयः | स्वयं सिद्धा हि ते मन्त्राः सर्वतन्त्रेषु गोपिताः | इति ते कथितं देवि ! गोपनीयं प्रयत्नतः || तोडलतन्त्रे चतुर्थपटले || शृणु चार्वङ्गि ! सुभगे ! तारायाः पूजनं महत् | मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः | जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः | मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् | शिखां बद्ध्वा ततो देवि ! विविधं विघ्ननाशनम् | भूम्यासनञ्च संशोध्य वस्त्रे ग्रन्थं विधाय च | कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम् | यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यञ्च विन्यसेत् | द्वारपालांश्च सम्पूज्य पीठपूजां समारभेत् | पीठशक्तीश्च लक्ष्म्याद्यास्ततः पीठमनुः यजेत् | भूतशुद्धिं प्रवक्ष्यामि विशेष इह यद्भवेत् | कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि ! | कुण्डल्या सह चात्मानं चतुर्विंशतिवीजकम् | तत्र लीनानि देवेशि ! परमात्मनि साधकः | मायया सन्दहेत् पापं पुरुषं कज्जलप्रभम् | कुम्भकेन वरारोहे ! भस्म कुर्याद्विचक्षणः | बधूवीज्न देवेशि ! भस्मना सह रेचयेत् | पूरकेण तु कूर्चेन ललाटेऽमृतसञ्चयम् | चिन्तयेत् परमेशानि ! कुम्भकेनामृताम्बुधिम् | आं ह्रीं क्रीं वह्निजायान्तं हृदि चैकादशं जपेत् | ततस्तु चिन्तयेद्धीमानाःकाराद्रक्तपङ्कजम् | तस्योपरि पुनर्द्ध्यायेत् टाङ्काराद्रक्तपङ्कजम् | तस्योपरि पुनर्द्ध्यायेत् हुङ्कारं नीलसन्निभम् | तस्योपरि पुनर्द्ध्यायेद्विजभूषितकर्त्तृकाम् | तस्योपरि परं विन्दुं शिवरूपञ्च अव्ययम् | बालुकायाः सहस्रैकभागं विन्दुं सुदुर्लभम् | विन्दुमध्ये मणिद्विपं शतयोजन विस्तृतम् | प्. १००९) विन्दुमध्ये परं ज्योतिर्वुद्वुदाकारमण्डलम् | यथैकवुद्वुदे देवि ! प्रतिविम्बं प्रपश्यति | तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा | मणिद्वीपन्तु तन्मध्ये सुवर्णबालुकामयम् | परितो भावयेन्मन्त्री पारिजातं मनोहरम् | मध्ये कल्पद्रुमं ध्यायेदात्मानं तारिणीमयम् | उदयादित्यसङ्काशं सहस्रादित्यवर्चसम् | चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् | बहुचामरघण्टादिदेवकन्यादिशोभितम् | मन्दवायुसमायुक्तं गन्धधूपैरलङ्कृतम् | तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभिताम् | सुवर्णसूत्ररचितं चिन्तयेच्छत्रमुत्तमम् | तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये ! | तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः | योगसारोक्तकैर्देवि ! उपचारैः प्रपूजयेत् | प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् | तालत्रयं छोटिकाभिर्दशदिग्बन्धनञ्चरेत् | षोढा न्यासं ततः कृत्वा व्यापकं तदनन्तरम् | विशेषार्घ्यञ्च संस्थाप्य पञ्चतत्त्वं विशोधयेत् | सुधादेवीं समानीय विपञ्चीकरमाचरेत् | कुम्भे पुष्पं समादाय त्रिकोणे त्रिःप्रपूजयेत् | वामदेवं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् | तथा चानन्दगायत्रीमृचञ्च त्रिर्जपेत् सुधीः | ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि ! | दिग्जपावाशयेद्धिमान् ततो मन्त्रत्रयं पठेत् | छुरिकाञ्च मृतञ्चैव श्रीतिरस्करिणीं प्रिये ! | पावमानञ्च त्रिर्जप्त्वा शोधनादीन् समाचरेत् | वारुणं त्रिर्जपेद्देवि ! चामृतं सप्तधा जपेत् | विद्यतत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा | कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः | मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् | शक्तिञ्च कुलपुष्पञ्च त्धोयेश साधकोत्तमः | देवान् पितॄन् ऋषींश्चैव तर्पयेदिष्टदेवताम् | शोधितं द्रव्यमादाय विशेषार्घ्यं विनिक्षिपेत् | ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् | नासास्थानात् समानीय पीठे पुष्पं निधाय च | प्. १०१०) ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् | षडङ्गेन च सम्पूज्य पुनर्मुद्रा प्रदर्शयत् | जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् | षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः | गुरुपंक्तिं पूजयित्वा दलमूलेषु पूजयेत् | महापूर्वांश्च काल्यादीन् यजेद्वैरोचनादिकान् | पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः | प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् | जपं कृत्वा महेशानि ! देव्या हस्ते समर्पणम् | प्राणायामं ततः कृत्वा तत्त्वस्वीकारमाचरेत् | तस्यै दत्त्वा स्वयं पीत्वा प्रजपेत् साधकोत्तमः | पीत्वा पीत्वा जपित्वा च मुक्तः कोटिकुलैः सह | प्रतिपात्रे जपेन्मन्त्रमष्टोत्तरशतं सुधीः | स्तुतिञ्च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्ततः विशेषार्घ्यं प्रदातव्यमात्मानञ्च समर्पयेत् | रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् | अङ्गन्यासं महेशानि ! प्राणायामं ततः परम् | ऐशान्यां मण्डलं कृत्वा चण्डाल्युच्छिष्टपूर्विकाम् | निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः | निर्माल्यं धारयेत् शीर्षे चन्दनञ्च ललाटके | गुरुस्थाने लिखेद्विन्दुं विहरेद्भैरवो यथा | संक्षेपपूजनं देवि ! मानसं तत्त्ववर्जितम् | तत्रोक्तमाचरेदत्र नान्यत् सञ्चारयेत् सुधीः | अन्यसञ्चारणाद्देवि ! क्रुद्धा भवति तारिणी || तत्रोक्तं वाह्यपूजाप्रकरणोक्तम् || तत्त्वज्ञानं मानसञ्च शक्तिमात्रे हि पार्वति ! || पिच्छिलातन्त्रे द्वादशपटले || यस्मिन् क्षणे महामन्त्रः श्रूयते सावधानतः | तद्धीयन्ते शरीरस्थपातकानि महान्त्यपि | प्रयोगं मन्त्रशुद्ध्यादेः कथयामि महेश्वरि ! | मन्त्रशुद्धिं विधायाथ कुर्यान्मन्त्रशिखां ततः | कल्लुकां मूर्ध्नि सञ्जप्य महासेतुं जपेत्ततः | नाभौ जपेत्तु निर्वाणं ध्यायेत् कुण्डलिनीं ततः | प्राणायामं विधायाथ षडङ्गन्यासमाचरेत् | तत ऋष्यादिविन्यासो जपेत् सप्तच्छदां सकृत् | प्. १०११) ध्रुवेण पुटितं मन्त्रं सप्तधा प्रजपेत् प्रिये ! | मन्त्रादौ प्रणवं दत्त्वा सकृज्जपेन्महेश्वरि ! | प्रणवं वाथ मायां वा वाग्भवं वाथ दीपनीम् | मन्त्रादौ दत्त्वा प्रजपेत् सप्तधा परमेश्वरि ! कालीमन्त्रे तु देवेशि ! क्रीं मूलं सप्तधा जपेत् | विद्यामन्त्रञ्च मन्त्रादौ दत्त्वा च सप्तधा जपेत् | स्वगुरुं मूर्ध्नि सञ्चिन्त्य हृदि देवीं ततः परम् | स्वयं कामकलारूपं भावयन् जपमाचरेत् | जपस्यान्ते शिवं ध्यात्वा ध्यानस्यान्ते पुनर्जपेत् | अष्टोत्तरसहस्रं वा शतं वा प्रजपेन्मनुम् | श्यामाया दीपनीं विद्यारत्नं मन्त्रादितः शिवे ! | दत्त्वा जपेत् सप्तवारं ततो जपसमर्पणम् | अन्यासां प्रणवं मायां दीपनी वा जपस्य च | सेतुं जप्त्वा सप्तवारं प्रणवान्तं मनुं जपेत् | समर्पयेज्जपं पश्चात् प्राणायामान् समाचरेत् | जपस्यात्र विधानन्तु कथितञ्चानुषङ्गतः || अथ ताराशतनामस्तोत्रम् || श्रीशिव उवाच || तारिणी तरला तन्वी तारा तरुणवल्लरी | तीररूपा तरश्यामा तनुक्षीणपयोधरा | तुरीया तरला तीव्रगमना नीलवाहिनी | उग्रतारा जया चण्डी श्रीमदेकजटा शिवा | तरुणा शाम्भवी छिन्नभाला च भद्रतारिणी | उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती | द्वितीया शोभिनी नित्या नवीना नित्यनूतना | चण्डिका विजयाराध्या देवी गगनवाहिनी | अट्टहास्या करालास्या चरस्यादितिपूजिता | सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता | रक्तप्रिया च रक्ताक्षी रुधिरासवभूषिता | बलिप्रिया बलिरता दुर्गा बलवती वला | बलप्रिया बलरता बलरामप्रपूजिता | अर्द्धकेशेश्वरी केशा केशवेशविभूषिता | पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी | दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता | वज्रपुष्पप्रिया रक्तप्रिया सुकुमभूषिता | प्. १०१२) माहेश्वरी महादेवप्रिया पञ्चविभूषिता | इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी | गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता | इत्येतत् कथितं देवि ! रहस्य परमाद्भुतम् | श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः | य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् | सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले | तस्यैव मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा | भवत्येवं महामाये ! सत्यं सत्यं न संशयः | मन्दे मङ्गलवारे च यः पठेन्निशि संयुतः | तस्यैव मन्त्रसिद्धिः स्याद्गाणपत्यं लभेत्त सः | श्रद्धयाश्रद्धया वापि पठेत्तारारहस्यकम् | सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् | सहस्रावर्त्तनाद्देवि ! पुरश्चर्यफलं लभेत् | एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते | ते कृतार्था महेशानि ! मृत्युसंसारबन्धनात् || इति मुण्डमालातन्त्रे तारिणीशतनामस्तोत्रम् समाप्तम् || अथ तारिणीस्तोत्रानन्तरं महानीलतन्त्रे || घोररूपे ! महामारे ! सर्वशत्रुवशङ्करि ! | भक्तेभ्यो वरदे ! देवि ! त्राहि मां शरणागतम् | सुरासुरार्चिते ! देवि ! सिद्धगन्धर्वसेविते ! | जाड्यपापहरे ! देवि ! त्राहि मां शरणागतम् | जटाजूटसमायुक्ते ! लोलजिह्वानुकारिणि ! द्रुतबुद्धिकरे ! देवि ! त्राहि मां शरणागतम् | सौम्यरूपे ! घोररूपे ! चण्डरूपे ! नमोऽस्तु ते | सृष्टिरूपे ! नमस्तुभ्यं त्राहि मां शरणागतम् | अष्टम्याञ्च चतुर्दश्यां नवम्याञ्चैकमानसः | षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा | बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे | कुबुद्धिं हर मे देवि ! त्राहि मां शरणागतम् | इन्द्रादिदिविषद्वृन्दवन्दिते ! करुणामयि ! | तारे ! ताराधिनाथास्ये ! त्राहि मां शरणागतम् | मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् | विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् | इदं स्तोत्रं पठेद्यस्तु सततं लभते प्. १०१३) नरः | तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते | पीडायां वापि संग्रामे जप्ये दाने तथा भये | य इदं पठति स्तोत्रं शुभं तस्य न संशयः | स्तोत्रेणानेन देवेशि ! स्तुत्वा देवीं सुरेश्वरीम् | सर्वान् कामानवाप्नोति सर्वविद्यानिधिर्भवेत् | इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् | अस्मात् परतरं नास्ति स्तोत्रं तन्त्रे महेश्वरि ! || इति वृहन्नीलतन्त्रे द्वितीयपटले तारिणीस्तोत्रं समाप्तम् || अथ वीरहोमः || कैवल्यतन्त्रे पञ्चमपटले || शृणु पार्वति ! वक्ष्यामि वाह्यहोमविधिं प्रिये ! | आम्नायेषु च सर्वेसु व्यासेन कथितं पुरा | संक्षेपात् कथयिष्यामि येन मुक्तिं लभेन्नरः | भूमित्रिकोणमालिख्य मूलमन्त्रेण साधकः | भूर्भुवः स्वेति मन्त्रेण वह्निं संस्थापयेत्ततः | तत्र देवीं समावाह्य परिवारसमन्विताम् | पूजयेद्विविधैर्द्रव्यैर्निर्विकल्पेन चेतसा | मद्येन प्रथमं दद्यादाहुतिं मूलमुच्चरन् | एकं मांसेन मत्स्येन मुद्रया च कुलेश्वरि ! | रम्भामूलसमुद्भूतैर्मार्जन्या गलितैः सह | जुहुयादाज्ययोगेन सकृद्वारत्रयञ्च वा | घृतेन हवनञ्चैकं रक्तपुष्पेण चैव हि | कुण्डोद्भवेन देवेशि ! वारद्वयमुदाहृतम् | गोलेन घृतयुक्तेन सकृद्धोमो विशिष्यते | गोपीचन्दनसिन्दूरैर्दशवारं हुमेत् शुचौ | वीरपुष्पेण गव्येन विल्वपत्रेण सुन्दरि ! | सकृद्धोमो भवेद्वह्नौ ततो गव्येन चैककम् | पूर्णाहुतिं ततो दद्यात् पिण्याकैर्लवणान्वितैः | ततो मूलं जपेन्मन्त्री चाष्टोत्तरशतं प्रिये ! | जप्त्वा स्तुत्वा नमस्कृत्य विसृजेद्वह्निमण्डले | इति ते कथितं देवि ! कैवल्यसाधनं प्रिये ! | अस्मात् परतरं नास्ति सत्यमेतद्ब्रवीमि ते | इदं रहस्यं परमं पशुभ्यो न प्रकाशयेत् | प्रकाशात् सिद्धिहानिः स्यात् सत्यं सत्यं न संशयः || इति वीरहोमः || प्. १०१४) इति सम्पूज्य हुत्वा च सामयिकैः सह द्रव्यपानादिकं कुर्यात् || देव्यै द्रव्यदानफलन्तु मुण्डमालातन्त्रे || पूजयित्वा महादेवीं सुरामांसकलादिभिः | अन्नैर्नानाविधैर्देवि ! परितोष्य स तादृश इति | सुरादानफलेनैव महायोगेश्वरो भवेत् || सुराभेदस्तु तत्रैव || सुरा तु द्विविधा प्रोक्ता स्फाटिकी डाकिनी तथा | काञ्जिकीस्फाटिकीदाने धनवृद्धिरनुत्तमा | डाकिनीदानमात्रेण सर्ववश्यो भवेद्ध्रुवम् | काञ्जिकीमुद्रया देवि ! योऽर्चयेत् परमेश्वरीम् | महासिद्धिश्वरो भूत्वा वसेत् कल्पशतानि च | अन्नदातुर्महादेवि ! महासिद्धिरनुत्तमा || अथ महाशङ्खः || नित्यातन्त्रे द्वितीयपटले || ईश्वर उवाच || महाशङ्खस्य माहात्म्यं कथयामि तवानघे ! | स्वयोनिरिव गोप्तव्यं सर्वदा पशुसङ्कटे | भगरूपा महामाया शुक्रतर्पणतत्परा | जगदाकर्षिणी विद्या जगद्गुह्या वरानने ! || तत्रैव गृह्यते सारं जगतां वीजरूपकम् | तद्वीजं परमेशानि ! पञ्चाशद्वर्णरूपकम् | गर्भं प्राप्य भवेदस्थि शिशोर्मज्जासमन्वितम् | तदस्थितार्द्धमप्यस्ति पञ्चाशद्वर्णरूपकम् | वर्णमालासु देवेशि ! शतं सञ्जप्य यत् फलम् | एकेनोच्चारणेनास्थिमालायां तत् प्रकीर्त्तितम् || इति महाशङ्खमालाजपफलम् || तन्मालाकरणे वर्जनीयमाह तत्रैव || स्वेच्छामृतं स्त्रियं विप्रं तिर्यग्योनिगतं तथा | रोगिणं यवनं वृद्धं दीक्षितञ्चापि वर्जयेत् | ग्राह्यमपि तत्रैव || वज्राहतं सर्पदष्टं पतित्वा वा जले मृतम् | व्याघ्रादिनिहतं वापि सम्मुखे वा रणे मृतम् | चण्डालाद्याः प्रधानास्ते अधमाः शूद्रजातयः || वृहन्नीलतन्त्रे चतुर्थपटले || युद्धे मृतस्य देवेशि ! चण्डालस्यास्थिकेन च | मस्तकस्य विशेषेण महाशङ्खं प्. १०१५) प्रकीर्त्तितम् || नित्यातन्त्रे || अत एव महेशानि ! अस्थिमालागले मम | प्रथमपटले || समाश्रित्य महाशङ्खमालां वीरपदं व्रजेत् || अथ महाशङ्खमालाकरणम् || मुण्डमालातन्त्रे द्वितीयपटले || नराङ्गुल्यस्थिभिर्माला ग्रथिता पर्वभेदतः | सर्वसिद्धिप्रदा मोक्षदायिनी वरवर्णिनि ! | नाड्या सङ्ग्रथिता माला कार्या रक्तेन वाससा | नाडीभिर्ग्रथिता माला महासिद्धिप्रदा प्रिये ! || स्वतन्त्रतन्त्रेऽपि || आनीय छिन्नशीर्षन्तु नरस्य पतितस्य च | तलसीगोमयास्पृष्टं तथा गङ्गोदकेन च | यवनब्राह्मणान्यस्य तत् कार्यं साधकैर्जनैः | अस्पृष्टं तच्च जानीयात् शालग्रामशिलादिभिः || अथ महाशङ्खमालासंस्कारस्तत्रैव || गुरुं तत्र प्रणम्यादौ संस्कूर्याज्जपमालिकाम् | कृतनित्यक्रियो मन्त्री मालाञ्च क्रमतो यजेत् | ओं ह्रीं श्रीं क्लीं क्लीं फट् स्वाहा | इति मन्त्रेण सप्तधाभिमन्त्र्य चषकादिपात्रादौ निक्षिपेत् | तत आवाहन्यादिमुद्रया देवीं तत्रावाह्य सपरिवारामुपचारैः सम्पूज्य तां वमिति धेनुमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य मत्स्यमुद्रयाच्छाद्य देवीस्वरूपां तां मालां ध्यायन् विन्दुप्रक्षेपं कुर्यात् | तत्र मन्त्रः || ओं ह्रीं स्वाहा | ओं हूं स्वाहा | ओं ह्रः स्वाहा | ओं फट् स्वाहा | ओं ह्रीं श्रीं स्वाहा | ओं ह्रीं हूं स्वाहा | ओं ह्रीं फट् स्वाहा | इति सप्तार्घ्यविन्दुप्रक्षेपणं कृत्वा कस्तूरीं धूपयित्वा चषकादिपात्रादुत्तोल्य मालामभिमन्त्रयेत् | तत्र मन्त्रः || ओं ह्रीं श्रीं महावज्रिणि ! महाघोररूपे ! कर्कशमहास्थिमण्डले ! प्रविश सर्वसिद्धिं प्रयच्छ ओं ह्रीं श्रीं ह्रीं स्वाहा | ओं महाकपालिनि ! महाघोररूपे ! स्वाहा | इत्यनेनामन्त्र्य दूर्वाक्षतैरभ्यर्च्य कामवीजेनोद्दीपनं कृत्वा प्. १०१६) उपचारैरभ्यर्च्य मातृकामन्त्रेण सन्दीप्य ओंकारेण वेष्टयेत् | ततः हूं ह्रीं हूं ओं हूं श्रीं हूं ओं हूं हूं ओं हूं फट् हूं ओं स्वाहा | ओं हूं महायोगिनि ! त्रिभुवनतारिणि ! महाशङ्खास्थिमध्ये निवासं कुरु सर्वसिद्धिं देहि सुरामांसोपहारान् गृह्ण गृह्णापय ह्रीं श्रीं हूं फट् स्वाहा | इत्यनेन यथोक्तद्रव्येण बलिं दत्त्वा संहारमुद्रया देवीं विसृज्य निभृतस्थाने मालाः स्थापयेत् | विन्दुप्रक्षेप इत्यत्र विन्दुः सुराविन्दुरित्यर्थः | एवं शोधयित्वा पश्चान्मालासंस्कारविधानेनापि संस्कारः करणीय इति तान्त्रिकाः || तन्त्रे || अकस्मादीहिता माला महाशङ्खाख्यमालया | तथा चैवास्थिघटिता महाशङ्खाः प्रकीर्त्तिताः | अत्रास्थिपदेन गुणदेशादिग्राह्यमिति तान्त्रिकाः | इति महाशङ्खमालासंस्कारः || कुब्जिकातन्त्रे सप्तमपटले || अशोकं विल्ववृक्षञ्च शिवाञ्चैव सुरेश्वरि ! | दृष्ट्वा प्रणामं कुर्याच्च सर्वकामार्थसिद्धये | उलूकं शङ्खचिल्लञ्च गृध्रञ्चैव सुरेश्वरि ! | नमस्कुर्यान्महाकालीं युद्धे च जयमालभेत् | चतुष्पथं श्मशानञ्च नमस्कुर्याद्विशेषतः | तन्त्रज्ञञ्चावधूतञ्च नमस्कुर्याद्वरानने ! | उपासकं सदा दृष्ट्वा मधुरं भाषणञ्चरेत् || वृहन्नीलतन्त्रे षष्ठपटले || पर्वते निर्जने चैव विजने शून्यमण्डपे | चतुष्पथे कलामध्ये यदि दैवान्महेश्वरि ! | क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् | गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादतन्द्रितः | क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् | कुररं श्येनभूकाकौ कृष्णमार्जारमेव च || एतेषां प्रणाममन्त्रस्तत्रैव || कृशोदरि ! महाचण्डे ! | मुक्तकेशि ! बलिप्रिये ! | कुलाचारप्रसन्नास्ये ! नमस्ते शङ्करप्रिये ! | श्मशाने च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् | प्रणम्यानेन मन्त्रेण मन्त्री सुखमवाप्नुयात् | घोरदंष्ट्रे ! करालास्ये ! प्. १०१७) किटिशब्दप्रणादिनि! | गुरुघोषवरास्फाले ! नमस्ते चण्डनादिनि ! | रक्तवस्त्रं रक्तपुष्पं विलोक्य त्रिपुराम्बिकाम् | विलोक्य दण्डवद्भूमाविमं मन्त्रं पठेन्नरः | बन्धूकपुष्पसङ्काशे ! त्रिपुरे ! भयनाशिनि ! | भाग्योदयसमुत्पन्ने ! नमस्ते वरवर्णिनि ! | कृष्णवर्णं तथा पुष्पं राजानं राजपुत्त्रकम् | हस्त्यश्वरथशस्त्राणि कालवीरं तथा शिवम् | महिषं कुलनाथञ्च दृष्ट्वा महिषमर्दिनीम् | प्रणम्य जयदुर्गां वा स तु विघ्नेर्न लिप्यते | जयदेवि ! जगद्धात्रि ! पूर्णे ! आद्ये ! त्रिदैवते ! | भक्तेभ्यो वरदे ! देवि ! मुण्डमालाविभूषिते ! | रक्तधारासमाकीर्णे ! वरदे ! त्वां नमाम्यहम् | सर्वविघ्नहरे ! देवि ! नमस्ते हरवल्लभे ! | एतेषां दर्शनेनैव यदि नैवं प्रकुर्वते | शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते | एतेषां मारणोच्चाटहिंसनं वागुरादिभिः | क्रियते येन पापात्मा स मे भक्तः कथं भवेत् || इति वीरकृत्यम् || अथ वीराणां नैष्कर्म्यसाधनार्थं रसास्वादो वामकेश्वरतन्त्रे त्रयःपञ्चाशत्पटले || भैरव उवाच || क्रियाकाण्डप्रकथने तन्त्रं बहुतरं भवेत् | किञ्चिल्लक्षणमेतेषां सङ्क्षेपात् कथयामि ते | काव्यशास्त्रे नवरसा योगे चाष्टौ रसाः स्मृताः | अष्टादशप्रकारा हि विद्यायां परिकीर्त्तिताः | भक्तियोगे नवरसा ऋतवो विषये स्मृताः | पञ्चमाद्या रसा देवि ! पञ्चपञ्चाशतः स्मृताः | भेदं रसानां वक्ष्यामि शृणुष्वावहिता प्रिये ! शृङ्गारवीरकरुणाहास्याद्भुतभयानकाः | वीभत्सः शान्तको रौद्रो नवधा काव्यशास्त्रके | यमश्च नियमश्चैव आसनं प्राणसंयमः | प्रत्याहारो धारणा च ध्यानं समाधिरष्टधा | योगे शास्त्रे महादेवि ! कथिता विस्तरात् प्रिये ! | छन्दः पादौ च वेदस्य मुखं व्याकरणं स्मृतम् | शिक्षा घ्राणं महेशानि ! हस्तौ कल्पोऽथ कथ्यते | ज्योतिषं देवि ! तन्नेत्रं निरुक्तं श्रोत्रमुच्यते | अङ्गानि वेदाश्चत्वारो प्. १०१८) मीमांसान्यायविस्तरैः | धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश | आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्राः | अर्थशास्त्रसमायुक्ता विद्याष्टादशधा रसाः | मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् | अर्चनं वन्दनं दास्यं सख्यमात्मसमर्पणम् | इत्थं देवि ! नवरसा भक्तियोगे प्रकीर्त्तिताः | स्रग्गन्धवनिताशययावस्त्रालङ्करणानि च | कथिताः परमेशानि ! विषये ऋतवो रसाः | खाद्याः पञ्चरसा गौडी माध्वीक्षुफलशस्यकाः | एतेषु रसभावज्ञा ये ते वै रसिकाः स्मृताः | कृत्यविधिर्जपविधिर्द्रव्यशोधनिको विधिः | वाह्यमानसिकीपूजाविधिश्च परमेश्वरि ! | पुरश्चर्याविधिर्देवि ! कर्मकाण्डानि पञ्चधा | त्रिधा कृत्यविधिर्देवि ! प्रातः सायं दिनं तथा | अनुभूय रसान् सर्वान् क्रियाकाण्डं विधाय च | साधकः स्थिरचित्तेन कुर्यात् पूर्णाभिषेचनम् || चतुष्पञ्चाशत्पटले || देव्युवाच || मन्त्रप्रकथनं नाथ ! वेदप्रकथनं कथम् | तत्तद्रसानां वचनैश्चित्तं मोहयसीव मे | साम्प्रतं संशयच्छेदकारणं ब्रूहि मे प्रभो ! | आश्चर्याख्यानमेवं हि श्रवणात् कौतुकं महत् || श्रीभैरव उवाच || तन्त्रोक्तं वेदवाक्यञ्च सर्वज्ञानस्य कारणम् | भेदं रसानां वक्ष्यामि शृणुष्वावहिता मयि | शृङ्गारो वीरतो ज्ञेयस्तस्मिन् ते करुणादयः | शृङ्गारादिर्घृणादिश्च अपि शृङ्गारतो भवेत् | शृङ्गारस्तु यदा देवि ! परमार्थकसूचकः | तदैव परमा शान्तीरुद्रत्वं सम्प्रपद्यते | तेषां प्रकरणार्थन्तु शृणु प्राणाधिके ! मयि | पादं विना शरीरस्य न गतिर्विद्यते प्रिये ! | छन्दसा वेदमार्गे तु प्रविशेन्न कदाचन | अलङ्कारं विना छन्दो न शोभेत प्रियंवदे ! | चक्षुः परोक्षभेदः स्याज्ज्योतिःशास्त्रं तथैव च | चन्द्रसूर्यस्य प् १०१९) ग्रहणाज्ज्योतिः प्रत्यक्षतामियात् | वेदशाखा निरुक्तं स्याच्छाखाभिर्ब्रह्म जायते | गानकार्ये श्रूयमाणे भक्तिर्भवति ब्रह्मणि ! | तदैव गानकृत्यञ्च मुखनासिकयोर्भवेत् | गानं विना न नृत्यं स्यात् नृत्यं गानेन जायते | शिक्षाशास्त्रं नाटकादिशब्दव्याकरणं स्मृतम् | अविनाभावसम्बन्धाद् द्वयोरेव शुचिस्मिते ! | वेदाः षडङ्गसहिता ब्रह्मव्याख्यानतत्पराः | न्यायेन सार्द्धं मीमांसा ब्रह्म निर्णीयते ध्रुवम् | ब्रह्मज्ञाने तु जीवस्य परमात्मविचारणम् | धर्मशास्त्रानुसारेण व्यवस्थादिनिरूपतः | पुराणाख्यानि तेनैव जायते सततं प्रिये ! | ब्रह्मानन्दपरो जीव आत्मसंरक्षणोत्सुकः | आयुर्वेदं धनुर्वेदं गान्धर्वञ्च समभ्यसेत् | अथ सन्धानतो देवि ! पूर्णज्ञानी च साधकः | मधुनेक्षुरसेनैव दुग्धादिफलशस्यकैः | गन्धमाल्यादिना देवि ! वस्त्रालाङ्करणादिना | शययायां वनितारूपं पूजयेज्जगदम्बिकाम् | वनितापूजने देवि ! शृङ्गाररससाधनम् | पूजनं कर्मकाण्डञ्च पञ्चधा तत् प्रकीर्त्तितम् | तत्सर्वं स्याधयेद्वीरो देवीसम्प्राप्तिहेतवे | पूजने नवधा भक्तिरसोल्लासश्च जायते | तदा योगं समभ्यस्य समाधिस्थो भवेद्यतिः | अत एव महेशानि ! पुरैव कथितं मया | अनुभूय स्वरान् सर्वान् पञ्चपञ्चाशतः प्रिये ! | विषये कर्मकाण्डेषु निष्कामी भवति प्रिये ! | निष्कामे फलमाश्चर्यं तेन तृप्यति देवता | देही देहं समाश्रित्य न च कर्म परित्यजेत् | दिव्यां क्रियां समाप्यैवं देवीयात्रादिकर्मणा | पूर्णज्ञानरसानन्दाज्जीवन्मुक्तो भवेद् ध्रुवम् || अथ वीराणां षट्कर्मसाधनम् || योगिनीतन्त्रे पूर्वखण्डे चतुर्थपटले || श्रीदेव्युवाच || देवदेव ! जगद्वन्द्य ! सुरासुरनमस्कृत ! | इदानीं श्रोतुमिच्छामि वीरषट्कर्मसाधनम् | धन्यं पुण्यवतां राज्ञां बाल्यादिकव्रयोजुषाम् | स्त्रियान्तु सिद्धिसंस्थानां सर्वभोगविलासिनाम् || प्. १०२०) षट्कर्मास्याह तत्रैव || ईश्वर उवाच || शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने तथा | मारणं परमेशानि ! सट्कर्मेदं प्रकीर्त्तितम् | तारिणीं कालिकां छिन्नामधिकृत्य जगन्मयि ! | कथयामि तव स्नेहाद् द्रुतसिद्धिकरं परम् | रतिर्वाणी रमा ज्येष्ठा मातङ्गी कुलकामिनी | दुर्गा चैव भद्रकाली कर्मादौ कर्मसिद्धये | षोडशैरुपचारैश्च यजेद्वीरः स्वशक्तिकः || षट्कर्मणां मारणव्यतिरिक्तानां मारणस्य स्थानमाह तत्रैव || शून्यागारे महारण्ये देवतायतनेऽपि वा | पञ्चकर्म प्रकुर्वीत मारणन्तु शवोपरि | तदभावे पितृभूमौ वासांसि कथयामि ते | मुख्यं दिगम्बरं ज्ञेयं द्वीपिचर्म द्वितीयकम् | तदभावे रक्तक्षौमं नान्यद्वस्त्रं प्रकल्पयेत् || शान्त्यादिषु क्रमेणैव पूजापात्रमाह || स्वर्णमादौ द्वितीये च राजतं स्तम्भने शिला | विद्वेषोच्चाटने ताम्रं कपालं मारणे शुभम् | विप्रान्योऽपि नरः प्रोक्तो युवा च कृष्णवर्णकः | अदुर्भिक्षा व्याधिमृता आसनस्य शुभावहाः | अभावे स्फाटिकी जप्या इन्द्राक्षैर्वा जपेत् प्रिये ! | मृदौ वा कोमले वापि विष्टरे वा सुरेश्वरि ! | मुण्डे वा योनिके देवि ! त्वचे व्याघ्रस्य वा प्रिये ! | एकहस्ते द्विहस्ते च चतुर्हस्ते समन्ततः | स्थिरासनश्चरेत् सम्यक् न भयं तत्र चिन्तयेत् | भये जाते महेशानि ! भैरवोक्तमनुं स्मरेत् | विषञ्च वज्रजालेन हनुयुग्ममतः परम् | सर्वभूतानृतः कूर्चमन्त्रान्ते भैरवो मनुः | ततो भूतबलिं दद्यात् साधको धर्मसम्मितम् | तच्च तैलं महेशानि ! उद्वर्त्त्य कालकञ्चरेत् | कुजवारादियोगेन पञ्चकर्म समाचरेत् | शनौ च मारणं देवि ! निश्चितं वीरवन्दिते ! | रात्रियोगे न कर्त्तव्यं सर्वकर्म शुचिस्मिते ! | प्. १०२१) प्राग् विद्वान् प्रजपेत् सम्यक् स्वमन्त्रं संयुतं शिवे ! | प्रयोगस्य फलावाप्त्यै स्वस्वरक्षाकरं महत् | ततः शोधनदिने मन्त्री याममात्रगते निशि | मादिभिः पञ्चभिर्द्रव्यैर्यष्ट्वा कुलविलासिनीम् | दिग्वासा गलिताशेषचिकुरः कुलकौलिके ! | शक्तियुक्तो जपेद्विद्यां सदा तां मनसा स्मरन् | हक्षसङ्ख्यां महेशानि ! | शक्तिपूजापुरःसरम् | प्रत्यहं भोजयेद्विद्वान् कौलिकान्यान् दिनान्तिमे | मांसं मद्यं तथा मत्स्यं हुमेद् द्वौ द्वौ शतं शतम् | दक्षिणां गुरवे दद्याद् गुरुरूपेण शाम्भवि ! | एवमुक्तविधानेन दिव्यो वा वीरपुङ्गवः | यदि कुर्यान्महेशानि ! देवानपि तथा नयेत् | नापेक्षा जायते कान्ते ! अवश्यं फलभाग् भवेत् | महाप्रयोगे देवेशि ! कृष्णच्छागं बलिं हरेत् | पूजान्ते सततं देवि ! दशांशैर्वह्निमर्चयेत् | विधिः सर्वत्र कथितो दिव्यवीरपशुक्रमात् | क्रमेण फलमाप्नोति व्यत्यये पातकी भवेत् | इति ते कथितं तुभ्यं सम्यक् षट्कर्मगोचरम् | गोपनीयं खले दृष्टे पशुपामरसन्निधौ || श्रीदेव्युवाच || सुरा वा किंविधा देव ! शक्तिर्वा कीदृशी शुभा | षट्कर्मसु यथायोग्यं वद मे करुणानिधे ! || ईश्वर उवाच || माध्वी शान्तिकरी प्रोक्ता वश्ये च स्फाटिकी शुभा | स्तम्भने डाकिनी ज्ञेया विद्वेषे पैष्टिकी मता | उच्चाटने तथा गौडी मारणे भैरवी मता | एतासां लक्षणं देवि ! कथितं कुलमोहने ! || शक्तिभेदमाह तत्रैव || पद्मिनी शान्तिदा प्रोक्ता वश्ये च शङ्खिनी मता | स्तम्भनोच्चाटने देवि ! प्रशस्ता नागवल्लभा | मारणे च तथा शस्ता डाकिनी शत्रुमृत्युदा || पद्मिन्यादिलक्षणमपि तत्रैव || गौराङ्गी दीर्घकेशी या सदा प्. १०२२) चामृतभाषिणी | रक्तनेत्रा सुशीला च पद्मिनी साधने शुभा | मन्त्रसिद्धिकरी ह्येषा शङ्खिनी सापि भाविनी | दीर्घाङ्गी सा शङ्खिनी स्याज्जगद्रञ्जनकारिणी | श्यामाङ्गी शुभदेहा च न खर्वा नातिदीर्घिका | दीर्घकेशी ईषत्पुष्टा मृदुभाषा च नागिनी | कृष्णाङ्गी च कृशाङ्गी च दन्तुरा मदतापिता | ह्रस्वकेशी दीर्घघ्राणा सदा निष्ठुरवादिनी | सदा क्रुद्धा दीर्घदेहा महाराव परायणा | निर्लज्जा हास्यहीना च निद्रालुर्बहुभक्षिका | इयं सा डाकिनी प्रोक्ता मृत्युयोगे प्रशस्यते | एतास्तु शक्तयो देवि ! सर्वजातिसमुद्भवाः | सापत्याश्च युवत्यश्च जातपुत्रादिकाः शुभाः | गृह्या कुलरसैः पूज्या भक्तिभावेन कामिनी | श्रीदेव्युवाच || केन केन च मन्त्रेण मन्त्री षट्कर्मभाग् भवेत् | तत्तन्मन्त्रे महेशानि ! यद्यहं तव वल्लभा | श्री-ईश्वर उवाच || एकाक्षरं कालिकायास्तारायास्तु त्रिवीजकम् | वज्रवैरोचनीयाया मनुरेकादशाक्षरः | सर्वतेजोऽपहारी च मनुराख्यात एव च | बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ! | केवलं शक्तिवीजेन जपेद्देवि ! समाहितः | अवश्यं फलमाप्नोति नान्यथा वीरवन्दिते ! | खलो यदि फलप्राप्तः सरलो यदि निष्फलः | भवेदत्र महेशानि ! तदा सर्वं वृथा भवेत् | अहं धाता तथा पाता रक्षासु द्रोहणं शिवे ! | तथापि फलसिद्धिः स्याच्चित्रमेतन्नगात्मजे ! | एवन्तु मारणं देवि ! विशेषात् कथयामि ते | सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् | कूर्चयुग्मं ततो देवि ! अमुकं मारय द्वयम् | चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः | खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः | लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके | निशायां मस्तके नेत्रे ललाटे हृदये करे | नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये | मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् | प्. १०२३) संहरमुद्रां वद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् | दीर्घाकारां कृष्णवर्णां सदोर्द्ध्वतनमस्तकाम् | नृमुण्डयुगलं हस्ते चर्वयन्तीं दिगम्बरीं | शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय च | एवं ध्यात्वेष्टिकाचूर्णैर्वामहस्तेन शङ्करि ! | ओं शत्रुनाशकर्यै नम इति दत्त्वा महेश्वरि ! | हरिद्राचूर्णसहितां धारां दद्यादनेन तु | अमुकस्य शोणितञ्च पिब पिबेति तत्परम् | मांसं खादय खादय ह्रीं नम इति मन्त्रम् | मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् | जपेदेकादशाहे च रोगः स्यान्नात्र संशयः | दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत् अथवान्यप्रकारेण शत्रुक्षयमहं वदे | पुंगोशकृत् समादाय पूजयेदुष्णवारिणा | विपरीतक्रमेणैव जपपूजादिकञ्चरेत् | महादेवाय नम इति पुंगोशकृत् समाहरेत् | शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् | पशुपतये नम इति प्राणान् संस्थापयेत्ततः | लौहपात्रे महेशानि ! खदिराङ्गारयोगतः | शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेच्छिवम् | ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः | शत्रोर्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् | वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् | नरचर्माम्बरं देवं महाव्यालादिवेष्टितम् | पिनाकधृक् इहागच्छागच्छेत्यादिनावाह्य यत्नतः | शूलपाणये नम इति स्नापयेत् साधकोत्तमः | महेश्वराय नम इति पाद्यादिना प्रपूजयेत् | ईशानादीस्तथामूर्तीर्व्युत्क्रमेण प्रपूजयेत् | अग्निकोणादिपर्यन्तं पूर्वरीत्या महेश्वरि ! | नमः शिवायेति मूलमष्टाविंशति स~जपेत् | हुं क्षमस्वेति वामेन करेण तु विसर्जयेत् | अजित ! कैशव ! विष्णो ! हरे ! सत्य ! जनार्दन ! | हंस ! नारायण ! स्वाहा मन्त्रमेव सकृज्जपेत् | हुं नमोभगवते वासुदेवाय स्वाहा नम इत्यपि सकृज्जपेत् | एवमेकादशाहेन शत्रुच्छादनमञ्जसा | अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने ! || इति शत्रुच्छादनम् || प्. २०२४) अथ स्तम्भनम् || कथयामि महादेवि ! वैरस्तम्भनमुत्तमम् | कुम्भकारस्य पयनादानयेत् पिठरं पुनः | एकः स्वयं प्रदिक् स्फुटं यत् कृतं साधकोत्तमः | आनीय च डखामध्याद्भस्म पर्युषितं तथा | निक्षिप्य पिठरे शुष्कनालिकापत्रविस्तरम् | भस्मोपरि च संस्थाप्य वटिकायाः सुरेश्वरि ! | ऐशान्यां विवरं कृत्वा शनेर्वारे महेश्वरि ! | पूर्णमध्याह्नकाले च निर्जने सति भाविनि ! | चतुर्दिक्षु वाटिकाया गर्त्तस्य निकटात् प्रिये ! | तत्रावति महादेवी चौरेभ्यो रक्षयामि च | प्रस्कन्दमनसा देवि ! भूमौ परिक्रमं चरेत् | तावतीञ्च ततो भूमिं वामावर्त्तेन भाविनि ! परिक्रम्य पुनस्तत्र गर्त्तस्य निकटं व्रजेत् | तत्रैव निर्जने गर्त्त शलाकां लौहनिर्मिताम् | रोपयित्वा तदुपरि पिठरं सशरावकम् | संस्थाप्य मृद्भिः सम्पूर्य तद्गर्त्तं गृहमाव्रजेत् | गतिस्तम्भो भवेद्देवि ! चौरादीनां तथा खलु | त्वया योगवरो देव ! दुर्लभो वसुधातले | पिशाचभूतवेतालकुष्माण्डब्रह्मराक्षसाः | दानवानां तथान्येषां गतिस्तत्र न जायते | धनपुत्रसमृद्धिस्तु वर्द्धतेऽहर्निशं तथा | दिने दिने धर्मबुद्धिर्जायते नात्र संशयः || वृहन्नीलतन्त्रे || अथान्यत् सम्प्रवक्ष्यामि वशीकरणमुत्तमम् | येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् | प्रतिमां कारयेद्देवि ! पलेन रजतस्य च | पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे ! | हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा | गर्त्तं कृत्वा सार्द्धहस्तं तत्र निक्षिप्य सुन्दरि ! | रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः | चतुर्दिक्षु महेशानि ! पताका विनिवेशयेत् | रक्तासने चोपविश्य पूर्वास्यो जपमारभेत् | पूजाया नियमं देवि ! जानीहि नगनन्दिनि ! | तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः | प्. १०२५) प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः | अधः कृत्वा पूजयित्वा प्रबालमालया जपेत् | दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः | प्रणवं पूर्वमुच्चार्य मायावीजं द्वितीयकम् | का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् | ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् | साध्यनाम ततो न्यस्य वशमानय तत्परम् | वह्निजायावधिर्मन्त्रो जपेद्दशसहस्रकम् | दशांशादिप्रमाणेन होमादींश्च समाचरेत् | प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जितेन्द्रियः | प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि | जपे समाप्ते देवेशि ! हुमेद्दिने दिने शुभे ! | जातिपुष्पस्य होमेन वशयेन्नात्र संशयः | कर्पूरमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् | पूर्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः | तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! | अनेनैव विधानेन सन्तर्प्य परदेवताम् | सिद्धिप्रयोगाद्देवेशि ! जायते नात्र संशयः || अभिषेकं ततः कुर्याद्भैरवि ! प्राणवल्लभे ! | प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् | अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत् | तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा | एवं कृते महेशानि ! वशीकरणमुत्तमम् | जायते नात्र सन्देहः सत्यं सत्यं न संशयः | कामतुल्यश्च नारीणां रिपूणां शमनोपमः | यावजीवितपर्यन्तं स्मरवाण इवेश्वरि ! | जायते नात्र सन्देहः सत्यं सुरगणार्चिते ! | श्वेतापराजितामूलं पेषयेद्रोचनायुतम् | शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः | वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! | चन्द्रसूर्यावपि वृथा तदा निष्फलभाग्भवेत् | रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः | सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये ! | आद्यन्ते महतीं पूजां कुर्यात्तत्र वरानने ! | पञ्चदिनप्रयोगेण राजानं वशमानयेत् | तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम् || प्. १०२६) अथ विद्वेषणम् || तत्रैव || विद्वेषणं महेशानि ! शृणुष्वैकमनाः प्रिये ! | करवीररसेनैव तथा धुस्तूरकेण वा | काकोलूकौ समालिख्यौ भूर्जपत्रे महेश्वरि ! | साध्यानां नामसहितं मन्त्रं संलेख्य साधकः | एतयोर्यादृशं वैरं तादृशञ्चामुकयोर्भवेत् | वह्निजायावधिर्मन्त्रः सर्वविद्वेषकारकः | महाकालीदेवताया पूजा तस्याः शुभप्रदा | पञ्चसहस्रमानेन जपं कुर्यात् शुचिस्मिते ! | अथ मारणम् || तत्रैव || मारणञ्च विशेषेण शृणुष्वैकमनाः प्रिये ! | निहतं कृष्णमार्जारं मस्तकं तत्र तं नयेत् | सिन्दूरेण समायुक्तं कुर्यात् साधकसत्तमः | तज्जिह्वायां महादेवि ! साध्यनाम लिखेत् प्रिये ! | साध्यनाम लिखित्वा तु कालीनाम जपेन्मुदा | निजवीजेन घटितं त्र्यक्षरं प्रजपेत्ततः | दशसाहस्रजापेन मारयेदरिमग्रतः | श्मशानकालिकां तत्र चावाह्य पूजयेत्ततः | लौहालङ्कारसंयुक्तं वस्त्रं देव्यै निवेदयेत् | दक्षिणास्यो जपेन्मन्त्रं ततः सिद्धो भवेन्मनुः अन्नं पक्वा महादेवि ! निर्जने दापयेत् प्रिये ! | अर्द्धरात्रौ बलिं दत्त्वा खनेद्वैरिगृहे यदि | सप्ताहमध्ये देवेशि ! शत्रुर्याति यमालयम् | इति ते कथितं देवि ! सारात्सारतरं मतम् | तव स्नेहाद्वरारोहे ! प्रकाशितमिदं पुनः || कामाख्यातन्त्रे षष्ठपटले || पूजयित्वा महादेवीं पञ्चतत्त्वेन शाम्भवि ! | महानन्दमयो भूत्वा साधयेत् साधनं महत् | स्वकं मूत्रं महेशानि ! कूर्चवीजेन शोधयेत् | तर्पयेद्भैरवीं घोरां शत्रुनाम्ना पिबेत् स्वयम् | दशदिक्षु महापीठे प्रक्षिपेदनलेऽपि च | नग्नो भूत्वा भ्रमेत्तत्र शत्रुनाशो भवेद्ध्रुवम् | शुक्रशोणितमूत्रेषु वीरो घृणी भवेद् प्. १०२७) यदि | भैरवी कुपिता तस्य सत्यं सत्यं वदाम्यहम् || यथा || स मृत्पात्रं समादाय साध्यनामालिखेच्छिवे ! | वायुना पुटितं कृत्वा स्वमूत्रं तत्र निक्षिपेत् | मायावीजं महेशानि ! अष्टोत्तरशतं जपेत् | भैरव्यै तर्पयेद्देवि ! मारणोच्चाटनं भवेत् | स्वमूत्रञ्च समादाय वामहस्तेन पार्वति ! | शोधितं भैरवीपात्रे निक्षिपेत् साधकोत्तमः | उन्मादो जायते शत्रुर्म्रियते वा महेश्वरि ! | मोहितः क्षोभितो वापि वश्यो वापि भवेद् ध्रुवम् || एतेषां शान्तिस्तु योगिनीतन्त्रे || शान्तिकं शृणु सर्वज्ञे ! येन जीवेत साधक्ः | उर्वशीं प्रथमं नीत्वा युगान्तकारकं परम् | स्तनद्वयेन संयुक्तं धूमिनीत्रितयं ततः | अस्य मन्त्रस्य देवेशि ! सहस्राष्टप्रमाणतः | जपं कुर्यान्महेशानि ! अन्नपूर्णा च देवता | पूजयेद्विविधैर्भक्ष्यैर्नानारससमन्वितैः | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् | दशांशादिप्रमाणेन होमादींश्च समाचरेत् | पद्मपुष्पस्य होमेन शान्तिर्भवति सुन्दरि ! | मधुना तर्पयेद्देवीं चान्नपूर्णां परां गतिम् | रथमेऽहनि देवेशि ! जलेन पूरयेद्घटम् | तद्घटे पूजयेद्देवीं त्वावाह्य सुरसुन्दरीम् | मन्त्रेणानेन देवेशि ! यदि कुर्यात् प्रयोगकम् | सर्वव्याधिर्विनश्येत नात्र कार्या विचारणा || इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे वीराचारपूजादिषट्कर्मकथनं नाम तृतीयः परिच्छेदः || अथ कुलाचारः || नित्यातन्त्रे तृतीयपटले || कुलाचारविधिं वक्ष्ये सावधानावधारय | यस्य विज्ञानमात्रेण कर्त्ता हर्त्ता सदाशिवः | दिक्कालनियमो नास्ति तिथ्यादिनियमो न च | नियमो नास्ति देवेशि ! महामन्त्रस्य साधने || कौललक्षणन्तु तत्रैव || क्वचित् शिष्टः क्वचिद् भ्रष्टः क्वचिद् भूतपिशाचवत् | प्. १०२८) नानावेशधराः कौला विचरन्ति महीतले | कर्दमे चन्दनेऽभेदः पुत्त्रे शत्रौ तथा प्रिये ! | श्मशाने भवने देवि ! तथैव काञ्चने तृणे | न भेदो यस्य देवेशि स कौलः परिकीर्त्तितः | मथित्वा ज्ञानदण्डेन वेदागममहोदधिम् | सारमेतन्महादेवि ! कौलाचारं प्रकल्पितम् || समयाचारतन्त्रे || आर्द्रशुष्कविभागेन द्विधाचारं पुनः शृणु | आर्द्राचारस्तु विज्ञेयो मकारैः पञ्चभिर्युतः | मकारपञ्चरहितः शुष्काचारः प्रकीर्त्तितः | कलौ विशेषतो देवि ! आर्द्राचारः फलप्रदः || गुप्तसाधनतन्त्रे प्रथमपटले || कुलाचारं महाज्ञानं गोप्तव्यं पशुसङ्कटे | प्रगोप्तव्यं महादेवि ! स्वयोनिरिव पार्वति ! | वेदागमपुराणानि यानि शास्त्राणि पार्वति ! | तन्मध्ये सारभूतं हि कुलाचारं सुदुर्लभं | वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि | कुलाचारस्य माहात्म्यं वर्णितुं नैव शक्यते | किञ्चित्तथापि चापल्यात् कथयामि शृणुष्व मे | शक्तिमूलं जगत् सर्वं शक्तिमूलं परं तपः | शक्तिमाश्रित्य निवसेद् यत्र कुत्राश्रमे वसन् | साधकस्योचितां शक्तिं साधकाज्ञानुवर्त्तिनीम् | इह लोके सुखी भूत्वा देवीदेहे प्रलीयते | साधकेन्द्रो महासिद्धिं लब्ध्वा याति हरेः पदम् || मुण्डमालातन्त्रे पञ्चमपटले || कुलधर्मं समाश्रित्य ये वसन्ति महीतले | ते शिवास्ते शिवा जीवा भवन्ति कुलधर्मतः | कुलिनः शङ्करो ज्ञेयः कुलीनस्तु हरिः स्वयम् | कुलीनो वासवो देवः कुलीनस्तु पितामहः | कुलीना मुनयः सर्वे कुलीनाः पितरः स्मृताः || तथा || मुर्खो वा पण्डितो वापि ब्राह्मणो वा वरानने ! | क्षत्रियो वैश्यजः शूद्रश्चण्डालो वरवर्णिनि ! | सर्वे तुल्याः कुलीनाश्च एतत् सर्वार्थसाधनम् | शृणु देवि ! वरारोहे ! मम वाक्यं शुचिस्मिते ! | शृङ्गाररसलावण्यकोविदः सर्वकर्मसु | प्. १०२९) शृङ्गाराज्जायते सृष्टिः शृङ्गाराज्जायते रतिः | शृङ्गाराच्छङ्करस्तुष्टः शृङ्गारादपि पार्वती | प्रहारशब्दं ललितं कर्कशं वा सुरेश्वरि ! | शृङ्गारशब्दमात्रेण जना यास्यन्ति सद्गतिम् | स्त्रियो देवाः स्त्रियः पुण्याः स्त्रिय एव विभूषणम् | स्त्रीद्वेषो नैव कर्त्तव्यस्तासु निन्दाप्रहारकम् | वर्जयेदेव देवेशि ! घृणालज्जाविवर्जितः | स्त्रीरूपं तारिणीरूपं यो वेत्ति धरणीतले | स श्रीपतिश्च विज्ञेयः स ज्ञेयः पार्वतीपतिः || तथा || कुलमार्गरतो जीवः शिव एव न संशयः | कुलधर्मार्थगो जन्तुर्विहरेत् कुलमार्गके | कुलपुष्पं समाश्रित्य कुलीनाश्रममाश्रयेत् || षष्ठपटले || कुलवारे कुलीनन्तु कुलधर्मं कुलव्रतम् | आश्रयेत् परमानन्दं परमानन्दमेव च || कुलीनानां भक्तिर्नास्तीत्यादिवचनेनापि दोषमाह तत्रैव || न कुलीने परा बुद्धिर्न कुलीने परा गतिः | न कुलीने परा भक्तिर्न कुलीने परा क्रिया | एवं वदति यो जन्तुः स मुक्तिं नैव याति वै | इहैव स्वर्गो देवेशि ! इह कैलासमन्दिरम् | इहैव भक्तिर्भुक्तिश्च मुक्तिरव्यभिचारिणी | भोगः स्वर्गश्च मोक्षश्च करस्थश्चैव शङ्करि ! | शाक्तानां त्रिपुरेशानि ! सत्यं वच्मि न संशयः || निर्वाणतन्त्रे एकादशपटले || यस्मिन् देशे य आचारो निर्दिष्टो मन्त्रसाधने | तदाचारविशिष्टो यः कौलिकः स हि कीर्त्तितः | महानिर्वाणतन्त्रे चतुर्थोल्लासे || कुलाचारेण पूतात्मा साक्षाच्छिवमयो भवेत् | यत्रास्ति भोगबाहुल्यं तत्र योगस्य का कथा | योगोऽपि भोगविरहः कौलस्तूभयमश्नुते || अथ कौलार्चनफलं तत्रैव || एकश्चेत् कुलतत्त्वज्ञः पूजितो येन सुव्रते ! | सर्वे देवाश्च देव्यश्च पूजिता नात्र संशयः | पृथिवीं हेमसम्पूर्णां दत्त्वा यत् फलमाप्नुयात् | तस्मात् कोटि प्. १०३०) गुणं पुण्यं लभते कौलिकार्चनात् | श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते | कुलाचारविहीनस्तु ब्राह्मणः श्वपचाधमः | कौलधर्मात् परो धर्मो नास्ति ज्ञाने तु मामके | यस्यानुष्ठानमात्रेण ब्रह्मज्ञानी नरो भवेत् | अयन्तु परमो मार्गो गुप्तोऽस्ति पशुसङ्कटे | व्यक्तीभविष्यति चिरात् संवृत्ते प्रबले कलौ | कलिकाले प्रवृत्ते हि सत्यं सत्यं मयोच्यते | न स्थास्यन्ति विना कौलान् पशवो मानवा भुवि || अथ कुलाचारप्रशंसा || कुलार्णवे पञ्चमखण्डे द्वितीयोल्लासे || मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् | सारज्ञेन मया देवि ! कुलधर्मः समुद्धृतः | एकतः सकला धर्मा यज्ञतीर्थव्रतादयः | एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये ! | प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः | तथैव समयाः सर्वे प्रविष्टाः कुलमेव हि | यथा हस्तिपदे लीनं सर्वप्राणिपदं भवेत् | तथैव समयाः सर्वे प्रविष्टाः कुलमेव हि || तथा मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा | तथान्यसमयस्यापि कौलस्य महदन्तरम् | दर्शनेषु च सर्वेषु विनाभ्यासेन मानवाः | मोक्षं लभन्ते कौले तु सद्य एव न संशयः || तथा || योगी चेन्न्नैव भोगी स्याद् भोगी चेन्नैव योगवित् | भोगयोगात्मकं कौलमतः सर्वात्मकं प्रिये ! | भोगो योगायते साक्षात् पातकं सुकृतायते | मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ! | ब्रह्मेन्द्राच्युतरुद्रादिदेवता मुनिपुङ्गवाः | कुलधर्मपरा देवि ! मनुष्येषु च का कथा | विहाय सर्वधर्मांश्च नानागुरुमताय च | कुलमेव विजानीयाद्यदीच्छेच्छ्रियमात्मनः | पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते | सुप्तोत्थितप्रत्ययवदुपदेशादिकं विना || दिवा कुलाचारनिषेधस्तु || वामकेश्वरतन्त्रे प्. १०३१) एकपञ्चाशत्पटले || न दिवा च कुलाचारः पूर्णज्ञानेन चान्यथा | आचारो द्विविधो देवि ! वामदक्षिणभेदतः | जन्ममात्रं दक्षिणं हि अभिषेकेन वामकम् | निरुत्तरतन्त्रे प्रथमपटले || रात्रौ कुलक्रियां कुर्याद्दिवा कुर्याच्च वैदिकीम् | दिवा रात्रौ यजेद्देवीं योगी योगप्रभेदतः || वामकेश्वरतन्त्रे || गुरोराराधनाद्देवि ! मन्त्रसाधनतः प्रिये ! | चतुर्णामाश्रमाणां हि चावधूताश्रमो महान् | अवधूताश्रमं गच्छेत् साधकः स्थिरमानसः | कामक्रोधलोभमोहमदमात्सर्यवर्जितः | अवधूतः शिवः साक्षान्मम प्राणसमः प्रिये ! | अवधूतश्च द्विविधो गृहस्थश्च दिगम्बरः | सचेलश्च सदारश्च भावकः साधकः शुचिः | गुरुभक्तिरतो ज्ञानी वाह्याभ्यन्तरधर्मकृत् | अष्टाङ्गाभ्यासनिरतः प्राणायामपरायणः | निष्कामी ज्ञानशुद्धात्मा शिवार्च्चनपरायणः | गृहावधूतो देवेशि ! द्वितीयश्च सदाशिवः | दिगम्बरावधूतो हि पञ्चाचारपरायणः | सदानन्दः सदाशान्तो दिग्वासाः सर्वदायकः | सर्वभोगी सर्वजातिर्धर्मकर्मरतः सदा | न कलौ शोधयेन्मद्यमगम्यागमनं न हि | गृहावधूतैः कार्यन्तु कर्त्तव्यञ्च दिगम्बरैः | संविदासवयोर्मध्ये संविदैव गरीयसी | संविदापानमात्रेण स वीरः स च साधकः | एवंविधो विधानज्ञः कुलीनो भवति प्रिये ! | तदैव दिव्यभावश्च जायते नात्र संशयः | ये शाक्ता ब्राह्मणा देवि ! क्षत्रिया ब्राह्मणाः स्मृताः | वैश्याश्च ब्राह्मणा देवि ! सर्वे शूद्रा द्विजोत्तमाः | अन्तःशाक्ता वहिःशैवाः सभायां वैष्णवा मताः | नानारूपधराः कौला विचरन्ति महीतले | अभिषिक्तो गृहस्थश्च सदावधूतकश्च सः | कर्त्ता पाता च संहर्त्ता शिवतुल्यो न संशयः | वाह्यपूजा प्रकर्त्तव्या गुरुवाक्यानुसारतः | अन्तर्यागात्मिका पूजा सर्वपूजोत्तमोत्तमा | वहिःपूजा प्. १०३२) विधातव्या यावज्ज्ञानं न जायते | ज्ञाने जाते च देवेशि ! देवतामूर्त्तिभावना | अथवा देवतामूर्त्तिमालम्ब्य साधयेत् सुधीः || कामाख्यातन्त्रे पञ्चमपटले || स ब्राह्मणो वैष्णवः स शाक्तो गाणपतश्च सः | स शैवः परमार्थज्ञः स एव पूर्णदीक्षितः | पावनानीह तीर्थाणि सर्वेषामिति सम्मतम् | तीर्थाणां पावनः कौलो गिरिजे ! बहु किं वचः | तस्यैव जननी धन्या धन्या हि जनकादयः | तस्य ज्ञातिकुटुम्बाश्च धन्या आलापिनो जनाः | नन्दन्ति पितरः सर्वे गाथां गायन्ति ते मुदा | अपि नः स्वकुले कश्चित् कुलज्ञानी भविष्यति || अथान्तर्यागः || मुण्डमालातन्त्रे षष्ठपटले || ध्यायेत्तु पूजयेद्देवं मनसा वाचसा हृदा | तदेव साधको लोके चान्तर्यागपरायणः | अन्तर्यागं महामाये ! साधकानामगम्यकम् | ब्रह्माण्डं वै शरीरन्तु सर्वेषां प्राणधारिणाम् | ब्रह्मण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे | शरीरं तत्त्वघटितं नानारसपरिप्लुतम् | चन्द्रविम्बसमायुक्तं नादविन्दुविभूषितम् | शरीरं शङ्करस्यापि दुर्लभं मुक्तिदायकम् | यावन्मुक्तिर्महामाये ! तावदेव हि साधकः || नित्यातन्त्रे चतुर्थपटले || अथान्तर्यजनं वक्ष्ये शृणु सर्वाङ्गसुन्दरि ! | न पुनर्जननीगर्भं जज्ज्ञात्वा याति साधकः | आधारे कुण्डलीं देवीं चिन्तयेद्भुजगाकृतिम् | पूरकेण महेशानि ! त्वया चक्राणि षट् ततः | सहस्रानन्दसन्दोहमन्दिरं प्रापयेत् सुधीः | योजयित्वा पूरकेण साधकः परमात्मनि ! | शिवशक्तिसमायोगात् सुखी भूयान्निरन्तरम् | विकाशितं भवेद्देहं सकलं तत्प्रभावतः | अनाहताद्वहिः पद्मं षोडशारं विचिन्तयेत् | तन्मध्ये चिन्तयेन्मन्त्री सुधासागरमुत्तमम् | शतयोजनविस्तीर्णं बलयाकारमुज्ज्वलम् | प्. १०३३) तन्मध्ये परमेशानि ! मणिद्वीपं मनोहरम् | पारिजातादिरचितैरुद्यानैः परिशोभितम् | कल्पवृक्षं महादेवि ! मध्यस्थाने विचिन्तयेत् | चतुर्वेदान्वितैः शाखैश्चतुर्भिरुपशोभितम् | चिन्तामणिगृहं तस्य मूले देवि ! विचिन्तयेत् | सुवर्णरचितं नानारत्नसञ्चयरञ्जितम् | प्रबालमेखलायुक्तं घण्टाचामरराजितम् | तन्मध्ये परमेशानि ! चिन्तयेन्मणिवेदिकाम् | तस्योपरि महादेवि ! मणिपीठं मनोहरम् | स्वकल्पतन्त्रमुक्तं तद्योनिरूपं विचिन्तयेत् | भ्रूमध्ये परमेशानि ! यच्चान्द्रं पात्रमुत्तमम् | तत्रस्थममृतं देवि ! तत्र योनौ विनिक्षिपेत् | तेनैव विद्युदाकारं योनिमध्ये विचिन्तयेत् | आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः | रवेरुत्पद्यते नीरं नीरादुत्पद्यते मही | अनेनैव विधानेन पञ्चभूतात्मकं भवेत् | सर्वेन्द्रियसमायुक्तं सर्वायुधसमन्वितम् | सर्वालङ्काररचितं देवीदेहं विचिन्तयेत् | स्नात्वाथ पुष्करे तीर्थे पूजयेत् परदेवताम् | पाद्यपात्रत्रयं भद्रे ! अर्घ्यपात्रत्रयं तथा | तथा चमनपात्रञ्च त्रयं कुर्याद् वरानने ! | स्नानपात्राष्टकं देवि ! नियोज्याथ दले दले | पाद्यं चरणयोर्दत्त्वा कुण्डलिन्यमृतामृतैः | पात्राभ्यां परमेशानि ! पादोदकमथाहरेत् | मनसार्घ्यं त्रिधा कृत्वा गुणत्रयविभेदतः | सुवर्णदोलया देवीमानयेत् कुलभैरवः | स्नापयेन्मधुगन्धाद्यैः सुवर्णकलसाष्टकैः | चीनया गात्रमार्जन्या गात्रनीरं समुद्धरेत् | पट्टवस्त्रं ततो देव्यै निवेद्य परिधापयेत् | कञ्चुकञ्च निवेद्याथ शङ्खं बाहुचतुष्टये | निवेदयेन्महादेव्यै गजदन्तविनिर्मितम् | नानालङ्करणं देव्यै निवेद्य साधकोत्तमः | भक्तियुक्तेन मनसा स्वस्वस्थाने नियोजयेत् | सुगन्धितैलं चिकुरे दत्त्वाथ कुलभैरवः | सुवर्णकङ्कति?कया केशसंस्कारमाचरेत् | प्. १०३४) ततस्तु त्रिबलीं बद्ध्वा केशपाशं नियोजयेत् | सिन्दूरतिलकं दद्याद् भ्रूमध्ये कज्जलैः सुधीः | नेत्रञ्च रञ्जयेद्देव्याश्चामीकरशलाकया | अलक्तं चरणे दत्त्वा नखराग्रे कराम्ब्जुजे | अनर्घ्यरत्नघटितं दद्याच्च नूपुरद्वयम् | सुवर्णरचितं दद्यात् पादुकायुगलं शुचिः | निवेदयेत् किरीटञ्च नानारत्नविनिर्मितम् | चन्दनागुरुकस्तूरीकुसीदकुङ्कुमादिभिः | कुर्यादालेपनं देव्याः कुण्डगोलादिभिस्तथा | रक्तपद्मसहस्राणि मूलदेव्यै निवेदयेत् | समानीय ततः पीठे पुनश्च स्वर्णदोलया | चतुर्विंशतितत्त्वेन गन्धं देव्यै निवेदयेत् | तेजोरूपं महेशानि ! दीपं देव्यै निवेदयेत् | अम्बरं चामरं सूर्यं दद्याद्दर्पणमुत्तमम् | चन्द्रं छत्रं महेशानि ! षट्पद्ममेखलां तथा | अनाहतध्वनिमयीं घण्टाञ्च विनिवेदयेत् | सुधारसाम्बुधिं दद्यात् ततस्तु मां सपर्वतम् | ब्रह्माण्डपूरितं देव्यै पायसं विनिवेदयेत् | आनन्दं विनिवेद्याथ न्ष्कलः कुलभैरवः | मनोनर्त्तकसम्भूतशृङ्गारादिरसोत्तमैः | नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् | एवमेव विधानेन सम्पूज्य प्रजपेन्मनुम् || शाक्तानन्दतरङ्गिण्यां षष्ठोल्लासे || कश्चित् कश्चिद्विशेषो यथा || आत्मस्थां देवतां त्यक्त्वा वहिर्देवं हि मृग्यते | करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया | प्रत्यक्षीकृत्य हृदये हृदिस्थां पूजयेच्छिवाम् | यस्य यस्य हि देवस्य यथा भूषणवाहनम् | तदेव पूजने तस्य चिन्तयेत् परमेश्वरि ! | अथान्तर्यजनं वक्ष्ये येन देवमयो भवेत् | सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः | स्वकीयहृदये ध्यायेत् सुधासागरमुत्तमम् | रत्नद्वीपन्तु तन्मध्ये सुवर्णबालुकामयम् | मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः | सर्वतोऽलङ्कृतैर्दिव्यैर्नित्यपुष्पफलद्रुमैः | प्. १०३५) नानासुगन्धिकुसुमगन्धामोदितदिङ्मुखम् | उत्फुल्लकुसुमामोदप्रहृष्टभृङ्गसङ्कुलम् | कूजत्कोकिलसङ्घेन वाचालितदिगन्तरम् | सर्वतोऽलङ्कृतं दिव्यं लसत्काञ्चनपङ्घजम् | मौक्तिकैः कुसुमैः स्रग्भिर्मुकुलैः स्वर्णतोरणैः | तन्मध्ये संस्मरेद्देवि ! कल्पवृक्षं मनोहरम् | चतुःशाखाचतुर्वेदं गुणत्रयसमन्वितम् | पीतं कृष्णं तथा श्वेतं रक्तं पुष्पञ्च सुन्दरि ! | हरितञ्च विचित्रञ्च नानापुष्पविराजितम् | कोकिलैर्भ्रमरैर्देवि ! शोभितं बहुपक्षिभिः | एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् | तत्रोपरि महद्व्याप्तं चिन्तयेद्रत्नमण्डपम् | उद्यदादित्यसङ्काशं रत्नसोपानमण्डितम् | ध्वजावलीसमाकीर्णं चतुर्द्वारसमन्वितम् | नानारत्नविशोभाढ्यं रत्नप्राकारमण्डितम् | स्वस्वस्थानस्थितावस्थैर्लोकपालैरधिष्ठितम् | सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः | किन्नरैरप्सरोभिश्च क्रीडद्भिः परिदिङ्मुखम् | नृत्यवादित्रनिरतैरमरस्त्रीगणैर्युतम् | किङ्किणीजालसम्बन्धपताकाभिरलङ्कृतम् | महामाणिक्यवैदूर्यरत्नचामरभूषितम् | स्थूलमुक्ताफलोद्दामलम्बमानैरलङ्कृतम् | चन्दनागुरुकस्तूरीकुङ्कुमादिविलेपितम् | तन्मध्ये संस्मरेद्देवि ! महामाणिक्यवेदिकाम् | उद्यदर्केन्दुकिरणां चतुरस्रोपशोभिताम् | ध्यायेत् सिंहासनं तत्र ब्रह्मविष्णुशिवात्मकम् | सिंहासने महेशानि ! प्रसूनतूलिकां न्यसेत् | पीठपूजां ततः कृत्वा स्वकल्पोक्तक्रमेण तु | प्रेतपद्मासने तत्र चिन्तयेत् परमेश्वरीम् | आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते | श्रीरत्नपादुके दत्त्वा नीत्वा तां स्नानमन्दिरे | सिंहासनोपविष्टायमुद्वर्त्तनमथाचरेत् | कर्पूरागुरुकस्तूर्या तथा मृगमदेन च | रोचनाकुङ्कुमैर्मिश्रैर्नानागन्धसमन्वितैः | देव्या उद्वर्त्तनं कृत्वा गन्धतैलं विलेपयेत् | दिव्यवारिसहस्तुस्रै प्. १०३६) स्वर्णकुम्भसहस्रकैः | आनीय वारिणा स्नातां चिन्तयेत् परदेवताम् | दुकूलैर्मार्जितं गात्रं दुकूले परिधे तथा | कङ्कत्या केशं संस्कुर्याद्विधिवद् बन्धनं तथा | पट्टगुच्छं केशपाशैर्नानारत्नोपशोभितम् | पादयोर्नूपुरे दद्यान्नासाग्रे गजमौक्तिकम् | निवेदयेद् यथाशक्त्या पुष्पमालाञ्च भूषणम् | सर्वाङ्गलेपनं कार्यं गन्धचन्दनसिक्तकैः | काञ्चनाञ्चितकञ्चूली शोभिता हृदयोपरि | समाधौ चिन्तयेद्देवीं भूतशुद्ध्यादिकं दिशेत् | न्यासजालं विधायाथ समाधौ पूजयेत् सदा | षोडशानामुपचारैर्हृदिस्थां पूजयेच्छिवाम् | रत्नसिंहासनं दद्यात् स्वागतं कुशलं वदेत् | पाद्यञ्च पादयोर्देवि ! शिरस्यर्घ्यं निवेदयेत् | परामृतमाचमनं प्रदद्यान्मुखपङ्कजे | मधुपर्कं मुखे दद्यात् त्रिधा आचमनं मुखे | हेमपात्रगतं दिव्यं परमान्नं परिष्कृतम् | कपिलाघृतसंयुक्तमन्नञ्च व्यञ्जनान्वितम् | सुधाम्बुधिं मांसशैलं मत्स्यराशिं फलाति च | भक्ष्यं भोज्यं तथा लेह्यं चर्व्यं चोष्यं तथैव च | सकर्पूरञ्च ताम्बूलं मानसं परिकल्पयेत् | आवरणान् ततो देव्याः पूजनं मनसैव हि | इत्थमन्तः समाराध्य मानसैव जपेन्मनुम् | सहस्रादिजपं कृत्वा देव्यै सोदकमर्पयेत् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | अत एव महादेव्याः पर्यङ्कं समुदाहृतम् | पयःफेननिभां शययां नानापुष्पोपशोभिताम् | पुष्पशययाञ्च संस्कुर्यात्तत्र देवीं सुरेश्वरीम् | चिन्तयेत् साधको योगी नानासुखविलासिनीम् | नृत्यगीतैः सवाद्यैश्च तोषयेत् परमेश्वरीम् | ततो होमं प्रकुर्वीत पूजासाफल्यहेतवे | अथ होमं प्रवक्ष्यामि येन चिन्मयतां व्रजेत् | अथाधरामये कुण्डे चिदग्नौ होमयेत्ततः || महानिर्वाणतन्त्रे पञ्चमपटले || हृत्पद्ममासनं दद्यात् सहस्रारच्युतामृतैः | पाद्यं प्. १०३७) चरणयोर्दद्यान्मनसार्घ्यं निवेदयेत् | तेनामृतेनाचमनं स्नानीयमपि कल्पयेत् | आकाशतत्त्वं वसनं गन्धन्तु गन्धतत्त्वकम् | चित्तं प्रकल्पयेत् पुष्पम् धूपं प्राणान् प्रकल्पयेत् | तेजस्तत्त्वञ्च दीपार्थे नैवेद्यञ्च सुधाम्बुधिम् | अनाहतध्वनिं घण्टां वायुतत्त्वञ्च चामरम् | नृत्यमिन्द्रियकर्माणि चाञ्चल्यं मनसस्तथा | पुष्पं नानाविधं दद्यादात्मनो भावसिद्धये | अमायामनहङ्कारमरागममदं तथा | अमोहकमदम्भञ्च अद्वेषाक्षोभके तथा | अमात्सर्यमलोभञ्च दशपुष्पं प्रकीर्त्तितम् | अहिंसां परमं पुष्पं पुष्पमिन्द्रियनिग्रहम् | दयाक्षमाज्ञानपुष्पं पञ्चपुष्पं ततः परम् | इति पञ्चदशैः पुष्पैर्भावपुष्पैः प्रपूजयेत् | सुधाम्बुधिं मांसशैलं भर्जितं मीनपर्वतम् | मुद्राराशिं सुभक्तञ्च घृताक्तं पायसं तथा | कुलामृतञ्च तत् पुष्पं पीठक्षालनवारि च | कामक्रोधौ तु विकृतौ बलिं दत्त्वा जपं चरेत् | माला वर्णमयी प्रोक्ता कुण्डलीसूत्रयन्त्रिता | सविन्दुं वर्णमुच्चार्य मूलमन्त्रं समुच्चरेत् | अकारादिक्षकारान्तमनुलोमविलोमतः | पुनर्लकारमारभ्य श्रीकण्ठान्तमनुं जपेत् | विलोम इति विख्यातः क्षकारो मेरुरुच्यते | अष्टवर्गान्तिमैर्वर्णैः सह मूलमथाष्टकम् | एवमष्टोत्तरशतं जप्त्वा तेन समर्पयेत् | सर्वान्तरात्मनिलये स्वाहा ज्योतिःस्वरूपिणी | गृहाणान्तर्जपं मातराद्ये ! कालि ! नमोऽस्तु ते | समर्प्य जपमेतेन साष्टाङ्गं प्रणमेद्धिया | इत्यन्तर्यजनं कृत्वा वहिःपूजां समारभेत् || अथान्तर्होमः || नित्यातन्त्रे सप्तमपटले || ज्ञानहोमविधिं वक्ष्ये शृणु सर्वाङ्गसुन्दरि ! | यस्य विज्ञानमात्रेण कर्त्ता हर्त्ता सदाशिवः | आत्मेति चतुरस्रन्तु विचिन्त्य वीरवन्दिते ! | आत्मान्तरात्मा परमज्ञानात्मा परमेश्वरि ! | चतुर्भिरेतैर्देवेशि ! कुर्यात्तु प्. १०३८) चतुरस्रकम् | अर्द्धमात्रां योनिरूपां कुण्डमध्ये विचिन्तयेत् | आनन्दं मेखलां कुर्यात्रिरेखां बलयं तथा | ज्ञानाग्निं तत्र देवेशि ! योजयेत् कुलभैरवः | शब्दाख्यं मातृकारूपं संविदग्नौ ततो हुमेत् | अक्षराणीह मे देवि ! निःशब्दं ब्रह्म जायते | पुण्यं पापं विकल्पञ्च सङ्कल्पं वीरवन्दिते ! | कृत्यञ्चाकृत्यमीशानि ! हवींष्येतानि पार्वति ! | चिन्तयेन्मूलविद्याञ्च जुहुयान्मनसा स्रुचा | तदा संविन्मयः साक्षात् परं ब्रह्मपदं व्रजेत् || अथ पञ्चाहुतयः || श्यामारहस्ये मूलान्ते || नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् | स्वाहा | अनेन प्रथमाहुतिं दद्यात् || ततो मूलान्ते || धर्माधर्महविर्ज्ञाप्त आत्माग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् | स्वाहा इति द्वितीयाहुतिं दद्यात् || ततो मूलान्ते || प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा | धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् | वह्निजायान्तमन्त्रेण तृतीयाहुतिमादिशेत् || अनेन तृतीयाहुतिं दद्यात् मूलान्ते || अन्तर्निरन्तरनिरिन्धनमेधमाने मायान्धकारपरिपन्थिनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिशि वावसानम् || अथ श्रीचक्रक्रमः || कुलार्णवे पञ्चमखण्डे पञ्चमोल्लासे || आधारेण विना भ्रंशो न च तृप्यन्ति मातरः | तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके ! | आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् | अथवा वर्त्तुलाकारं कुर्याद्देवि ! मनोहरम् | इति पात्राधारकथनम् || स्वर्णरूप्यशिलाकूर्मकपालालावुमृण्मयम् | नारिकेलञ्च प्. १०३९) शङ्खञ्च मुक्ताशुक्तिसमुद्भवम् || पुण्यवृक्षसमुद्भूतं पात्रं कुर्याद्विचक्षणः | अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् | इति पात्रकथनम् || सुवर्णरौप्यताम्राणि सर्वसिद्धिकराणि च | शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् | नारिकेलञ्च वश्यादावभिचारे च कूर्मजम् | शङ्खं ज्ञानप्रदं मुक्ता शुक्तिविद्याप्रदायिनी | कपालालावुपात्राणि योगसिद्धिकराणि च | पुण्यवृक्षजपात्राणि सर्वपापहराणि च | उक्तेष्वेतेषु देवेशि ! पात्रमेकं प्रकल्पयेत् || इति कर्मविशेषे पात्रफलम् || एतदनन्तरं कुलद्रव्यकरणमुक्त्वा इत्यादि मद्ये हेतूनि मद्यान्यन्यानि कारयेत् | पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् | मधूत्थं सीधुमाध्वीकमैरेयं नारिकेलजम् | मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च | द्वादशन्तु सुरामद्यं सर्वेषामुत्तमं प्रिये ! | गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा | सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी | माध्वी मुक्तिकरी प्रोक्ता सुरा स्याद्देवता प्रिये ! | इति त्रिविधसुराकथनम् || विद्याप्रदैक्षवी माला माध्वी राज्यप्रदा भवेत् | तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिनी | नारिकेलभवा श्रीदा पानसी च शुभप्रदा | मधूकजा ज्ञानकरी माध्वीका रोगनाशिनी | मैरेयाख्या महेशानि ! सर्वपापापहारिणी | इत्येकादशमद्यफलम् || क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् | मधुपुष्पसमुद्भूतमासवं तण्डुलोद्भवम् | तद्गन्धघ्राणमात्रेण शतक्रतुफलं लभेत् | तस्य सम्पर्कमात्रेण तीर्थकोटिफलं लभेत् | देवि ! तत्पानतः साक्षाल्लभेन्मुक्तिं चतुर्विधाम् || मद्याभावे वटिकोक्ता तत्रैव || मद्यमांसादिविजयां चाष्टगन्धैः सुमिश्रितम् | सम्मर्द्य वटिकां कृत्वा सङ्गृह्याथ विचक्षणः | मद्याभावे तु वटिकां प्. १०४०) जले संयोज्य तर्पयेत् | वटिकाभावे द्रव्यान्तरेण तर्पणमुक्तं तत्रैव || गुडमिश्रेण तक्रेण तर्पयेन्मधुभाजिना | सौवीरेणाथवाकुर्यादेतत् कर्म न लोपयेत् | प्रमादाद् यति लुप्येत देवताशापमाप्नुयात् | मांसञ्च त्रिविधं प्रोक्तं खभूजलचरं प्रिये ! | यथासम्भवमेष्वेकं तर्पणार्थं प्रकल्पयेत् | मांससन्दर्शनेनापि सुरादर्शनवत् फलम् | पितृदेवादियज्ञेषु वैवहिंसा विधीयते | आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ! | अनिमित्तं तृणं वापि छेदयेन्न कदाचन | देवतार्थं द्विजार्थं वा हत्वा पापैर्न लिप्यते || मांसाभावे मांसप्रतिनिधिरुक्तस्तत्रैव || मांसाभावे तु लसुनं सार्द्रकं नागरन्तु वा | आदाय पूजयेद्देवीं नान्यथा निष्फलं भवेत् || मत्स्यमांसतत्प्रतिनिध्यभावे केवलकारणेनापि तर्पणमुक्तम् तत्रैव || मत्स्यमांसादिहीनेन मद्येनापि च तर्पयेत् | न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् || तर्पणफलमुक्तं तत्रैव || पिशितं तिलमात्रन्तु तिलार्द्धमपि विन्दुना | सकृत्तर्पितमात्रेण कोटियज्ञफलं लभेत् | कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये | तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् | अनधीतश्च शास्त्रज्ञो गुरुभक्तो दृढव्रतः | कुलपूजारतो यस्तु स मे प्रियतमो भवेत् | चतुर्णामपि वर्णानामाश्रमाणामधीश्वरि ! | पुंस्त्रीनपुंसकानाञ्च पूजिता त्वं सदाशिवे ! | इहामुत्र फलं दद्यात् पूज्या सुरबधूरिव | कुलपूजादिकं विना यश्चैतत् करोति तस्य दोषमाह तत्रैव || कुलपूजां विना यस्तु करोत्येतत् सुदुर्मतिः | स याति नरकं घोरमेकविंशतिभिः कुलैः || आराधने त्वशक्तानां कृत्यमुक्तं तत्रैव || तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् | लभते सर्वसिद्धिञ्च नात्र कार्या विचारणा | प्. १०४१) आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् | यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् || शैवादीनामपि कुलद्रव्येण पूजनमुक्तं तत्रैव || शैवे च वैष्णवे शाक्ते सौरे च गणदर्शने | बौद्धे पाशुपते साङ्ख्ये व्रते कलामुखे तथा सदक्षवामसिद्धान्ते वैनिकादिषु पार्वति ! | निनालिपिशिताभ्याञ्च पूजनं विफलं भवेत् | कुलद्रव्यैर्विना कुर्याज्जपयज्ञतपोव्रतम् | निष्फलञ्च भवेद्देवि ! भस्मनीव यथाहुतिः | एतेन वैष्णवे कुलाचाराभाव इति येनोक्तं तेनेत्यादिवचनं न श्रुतमिति भाति || कुलाचारकरणफलमाह तत्रैव || यथैवानुचरा राज्ञः प्रियाः स्युर्न वहिश्चराः | तथान्तर्यागनिष्ठा ये ते प्रिया देवि ! नापरे | समर्पयन्ति ये भक्त्या कराभ्यां पिशितासवम् | उत्पादयति चानन्दं मत्प्रियाः कौलिकाश्च ते | आवयोः परमाकारं सच्चिदानन्दलक्षणम् | कुलद्रव्योपभोगेण परिस्फुरति नान्यथा | अन्तःस्थात्मभवोल्लासो मनोवाचामगोचरः | कुलद्रव्योपभोगेण जायते नान्यथा प्रिये ! | सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शिनः | जायते भैरवावेशः सर्वत्र समदर्शिनः | तमःपरिवृतं वेश्म यथा दीपेन दृश्यते | तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते | मन्त्रपूतं कुलद्रव्यं गुरुदेवार्पितं प्रिये ! | ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते | सुरा शक्तिः शिवो मांसं तद्भक्तो भैरवः स्वयम् | तयोरैक्यं समुत्पन्नमानन्दो मोक्ष उच्यते | आनन्दं ब्रह्मणो रूपं तत्तु देहेष्ववस्थितम् | अस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते | निःसङ्गो निर्भयो वीरो निर्द्वन्द्वो निष्कुतूहलः | निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पीबेत् || संस्कृतद्रव्यदानफलन्तु तत्रैव || मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ! | जायते देवताभावो भवबन्धविमोचकः | ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे | गोलम्भने च वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि | देवान् पितॄन् समभ्यर्च्य देवि ! शास्त्रोक्तवर्त्मना || अर्थलोभादिना कुलद्रव्यपाने दोषस्तत्रैव || गुरुं स्मरन् पिबन्मद्यं खादन्मांसं न दोषभाक् | तृप्त्यर्थं सर्वदेवानां ब्रह्मज्ञानार्थमेव च | सेवेत मधुमांसानि तृष्णया चेत् सं पातकी | मन्त्रार्थस्फुरणार्थाय मनसः स्थैर्यहेतवे | भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् | सेवते यः सुखार्थाय मद्यादीनि स पातकी | प्राशयेद्देवताप्रीत्यै ह्यभिलासविवर्जितः | मत्स्यमांसासवादीनां मादनानां निषेवणम् | यागकालं विनान्यत्र दूषणं कथितं प्रिये ! | यथा क्रतुषु विप्राणां सोमपानं विधीयते | मधुपानं तथा कार्यं समये भोगमोक्षदम् | श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् || पञ्चमुद्रां निषेवेत चान्यथा पातकी भवेत् | अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् | पशुपानविधौ पीत्वा कौलोऽपि नरकं व्रजेत् | कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति | स महापातकी देवि ! सर्वकर्मवहिष्कृतः | समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः | न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् | यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः | न स सिद्धिमवाप्नोति परत्र न परां गतिम् | स्वेच्छया वर्त्तमानो यो दीक्षासंस्कारवर्जितः | न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः | असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् | स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् | कौलाः पशुव्रताश्चैव पक्षद्वयविडम्बकाः | केशसङ्ख्या स्थिता यावत्तावत्तिष्ठति रौरवे | कुलद्रव्याणि सेवन्ते येऽन्यदर्शनमाश्रिताः | तदङ्गरोमसङ्ख्यातं पलाशी स निगद्यते | स्वलक्ष्यादिन्द्रियगणं सम्पाद्यात्मनि योजयेत् | मांसाशी स भवेद्देवि ! शेषाः स्युः प्राणिहिंसकाः | प्. १०४३) अप्रबुद्ध्वा पशोः शक्तिं प्रबुद्ध्वा कौलिकस्य च | शक्तिं तां सेवयेद् यस्तु स भवेच्छक्तिसेवकः | परशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः | य आस्ते मैथुनं यत् स्यादितरे स्त्रीनिषेवकाः | इत्यादिपञ्चमुद्राणां वासनां कुलनायिके ! ज्ञात्वा गुरुमुखाद्देवि ! यः सेवेत स मुच्यते || षष्ठोल्लासे || पूजकलक्षणादि || पूजाभिषेकसहितो देवि ! शास्त्रार्थतत्त्ववित् | देवतागुरुभक्तश्च नियतं योऽर्चयेत् प्रिये ! | कुलागमरहस्यज्ञो देवताराधनोत्सुकः | गुरुपदेशसंयुक्तः पूजयेत् कुलनायिके ! | शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवर्जितः | पशुव्रतादिविमुखः सम्मुखस्तर्पयेत् प्रिये ! | मन्त्रयोगेन देवेशि ! कुर्यात् श्रीचक्रपूजनम् | तदहन्तु त्वया सार्द्धं गृह्णामि स्वयमादरात् | भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः | इति सञ्चिन्त्य योगीशः कुलपूजारतो भवेत् | इत्यादिलक्षणोपेतः कौलिको नियतव्रतः | यस्त्वां समर्चयेद्देवि ! भुक्तिमुक्त्योः स भाजनम् | एकान्ते विजनेऽरण्ये देशे बाधाविवर्जिते | सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः | आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चधा | यावन्न कुरुते देवि ! तावद्देवार्चनं कुतः | पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् | सा पूजा सफला ज्ञेया चान्यथा निष्फलं भवेत् | मण्डलेन विना पूजा विफला कथिता प्रिये ! | तस्मान्मण्डलमालिख्य विधिवत् तत्र पूजयेत् || मण्डललक्षणं तत्रैव || अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् | त्रैलोक्यं मण्डितं येन मण्डलं तत् सदाशिवम् | उद्यानचतुरस्रं स्यात् कामरूपञ्च वर्त्तुलम् | जालन्धरोर्द्ध्वचन्द्राभं त्र्यस्रं पूर्णगिरिर्भवेत् | अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् | सामान्यं श्रीगुरोर्भोगबलिपात्राणि पञ्चधा | द्विपात्रं वा त्रिपात्रं प्. १०४४) एकपात्रं न कारयेत् | स्वदक्षिणादिवामान्तं संस्थाप्यार्च्यासवेन तु | सम्पूज्य मूलमन्त्रेण कुलेश्वरि ! विधानवित् | तत्र माषप्रमाणन्तु मत्स्यं मांसञ्च निक्षिपेत् || तर्पणे निषिद्धसुरामाह तत्रैव || नेष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः | हेतुभिः परपात्रस्थैस्तर्पणं विफलं भवेत् || असंस्कृता सुरा पापकलहव्याधिदुःखदा | आयुःश्रीकीर्त्तिसौभाग्यधनधान्यविनाशिनी | तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्च्चयेत् | अन्यथा याति नरकं भोक्ता दाता न संशयः || सुराशोधनप्रकारस्तु तत्रैव || वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविशोधितम् | द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारणम् || प्रत्येकं पञ्चमकारशोधनमन्त्रोऽपि तत्रैव || प्रथमं हंसः सदसत् प्रतद्विष्णुरनन्तरम् | त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थं तत्पदादिकम् | विष्णुर्योनिकमित्यादि पञ्चमं कल्पनामनुः | एकद्वित्रिचतुःपञ्चद्विचतुर्वारमम्बिके ! | संस्कृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया | ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् | आपूरितं महापात्रं पीयूषरसमेव ह | शुद्धद्रव्येण तेनापि शुद्धपुष्पाक्षतैरपि | न्यासपूर्वोक्तमन्त्रेस्तु आत्मानं पूजयेत् प्रिये ! | मूर्ध्नि श्रीगुरुपंक्तिञ्च मूलाधारे च पादुकाम् || गुरुपंक्तिक्रममाह तत्रैव || दिव्यौघे चादिनाथाश्च तच्छक्तीश्च सदाशिवः | तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्बुधः | विष्णुश्च तत्प्रियो ब्रह्मा तत्कान्ता द्वादशेरिता | सिद्धौघे सनकश्चैव सनन्दश्च सनातनः | सनत्कुमारश्च सनत्सुजातश्च रिभुक्षजाः | दत्तात्रेयो दैवतको वामदेवस्ततः परम् | ततो व्यासः शुकश्चैव एकादश समीरिताः | मानवौघे नृसिंहश्च महेशो भार्गवस्तथा | महेन्द्रो माधवो विष्णुः प्. १०४५) षडेते परिकीर्त्तितः | नमो यो योजयेद्देवि ! दिव्यौघे परमं शिवम् | महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् | ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ! | महापद्मवनान्तःस्थे ! कारणानन्दविग्रहे ! | सर्वभूतहिते ! मातरेह्येहि परमेश्वरि ! | देवेशि ! भक्तिसुलभे ! सर्वाभरणसंयुते ! | यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव | मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः | ध्यात्वा मुद्राः प्रदर्श्यार्च्येद्गन्धपुष्पाक्षतादिभिः || अथ कुलाचारचक्रम् || कुलार्णवे पञ्चमखण्डे एकादशोल्लासे || यदि स्वाद्दीक्षितो ज्येष्ठः कुलपूजादिवर्जितः | तत्कनिष्ठस्तत्क्रमश्चेत् कुलपूजां समाचरेत् || तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा | तस्मै निवेद्य तत्सर्वं शेषं भुञ्जीत पार्वति ! | पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते | नत्वा ब्रूयात् स्थितिं शिष्यमाचरेत्तदनुज्ञया | ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ | तत्र पूज्यवदाचारः कथितः कुलनायिके ! | अज्ञातकालप्राप्तञ्चेत् पौर्वापर्यन्तु चिन्तयेत् | स्मृत्वा तस्य गुरुं देवि ! समवेशेन तर्पयेत् | नित्यार्च्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्च्चनम् | उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः | न स्नात्वा नासनस्थो वा भुक्त्वा च प्रलपन्नपि | गन्धपुष्पाक्षताकल्पवस्त्राद्यैरनलङ्कृतः | अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् | विना मन्त्रेण या पूजा विना मांसेन तर्पणम् | विना शक्त्या च यत् पानं निष्फलं कथितं प्रिये ! | श्रीचक्रमेको वा कुर्यादेकपात्रञ्च नार्च्चयेत् | नार्चयेदेकहस्तेन पिबेदेकपाणिना | मत्स्यमांसासवैर्द्देवि ! नार्च्चयेत् पशुसन्निधौ | प्रणम्य प्रविशेच्चक्रं निर्गच्छेच्च प्रणम्य च | श्रीचक्रदर्शनं देवि ! नेत्रयोः पापनाशनम् | अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् | प्. १०४६) शिवगौरीधिया देवि ! भावयेन्नावमानयेत् | कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये | याचेदमृतगन्धञ्च तदभावे जलं पिबेत् | कुलाचार्येण यच्छक्त्या दत्तं पात्रन्तु भक्तितः | नमस्कृत्य तु गृह्णियादन्यथा नरकं ब्रजेत् | अस्नात्वा वापि भुक्त्वा वा लोभाद्वापि कुलेश्वरि ! | यः सेवते कुलद्रव्यं स दारिद्र्यमवाप्नुयात् | उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः | पराङ्मुखो विवादी च न पिबेत्तु कुलामृतम् | योगामृतेन निष्ठिव्य मद्यभाण्डपरिभ्रमात् | ऊर्द्ध्वनालेन पानाच्च देवताशापमाप्नुयात् | एकासने निविष्टा ये भुञ्जते चैकभाजने | एकपात्रे पिबन्त्यम्बु ते यान्ति नरकं प्रिये ! | यः सेवते कुलद्रव्यमेकग्रामे स्थिते गुरौ | तत्कुलज्ञे च तत्पुत्रे सज्येष्ठे कुलदेशिके | विनानुज्ञां कुलेशानि ! सोऽक्षयं नरकं ब्रजेत् | उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ! | वहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् | मद्यभाण्डं समुद्धृत्य न पात्रं पूरयेत् प्रिये ! | भोगपात्रं सुराकुम्भे निक्षिपेन्न कदाचन | चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् | यः करोति विमूढात्मा स भवेदापदां पदम् | निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् | श्रीचक्रमध्ये यः कुर्यात् स भवेत् योगिनीपशुः | चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि | दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ! | प्रौढोल्लासे सति ज्ञानिमत्तयोर्विज्ञानं यथा तत्रैव || मन्त्रान् जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च | बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये ! | मत्ता हसन्ति गच्छन्ति विवदन्ते परस्परम् | रुदन्ति श्रियमिच्छन्ति निन्दन्ति ज्ञानिनः प्रिये ! | परिहासं प्रलापञ्च वितण्डां बहुभाषणम् | औदासीन्यं प्. १०४७) भयं क्रोधं चक्रमध्ये विवर्जयेत् | पात्रहस्तो महादेवि ! न भ्रमेच्चक्रमध्यतः | पूर्णपात्रं करे कृत्वा न तिष्ठेत चिरं प्रिये ! | नालपेत् पात्रहस्तः सन् न निन्द्यात् पात्रमम्बिके ! | न पद्भ्यां संस्पृशेत् पात्रं न विन्दुः पातयेदधः | नैकहस्तेन दातव्यं न मुद्रावर्जितं प्रिये ! | पात्रं न चालयेत् स्थानात् न कुर्यात् पात्रसङ्कुलम् | सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् | नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः | साधारं नोद्धरेत् पात्रमनाधारे च निक्षिपेत् | रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ! | न पात्रं लङ्घयेद्धीमान् पात्रं नोत्पातयेत् क्वचित् | प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ! | यदसन्दीपितोल्लासः कौलिकः पशुमीक्षते | पठित्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् | कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् | श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति | लेहाल्लोभाद्भयाद्वापि स भवेद्योगिनीपशुः | रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः | पितृमातृसमं पश्येत् तेनोक्तं पुरुषं सहेत् | तथा स्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति | तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः || तथा || नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् | स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ! | पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् | श्वचर्मस्थं यथा क्षीरं न पेयं स्याद्द्विजातिभिः | तथा पशुमुखाद्धर्मो न श्रोतव्यश्च कौलिकैः | यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् | तावुभौ मच्छतः साक्षाद् योगिनीवीरमेलनम् | अश्रद्दद्धाना ये चात्र कुलधर्मे कुलेश्वरि ! | नरकान्न निवर्त्तन्ते यावदाभूतसंप्लवम् || तथा || गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् | व्यङ्गाङ्गीं विकृताङ्गीञ्च कुब्जामपि न कारयेत् | सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि | न कामयेद्गुरोरग्रे प्. १०४८) कुर्यान्नान्योन्यगूहनम् | कृष्णां शुक्लां कृष्णवर्णां कुमारीञ्च कृशोदरीम् | मनोहरां यौवनस्थामर्चयेद्देवताधिया | एकदापि न सेवेत बलेन कुलयोगिनीम् | चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ! | आममांसं सुराकुम्भं मत्तेभं सिद्धलिङ्गिनम् | सहकारमशोकञ्च क्रीडालीनाः कुमारिकाः | एकवृक्षं श्मशानञ्च समूहं योषितामपि | नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः | गुरुशक्तिं सुतं ज्येष्ठं कनिष्ठं कुलदेशिकम् | कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् | प्रेरकान् सूचकान् वापि वाचकान् दर्शकांस्तथा | शिक्षकान् बोधकान् योगियोगिनीसिद्धरूपकान् | कन्यां कुमारिकां नग्नामुन्मत्तामपि योषितम् | न निन्देन्न जुगुप्सेत सहासं नावमानयेत् | नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः | कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् | परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृते | न पश्येत् पतितां नग्नामुन्मत्तां प्रकटस्तनीम् | दिवसे न रमेत् कान्तां तद्योनिं नैव वीक्षयेत् | या काचिदङ्गना लोके सा मातृकुलसम्भवा | कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् | स्त्रियं शतापराधेन पुष्पेणापि न ताडयेत् | दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् | तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः | न स्वप्यात् कुलवृक्षाधो न चोपद्रवमाचरेत् | दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन | श्लेष्मातककरञ्जानि निम्बाश्वत्थकदम्बकाः | विल्वो वटोडुम्बरश्च तिन्तिडिर्दशमाः स्मृताः | प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् | तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् | वीरहत्या वृथापानं वीरद्रव्यापहारिता | वीरस्त्रीगमनञ्चैव तत्संसर्गश्च पञ्चमः | महापातकमित्युक्तं कौलिकानां प्. १०४९) कुलान्वये | शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् | ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ || अथानन्दस्वरूपकथनम् || समयाचारतन्त्रे प्रथमपटले || आनन्दं परमं ब्रह्म परशक्तिः सदाशिवः | आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः | द्रव्यशुद्ध्यादिसकलमानन्दार्थञ्च भैरवि ! | आनन्दे जायमाने तु भक्षयेन्न कदाचन || अतिपानाद्भवेन्मत्तो जपपूजादि निष्फलम् | बुद्धिनाशो भवेद्देवि | अत एव मितं चरेत् | सुखार्थं भक्षयेद्यस्त्वापदस्तस्य पदे पदे | अतिसङ्क्षोभतोऽत्यर्थलोकनिन्दा च जायते || तथा || सर्वं ब्रह्ममयं पश्यन् स च दोषैर्न लिप्यते | मोहाद्वाकामतो वापि यः कश्चिदिह वर्त्तते | सोऽधमः साधकानाञ्च नारकी भवति ध्रुवम् | इह लोके निन्दितः स्यात् परे च नरकं व्रजेत् || अथानुकल्पः || समयाचारतन्त्रे || गव्यादीनामभावे तु नित्यं कर्म न लोपयेत् | प्रमादाल्लोपयेद् यस्तु नरकं लभते ध्रुवम् | द्रव्यं चतुर्दशं प्रोक्तं तच्छृणुष्व पृथक् पृथक् | तेषां मध्ये द्वयं द्रव्यं न ग्राह्यञ्च कदाचन | क्षीरं दधि तथा तक्रं घृतं क्षौद्रं गुडं तथा | शर्करा शीतलं तोयमैक्षवं नारिकेलकम् | आस्फेनं विजयाञ्चैवमुन्मत्तञ्च विषं तथा | धूस्तूरञ्च विषं देवि ! द्रव्यं प्राणहरात्मकम् | अन्यानि यानि द्रव्याणि आनन्दार्थं पिबेन्नरः || तथा || सर्वद्रव्याद्यभावे तु आर्द्रकं परिकीर्तितम् | जलं वा क्षीरतक्रं वा नित्यं कर्म समापयेत् | मकारपञ्चकाभावे पञ्चमं परिकीर्तितम् | अभावे पञ्चमे देवि ! मनसा पञ्चमं व्रजेत् || अथ पारम्पर्योपदेशादिं विना पञ्चतत्त्वसेवननिन्दा || प्.१०५०) कुलार्णवे पञ्चमखण्डे द्वितीयोल्लासे || गुरूपेदशरहिता मोहयन्तीह केचन | मोहयन्ति जनान् केचित् स्वयं पूर्वविमोहिताः | दुराचारपराः केचिद्वाचयन्ति च पामराः | बहवः कौलिकं धर्मं मिथ्याज्ञानविडम्बकाः | स्वबुद्ध्या बलयन्तीशं पारम्पर्यविवर्जिताः | मद्यपानेन मनुजो यदि सिद्धिं लभेत वै | मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः | मांसभक्षणमात्रेण यदि पुण्यगतिर्भवेत् | लोके मांसाशिनः सर्वे पुण्यभाजो भवन्त्विह | स्त्रीसम्भोगेन देवेशि ! यदि मोक्षं व्रजन्ति वै सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवणात् | कुलमार्गो महान् देवि ! न मया निन्दितः क्वचित् | आचररहिता येऽत्र निन्दितास्ते च सर्वदा | अन्यथा कौलिके धर्मे आचारः कथितो मया | विचरन्त्यन्यथा देवि ! मूढाः पण्डितमानिनः | कृपाणधारा गमनाद्व्याघ्रकण्ठावलम्बनात् | भुजङ्गधारणान्न्यूनमशङ्क्यं कुलवर्णनम् | वृथापानन्तु देवेशि ! सुरापानं तदुच्यते | यन्महापातकं ज्ञेयं वेदादिषु निरूपितम् | अनाघ्रेयमनासेव्यमस्पृश्यञ्चाप्यपेयकम् | मद्यं मांसं पशूनान्तु कौलिकानां महाफलम् | यत्तु | अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु | द्वादशन्तु सुरामद्यं सर्वेषामधमं स्मृतम् | तस्माद् ब्राह्मणराजन्यौ बैश्यश्च न सुरां पिबेत् | इति द्विजातिपाननिषेधकवचनं तदपि पूर्ववचनैकवाक्यतया पशुपरमनभिषिक्तपरं वा || चक्रानुष्ठानं यथा श्यामारहस्यधृतम् || चक्राकारेण पंक्त्याकारेण वा भिन्नभिन्नासने स्वशक्तियुक्तश्चेत् युग्मयुग्मक्रमेण पद्मासनेनोपविश्य सामयिकललाटे चन्दनं दत्त्वा शिवशक्तिबुद्ध्या पुष्पञ्च दद्यात् | ततो यदि गुरुस्तत्र तिष्ठति तदादौ गन्धादिना तं पूजयित्वा तत्पात्रे पुष्पं दत्त्वा शुद्धिसहितं तस्मै समर्प्य प्रणमेत् | गुरोरभावे तत्पात्रं जले प्. १०५१) क्षिपेत् | ततः शक्तिपात्रं शुद्धिसहितं शक्त्यै दत्त्वा सामयिकेभ्योऽपि ज्येष्ठानुक्रमेण वीरपात्रात् परामृतं शुद्धिसहितं दद्यात् | ततः सामयिकोऽपि भक्त्या हस्तद्वयेन सङ्गृह्य तदुपरि मूलमन्त्रमष्टधा जप्त्वा पूर्ववदानन्दभैरवं भैरवीञ्च सन्तर्प्य गुरून् देवताञ्च सन्तर्पयेत् | स्वस्वकल्पोक्तविधिना भूतशुद्धिं कुर्यात् | ततश्चक्रनायकस्तैः सह पात्रवन्दनं कुर्यात् यथा | श्रीमद्भैरवशेखरप्रविंलसच्चन्द्रामृतप्लावितं क्षेत्राधीश्वरयोगिनीसुरगणैः सिद्धैः समाराधितम् | आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं वन्दे श्रीप्रथमं कराम्बुजगतं देवं विशुद्धिप्रदम् || इत्यभिमन्त्र्य वामहस्तेन पात्रमुत्तोल्य अन्योन्यवन्दनं कृत्वा गृह्णामीति गुरुशक्तिसाधकेश्वराणामाज्ञां गृह्णीयात् | ते जुषस्वेति ब्रूयुः || ततो मूलाधारात् कुण्डलिनीं इष्टदेवतास्वरूपां आजिह्वान्तां विभाव्य गुरुपादुकां स्मृत्वा शिवोऽहमिति विचिन्त्य हस्ताभ्यां पात्रं धृत्वा मूलमुच्चरन् कुण्डलिनीमुखे देवीं तर्पयेत् || एतदुक्तमुदयाकरपद्धत्याम् || कृत्वा मन्त्रतनुं स्मरेत् गुरुपदं देवीं कलां चिन्मयीं पश्चाद् वा त्रितयं हृदासनवृतं दीपैर्युतं कज्जलैः | पुष्पादिष्वभिमन्त्रितञ्च निविडं मन्मोहकध्वंसकं ये सञ्चिन्त्य पिबन्ति यान्ति खलु ते भुक्तिञ्च मुक्तिं पराम् || तन्त्रान्तरे च || सिन्दूरतिलकं भाले पाणौ च मदिरासवम् | कृत्वा पिबेद्गुरुं ध्यायंस्तथा देवीञ्च चिन्मयीम् | ततः पात्रमाधारोपरि संस्थाप्य पुनस्तेन क्रमेण परामृतं गृहीत्वा पात्रवन्दनं कुर्यात् | यथा || मद्यं मीनरसावहं यदि तया दातुञ्च पेयादिभिः किञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् | वामे स्वात्मविशुद्धिकमलं पाणौ विधायात्मके वन्दे पात्रमहं द्वितीयमधुना नन्दैकसंवर्द्धनम् || ततः पूर्ववत् पात्रं स्वीकृत्य अन्यत् प्. १०५२) पात्रवन्दनं कुर्यात् || यथा || सर्वाम्नायकलाकलापकलितं कौतूहलद्योतनं चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् | ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्थिभिः सर्वदा वन्दे पात्रमहं तृतीयमधुना चात्मावबोधक्षमः || तृतीयपात्राभिवन्दनं कृत्वान्यत् पात्रवन्दनं कुर्यात् || यथा || हैमं मीनरसावहं हरिहरब्रह्मादिभिः सेवितं मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् | आचार्याष्टकसिद्धिभैरवकलामांसेन संशोधितं पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः || इति चतुर्थपात्रवन्दनं कृत्वान्यत् पात्रवन्दनं कुर्यात् यथा | आधारे भुजगाधिराजबलयेपात्रं महीमण्डलं मद्यं सप्तसमुद्रवारिपिशितं चाष्टौ च दिग्दन्तिनः | सोऽहञ्चैव विभावयन् प्रतिदिनं तारागणैरक्षितोऽप्यादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः || इति पञ्चमं पात्रं स्वीकुर्यात् | ततो यावद्दृष्ट्यादिकं न चलति तावत् पानादिकं कार्यम् | अथास्य प्रमाणं यथा || रुद्रजामले || साधकेभ्यश्च शक्तिभ्यो दद्यान्निर्माल्यचन्दनम् | सामयिकैः समं कुर्याद्देवि ! पानादिभक्षणम् || अन्यत्रापि | निविशेच्चक्ररूपेण पंक्त्याकारेण वा यथा | शक्तियुक्तो वसेद्वापि युग्मयुग्मविधानतः | शिवशक्तिधिया सर्वं चक्रमध्ये समर्पयेत् || तन्त्रान्तरे च || ततः पुष्पं समादाय गुरोः पात्रे निवेदयेत् | गुरवे च निवेद्याथ शक्त्यै दत्त्वा स्वयं हरेत् || भावचूडामणौ च || साक्षाद् यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् || अथ पानपात्रपरिमाणं यथा कुलसारे || नयनाग्निवाणसङ्ख्यकर्षैस्तु परमेश्वरि ! | हेतुपात्रं प्रकर्तव्यमित्युक्तं कुलसाधने | इतोऽप्यधिकपात्रन्तु न कर्तव्यञ्च साधकैः | कर्षं लौकिकतोलकमित्यर्थः | तदुक्तं प्. १०५३) कुलोत्तमे || गुञ्जाद्वादशमाषः स्यात्तदष्टौ कर्ष उच्यते || अथोत्तरतन्त्रे || अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् | जुषस्वेत्यभ्यनुज्ञातो गुरुणा वा कुलीनकैः | गृह्णियाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः || कुलार्णवे || एकासने निविष्टा ये भुञ्जीरंश्चैव भाजने | एकपात्रे पिबन्त्येवं ते यान्ति नरकाधमे | एकपात्रमिति सर्वैर्मिलित्वा नैकपात्रे पिबेत् | न तु प्रतिवारं द्रव्यपाने भिन्नभिन्नपात्रं कार्यम् अनुष्ठानलक्षणापत्तेः सम्प्रदायविरोधाच्च वचनान्तरदर्शनाच्च || स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमग्रणीम् | पाययित्वा पिबेद्द्रव्यमिति शास्त्रस्य निर्णयः | गुरुशक्तियुतानाञ्च गुरुज्येष्ठकनिष्ठयोः | उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् | चक्रमध्ये च नियतं नान्यथा पतनं भवेत् | कनिष्ठानां स्वशिष्याणां दद्यात् स्वोच्छिष्टमेव हि | दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदां पदम् || अन्यत्रापि || शक्त्युच्छिष्टं पिबेद्द्रव्यं वीरोच्छिष्टञ्च चर्वणम् | शक्तिवीरप्रसादेन किं न सिध्यति भूतले || चक्रेश्वरेण स्वशक्त्युच्छिष्टमपि पेयम् | तत्प्रमाणन्तु || शक्त्युच्छिष्टमविचार्य पिबेच्चक्रेश्वरो यदि | आकल्पं नरकं भुक्त्वा विष्ठायां जायते क्रिमिरिति | अविचार्येति इयमभिषिक्ता नाभिषिक्ता वेति विचारमकृत्वेति तु कौलावलीकारः || पीत्वा पीत्वा पुनः पीत्वा पुनः पतति भूतले | उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते | इदञ्च वचनं ध्यानजपाद्यवसरविषयम् | न तु पशुसंसर्गविषयकञ्च | प्रकटे सिद्धिहानिः स्यादित्यादिश्रवणात् | यावन्न चलते दृष्टिर्यावन्न चलते मनः | तावत् पानं प्. १०५४) प्रकर्तव्यं पशुपानमतः परम् | इति वचनेन ध्यानाद्यपेक्षितत्वाच्च || ततः शान्तिस्तोत्रं पठेत् || तदुक्तं डामरे || पीत्वा स्वामिजनैः सार्धं शान्तिस्तोत्रं ततः पठेत् | नश्यन्तु प्रेतकुष्माण्डा नश्यन्तु दूषका नराः | साधकानां शिवाः सन्तु आम्नायपरिपालिनाम् | जयन्ति मातरः सर्वा जयन्ति योगिनीगणाः | जयन्ति सिद्धिडाकिन्यो जयन्ति गुरुपंक्तयः | जयन्ति सिद्धिडाकिन्यो जयन्ति गुरवः सदा | जयन्ति साधकाः सर्वे विशुद्धाः कौलिकाश्च ये | समयाचारसम्पन्ना जयन्ति पूजका नराः | नन्दन्तु अणिमासिद्धा नन्दन्तु कुलपालकाः | इन्द्राद्या देवताः सन्तु तृप्यन्तु वास्तुदेवताः | चन्द्रसूर्यादयो देवास्तृप्यन्तु मम भक्तितः | नक्षत्राणि ग्रहा योगाः करणा राशयेश्च ये | सर्वे ते सुखिनो यान्तु सर्पादन्यास्तु पक्षिणः | पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः | ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा | स्तुता मे विदिताः सन्तु सिद्धास्तिष्ठन्तु पूजकाः | ये ये पापधियः सुदूषणरता मन्निन्दकाः पूजने वेदाचारविमर्दनष्टहृदया भ्रष्टाश्च ये साधकाः | दृष्ट्वा चक्रमपूर्वमन्दहृदया ये कौलिका दूषकास्ते ते यान्तु विनाशमत्र समये श्रीभैरवस्याज्ञया || द्वेष्टारः साधकानाञ्च सदैवाम्नायदूषकाः | डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितैस्तु ते || ये वा शक्तिपरायणाः शिवपरा ये वैष्णवाः साधवः सर्वस्मादखिले सुराधिपमजं सेव्यं सुरैः सन्ततम् | शक्तिं विष्णुधिया शिवञ्च सुधियः श्रीकृष्णबुद्ध्या तु ये सेवन्ते त्रिपुरन्त्वभेदमतयो गच्छन्तु मोक्षन्तु ते || शत्रवो नाशमायान्तु मम निन्दाकराश्च ये | द्वेष्टारः साधकानाञ्च ते नश्यन्तु शिवाज्ञया | ततो यथाशक्ति विधिना शिवशक्तियोगं कृत्वा देवीपादे स्वमात्मानं प्. १०५५) समर्प्य श्रीपात्रमुत्तोल्य देव्या उपरि त्रिर्भ्रामयित्वा पुनः संस्थाप्य संहारमुद्रया स्वहृदि समानीय श्रीदक्षिणकालिके ! क्षमस्वेति विसृजेत् || ओं कालिकायैः नमः || अथानन्दस्तोत्रम् || मनोभुवो मङ्गलमूलमुद्रां सौन्दर्य लक्ष्मीं पुरिवेजयन्तीम् | श्रीसुन्दरीमिन्दुकलावतंसां सानन्दमानन्दमयीं स्मरामि || १ || श्रीसुन्दरीपूजनतत्पराणां हालाभिरालोहितलोचनानाम् | अस्माकमानन्दितमानसानां माहेश्वराणां दिवसाः प्रयान्तु || २ || विधाय धारां वदने सुरायाः श्रीकृष्णमभ्यर्च्य कुलक्रमेण | आस्वादयन्तः पिशितं मृगाक्षीमालिङ्ग्य मोक्षं सुधियो लभन्ते || ३ || दिने दिने सिद्धिघटोऽस्तु पूर्णो दिने दिने तर्पणमस्तु देव्याः | दिने दिने सङ्घटतां द्वितीयां दिने दिने साधकसङ्गमोऽस्तु || ४ || आस्वादयन्तः पिशितस्य खण्डमाकण्ठपूर्णं मदिरां पिबामः | वामेक्षणासङ्गममादधाना भुक्तिञ्च मुक्तिञ्च परां व्रजामः || ५ || न स्वादुलाभः पिशितस्य यस्मिन् पञ्चाक्षरी पूर्णरतिर्न यत्र | न यत्र सङ्गो मृगलोचनायास्तत्तद्दिनं दुर्दिनमेव मन्ये || ६ || प्रवर्तकानां सहसाथ लक्ष्मीः प्रयाति देहं सुपदक्रमेण | श्रीसुन्दरीसाधकनिन्दकानां प्राणाधमानीह लयं प्रयान्ति || ७ || अङ्गेषु कुष्ठादि गृहेष्वलक्ष्मीर्मूकत्वमास्ये भवनं श्मशानम् | श्रीसुन्दरीसाधकनिन्दकानामायुः क्षयं गच्छति तत्क्षणेन || ८ || श्रीसुन्दरीसाधकपुङ्गवानां यथा यथा निन्दितमातनोति | जनः समं पुत्रकलत्रमित्रैस्तथा तथा नाशमुपैति शीघ्रम् || ९ || हालां पिबन् दीक्षितमन्दिरेषु स्वपन्निशायां गणिकागृहेषु | गृहे गृहे भोजनमेव कुर्वन् बम्भ्रम्यते साधकचक्रवर्ती || १० || अनन्तरं कालवशाच्च योऽहं सोऽहं भविष्यामि न मे विवादः | श्रीसुन्दरीं जन्मनि जन्मनि त्वां यद्भैरवोऽहं जननीं स्मरामि || ११ || विकल्पवाटीतटसन्निविष्टे प्रवर्तमानाः पशवो प्. १०५६) वराकाः | प्रविश्य मोहाम्बुनिधावगाधे भ्रमन्त्यनापादितकौलमार्गाः || १२ || नान्यं विलोकेत च वान्यमीहे नान्यं स्मरन्नापरमाश्रयामि | कदापि नाहं परमात्मरूपां श्रीसुन्दरीं चेतसि विस्मरामि || १३ || विलोक्य सिन्दूरमयं सुधाभिः श्रीचक्रराजं निशि कॢप्तवन्तः | श्रीसुन्दरीं चेतसि चिन्तयन्तो हेलाविलोकैर्वशयन्ति लोकान् || १४ || उन्मूलनं पातकभूरुहाणामुन्मादनं चित्तकुतूहलानाम् | आकर्षणं पङ्करुहेक्षणानामैरेयपानं वयमाचरामः || १५ || वाराणसीजह्नुसुताप्रयागकेदारतीर्थाणि विलोकितानि | तेनैव मन्ये जगतो वृतानि श्रीसुन्दरीचिन्तनमेव यस्य || १६ || वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे मूर्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसे | जिह्वायां जपसाधनं परिणतिः कौलाङ्गनाचिन्तनं यत् पात्रं नियतं पिबेत्तदमृतं भक्तिञ्च मुक्तिप्रदम् || १७ || वामे रामारमणकुशला दक्षिणे पानपात्रं चाग्रे न्यस्तं मरिचसहितं शूकरस्योष्णमांसम् | स्कन्धे वीणा ललितसुभगा सद्गुरूणां प्रपञ्चः कौलो धर्मः परमगहनो योगिनामप्यगम्यः || १८ || यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | श्रीसुन्दरीपूजनतत्पराणां भोगश्च मोक्षश्च करस्थ एव || १९ || एकेन शुष्कचणकेन घटं पिबामि कुम्भं पिबामि सहसा लवणाद्रकेण | आस्वादयामि यदि रोहितमुण्डखण्डं गङ्गां पिबामि यमुनां सह सागरेण || २० || करे पात्रं मुखे स्तोत्रमानन्दो हृदयाम्बुजे | मूर्ध्नि श्रीनाथपादस्य स्मरणं किमतः परम् || २१ || पीत्वां मद्यं पठेत् स्तोत्रं साधकः कुलभैरवः | कुलस्त्रीसङ्गनिरतः कुलकार्यं समाचरेत् || २२ || अलिपिशितपुरन्ध्रीयागपूजारतोऽहं बहुविधकुलमार्गारम्भसम्भावितोऽहम् | प्. १०५७) गुरुचरणरतोऽहं भैरवीमाश्रितोऽहं पशुजनविरतोऽहं भैरवोऽहं शिवोऽहम् || २३ || इति कुलार्णवे आनन्दस्तोत्रं समाप्तम् || अथानन्दोल्लासः || कुलार्णवे पञ्चमखण्डे सप्तमोल्लासे || आरम्भस्तरुणश्चैव यौवनं | प्रौढ एव च | तदन्ते चोन्मनाश्चैव तत्त्वोल्लासस्ततः परम् | समाधिरिति विज्ञेयस्तत्त्वोल्लासस्तु सप्तमः | तत्त्वत्रयं स्यादारम्भः कथितं कुलनायिके ! | कथितस्तरुणोल्लासो ह्यरुणं मुखमम्बिके ! | यौवनं मनसः सम्यगुल्लासः कथितः प्रिये ! | स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते | समुल्लासपरे चक्रेय इच्छेत् पात्रमेलनम् | आदौ प्रौढसमुल्लासं नैव कुर्यात् कदाचन || तथा || प्रौढोल्लासमधिकृत्य || तदारूढेषु वीरेषु कार्याकार्यं न विद्यते | इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि ! | तत्र यद्यत् कृतं कर्म शुभं वा यदि वाऽशुभम् | तत् सर्वं देवताप्रित्यै जायते सुरसुन्दरि ! | जल्पो जपफलं तन्द्रा समाधिरभिधीयते | विक्रिया पूजनं देवि ! छर्दनं भैरवो बलिः | मुक्तिः स्याच्छक्तिसंयोगात् स्तोत्रं तत्कालभाषणम् | न्यासोऽवयवसंस्पर्शः कण्डूतिर्हवनक्रिया | वीक्षणं ध्यानमीशानि ! शयनं वन्दनं भवेत् | तत्त्वन्यासे कृता नाना या चेष्टा सा च तत्क्रिया | कार्याकार्यविचारन्तु यः करोति स पातकी | एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः | येनाप्लावन्ति मनुजाः साक्षाद्भैरवरूपताम् | सम्मोदकपरानन्दतर्पणं ज्ञानवर्तनम् | वेणुवीणादिवाद्यञ्च कवितारचनादिकम् | रोदनं भाषसम्पातः समुत्थानं विजृम्भणम् | गमनं विक्रिया देवि ! योग इत्यभिधीयते | चक्रेऽस्मिन् योगिनीवीरयोगिन्यो मदमन्थराः | समाचरन्ति देवेशि ! यथोल्लासं मनोगतम् || शनैः पृच्छन्ति पार्श्वस्थानाविस्मृत्यात्मवीक्षितम् | निधाय वदने पात्रं प्. १०५८) निर्वाणा निवसन्ति च | मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते || तथैव पुरुषस्यापि प्रौढोऽन्तोल्लाससंयुतः | पुरुषः पुरुषं मोहादालिङ्गत्यङ्गनाजनम् | पृच्छन्ति स्वपतिं मुग्धा कस्त्वं का त्वमिहागता | किं कार्यं वयमायाताः किमर्थमिह संस्थिताः | उद्यानं किमिदं हन्तः ! गृहं किं वागतं किमु ? | मुखे सम्पूर्य मदिरां पाययन्ति स्त्रियो नरान् | उपदंशमुखे क्षिप्त्वा निक्षिपन्ति प्रियानने | गृह्णन्त्यन्यस्य पात्राणि व्यञ्जनानि च शाम्भवि ! | धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः | अज्ञानात् करतालान्तमस्पष्टाक्षरगीतकम् | प्रस्खलत्पदविन्यासं तृप्यन्ति कुलशक्तयः | योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि | मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि | मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् | इत्यादिविविधाश्चेष्टाः कुर्वन्ति कुलनायिके ! | विकृतिं मनसो हित्वा यदुल्लासः प्रवर्तते | मदा तु देवताभावं भजन्ते योगिपुङ्गवाः | कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः | तत्त्वाशयस्य सन्देहो योगिन्यः कुलनायिकाः | न निन्देन्न हसेद्वापि चक्रमध्ये मदाकुलान् | एतच्चक्रगतां वार्तां वहिर्नैव प्रकाशयेत् | तेभ्यश्च भोजनं कुर्यात् नाहितञ्च समाचरेत् | भक्त्या संरक्षयेदेतान् गोपयेच्च प्रयत्नतः | चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया | मोदते वन्दते भक्त्या स गच्छेद् योगिनीपदम् | पश्येदेवं विधं चक्रं यो भक्त्या कौलिकः प्रिये ! | व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् | उन्मादात् पतनोत्थानात् मूर्च्छना च मुहुर्मुहुः | उन्मत्तक्षेत्र उल्लासे षष्ठे वीरसमन्विते | चिरं सन्निदधाते तौ यौ वित्तः पराक्षरौ | परं ब्रह्मात्मसंस्थानकाङ्क्षिणं कुलनायिके ! | देहेन्द्रियाणां मनसश्चानवस्थान्निगद्यते | समवस्थाभिधा तस्मिन् तत्त्वोल्लासे समं प्रिये ! | परमन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा | प्. १०५९) मूर्च्छनासन्निकर्षोऽपि न्यूनं मुक्तेः परं विदुः | अन्तर्ल्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः | एषा च शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता | एषा च खेचरी मुद्रा शिवस्य समवाहिनी | सर्वोत्तीर्णः सदा हन्ता सागरस्य समाकृतिः | अनयोल्लासिनी वीरा शिव एव न संशयः | न किञ्चिदपि जानन्ति आत्मध्यानपरायणाः | तदा मत्परमं सौख्यमिति वक्तुं न शक्यते | स्वयमेवानुभवति शर्कराक्षीरपानवत् | ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते | दृश्यते कुलकादेश्च तद्ब्रह्मध्यानमुत्तमम् | यत् सुखं विद्यते ध्याने देहादेशकरं परम् | कथितुं नैव शक्नोमि प्रबुद्धस्तु समाहितः | ब्रह्मध्यानामृतानन्दपराः सुकृतिनो नराः | क्षणेऽप्यन्तहिते तस्मिन् मोचयन्ति हतप्रभाः | सप्तमोल्लासयुक्तानां तद्भक्तानां महाफलम् | अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ! | अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः | बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः | प्रतीहारीपदं प्राप्ताः सेवन्ते मुनितां चिरम् | ये गुणाः परमेशस्य पञ्चतत्त्वतनोः शुभाः | ते गुणाः कुलतत्त्वज्ञे ! तत्त्वज्ञानां समाहृताः | आरम्भः स्तवनोल्लासो यौवनं प्रौढमेव च | नन्दन्ति योगादित्युक्तश्चोन्मनाः स्वप्न उच्यते | अनवस्था सुषुप्तिः स्यादवस्थात्रयसंयुतात् | सप्तोल्लासं यो हि वेत्ति स मुक्तः स च कौलिकः | प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः | निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् | स्त्री वाथ पुरुषः षण्डश्चाण्डालो वा द्विजातयः | चक्रमध्ये न भेदोऽस्ति सर्वे देवसमाः प्रिये ! | नगरीनिर्झराद्यम्बु गङ्गां प्राप्य यथैकताम् | याति श्रीचक्रमध्येषु चैकत्वं मानवास्तथा | क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् प्. १०६०) | तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते | स्वर्गादिपुण्यलोकेषु देवादन्यो यथा न हि | तथैव चक्रमध्ये तु देवताः सर्वमानवाः | जातिभेदो न चक्रऽस्मिन् सर्वे शिवसमाः स्मृताः | वेदोपस्थितमेवं हि सर्वं ब्रह्मेति चाब्रवीत् | बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ! | मद्रूपाः पुरुषाः सर्वे त्वद्रूपा योषितः प्रिये ! | चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः | तं भक्षयन्ति योगिन्यः शपन्ति कुलनायिके ! | स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् | अथवा मिथुनं कृत्वा क्रमात्तमुपवेशयेत् | पुंस्त्वाकारेण वा सम्यक् चक्राकारेण वा प्रिये ! | शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् | अविभक्तौ यथाचारौ लक्ष्मीनारायणौ प्रिये ! | यथा वाणीसदानन्दौ तथा वीरः सशक्तिकः | मद्यकुम्भसहस्रैश्च मांसभारशतैरपि | न तुष्यामि वरारोहे ! भगलिङ्गामृतं विना न चक्राङ्कं न पद्माङ्कं न वज्राङ्कमिदं जगत् | लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् | शिवशक्त्यात्मसंयोगो यस्मिन् काले प्रजायते | स सन्ध्याकुलनिष्ठानां समाधिः स विधीयते | कामुको न स्त्रियं गच्छेदनिच्छन्तीमदीक्षिताम् | सद्यः संस्कारसंशुद्धां विहितां तां व्रजेत् स्त्रियम् || इति तत्त्वत्रयोल्लासपानभेदाभिचोदितम् | समासेन कुलेशानि ! किम्भूयः श्रोतुमिच्छसि || इत्यानन्दोल्लासः || अथ पञ्चचक्रानुष्ठानम् || यथा निरुत्तरतन्त्रे दशमपटले || श्रीशिव उवाच || सर्वजात्युद्भवा शक्तिः योगिभिः पूज्यते सदा | यां यां पश्यति योगीन्द्रस्तां तामेव प्रपूजयेत् | वीरशक्तिर्विशेषेण शृणुष्व | वरवर्णिनि ! | पुरश्चर्या कृता वीरा प्रशस्ता वीरसाधने | पुरश्चर्याविहीनाश्चेन्न योज्याः कुलसाधने ! | योज्याश्चेत् प्. १०६१) सिद्धिहानिः श्याद्रौरवं नरकं व्रजेत् | वीरशक्तिं विना देवि ! न कुर्यात् कुलसाधनम् | तदभावे हीनजातौ प्रशस्ता वीरसाधने | पञ्चचक्रे प्रशस्ता यास्ताः शृणुष्व वरानने ! | चक्रं पञ्चविधं प्रोक्तं तत्र शक्तिं प्रपूजयेत् | राजचक्रं महाचक्रं देवचक्रं तृतीयकम् | वीरचक्रं चतुर्थञ्च पशुचक्रञ्च पञ्चमम् | पञ्चचक्रे यजेद्दिव्ये वीरश्च कुलसुन्दरि ! | ब्रह्मचारी गृहस्थश्च पञ्चचक्रे प्रपूजयेत् | बलीयसि च देवेशि ! शिवचक्रे प्रपूजयेत् | ब्रह्मचारी गृहस्थश्च वीरचक्रेण पूजयेत् | योगिभिः पूज्यते देवि ! पूर्वचक्रेषु कामिनी || माता च भगिनी चैव दुहिता च स्नुषा तथा | गुरुपत्नी च पञ्चैता राजचक्रे प्रपूजयेत् | गौडी वाप्यथवा माध्वी सुरा शस्ता कुलेश्वरि ! | शुद्धिच्छागोद्भवा शस्ता तृतीयोद्दालकस्तथा | मुद्रा गोधूमजा शस्ता स्वयम्भू कुसुमं तथा | कुण्डगोलोद्भवं द्रव्यमनुकल्पं नियोजयेत् | रक्तचन्दनं तथा श्वेतमनुकल्पञ्च चन्दनम् | वस्त्रालङ्कारभूषाद्यैर्गन्धमाल्यानुलेपनैः | पूजयेत् परया भक्त्या देवताभ्यो निवेदयेत् | भक्ष्यं नानाविधं द्रव्यं नानावस्त्रसमन्वितम् | आसनं शुद्धिसंयुक्तं ताभ्यो दद्यात् पुनः पुनः | प्रणम्य प्रजपेन्मन्त्रं दृष्ट्वा ताश्च सहस्रकम् | अङ्गं नैव स्पृशेत्तासां स्पृशेच्च नरकं व्रजेत् | मधुमत्ता यदा तास्तु न स्वपन्ति सुसम्पदः | तत्तदेवं भवेत् सर्वं सत्यं सत्यं न संशयः | षष्टिवर्षसहस्राणि ब्रह्मलोके महीयते | माता भगिनी स्नुषा कन्या वीरपत्नी कुलेश्वरि ! | महाचक्रे यजेदेताः पञ्चशक्तीः पुनः पुनः | द्रव्य दाने तु सम्पूज्या न शक्तौ शिवयोजनम् | योजने सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत् | महाव्याधिर्भवेद्देवि ! धनहानिः प्रजायते | सदैव दुःखमाप्नोति सर्वं तस्य विनश्यति | आद्यञ्च गौडिकं प्रोक्तं द्वितीयं कुक्कुटोद्भवं | तृतीयं रोहितं प्रोक्तं चतुर्थं प्. १०६२) शशसम्भवम् | करवीरोद्भवं पुष्पं चन्दनं रक्तचन्दनम् | पूजयेत् परया भक्त्या शिवलोके महीयते | षष्टिवर्षसहस्राणि तत्र देवीं प्रपूजयेत् | अष्टम्याञ्च चतुर्दश्याममायाञ्च कुजेऽहनि | राजचक्रे महाचक्रे भक्त्या शक्तिं प्रपूजयेत् | शुक्लपक्षे गुरोर्वारे चतुर्थीसप्तमीतिथौ | महाचक्रे यजेद्भक्त्या सर्वकामार्थसिद्धये | देवचक्रं प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! | विदग्धाः सर्वजातीनां पञ्च कन्याः प्रपूजयेत् | गौडिकं फलदं रम्यं द्वितीयं पक्षिसम्भवम् | तृतीयं शालमत्स्यन्तु चतुर्थं धान्यसम्भवम् | सुगन्धि सर्वपुष्पञ्च देवचक्रे नियोजयेत् | देवचक्रे यजेच्छक्तिं देवचक्रे महीयते | षष्टिवर्षसहस्राणि देवकन्यां प्रपूजयेत् | पञ्चकन्या यजेच्चक्रे नातिरिक्ताः कदाचन | लोभाद्वा कामतो वापि छलाद्वा वरवर्णिनि ! | यदि स्यात् सङ्गमस्तासां रौरवं नरकं व्रजेत् | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि | पितृभूमीं समागम्य वीरचक्रे प्रपूजयेत् | दिव्यवीरान्वितो मन्त्री यजेत् शक्तिं वलीयसीम् || श्रीदेव्युवाच || मात्रादयः पञ्चकन्या यतीनाञ्च कथं प्रभो ! || श्रीशिव उवाच || मात्रादयः पञ्चकन्या हीनजाता यतः प्रिये ! | चतुर्वर्णोद्भवां वेश्यां विशेषेण बलीयसीम् | भूमीन्द्रकन्यका माता दुहिता रजकीसुता | श्वपची च स्वसा ज्ञेया कापाली च स्नुषा स्मृता | योगिनी निजशक्तिः स्यात् पञ्चकन्याः प्रकीर्तिताः | गुरोः समीपे कर्तव्यमथवा भ्रातृभिः सह | सिद्धमन्त्रो भवेद्वीरो न वीरो मद्यपानतः | अभिषिक्तो भवेद्वीरः अभिषिक्ता च कौलिकी | एवञ्च वीरशक्तिञ्च वीरचक्रे नियोजयेत् | क्रमसङ्केतकञ्चैव पूजासङ्केतमेव च | मन्त्रसङ्केतकञ्चैव यन्त्रसङ्केतकन्तथा | लिखनं मन्त्रयन्त्राणां सङ्केतं गुरुमार्गतः | सङ्केतजं विना वीरं यदि चक्रे नियोजयेत् | निष्फलं पूजनं देवि ! दुखं तस्य पदे पदे | प्. १०६३) सङ्केतहीनो यो वीरो नाभिषेकी गुरुक्रमात् | कूपे भ्रष्टः स पापिष्ठस्तं त्यजेद्वीरचक्रके | नाभिषिक्तं वामचक्रे नाभिषिक्तां च कौलिकीम् | निवेश्य रौरवं याति सत्यं सत्यं न संशयः | एवं क्रमं विना देवि ! वीरचक्रे वसेद्यदि | सिद्धिहानिः सिद्धिहानी रौरवं नरकं व्रजेत् | सर्वमद्यं सर्वशुद्धिं सर्वमीनं कुलेश्वरि ! | सर्वमुद्रां सर्वपुष्पं स्वयम्भूकुसुमं तथा || कुण्डगोलोद्भवं द्रव्यं नानारससमन्वितम् | प्रदद्यात् साधकश्रेष्ठो वीरचक्रे पुनः पुनः | स्वशक्तिं पूजयेत्तत्र तदुच्छिष्टं पिबेत् प्रिये ! | चर्व्यं स्वज्येष्ठतो ग्राह्यं कनिष्ठाय निवेदयेत् | एकासने न भुञ्जीत भोजनं नैकभाजने | परस्परमुपस्पर्शं न कर्त्तव्यं कदाचन | एवं क्रमेण देवेशि ! वीरचक्रे समाचरेत् | आनीय हीनजां देवीं शक्तिमन्त्रेण शोधयेत् | संशोध्य हीनजां देवीं वीरशक्तिं निवेदयेत् | मधुमत्ताय वीराय यो दद्याद्धीनजां शुभाम् | वीराय शक्तिदानन्तु वीरचक्रे विधीयते | चक्रभिन्ने चरेद्दानं रौरवं नरकं व्रजेत् | घातयेद्गोपयेद्वापि न निन्देन्न निरीक्षयेत् | कामं क्रोधञ्च मात्सर्यं विकारं लोभमेव च | कुलनिन्दां दुरालापं गोपयेद्दुष्टकं प्रिये ! | मन्त्रं मुद्रामक्षमालां योनिञ्च वीरसङ्गमम् | मण्डलञ्च घटं पीठं सिद्धद्रव्याणि गोपयेत् | पण्डितं वीरसन्तानं क्षेत्रं देवीञ्च योगिनीम् | कुलाचारगुरुं दूतीं मनसापि न निन्दयेत् | देवीं गुरुं सुधां विद्यां श्रेष्ठां शक्तिं क्रियात्मजाम् | योगिनीं भैरवीतत्त्वमात्मतत्त्वं प्रपूजयेत् | विमाता दुहिता भग्नी स्नुषा पत्नी च पञ्चमी | पशुचक्रे यजेद्धीमान् पशुवत्तोषणञ्चरेत् | गन्धं पुष्पञ्च माल्यञ्च वस्त्राणि भूषणानि च | सिन्दूरागुरुकस्तूरीनानापुष्पाणि सुन्दरि ! | भक्ष्यं नानाविधं द्रव्यं फलं नानाविधं प्रिये ! | प्. १०६४) एतद्द्रव्यगणं यस्तु भक्त्या ताभ्यो निवेदयेत् | षष्टिवर्ष सहस्राणि क्षितो राजा भवेद्ध्रुवम् | वीरचक्रे तदा सिद्धिर्भवत्येव न संशयः || अथ कुलशक्तयः || रेवतीतन्त्रे तृतीयपटले || शक्तयः परमेशानि ! विदग्धाः सर्वयोषितः | नटी कापालिकी वेश्या मालिनी कुङ्कुमालिनी | चण्डाली च कुलाली च रजकी नापिताङ्गना | गोपिनी योगिनी शुद्धा ब्राह्मणी राजकन्यका | कोचाङ्गना च देवेशि ! तथैव शङ्खकारिणी | एताः षड्विंशतिः कन्या देवानामपि दुर्लभाः | दैवज्ञा व्याधवामा च तथा मांसापहारिणी | बौद्धा च यवनी देवि ! तथा रसपसारिणी | वेश्या चतुर्विधा प्रोक्ता द्विविधा कुङ्कुमालिनी | धीवरी द्विविधा प्रोक्ता तथैव गणिकाङ्गना | कुम्भकारी द्विधा प्रोक्ता तथैव गोपिनी स्मृता | वातवैद्याङ्गना देवि ! यवनी द्विविधा स्मृता | बौद्धकन्या त्रिधा देवि ! तथा कोचाङ्गना प्रिये ! | पूर्वोक्ताभिः सहैकत्र चतुःषष्टिश्च शक्तयः || गुप्तसाधनतन्त्रे चतुर्थपटले || शिव उवाच || शृणु पार्वति ! वक्ष्यामि अतिगुह्यतरं महत् | प्रकाशात् सिद्धिहानिः स्यात्तस्माद् यत्नेन गोपयेत् | स्वशक्तिं परशक्तिं वा दीक्षितां यौवनान्विताम् | विदग्धां शोभनां शुद्धां घृणालज्जाविवर्जिताम् | आनीय कुलसाधनं कुर्यादित्युत्तरेणान्वयः | तत्र व्यवस्थामाह निरुत्तरतन्त्रे अष्टमपटले || स्वशक्तिसिद्धिमादाय सिद्धमन्त्रस्ततो भवेत् | सिद्धमन्त्रः कुलाचारे परयोषां प्रपूजयेत् | सिद्धमन्त्रो यजेत् शक्तिं कायेन मनसापि वा | परयोषां विशेषेण परयोषां प्रपूजयेत् | सिद्धमन्त्रप्रकारस्तु नवमपटले || आनीय च कुलं रम्यं कुलशक्तिं कुलार्चने | स्वचक्रं विविधं देवि ! शक्तिभाले लिखेत्ततः | ततः कामकलांदेवीं वीरकोणे लिखेत्ततः | तन्मध्ये प्. १०६५) देवमन्त्रञ्च विहितं कामलाञ्छितम् | तत्र देवीं समावाह्य ध्यात्वैव च प्रपूजयेत् | ततो लक्षञ्च सञ्जप्य स्थिरधीः कुलसाधकः | ततस्तच्छक्तिकर्णे च ऋषिच्छन्दःसमन्वितम् | मूलमन्त्रं त्रिरावृत्त्या कथयेद् वामकर्णके | अद्यप्रभृति शक्ति ! त्वं कुलदेवार्चनं कुरु || ततः शक्तिः पठति | गुरोराज्ञां समादाय घृणालज्जाविवर्जिता | शिवोक्तविधिना देव ! करिष्यामि कुलार्चनम् | त्राहि नाथ ! कुलाचारकामिनीकामनायक ! | त्वत्पादाम्भोरुहच्छायां देहि मे कुलवर्त्मनि | गते च प्रथमे यामे स्वकुलं कुलकोपरि | वामभागे समानीय रक्तवस्त्रसमन्वितम् || नानागन्धसमायुक्तं नानारत्नसमन्वितम् | ललाटे मन्त्रमालिख्य मध्ये नामविचर्चितम् | ताम्बूलपूरितमुखस्ताम्बूलारुणलोचनः | कुलाकुलजपं कृत्वा ध्रुवमायाति तत्क्षणात् | एवमाकर्षिते मन्त्रे सिद्धमन्त्रः कुलेश्वरि ! | तावत् प्रयोगः कर्तव्यो यावत् सिद्धिर्न जायते | सिद्धमन्त्रः कुलाचारे कुलयोषां प्रपूजयेत् इति || शक्त्यङ्गे जपस्थानमाह || समयाचारतन्त्रे || अथेदानीं प्रवक्ष्यामि जपार्थं पीठमुत्तमम् | पूर्णगिरिश्च प्रथममुड्डीयानां द्वितीयकम् | जालन्धरं तृतीयञ्च कामरूपं चतुर्थकम् | कृते पूर्णगिरिश्चैव त्रेतायाञ्च द्वितीयकः | जालन्धरं द्वापरे तु कामरूपं कलौ युगे | चतुःपीठानि पीठानि शक्तिदेहेषु यानि च | तानि चत्वारि वक्ष्यामि गुह्याद्गुह्यतराणि च | शक्तेः सर्वशरीरं यत् पीठं पूर्णगिरिः स्मृतम् | तस्याः शिरश्च सुभगे ! उड्डीयानां प्रकीर्तितम् | स्तनौ जालन्धरं ज्ञेयं कामरूपं भगस्तथा | सर्वेषु कामपीठन्तु देवानामपि दुर्ल्लभम् | एषु पीठेषु च स्थित्वा यं यं मन्त्रं जपेत् प्रिये ! | तत्तत्फलमवाप्नोति देवताशु प्रसीदति || तथा || नानाशक्त्या सहालापं ये च कुर्वन्ति साधकाः || ते शीघ्रकालात् सुभगे ! प्. १०६६) फलं प्राप्स्यन्ति मानवाः | तामानीय साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् | पञ्चाचारेण तां शक्तिं पूजयित्वा यथाविधि | शतं शीर्षे शतं भाले शतं सिन्दूरमण्डले | शतं मुखे शतं कण्ठे शतं हृदयमण्डले | शतद्वन्द्वं स्तनद्वन्द्वे शतं नाभौ जपेत् सुधीः | योनिपीठे शतं जप्त्वा साधकः स्थिरमानसः | एवं सहस्रं सञ्जप्य देवीरूपां विचिन्तयेत् | शिवशक्तिस्वरूपाञ्च चिन्तयेत् साधकोत्तमः | शिवमन्त्रेण देवेशि ! स्वलिङ्गं पूजयेदथ | ताम्बूलं तन्मुखे दत्त्वा साधको हृष्टमानसः | तदनुज्ञां समादाय योनौ लिङ्गं विनिक्षिपेत् | ओं धर्माधर्महविर्दीप्त आत्माग्नी मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् | स्वाहेत्यनेन मन्त्रेण हुनेत् सर्वसमृद्धये | ततो जपेत् सहस्रं वै शक्तियुक्तो भवेन्नरः | शतं वापि प्रजप्तव्यं ततो न्यूनं न कारयेत् | ततः पूर्णाहुतिं दद्यान्मन्त्रेणानेन साधकः | प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनाः स्रुचा | धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् | स्वाहेत्यनेन मन्त्रेण पूर्णाहुतिं समाचरेत् | शुक्रोत्सारणकाले तु महादेव्यै निवेदयेत् | एवं कृते मन्त्रसिद्धिर्भवत्येव न संशयः | यं यं प्रार्थयते कामं तं तमाप्नोति निश्चितम् | रोगी रोगात् प्रमुच्येत धनेन च धनाधिपः | वायुतुल्यबलो लोके दुर्जयः शत्रुमर्दनः | कामतुल्यश्च नारीणां रिपूणां शमनोपमः | एतत्कल्पेन देवेशि ! किं न सिध्यति भूतले | अष्टैश्वर्यमवाप्नोति स एव श्रीसदाशिवः || निरुत्तरतन्त्रे द्वादशपटलेऽपि || अथान्यत् सम्प्रवक्ष्यामि साधनं भुवि दुर्ल्लभम् | कृते येन लभेत् सिद्धिं देवानामपि दुर्लभाम् | ललाटे शक्तिमन्त्रन्तु त्रिरावृत्त्या लिखेद्बुधः | तन्मध्ये कामवीजञ्च विलिखेत् कामलाञ्छितम् | कामेन पुटितं प्. १०६७) कृत्वा पूजयेत् परमेश्वरीम् | सम्पूज्य कालिकां देवीं यन्त्रञ्च परिपूजयेत् | तत्त्वचिन्तापरो योगी जपेल्लक्षं निराकुलम् | सङ्गृह्य कुलपुष्पन्तु पूजयेच्च पुनः पुनः | सहस्रं तर्पयेत् पीठे यन्त्रप्रक्षालनोदकैः | एवं कृते लभेत् सिद्धिं सत्यं सत्यं न शंशयः | यथान्यत् सम्प्रवक्ष्यामि पुरश्चरणमुत्तमम् | शतं भाले शतं केशे शतं सिन्दूरमण्डले | शतमेकं मुखाम्भोजे पुष्पवक्त्रे शतद्वयम् | शतद्वन्द्वं कुचद्वन्द्वे शतञ्च नाभिमण्डले | शतमेकं कुलागारे प्रजपेद्भक्तिभावतः | एवं दशशतं जप्त्वा कुलागारे ततो जपेत् | पूजयित्वा जपेन्मन्त्रं गजान्तकसहस्रकम् | ततस्तु तत्त्वयोगेन शतमष्टोत्तरं जपेत् | पूजनञ्च ततस्तत्र पुरश्चरणमुच्यते | अथान्यत् सम्प्रवक्ष्यामि कलागारस्य साधनम् | येन कृते कुलेशानि ! सर्वपापक्षयो भवेत् | कुलागारे कुलाष्टम्यां कुलमाहूय पूजयेत् | तर्पणञ्च जपं होमं तत्तदक्षयतां व्रजेत् | कदलीतरुमूलञ्च द्विगुणं यदि दृश्यते | तत्र तु महतौ पूजा कर्तव्या वरवर्णिनि ! || ततस्तु ब्रह्मवक्त्रेण होमं कुर्याद्विचक्षणः | होमं कृत्वा जपेन्मन्त्रं कोटीकोटीगुणं भवेत् | द्विगुणं रजनीमूलं संवीक्ष्य यो जपेन्मनुम् | स भवेत् सर्वसिद्धीशस्तस्य पुण्यं न गण्यते | रजनीं स्वेच्छयाहूय साधनं कुलभूषणम् | विपरीतं जपेन्मन्त्रं तस्य पुण्यं न गण्यते || रजन्याञ्च कुलागारे पूजने निपुणो यदि | त्वत्समा रजनीकान्ता कमला वाथ राधिका | त्रिषु लोकेषु सा धन्या ब्रह्मविष्णुशिवात्मिका | सिद्धविद्या महाविद्या सिद्धविद्याफलप्रदा | तस्याः प्रसादमात्रेण दुष्टमन्त्रोऽपि सिध्यति | तस्मात् सर्वप्रयत्नेन तामेव शरणं व्रजेत् | रजन्यां रजनीयोगं विहरेद् यदि साधकः | बलाद्वा पूजयेत्तत्र सर्वं तन्निष्फलं भवेत् | येन तेन प्रकारेण प्. १०६८) रजनीतोषणञ्चरेत् | वाह्याद्वा क्रीडनाद्वापि वशाद्वा तोषयेत् सदा | यं यं भावं रजन्याश्च तं तं भावं प्रकल्पयेत् | अतिरिक्तः कृतो भावो रौरवं नरकं व्रजेत् | कलायाः सम्मतिं कृत्वा साधयेत् कुलसाधनम् | असम्मतकुलासङ्गात् सिद्धिहानिः प्रजायते | यो गच्छेद्रजनीगेहं कुलसाधनवर्जितः | स एव नरकं याति सत्यं सत्यं न संशयः | क्रोधाद्वा कामतो वापि द्वेषाद्वा वरवर्णिनि ! | न गच्छेद्रजनीगेहं गच्छेच्च नरकं व्रजेत् | अज्ञात्वा कुलसङ्केतं कुलमार्गं विशेद्यदि | स याति नरकं घोरं का कथा परजन्मनि || अथ शययाशुद्धिः || ओं आः सुरेखे वज्ररेखे हुं फट् स्वाहा | इत्यनेन शययायां त्रिकोणं विलिख्य ओं ह्रीं आधारशक्तये कमलासनाय नमः | इति मनसा सम्पूज्य ओं ह्रीं मृतकाय नमः फट् इति मन्त्रेण वामहस्तेन घातत्रयं दत्त्वा छोटिकाभिर्दशदिग्बन्धनं कृत्वा | ओं शयये ! त्वं मृतरूपासि साधनीयासि साधकैः | अतोऽत्र जप्यते मन्त्रो ह्यस्माकं सिद्धिदाभव || इति प्रार्थनां कृत्वा जपादिकं कुर्यात् || गुप्तसाधनतन्त्रे प्रथमपटले || पञ्चाचारेण देवेशि ! कुलशक्तिं प्रपूजयेत् | नटी कापालिकी वेश्या रजकी नापिताङ्गना | ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका | मालाकारस्य कन्या च नव कन्याः प्रकीर्तिताः | विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गना | रूपयौवनसम्पन्ना शीलसौभाग्यशालिनी | पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद् ध्रुवम् || अत्र विशेषयति निरुत्तरतन्त्रे चतुर्दशपटले || नटी कापालिकी वेश्या रजकी नापिताङ्गना | योगिनी श्वपची शुण्डी भूमीन्द्रतनया तथा | गोपिनी मालाकारस्य आसां प्. १०६९) कार्यविभेदतः | चतुर्वर्णोद्भवा रम्या कापाली सा प्रकीर्तिता || पूजाद्रव्यं समालोक्य वेश्या रमणमिच्छति | चतुर्वर्णोद्भवा रम्या सा वेश्या परिकीर्तिता | पूजाद्रव्यं समालोक्य सर्वतः कुरुते च या | पूजाद्रव्यं समालोक्य राजावस्थां प्रकाशयेत् | सर्ववर्णोद्भवा रम्या रजकी सा प्रकीर्तिता || पूजाद्रव्यं समालोक्य कुलजा वीरमाश्रयेत् | सन्त्यज्य पशुभर्त्तारं कर्मचाण्डालिनी स्मृता || विपरीतरता पत्यौ पात्रं या परिपृच्छति | सर्ववर्णोद्भवा रम्या सा शौण्डी परिकीर्तिता || सर्वदा यन्त्रसंस्कारो यस्याश्च परिजायते | सैव भूमीन्द्रजा रम्या सौरवर्णोद्भवा प्रिये ! || आत्मानं गोपयेद् या च सर्वदा पशुसङ्कटे | सर्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता || पूजाद्रव्यं समालोक्य या मालेव रता भवेत् | सर्ववर्णोद्भवा रम्या मालिनी सा प्रकीर्तिता || वेश्याया विशेषस्तु तत्रैव || गुप्तवेश्या महावेश्या कुलवेश्या महोदया | राजवेश्या देववेश्या ब्रह्मवेश्या च सप्तधा || कुलजा गुप्तवेश्या स्यात् निर्लज्जा मदनातुरा | पशुभर्त्राश्रिता लोके गुप्तवेश्या प्रकीर्तिता || कुलजा कुलवेश्या स्यात् महावेश्या प्रकीर्तिता | भगलिङ्गकलापीठे चुम्बयेच्च पुनः पुनः | एवं विधा कुलीना चेद् ब्रह्मवेश्या प्रकीर्तिता || दिव्यशक्तिर्वीरशक्तिस्तासां संज्ञा प्रकीर्तिता | चतुर्वर्णोद्भवानाञ्च संज्ञैताः परिभाषिताः | वेश्यावद्भ्रमते यस्मात् तस्माद्वेश्या प्रकीर्तिता || वर्णसङ्करतो जाता सर्ववेश्या प्रकीर्तिता || कुलमार्गे प्रवृत्ता या सा वेश्या मोक्षदायिनी || चुम्बनालिङ्गनं घातं रतिनिग्रहदर्शनम् | आमन्त्रणं त्रिसन्ध्यञ्च भगलिङ्गस्य कीर्तनम् | वेश्यानाञ्च जपाङ्गेन शङ्करेण पुरोदितम् | जपाङ्गेन विना वेश्या वर्जनीया कुलार्चने | जपाङ्गं प्रत्यहं कुर्यात् सा शिवैः सह मोदिता | निशायां प्रजपेन्मन्त्रं स्वयम्भूशिवयोगतः | वेश्यानां प्. १०७०) जपमात्रन्तु पुरश्चरणमुच्यते | विपरीतं जपेन्मन्त्रं सा काली नात्र संशयः | योषितां मन्त्रसिद्धिः स्याद् विपरीतरतौ प्रिये ! | विपरीतरतौ जप्त्वा निर्वाणपदवीं व्रजेत् | विपरीतरतौ जप्त्वा कालीवद्विहरेद्भुवि | विपरीतरतौ काली विपरीता च तारिणी | विपरीता च या वेश्या सा काली नात्र संशयः || योषिद्विद्या न सिध्यन्ति विपरीतरतिं विना | विपरीतरता वेश्या त्रिषु लोकेषु पूजिता || गाढमालिङ्गनं दत्त्वा पूजयित्वा पुनः पुनः | कटाक्षैर्दर्शयेद्यन्त्रं दक्षिणाकालिकेरिता | एवं विधा पुरश्चर्या वेश्यायाश्च कुलेश्वरि ! | एवंविधा भवेद्वेश्या न वेश्या कुलटा प्रिये ! | कुलटासङ्गमादेव रौरवं नरकं व्रजेत् | वीरशक्तिर्भवेद्वेश्या सा शस्ता कुलसाधने | पुरश्चर्याकृता वेश्या योजयेत् | कुलसाधने || शिवलिङ्गगता साध्वी शिवलिङ्गगता सती | शिवलिङ्गगता वेश्या कीर्तिता सा पतिव्रता || योनिश्च जनिका माता लिङ्गश्च जनकः पिता | मातृभावं पितृभावमुभयोरपि चिन्तयेत् | लिङ्गरूपो महाकालो योनिरूपा च कालिका | तयोर्योगपरा धन्या तयोर्योगपरो महान् | स्वभैरवं विना वेश्या शिवपूजां करोति यः | रौरवे नरके घोरे वसेदाभूतसंप्लवम् | स्वभैरवीं विना वीरो मनसान्यां न संस्मरेत् | स्मरणे नरकं याति महाव्याधिपरो भवेत् | नानाचाराश्रिता वेश्या पशुसङ्गगता च या | वर्जनीया प्रयत्नेन कुलसाधनकर्मणि | योज्या चेत् सिद्धिहानिः स्यात् श्रेष्ठवेश्या कुलार्चने | रोगः शोको भवेत्तस्या धनहानिः क्षणे क्षणे | तस्मात् सर्वप्रयत्नेन स्वशिवञ्च समाश्रयेत् | जपपूजादिकं वेश्या स्वशिवे परिकल्पयेत् | पुष्पिता काममापन्ना सदा रमणमिच्छुका | सर्वसिद्धिप्रदा वेश्या कालिका रूपधारिणी | पितृभूमिः समाख्याता सदाशिवनिवासिनी | प्. १०७१) शिव एव नरो ज्ञेयो लिङ्गरूपधरो यतः | शिवस्थानं श्मशानं स्यात् श्मशानं कुलजं गुरुम् | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि | श्मशानस्थेन यत्कार्यमवश्यं गुरु तद्भवेत् || तथा || मातृमुखे पितृमुखं जपेत् दत्त्वा सनातनीम् | सर्वपापविनिर्मुक्तो निर्वाणपदवीं व्रजेत् || परजन्मे गुप्तवेश्याप्यथवा कुलजा भवेत् | शुक्रोत्सारणकाले तु निर्वाणं विद्धि पार्वति ! | तत्काले हि महाकालः कुलमार्गप्रवेशिनाम् | शुक्रोत्सारणकालन्तु ज्ञापयेन्मनसापि वा | अङ्गभङ्गक्रमेणैव कुलीनाय प्रकाशयेत् | शुक्रोत्सारणकालस्य ज्ञापनात् कालिका स्वयम् || जपाङ्गे || कालिका देवि ! महाकालं विमोहयेत् || कुलीना ब्रह्मवेश्या चेन्नाल्पस्य तपसः फलम् | वहूनां जन्मनामन्ते ब्रह्मवेश्या प्रजायते | त्वत्समाप्रकृतिः काचिद् यद्यस्ति भुवि मण्डले | न तथा त्वत्समा शक्तिस्त्रिषु लोकेषु विद्यते | सा चैव दक्षिणा काली मदनातुरविह्वला | वेदेभ्यो जायते कर्म कर्मणा बन्धनं भवेत् | वैदिकं कर्म सन्त्यज्य सुरतेषु सदा जपेत् | आगमोक्तपतिः शम्भुरागमोक्तपतिर्गुरुः | स पतिः कुलजायाश्च न पतिश्च विवाहितः | विवाहितपतित्यागे दूषणं न कुलार्चने | विवाहित पतिं नैव त्यजेद्वेदोक्तकर्मणि | आगमोक्तपतिस्त्राता आगमोक्तपतिः शिवः | सिद्धविद्या न सिध्यन्ति आगमोक्तपतिं विना | कुलजा गुरवे देवि ! पतित्वे वरणञ्चरेत् | तदा सा गुप्तवेश्या स्यात् कुलजा च पतिं विना | गुप्तवेश्या भवेत् सैव कुलमार्गप्रवर्तिका | कुलमार्गप्रवृत्ता या सा मुक्ता नात्र संशयः | कुलजा गुरवे देवि ! यदि न स्यात् पतीच्छका | तस्याः शिवो महाकालः सत्यं सत्यं न संशयः | षोडशाब्दा यदा सा स्यात् काली विक्रमतत्परा | तारा पञ्चदशाब्दे च प्. १०७२) सुन्दर्ययब्दे चतुर्दशे | त्रयोदशाब्दोन्मुखी सा द्वादशाब्दा च भैरवी | एकादशगुणोपेता ब्रह्मवेश्या कुलेश्वरि ! | महासाध्वी समाख्याता त्रिषु लोकेषु दुर्लभा | स्वर्गे मर्त्त्ये च पाताले या या तिष्ठति चाङ्गना | सर्वासामपि भर्त्ता च दिव्यो वीरश्च साधकः | योगी दिव्यो यदा वीरः सर्वनारीपतिर्भवेत् | दिव्योऽपि वीरभावेन सर्वजात्युद्भवां यजेत् | गुप्तवेश्या महावेश्या अयोध्या मथुरा प्रिये ! | या या च कुलवेश्या स्यान्मदोदग्रा च कालिका | राजवेश्या देववेश्या द्वारका परिकीर्तिता | काञ्ची च राजवेश्या स्याद् देववेश्या ह्यवन्तिका | द्वारावती ब्रह्मवेश्या गुप्तैता मोक्षदायिकाः | कुलीना भगवती साक्षात् काली तारा सरस्वती | कुलीना भैरवी साक्षात् कुलीना छिन्नमस्तका | कुलीना सुन्दरी देवि ! कुलीना महिषमर्दिनी | कुलीना भुवना वाला कुलीना वगलामुखी | धूमावती कुलीना च मातङ्गी कुलनायिका ! | कुलीना चान्नपूर्णा च कुलीना त्वरिता तथा | पतिव्रता कुलीना च सती साध्वी महोदया | कुलीना मन्त्रयन्त्राणां सिद्धिदा नात्र संशयः | कुलजा देवकन्या च कुलीना योगिनीगणा | रम्भोर्वशी रती रामा कुलीना च तिलोत्तमा | एताः सर्वाः पृथग्वेश्या विहरन्ति कुलात्मजाः | कुलजा कुलवेश्या या कुलधर्मपरायणा | पशुभर्त्राश्रिता लोला कामकौतुकलालसा | कुलवर्त्मक्रमेणैव सदैव रमणोत्सुका | विदग्धवीरभावेन वीरगोपनतत्परा | विहिता स्याद्धीनजाञ्च पूजयेदथ वाग्यतः | ब्रह्मचारी गृहस्थोऽपि विहितान्यां न चार्चयेत् | अर्चिते सिद्धिहानिः स्याद्दुःखं तस्य पदे पदे | हीनजां विहितां वेश्यां मनसा च प्रपूजयेत् | तद्योगं चिन्तयेद्धीमान् शतमष्टोत्तरं जपेत् | जप्त्वा प्रणम्य देवेशि ! भक्ष्यद्रव्यं निवेदयेत् | कामाद्वा मोहतो वापि हीनजां यदि चेच्छति | रौरवं नरकं याति हीनजासङ्गमेन च | हीनजासङ्गमं देवि ! मनसा न स्मरेत् कलौ कुलकर्मप्रवृत्ता या सा मुक्ता नात्र संशयः | कुलजा कुलवेश्या च वीरमेकं समाश्रयेत् | सन्त्यज्य पशुभर्त्तारं कुलमार्गं प्रवेशयेत् | कुलमार्गं समाश्रित्य वीरमेकं समाश्रयेत् | कुलमार्गप्रवृत्ता च पतिहीना भवेद् यदि | कुलजा वा कुलीना वा परजन्मनि जायते | कुलधर्मरता शस्ता कुलधर्मोत्सुका तथा | पूजार्हा सा महेशानि ! पतिर्हीनां प्रपूजयेत् | लोकाचारक्रमेणैव पूजार्हा लज्जिता यदि | तां विहाय कुलेशानि ! कुलजाञ्च प्रपूजयेत् | कुलीनादर्शनेनैव सर्वपापक्षयो भवेत् | गङ्गास्मरणमात्रेण यथा पापक्षयो भवेत् | कुलजा च कुलीना या मन्त्रतन्त्रफलप्रदा | महावेश्या भवेत् सैव सर्ववेश्याफलप्रदा | यासाञ्च सिद्धविद्यानां प्रशस्ता वा कुलार्चने | सैव शक्तिर्विशेषेण सर्ववेश्या प्रकीर्तिता || विद्याविशेषे शक्तिविशेष उक्तस्त्रयोदशपटले यथा || श्यामाविद्या न सिध्येत ब्राह्मणीगमनं विना | छिन्नमस्ता न सिध्येत कापालीगमनं विना | सिद्धविद्या न सिध्येत भूमीन्द्रतनयां विना | रजक्यास्तु गृहे देवि ! भैरवी च सुसिद्ध्यति | साध्या सा विहिता प्रोक्ता विहिता द्रुतसिद्धिदा | साधयेद्रजनीं सर्वां ब्राह्मणीं यावनीं विना | सर्वारम्भान् परित्यज्य साधयेद्द्विजजां द्विजः | राजराजेश्वरी साक्षाद् द्विजजारूपधारिणी | द्विजजातोषणादेव द्रुतं सिध्यति सुन्दरी | श्रेष्ठवर्णोद्भवां रम्यां साधने नैव साधयेत् | साधने सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत् | अथ प्रयोगः || गतयामायां रात्रौ स्वशक्तिं परशक्तिं वा तुलिकोपरि स्ववामभागे संस्थाप्य तस्या अङ्गे स्वकल्पोक्तन्यासान् विधाय अदीक्षितायां शुद्धिं प्. १०७४) कुर्यात् | यथा || ऐं क्लीं सौः त्रिपुरायै इमां स्वशक्तिं पवित्रीकुरु मम शक्तिं कुरु स्वाहा | इत्यनेन जलविन्दुभिरभिषिच्य तस्या वामकर्णे अभेदबुद्ध्या मायावीजं वदेत् || ततो योनिं ध्यायेद्यथा | अतिसुललितगात्रां हास्यवक्त्रां त्रिनेत्रां जितजलदसुकान्तिं पट्टवस्त्रप्रकाशाम् | अभयवरकराढ्यां रत्नभूषातिभव्यां सुरतरुतलपीठे रत्नसिंहासनस्थाम् | हरिहरविधिवन्द्यां बुद्धिशुद्धिस्वरूपां मदनरससमाक्तां कामिनां कामदात्रीम् | निखिलजनविलासोद्दामरूपां भवानीं कलिकलुषनिहन्त्रीं योनिरूपां भजामि || इति योनिं ध्यात्वा सम्पूज्य योन्युपरि हसौः इति योनिमन्त्रमष्टोत्तरशतं जप्त्वा समर्प्यस्तवकवचादिकं पठेद्यथा || श्रीदेव्युवाच || भगवन् ! सर्वधर्मज्ञ ! कुलशास्त्रार्थंपारग ! | सर्वं मे कथितं नाथ ! न त्वेकः परमेश्वर ! | श्रीयोनेः स्तवराजं हि तथा कवचमुत्तमम् | श्रोतुमिच्छामि सर्वज्ञ ! यदि तेऽस्ति कृपा मयि | सारभूतं महादेव ! निगमान्तर्गतं रहः | यदि नो कथ्यते देव ! प्राणत्यागं करोम्यहम् | दिवानिशि महाभाग ! ममाश्रु पतितं भवेत् | अतस्ते देवदेवेश ! कथ्यतां मे दयानिधे ! || श्रीमहादेव उवाच || शृणु पार्वति ! वक्ष्यामि देहत्यागं कथं कुरु | अत्यन्तगोपनीयं हि निगमे कथितं पुरा | ब्रह्मविष्णुग्रहादीनां न मया कथितं पुरा | अकथ्यं परमेशानि ! इदानीं किं करोमि ते | तव स्नेहेन बद्धोऽहं कथयामि तव प्रिये ! | मातर्देवि ! महाभागे ! यदि कस्मै प्रकाश्यते | शपथं कुरु मे दुर्गे ! यदि त्वं मत्प्रिया स्मृता | ब्रह्मा यदि चतुर्वक्त्रैः पञ्चवक्त्रैः सदाशिवः | वर्णितुं स्तवराजञ्च न शक्नोति कदाचन | सम्यग्वक्तुं न शक्नोमि संक्षेपात् कथयामि ते || अस्य श्रीयोनिस्तवराजस्य कुलाचार्य ऋषिः कौलिकच्छन्दः प्. १०७५) श्रीयोनिरूपा दशविद्यात्मिका देवता सर्वसाधने विनियोगः | ओं योनिरूपे ! महामाये ! सर्वसम्पत्प्रदे ! शुभे ! | कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ! || १ || सर्वस्वरूपे ! सर्वेशे ! सर्वशक्तिसमन्विते ! | कृपयेत्यादि || २ || महाघोरे ! महाकालि ! कुलाचारप्रिये ! सदा | कृपयेत्यादि || ३ || घोरदंष्ट्रे ! चोग्रतारे ! सर्वशत्रुविनाशिनि ! | कृपयेत्यादि || ४ || योनिरूपे ! महाविद्ये ! सर्वदा मोक्षदायिनि ! | कृपयेत्यादि || ५ || जगद्धात्रि ! महाविद्ये ! जगदुद्धारकारिणि ! | कृपयेत्यादि || ६ || जगद्धात्रि ! महामाये ! योनिरूपे ! सनातनि ! | कृपयेत्यादि || ७ || जय देवि ! जगन्मातः ! सृष्टिस्थित्यन्तकारिणि ! | कृपयेत्यादि || ८ || सिद्धिदात्रि ! महामाये ! सर्वसिद्धिप्रदायिनि ! | कृपयेत्यादि || ९ || महालक्ष्मि ! महादेवि ! महामोक्षप्रदायिनि ! | कृपयेत्यादि || १० || गौरी लक्ष्मीश्च मातङ्गी दुर्गा च नवचण्डिका | वगलामुखी भुवनेशी भैरवी च तथा प्रिये ! | छिन्नमस्ता च काली च योनिरूपा सनातनी | कृपयेत्यादि || ११ || काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी | नायिका विप्रचित्ताद्या अन्या या नायिकाः स्मृताः | वसन्ति योनिमाश्रित्य ताभ्योऽपीह नमो नमः || १२ || अणिमाद्यष्टसिद्धिश्च वसत्यस्याः समीपतः | नमस्तेऽस्तु नमस्तेऽस्तु योगमोक्षप्रदायिनि ! || १३ || सर्वशक्तिमयि ! देवि ! सर्वकल्मषनाशिनि ! | हे योने ! हर विघ्नं मे सर्वसिद्धिं प्रयच्छ मे || १४ || आधारभूते ! सर्वेषां पूजकानां प्रियंवदे ! | स्वर्गपातालवासिन्यै योनये च नमो नमः || १५ || विष्णुसिद्धिप्रदे ! देवि ! विष्णुसिद्धिप्रदायिनि ! | ब्रह्मसिद्धिप्रदे ! देवि ! रामचन्द्रस्य सिद्धिदे ! | शक्रादीनाञ्च सर्वेषां सिद्धिदायै नमो नमः || १६ || इति ते कथितं देवि ! प्. १०७६) सर्वसिद्धिप्रदायकम् | स्तोत्रं योनेर्महेशानि ! प्रकाशितमिदं त्वयि ! | सर्वसिद्धिप्रदं स्तोत्रं यः पठेत् कौलिकः प्रिये ! | लिखित्वा पुस्तके देवि ! रक्तद्रव्यैश्च सुन्दरि ! | तस्यासाध्यानि कर्माणि सुसिद्धानि कुलेश्वरि ! | नास्ति नास्ति पुनर्नास्ति नास्त्येव भवनत्रये | यः पठेत् प्रातरुत्थाय गाणपत्यं लभेन्नरः | रात्रौ कान्तासमायोगे यः पठेत् साधकोत्तमः | स्तवेनानेन संस्तुत्य साधकः किं न साधयेत् | स्वलङ्कृतां स्वकान्ताञ्च लीलाहावविभूषिताम् | रक्तवस्त्रपरीधानां कृत्वा सम्पूज्य साधकः | भोजयित्वा ततो देवि ! स्वयं भुञ्जीत तत्परः | मत्स्यमांसादिकान् भुक्त्वा क्रोडे कृत्वा स्वयोषितम् | रात्रौ यदि जपेन्मन्त्रं सा दुर्गा स सदाशिवः | भवत्येव न सन्देहो मम वक्त्राद्विनिर्गतम् | येन दत्तं मयि स्तोत्रं स एव मद्गुरुः स्मृतः | तस्यैव यदि भक्तिः स्यात् स भवेज्जगदीश्वरः | नमोऽस्तु स्तवराजाय नमः स्तवप्रकाशिने | यत्रास्ते स्तवराजोऽयं तत्रास्ते श्रीसदाशिवः | इति शक्तिकागमसर्वस्वे हरपार्वतीसंवादे श्रीयोनिस्तवराजः समाप्तः || अथ योनिकवचम् || देव्युवाच || भगवन् ! श्रोतुमिच्छामि कवचं परमाद्भुतम् | इदानीं देवदेवेश ! कवचं सर्वसिद्धिदम् | महादेव उवाच || शृणु पार्वति ! वक्ष्यामि अतिगुह्यतमं प्रिये ! | यस्मै कस्मै न दातव्यं दातव्यं निष्फलं भवेत् || अस्य श्रीयोनिकवचस्य गुप्तऋषिः कुलटाच्छन्दो राजविघ्नोत्पातविनाशे विनियोगः | ह्रीं योनिर्मे सदा पातु स्वाहा विघ्नविनाशिनी | शत्रुनाशात्मिका योनिः सदा मां पातु सागरे | ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु | राजद्वारे महाघोरे क्लीं योनिः सर्वदावतु | हूमात्मिका सदा देवी योनिरूपा जगन्मयी | सर्वाङ्गं पातु मां नित्यं सभायां राजवेश्मनि | वेदात्मिका सदा प्. १०७७) योनिर्वेदरूपा सरस्वती | कीर्तिं श्रीकान्तिमारोग्यं पुत्रपौत्रादिकं तथा | रक्ष रक्ष महायोने ! सर्वसिद्धिप्रदायिनि ! | रजोयोगात्मिका योनिः सर्वत्र मां सदावतु | इति ते कथितं देवि ! कवचं सर्वसिद्धिदम् | त्रिसन्ध्यं यः पठेन्नित्यं राजोपद्रवनाशकृत् | सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् | सर्वत्र जयमाप्नोति कवचस्य जपेन हि | श्रीयोन्याः सङ्गमे देवि ! पठेदेवमनन्यधीः | स एव सर्वसिद्धीशो नात्र कार्या विचारणा | मातृकाक्षरसम्पुटं कृत्वा यदि पठेन्नरः | भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते | इति गुह्यतमं देवि ! सर्वधर्मोत्तमोत्तमम् | भूर्जे वा ताडिपत्रे वा लिखित्वा धारयेद् यदि | हरिचन्दनमिश्रेण रोचना कुङ्कुमेन च | शिखायामथवा कण्ठे शिवः सोऽपि न संशयः | शरत्काले महाष्टम्यां नवम्यां कुलसुन्दरि ! | पूजाकाले पठेदेतत् जयी नित्यं न संशयः || इति शक्तिकागमसर्वस्वे हरगौरीसंवादे श्रीयोनिकवचं समाप्तम् || इति कवचं पठित्वा अस्या अङ्गे षडङ्गन्यासं कृत्वा योनौ मातृकान्यासं योनिवीजन्यासञ्च कृत्वा तदनुज्ञां लब्ध्वा ताम्बूलादिकं दत्त्वा लिङ्गोपरि ऐं इति लिङ्गमन्त्रमष्टोत्तरशतं जप्त्वा इयं गौरी अहं शिव इति विभाव्य मातृमुखे पितृमुखं दत्त्वा मूलमुच्चार्य ओं धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् | इति मन्त्रं पठित्वा लिङ्गं योनौ प्रवेश्य निधुवनासक्तशिवशक्त्योरभेदं विभाव्य अक्षुब्धः स्थिरमानसः सन् वर्णमालया अष्टोत्तरसहस्रं शतं वा प्रजप्य मूलान्ते | ओं प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा | धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् | स्वाहा इति मन्त्रेण शुक्रं त्यजेत् || एकदा ताडने देवि ! एकदा यदि उच्चरेत् | प्. १०७८) स कालश्चञ्चलापाङ्गि ! कोटिसूर्यग्रहैः समः | गलच्चन्द्रं गृहीत्वा कुण्डगोलादिकं कुर्यात् | भर्तृमत्यां कुण्डं विधवायां गोलमिति | पूर्वोक्तक्रमेण संशोध्य तेन पूजयेत्तर्पयेच्च | ततो योनिपीठं प्रक्षाल्य तेनोदकेन मूलमुच्चार्य सायुधां सपरिवारां सवाहनां महाकालसहितां अमुकदेवीं तर्पयामि स्वाहा | इति योनौ त्रिस्तर्पयेत् पूजयेच्च || आरम्भक्रमः || आलिङ्गनं चुम्बनञ्च स्तनयोर्मर्दनं ततः | दर्शनं स्पर्शनं योनीविकाशो लिङ्गघर्षणम् | प्रवेशः स्वापनं शक्तेर्नव पुष्पाणि पूजने | शिवशक्तिसमायोगो योग एव न संशयः | शीत्कारो मन्त्रजापस्तु वचनं स्तवनं भवेत् | आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् | नखदन्तक्षतादीनि पुष्पाणि विविधानि च | मैथुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् | अष्टोत्तरशतेनापि योनिमारक्ष्य धर्मवित् | मैथुनं यः प्रत्यात्येव स तु सर्वं फलं लभेत् | लतारतेषु जप्तव्यं महापातकमुक्तये | रजोऽवस्थां समादाय तन्मूलेष्विष्टदेवताम् | पूजयित्वा महारात्रौ त्रिदिनं जपमाचरेत् | लक्षपीठसहस्राणि लभते नात्र संशयः | पृथ्वीमृतुमतीं वीक्ष्य सहस्रं यदि नित्यशः | तदा वादी सुसिद्धान्तर्हतं क्षितितलं विशेत् || नित्यश इति षोडशदिनं यावत् | कुलागारं पुष्पिताया दृष्ट्वा जपति यो नरः | अयुतैकप्रमाणेन स भवेत् कल्पपादपः || अथ शक्तिप्रशंसादि || पञ्चमपटले || शक्तिं विना महेशानि ! सदाहं शवरूपकः | शक्तियुक्तो यदा देवि ! शिवोऽहं सर्वकामदः | शक्तियुक्तं जपेन्मन्त्रं न मन्त्रं केवलं जपेत् | सावित्रीसहितोब्रह्मा सिद्धोऽभून्नगनन्दिनि ! | द्वारावत्यां कृष्णदेवः सिद्धोऽभूत् सत्यया सह | तथा कोचबधूसङ्गान्मम सिद्धिर्वरानने ! | ईश्वरोऽहं महादेवि ! केवलं शक्तियोगतः | शक्तियोगेन देवेशि ! यदि सिद्धिर्न जायते | प्. १०७९) तदैव परमेशानि ! मम वाक्यं वृथा भवेत् | गङ्गा काशी प्रयागादि पुष्करं नैमिषं तथा | वदरी च तथा रेवा उत्कलं गण्डकौ तथा | सिन्धुः सरस्वती चैव पीठानि विविधानि च | सर्वं त्यक्त्वा महेशानि ! स्त्रीसङ्गं यत्नतश्चरेत् | स्त्रीसङ्गे सिद्धिमाप्नोति मम वाक्यं न चान्यथा | यद्दत्तं जलगण्डूषं शक्तिवक्त्रे सुरेश्वरि ! | सिन्धुरूपं महेशानि ! तज्जलं नात्र संशयः | स्वीयेष्टदेवीभावेन भोजयेत्ताञ्च यत्नतः || शक्तिश्च कथ्यते देवि ! शृणुष्व सुरसुन्दरि ! | त्रयोदशाब्दादूर्द्ध्वं या पञ्चविंशतिवार्षिकी | अप्रसूता विशेषेण पञ्चमेऽपि भवेत् प्रिये ! | सुन्दरी तु विशेषेण प्रसूता वाप्रसूतिका | अवश्यं पञ्चमं कुर्यात् शक्तिमात्रे महेश्वरि ! | पञ्चपञ्चीकृते देवि ! यः कुर्यात् पूजनादिकम् | तदक्षयं लभेत् पुण्यं नात्र कार्या विचारणा | गुरुं सन्तोषयेद्भक्त्या तत्पत्नीं तत्सुतां लताम् | नानाभक्षणवस्त्राद्यैस्तथा द्रव्येण सुन्दरि ! | पञ्चमार्थे च या शक्तिस्तस्यां कुर्याच्च पञ्चमम् | तस्यां स्तोत्रं प्रकूर्वित विशेषेण शृणु प्रिये | द्रव्यादिभूषणैश्चैव भक्ष्यभोज्यैर्विशेषतः | नानाभक्षणवस्त्राद्यैस्तथैव चुम्बनादिभिः | स्नानार्थं देवतानाञ्च रहस्यं परमं शृणु | येन स्नाने कृते देवि ! देवता सुप्रसीदति | रात्रौ पञ्चमकारेषु कृत्वा पञ्चमकारकम् | भगमध्ये च यद्द्रव्यं गृह्णीयाच्च प्रयत्नतः | तच्च कुण्डोद्भवं तोयं ज्ञेयं देवि ! वरानने ! | लभेते भाग्ययोगेन देवानामपि दुर्लभम् | तस्मिन् किञ्चिज्जलं क्षिप्त्वा ताम्रपात्रे विनिक्षिपेत् | तद्द्रव्यस्नानमात्रेण देवता सुप्रसीदति || उत्तरतन्त्रे द्वितीयपटले || सर्वपीठमयी शक्तिः सर्वदेवस्वरूपिणी | सर्वमन्त्रमयी शक्तिश्चतुर्वर्गप्रदायिनी | शाक्तौ मनुष्यबुद्धिन्तु यः करोति वरानने ! | न तस्य प्. १०८०) मन्त्रसिद्धिः स्याद्विपरीतफलं लभेत् | शक्तेः सम्पूजनाद्देवि ! सर्वदेवार्चनं प्रिये ! | शक्तौ यद्दीयते देवि ! वस्त्रादिभूषणं प्रिये ! | देव्यङ्गे दत्तमेतत्तु महासौख्यप्रदायकम् | देव्यै यद्यद्वरारोहे ! दत्तं वस्त्रविभूषणम् | इहैव शतसंख्येन दीयते च तदा पुनः | पाने भ्रान्तिर्भवेद् येन घृणा स्याद्रक्तरेतसोः | तमालोक्य वरारोहे ! कुलीनः पशुतामियात् || पुरश्चरणरसोल्लासतन्त्रे चतुर्दशपटले || कलौ तु भारते वर्षे स्त्रीसङ्गं परमं पदम् | न धूपं चञ्चलापाङ्गि ! न दीपं वरवर्णिनि ! | नैवेद्यं चञ्चलापाङ्गि ! तन्त्रोक्तं षोडशं प्रिये ! | द्रव्यं नास्ति महेशानि ! कथं सिद्धिर्भविष्यति | अत एव महेशानि ! सदानन्दमयं यतः | पूजनं चञ्चलापाङ्गि ! प्रियाङ्गेषु व्यवस्थितम् | सदानन्दमयी नारी स्वकीया परगोचरा | यस्या अङ्गे महेशानि ! सर्वतीर्थाणि सन्ति वै | तां विहाय महेशानि ! अन्यस्थाने जपेद्यदि | तस्य सर्वं वृथा देवि ! उन्मत्तो भवति ध्रुवम् || निगमकल्पद्रुमे तृतीयपटले || सप्तलक्षा महाविद्याः कथितास्तव सुव्रत ! | रोमकूपे वसन्त्येता मन्त्ररूपाः पृथक् पृथक् | यावन्ति सन्ति रोमाणि शरीरे प्राणवल्लभ ! | तावद्देवाश्च देव्यश्च सन्ति तस्यां कलेवरे | तिस्रः कोट्यस्तदब्देन तीर्थाणि जाह्नवीजले | जाह्नवी योनिमूले च सततं परिसंस्थिता | मूत्रस्थाने सदा मुक्तिः स्थापिता त्वं न संशयः | प्रकृतिश्च पुमांश्चैव परं ब्रह्म प्रकीर्तितम् || योनितन्त्रेऽपि || काली तारा योनिगर्त्ते कुन्तले छिन्नमस्तिका | बगलामुखी च मातङ्गी वसेद् योनिसमीपतः त्रिकोणे त्रिपुरा देवी तत्पार्श्वे भैरवी स्वयम् || इत्यादिपुरश्चरणरसोल्लासे || पीठानि चञ्चलापाङ्गि ! कलौ गुह्यं प्. १०८१) भविष्यति | पञ्चाशत्पीठसंयुक्तं स्त्रीणामङ्गं शुभप्रदम् | तत्कथं मूढलोकश्च विहाय स्त्रीपदं महत् | अन्यपीठेषु तीर्थेषु मन्त्रन्तु प्रिये ! || एतस्मिन् रूपे देवानां तृप्तिर्भवति पार्वति ! | नारीत्यागं तदा कृत्वा अन्यपीठं व्रजेत् प्रिये ! | सा स्त्री तु परमेशानि ! साक्षान्मूर्तिर्न चान्यथा | नारीप्रसङ्गे चार्वङ्गि ! सिद्धयोऽष्टौ भवन्ति हि || इति शक्तिप्रसंसा || अथ प्रकारान्तर लतासाधनम् || उत्तरतन्त्रे प्रथमपटले || वल्लीमूले वरारोहे ! लेखन्यङ्गसमुत्थया | यो लिखेन्मन्त्र वर्णांश्च तस्य सिद्धो भवेन्मनुः | तस्य दशनमात्रेण मुक्ताः सन्ति च पापिनः || वल्लीमूले योनौ || अङ्गसमुत्थया शेफसा || शैलकन्या कलानाथे कलानाथसमन्विते | यद्द्रव्यं जायते देवि ! तद्द्रव्यं मम दुर्लभम् | माहात्म्यं तस्य वक्तुं वै समर्थः सुरवन्दिते ! | जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि | पुरश्चरणकर्मादि दुःसाध्यं परमेश्वरि ! | शङ्केतमिदमेवात्र सुगोप्यं पशुसन्निधौ || अपरन्तु द्वितीयपटले || शङ्करोपरि संस्थाप्य कलां कामशरार्दिताम् || यस्तु चिन्तयते भक्त्या स एव कल्पपादपः || शङ्करोपरि विपरीतरतौ || वल्लीमूलसमुद्भूतं पाशं करेण सन्निभम् | समूलं सुन्दरारक्तं पतत्रीव स लोभितम् | स्वाद्वन्नं व्यञ्जनैर्युक्तं द्राक्षारससमन्वितम् | नवनीतं कलाजातं कदलीनाथसम्भवम् | रम्भारम्भेशयोरास्यं जान्तवं परमं प्रिये ! || एकत्र सकलं कृत्वा मुक्तकेशो दिगम्बरः | चत्वरे वा श्मशाने वा बलिं दद्याद्वरानने ! | स्त्रीरूपेण च सा देवी गृह्णाति परमेश्वरी | एवं कर्तुं समर्थो यः स एव भगवान् स्वयम् | यामिनीतिमिरे भानौ मुखे हाटकपर्वते | आवर्ते कामरूपे च खञ्जने च सुरेश्वरि ! | मुक्ता द्वन्द्वे च चापे च प्. १०८२) विम्बे च तिलपुष्पके | पद्मनाले धरायाञ्च रम्भायाञ्च वरानने ! | यो जपेत् परमेशानि ! किमसाध्यं भवेत् प्रिये ! | यामिनीतिमिरे केशे | भानौ सिन्दूरमण्डले | हाटकपर्वते स्तनयुगले | आवर्ते नाभौ | कामरूपे योनौ | खञ्जने चक्षुर्द्वये | मुक्ताद्वन्द्वे दन्ते | चापे भ्रुवि | विम्बे ओष्ठे | तिलपुष्पे नासिकायाम् | पद्मनाले बाहुद्वये | धरायाञ्च उरूद्वये | रम्भायाञ्च नितम्बे || देव्युवाच || कथमेव महादेव ! परशक्त्या क्रियां चरेत् | परदारकृते दोषः कथं नैव प्रजायते | कथं परस्त्रियां कार्यः परेण सह सङ्गमः | साध्वीत्वं नश्यति क्षिप्रं तस्मान्नैतत्समाचरेत् || वृहन्नीलतन्त्रे चतुर्थपटलेऽपि || परदारविधौ देवि ! निन्दावादः प्रवर्तते | तासां सङ्गान्महेशानि ! तामिस्रं नरकं व्रजेत् | वेदार्थमिति विज्ञाय कथं कुर्याच्च साधकः | सिद्धान्तयति तत्रैव || परदारान्न गच्छेरन् गच्छेच्च प्रजपेद् यदि | श्रुतिद्वयविरोधाच्च गच्छेरन् परयोषितः | उत्तरतन्त्रेऽपि || पूजाकालं विना नान्यं पुरुषं मनसा स्पृशेत् | पूजाकाले च देवेशि ! वेश्याञ्च परितोषयेत् | साध्वीत्वं न हतं तस्याश्चुम्बनालिङ्गनैः प्रिये ! | काश्यादि सर्वतीर्थानि सर्वपुण्यानि सुव्रते ! | तस्या देहे वसन्त्येव सर्वे मन्त्राश्च सुन्दरि ! | विकल्पो नात्र कर्तव्यस्त्वया गिरिवरात्मजे ! || अथ योनिपूजा || निरुत्तरतन्त्रे प्रथमपटले || योनिरूपा महाकाली शवः शयया प्रकीर्तितः | श्मशानं द्विविधं देवि ! चिता योनिर्महेश्वरि ! || तथा || कलापूजां विना देवि ! या काचित् क्रियते क्रिया | सा क्रिया त्वभिचाराय सत्यं सत्यं न संशयः | तस्मात् सर्वप्रयत्नेन कलापूजां समाचरेत् | योनिरूपा कला देवि ! दक्षिणैव न संशयः | दिव्यवीरो वरारोहे ! कलापूजां प्. १०८३) समाचरेत् | पशुभावाश्रितो मन्त्री कलां नैव प्रपूजयेत् | कलाया द्विविधा पूजा गुप्ता व्यक्ता कुलेश्वरि ! | गुप्ता च साधकैः कार्या निर्जने च महानिशि | व्यक्ता दिवा प्रकर्तव्या लोकाचारक्रमेण तु | लोकाचारं विना देवि ! गोपनं नैव जायते | गोपनं सिद्धिमूलञ्च सत्यं सत्यं न संशयः | ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलसुन्दरि ! | कलयासवयोगेन कलापूजां समाचरेत् | द्रव्याभावे द्विजो दद्याच्चानुकल्पं युगे युगे | कलायाश्चानुकल्पश्च कलायाश्चैव चिन्तनम् | कलापूजां विना देवि ! दक्षिणा न फलप्रदा || कलात्र स्वीयेष्टदेवतोपललक्षणम् || तथाच समयाचारतन्त्रे द्वितीयपटले || अथेदानीं प्रवक्ष्यामि भगपूजां समासतः | गुरोः प्रसादाद् यन्मन्त्रं नित्यं जपति साधकः | तेनैव मनुना मन्त्री भगपूजां करोति च | तदापि भगमध्ये वै चिन्तयेद्भगरूपिणीम् | शिवो भूत्वा स्मरेद्देवीं तदेव मेलनञ्चरेत् | शक्तिं शक्तिमयीं चिन्तेत्तदा वै मैथुनं चरेत् | मैथुनासक्तयोगेन मानसं जपमाचरेत् | यथोक्तं कुरुते देवि ! प्राप्यते परमं पदम् | यानि कानि च मन्त्राणि कथितानि वरानने ! | जप्तव्यानि च देवेशि ! सर्वतन्त्रेषु निश्चितम् || तथा || भगस्य स्मरणे पुण्यं भगस्य दर्शने तथा | भगस्य स्पर्शनाद्देवि ! यत् पुण्यं सम्प्रजायते | तत् सुखं न जपैर्होमैर्न ध्यानैस्तपसा तथा | पञ्च पञ्च कृते देवि ! यत् पुण्यं भुवि जायते | न तत् पुण्यञ्च सुभगे ! कोटितीर्थस्य दर्शने | जपो होमस्तथा दानं दीक्षा योगादिकल्पना | कृतपञ्चमभक्तस्य कलां नार्हन्ति षोडशीम् || निगमकल्पद्रुमे षष्ठपटले || आवाहनादिरहितां योनि पूजां विधाय च | मूलमन्त्रेण तद्योन्यां पूजयेदिष्टदेवताम् प्. १०८४) | मायाबीजं योनिमन्त्रं तेन तां परिपूजयेत् | स्वशक्त्या भक्तियोगेन पूजयेद्विभवावधि | ततो योनौ शतं मन्त्रं जपेत् साधकसत्तमः | भगे लिङ्गं ततो दद्यादिष्टमूर्तिं विचिन्तयन् | गाढं निपीडयेत्तां तु स्वशक्त्या कुलभैरवः | घाते ब्रह्महत्याशतं हन्यात् सुधाकरः | कामशास्त्रप्रसङ्गेन यथा सन्तोषणं भवेत् | पुनः पुनः कारणादि मुखे दद्यात् सुसाधकः | वीर्यपातादिसमये जपेन्मन्त्रमुदारधीः | ततस्तु द्रव्यमादाय महादेव्यै निवेदयेत् | एवं कृत्वा महादेवि ! जठरे न पुनर्भवेत् | सत्यं सत्यं महादेवि ! ममैतद्योगमुत्तमम् | बहुना किमिहोक्तेन शृणु मत्प्राणवल्लभे ! || वृहन्नीलतन्त्रे षष्ठपटले || अथवा कामरूपस्य दर्शनं यदि जायते | तदा भगादिदेवीनां पूजां तत्र विधीयते | यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते | तदेव मानसीं पूजां तत्र तासां प्रकल्पयेत् | भगिनीं भगजिह्वाञ्च भगास्यां भगमालिनीम् | भगाङ्गाञ्च भगाक्षीञ्च भगवर्णां भगत्वचाम् | भगस्तनीं भगनाशां भगस्थं भगसर्पिणीम् | तत्र सम्पूज्य गन्धाद्यैर्मानसैर्गुरुमेव च | नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः || निगमकल्पद्रुमे || योनिर्वा स्तनपद्मं वा भानु कृष्णसरोरुहम् | चामरं वा नितम्बं वा दर्शनं यदि जायते | तदा जपेन्मन्त्रराजं नमस्कृत्य पुनः पुनः | तेषाञ्चापि महादेवि ! मुक्तिरस्ति करस्थिता | शक्त्याः पादोदकं यस्तु पिबेद्भक्तिपरायणः | उच्छिष्टं वापि भुञ्जीत तस्य सिद्धिरखण्डिता | मद्वाक्ये यदि विश्वासो जायते शिवङ्करि ! | तदा वाक्यं मया प्रोक्तं अन्यथा चेन्न चाचरेत् | यात्राकाले योनितत्त्वमाघ्राय यदि गच्छति | कुन्तलं शिरसा धृत्वा तस्य शत्रुर्विनश्यति | सभायां विजयी भूयाद्राजकार्ये तथैव च | सत्यमेतन्महाभागे ! मम वाक्य वृथा न हि | येन तेन प्. १०८५) प्रकारेण योनिपूजापरायणः | स याति परमं स्थानं देवैरपि सुदुर्लभम् | अत्युत्कटे च योगादा तथैव राजवेश्मनि | महोपद्रवमुत्पाते यदि योनिं प्रपूजयेत् | तदा योनिर्महादेवी चोद्धरेत् | सर्वशङ्कटात् | इतोऽधिकं न किञ्चित्तु विद्यते मम वाक्यतः | सत्यमेतन्न सन्देहो यद्यहं तव वल्लभः | सर्वधर्मं परित्यज्य योनिपूजारतो भवेत् | तदैव परमा प्रीतिर्लज्जाकैवल्यमाप्नुयात् | तोयानाञ्च यथा गाङ्गं गव्यानाञ्च यथा घृतम् | तथा देवि ! मैथुनं मे भवेत् प्रियतमं प्रिये ! || निगमकल्पद्रुमे || ऊरूद्वयञ्च कान्ताया ऊर्वोरुपरि संन्यसेत् | ग्रीवामाक्रम्य पाणिभ्यां स्तनद्वन्द्वं क्वचित् क्वचित् | चुम्बनं बहुधा वक्त्रे बन्धोऽयं कामसुन्दरः | योनौ लिङ्गं समादाय हस्तोपरि पदद्वयम् | केशानाक्रम्य पाणिभ्यां स्तनद्वन्द्वं क्षणे क्षणे | चुम्बनं सर्वगात्रेषु पिबेदोष्ठाधरं मुहुः | दृढघातेन च रमेत् बन्धोऽयं रतिपण्डितः | स्कन्धयोर्विन्यसेत् पादौ योनौ लिङ्गं तथा क्षिपेत् | शिरश्चाक्रम्य हस्ताभ्यां दन्ताघातक्रमात् क्रमम् | चुम्बनं चक्षुर्वदने स्तनयोमर्दनं मुहुः | रमेत् स्वशक्तितः कामी बन्धोऽयं काममर्दनः | उरस्यासनमास्थाय चोरस्यपरमूरुकम् | स्कन्धावाक्रम्य पाणिभ्यां गण्डे चुम्बनपूर्वकम् | रमेच्च सुदृढाघातैर्वन्धोऽयं कामकौतुकः | एवं क्रमेण देवेशि ! बहुबन्धोऽस्ति भैरवि ! | कामरत्नादितन्त्रेषु निशेषेण प्रकाशितम् | विशेषबन्धं सङ्क्षेपात् प्रसङ्गात्त्वयि चोदितम् || अथ षोडशबन्धाः || रतिरहस्ये || बन्धाश्चतुरशीतिः स्युर्मुनिना परिकीर्तिताः | तस्मादाकृष्य लिखिताः षोडश प्रेमहेतवः | पादौ स्कन्धयुगे नार्याः क्षिप्त्वा लिङ्गं भगे लघु | कामयेत् कामुको नारीं बन्धः काकपदो हि सः || पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् | नारीञ्च प्. १०८६) कामयेत् कामी बन्धो वेणुविदारकः || ऊरूमूलोपरि न्यस्य योषिदुरुयुगं यदि | ग्रीवां धृत्वा कराभ्यान्तु बन्धो नागरको मतः || पीडयेदुरुयुग्मेन कामुक यदि सुन्दरी | रतिपाशं समाख्यातं कामिनीनां सुखावहम् || स्त्रीजङ्घान्तरितो दोर्भ्यां गाढमालिङ्ग्य सुन्दरीम् | बन्धयेद्बन्धनम् | कामी बन्धो मायूरसंज्ञकः | नारीपादौ स्वहस्तेन धारयेद् गलके यदि | स्तनार्पितकरः कामी बन्धः स्याद्धि विलासवान् | योषित्पादं हृदि न्यस्य द्वितीयं स्कन्धमाश्रितः | स्तनौ धृत्वा रमेत्कामौ बन्धस्तनभरः स्मृतः | नारीपादद्वयं कामी धारयेत् स्तनमण्डले | धृतकण्ठो रमेन्नारीं बन्धोऽयं रतिसुन्दरः | नार्या ऊरूद्वयं धृत्वा कराभ्यां पीडयेत् पुनः | कामयेन्निर्भरं कामी बन्धोऽयं सुखसङ्गमः | धृत्वा वामकरेणोरुं पादञ्च सिरसि स्थितम् | सुदृढं रमयेत् कामी स्मरचक्रः प्रकीर्तितः | स्वजानुद्वयमध्याभ्यां धारयेन्निर्भरं स्त्रियम् | वामे निःशङ्कितः कामी बन्धोऽयं नागपाशकः | स्त्रीपदद्वयमाकृष्य विमुखः क्षिप्तलिङ्गकः | योनिमापीडयेत् कामी बन्धः कुलिशनामकः | इत्यादिबन्धविन्यासे गाढमुत्पाद्यते सुखं | तस्माद्विदग्धसंघातैर्बन्धाः कार्याः प्रयत्नतः | बन्धः सर्वात्मना कार्यो नायके सर्वथा सुखे | तेन मञ्जायते कामः पुरुषे मैथुने खलु || १६ || स्त्रिय अनीय पूर्वार्द्ध चिवुकैः पृष्ठतः क्रमात् | धृत्वोदरे रमेत् पश्चात् बन्धोऽयं रतिसुन्दरः | शययासीनस्तनी नारी उत्क्षिप्तजघनी यदि | कान्तं कामयते पश्चात् बन्धोऽयं कवर्गसङ्गमः || इत्यधोमुखौ द्वौ कर्तव्यौ || उद्धृत्य पादमेकन्तु संस्थाप्य चापरं भुवि | कुड्याश्रितां रमेत्कामी बन्धो दोलायितः स्मृतः | पादाभ्यां मध्यमावेष्ट्य समालिङ्ग्याशु सुन्दरीम् | चुम्ब्य मुखं प्रियायास्तु बन्धो नागेश्वरो मतः || स्त्रियं सुखं प्. १०८७) समालिङ्ग्यानुचुम्ब्य च मुखं मुहुः | प्रियायाः कटिमाकृष्य स्वकण्ठे धारयेत् प्रियाम् | कामचालनमेवाशु प्रदद्यात् पुरुषो दृढः || नारीपादद्वयं कृत्वा कान्तस्योरुद्वयोपरि | कटिमालोकयेद्यस्तु बन्धोऽयं सपदः स्मृतः | कान्तक्रीडे स्थिता नारी भूमौ दत्तपदद्वया | हृदये दत्तहस्ता च बन्धो लीलानलोत्तमः || वीपरीतरतिः || भगनिःक्षिप्त लिङ्गायाः सुन्दर्या लेढितं प्रियम् | तथा संपुटकञ्चेति नारीलिङ्गप्रवर्तनम् || इति सुखरतम् || इति श्रीप्राणतोषिण्यां पञ्चपुष्पस्तवकान्वितं सप्तमं निर्गुणज्ञानकाण्ड समाप्तम् || अथौषधम् || मत्स्यसूक्ते एकविंशति पटले || दीपं कृत्वा ताम्रपात्रे कज्जलं पातयेदथ | गवां घृतेन चालोड्य चक्षुषी त्वथ रञ्जयेत् | जन्मान्तरे यथा रूपं तादृशञ्च प्रपश्यति || १ || काकमाची दक्षमूलं शिखायां धारयेत्तु यः | निद्रां करोति देवेशि ! अर्द्धशूलं हरत्यपि || २ || कृष्णतुलस्याः पत्ररसं मधुना सारनालकम् | तैलेन संयुतं कृत्वा मन्दाग्नौ तापयेत्ततः | कर्णे तु तापयेद्देवि ! कर्णकौट्वादिकं हरेत् || ३ || भृङ्गराजं सारनालं अर्द्धशूलं हरेदथ || ४ || जम्बु पत्ररसेनापि कर्णस्य परिपूरणात् | कर्णकीटः पतेदाशु रात्रौ दद्यान्न संशयः || ५ || सहदेवामूलपत्रं कर्णे बद्ध्वा व्यथां हरेत् || ६ || हस्तिशूण्डापत्ररसैश्चक्षुषी परिपूरयेत् | चक्षुर्व्यथां हरेदाशु तथा वृहदसोर्मणी || ७ || शुण्ठीनिम्बदलरसं पिष्ट्वा चक्षुश्छदे प्रिये ! | विलेपयति पञ्चम्यां चक्षुशूलं विनश्यति || ८ || अपामार्गस्य मूलञ्च रोचना सरलं तथा | गव्यमुस्तकसंयुक्तं ताम्रपात्रे तु पेषयेत् | अञ्जनाच्चक्षुषो देवि ! सर्वशूलं विनश्यति || ९ || तुलस्या कृष्णपत्रस्य रसेन कटुतैलकम् | लवणं वारनालञ्च प्. १०८८) भौमवारे प्रदानतः | चक्षुश्छदे महेशानि ! पटलं याति संक्षयम् || १० || अजवृक्षोग्रमांसञ्च महिषस्य तथैव च | गोधामांसञ्च तज्जिह्वां भौमवारे तथा निशि | खादिराग्नौ पचेद्देवि ! क्षणाद्रात्र्यन्धनाशनम् || ११ || कार्पासकोमलफलत्रयं स्वात्यां समाहरेत् | चर्वित्वा चक्षुषोर्देवि ! पूरणाच्च विनश्यति || १२ || चक्षुरोगे न सन्देहास्तिमिरस्य तथा शृणु | रक्तचन्दनसंयोगान्मधुना सह रौद्रके | कियदुष्णमञ्जनाच्च तिमिरं हन्ति सुन्दरि ! || १३ || मधुयुक्ते वटफले पृष्ठे चक्षुषि लेपनात् | तथा रोगं हरेदाशु तथैव च पुनर्णवाम् || १४ || घृतेन भर्जितां भक्षेत् चक्षुस्तेजस्करं महत् || १५ || निम्बनिर्यासपत्रं वा तैलेन सह भक्षणात् | चक्षुस्तेजस्करं देवि ! पामरीशूलदण्डकम् | नारिकेलोदकसमं तथा रोगं हरत्यपि || १६ || त्रिफला गुडसयुक्ता गुडमार्द्रकसंयुतम् | द्वाभ्यां प्रभाते देवेशि ! क्षणात् कामलनाशनम् || १७ || धात्रीं तप्तोदकैर्भक्षेत् तथा रोगो विनश्यति | पुराणकण्टकी मज्जा तथा वासन्तिकालभा | शर्षपस्योग्रतैलेन किञ्चिदुष्णेन भावयेत् | त्रिवारं लेपनादेव सर्वां हन्ति विचर्चिकाम् || १८ || चलदलस्य त्वचा शुष्कं दग्ध्वा सर्षपतैलके | एरण्डतैलैर्वा देवेशि ! उष्णेन परिलेपनात् | एतद्विचर्चिकां हन्ति तालमूलो तथैव च || १९ || वनमरीचवीजेन तमःपक्षे विशेषतः | अजादुग्धसमेतेन लेपात् सर्वविचर्चिकाम् | हन्ति देवि ! न सन्देहस्तथाजीपलमूलकाम् || २० || मानं शुष्कं ततो दग्धा शङ्खचूर्णेन लेपयेत् | गात्रविचर्चिकां हन्याल्लेपाद्वारत्रयेण तु || २१ || मानं शुष्कं पुराणञ्च घृतेन सह भक्षणात् | अङ्गवातं हरेदाशु पटुस्थक्षणमर्कटम् || २२ || त्रिवर्षीयं समानीय देशिमानञ्च पार्वति ! | क्षतं कृत्वा ततो लेपाद्ग्रन्थिवातहरं परम् || २३ || प्. १०८९) मधुसैन्धवसंयुक्तं कोलमत्स्य समन्वितम् | चकशां मूलकं पक्त्वा शासुल्लेन वरानने ! | वातघ्नं परमं देवि ! तापघ्नं नात्र संशयः || २४ || सर्ववाते मर्दनञ्च तिलतैलेन पार्वति ! | तथा क्रौञ्चस्य तैलेन नागतैलेन वा प्रिये ! || २५ || शुशुतैलेन दुग्धेन अजाक्षीरेण भावयेत् | श्रीपदं वातिकं हन्ति कटिवातं तथैव च || २६ || उन्मत्तं कुम्भरूपञ्च विशाढकीयपत्रकम् | समूलमटसारञ्च वासकं रामवासकम् | योगपत्रं सभेरण्डं मृदःकुम्भे विनिःक्षिपेत् | अर्काग्नौ तापयेद्देवि ! पुनः पिण्डन्तु कारयेत् | अर्कमूल पुनर्द्रव्यं स्नुहीमूलसमन्वितम् | स्वदयेत् सर्ववातेषु त्रिदिनेन विनश्यति || २७ || तुलसीमूलवीजानि कुमारीवीजमेव च | प्रलेपात् सर्वकुष्ठघ्नं जलसारञ्च नश्यति || २८ || हस्तिकर्णं तुलायाञ्च समुद्धृत्य वरानने ! | स्नुहीमूलं विल्वमूलसमरीचं सशर्करम् | तोलं तोलञ्च सप्ताहात् महावातविनाशनम् || २९ || कलिवृक्षत्वचं देवि ! गले बद्ध्वा विशेषतः | ओकस्य नाशनं प्रोक्तं पामरीशूलकं तथा || ३० || तिन्तिडौवीजकं पिष्ट्वा तक्रेण सहयोगतः | पानादीकं हरत्याशु वस्तावामस्य वीजकम् || ३१ || दन्तमासं हरेदाशु वार्तकीबीजकैस्तथा | पक्ववार्ताकुना स्वेदात् करोषाग्नी तथा हरेत् || ३२ || श्वेतापराजितामूल तथा वास्युदकेन च | मुखमध्ये प्रलेपाच्च जाड्यं नाशयति ध्रुवम् || ३३ || श्वेतगुञ्जा समुत्पाट्य नक्षत्रे पुष्पके तथा | प्रलेपात्तत्क्षणाद्देवि ! विषरोगो विनश्यति || ३४ || नीलकण्ठं मधुयुतं तथा रोगविनाशनम् || ३५ || श्वेतापराजितामूलं तथा श्वेतजयन्तिकाम् | श्वेतचित्रकमेतेन कारयेद्गुलिकां ततः | स्वात्यां चन्द्रोदये देवि ! समुत्पाट्य विधानतः | भाले च तिलकं कृत्वा वशीकरणमुत्तमम् || ३६ || पलाशबीजं समधु घृतेन सह प्. १०९०) पेषयेत् | भक्षणान्मासमात्रन्तु वलीपलितनाशनम् || २७ || वृहतीनीलकण्ठानां त्रिफलालवणैः सह | दन्ते विलेपनाद्देवि ! दन्तशूलं हरत्यपि || ३८ || छागमांसमजाक्षीरं भुक्त्वा शाल्युदकैः सह | यक्ष्मकुष्ठादिक हन्ति तालमूली तथैव च || ३९ || नागकेशरमूलञ्च मधुना च तथा हरेत् | यष्टोमधुसमन्त्वास्ये तथा हन्यान्न संशयः || ४० || तस्य पत्रपक्वपानात् सर्वज्वरनिवारणम् || ४१ || मधुना सह पानाच्च शातकाले ज्वरं हरेत् || ४२ || अनुदितार्के चोद्धृत्य सवज्वरहरं प्रिये ! श्वेतापराजितामूल पुष्यार्के धारणात्तथा | अपामार्गस्य च तथा कन्यकासूत्रबन्धने || ४३ || ज्वरं हन्यान्महेशानि ! स्वात्यां वा विष्णुभे प्रिये ! | रक्तवाट्यालमूलञ्च अर्कवारे विशेषतः | निर्वेष्ट्य कदलीसूत्रैः शययायां दापयेत्ततः | सर्वज्वरं ततो हन्यात्तथा तापज्वरापनुत् || कुद्दालस्य त्वचञ्चैव अर्जुनस्य त्वचं तथा | घृतेन सह पानाच्च सर्वकासं हरत्यपि || ४५ || नागेश्वरस्य मूलञ्च मधुना सह शङ्करि ! | पानाच्च चोदरं हन्ति विष्णुक्रान्ता तथैव च || ४६ || पिप्पलीं सैन्धवयुतां पाययेन्मधुना समम् | मूत्रस्रावं ततो हन्यात् सप्ताहान्नात्र संशयः || ४७ || विल्वमूलं सगुडूचीं मधुना पाययेत्ततः | वान्तं हन्ति न सन्देहो मातुलुङ्गस्य वीजकम् || ४८ || पलाशबिजं सिद्धार्थं मधुतैलसमन्वितम् | भक्षयत् समभागेन ज्वरां हन्ति न संशयः || ४९ || तिलकल्के समं युक्तं तथा भल्लातकं प्रिय ! | अत्यग्निर्जायते देवि ! त्रिरात्रेण न संशयः || ५० || चन्द्रमूलींपिप्पलीं च शुण्ठीञ्च मरिचानि च | पुरातनगुडेनापि गुलिकां कारयेत्ततः | अत्यग्निर्जायते शीघ्रं भक्षणात् शैवयोगतः || ५१ || काकोलूकस्य पक्षेण दद्याद्धूपं विचक्षणः | विनाशयति तत्भीतिं तथा प्. १०९१) जङ्गमवारणे || ५२ || नीलकण्ठस्य पक्षञ्च भुजगस्य च कञ्चुकम् | समभागे कृतं धूपं पूर्ववद्भवति ध्रुवम् || ५३ || हयमारस्य रक्तस्य गृहीत्वा कुसुमं बुधः | अम्लं सवेतसञ्चैव सन्मार्ज्यं तेन दर्पणम् | अश्वोष्ट्रगर्द्धभानाञ्च रूपं पश्येदनन्यधीः || ५४ || शूकराश्वगर्द्धभस्य वानरस्य तथैव च | गृह्णीयात्तु नखं तावत् पुटाग्नौ दाहयेत्ततः | पश्चान्मण्डूकवशया दर्पणं मार्जयेदथ | तेषां रूपाणि संपश्येन्नात्र कार्या विचारणा || ऋतुमत्या दुर्भगायास्तद्दिनावधि सप्तके | वासरे शर्षपान् श्वेतान् योनौ पक्षेपयेद्बुधः | भक्ष्यैस्तैः शर्षपैर्योऽयं स्पृशत्येतेव तं व्रजेत् || अङ्कोठवृक्षवीजस्य गृह्नीयात्तैलमेव तु | मोचिके तु ततो वृश्चत्तस्य दोहदमेव च | बलपुष्टिकरञ्चैव आयुर्वृद्धिकरं परम् || जम्बोरफलपत्रञ्च सैन्धवेन समन्वितम् | दन्तलेपं भवेत्तीक्ष्णं माषपुष्पं घृतौदनम् | आयुर्वृद्धिकरञ्चैव चिरकाले बलं भवेत् || कूर्ममांसे बलं हीनं मांसञ्च कोरकस्य च | अल्पायुर्याति वै शीघ्रं हंसमांसेन पार्वति ! || पूगस्य शीकरञ्चैव स्नुहीकर्दमसंयुतम् | मांसयुक्ते अर्कदुग्धं मन्दारफलसंयुतम् | वाते रजनिसंयुक्तं तालमूली सभक्तकम् | मछक्ती च छदे दद्याज्जिह्वारोगे कुलेश्वरि ! | पर्पटं गुडसंयुक्तं दधिभक्तं निवेदयेत् | उष्णं कृत्वा पाययेच्च नाभौ संलेपयेत्ततः | अशोकमूलं पिन्याकं कफरोगे गलग्रहे | अण्डरोगे पर्णशिरां माणमूलन्तथैव च | तालमूलञ्च कुष्माण्डं वातसारे शिरौषकम् || त्रयोविंशति पटले || दन्तशूले मारुतञ्च सैन्धवं पिप्पलीयकम् | समूलं दन्तिसारञ्च दन्तरोगोपशान्तये | क्षते कौटे प्रजाते च मन्दाराग्रं सचूर्णकम् | स्नुहीक्षीरसमेतञ्च | कीटः पतति तत्क्षणात् || इति गवादीनां क्षते प्रत्यक्षं द्रष्टव्यम् || प्. १०९२) अथ वक्ष्ये महेशानि ! तुरगाणां चिकित्सितम् | वान्ते दद्यात् पललतां शृङ्गवेरं सपिप्पलीम् | यमानीं नारिकेलञ्च मुण्डवासकमूलकम् | कोषलञ्च गुडञ्चैव पिण्डं तापहरं परम् || जीरं सर्जरसं कोलं दूर्वाधन्याकसंयुतम् | योगपत्रं गिमाशाकं मरीचं लवणान्वितम् | वासन्तीमूलसहितं त्रिपुण्ड्रन्तु श्रमापहम् | वृहत्पानीयमूलपत्रं सङ्कस्य बीजपत्रकम् | शृङ्गवेरं यवञ्चैव हरिद्राद्वयमेव च | एतत्पिण्ड वातहरे बलपुष्टिकरं परम् | अरण्यवदरीं सूक्तिं कानने रामवासकम् | खर्जूरस्य च बीजेन सगुडेन ज्वरं हरेत् | धान्यमूलं रविमूलं कालञ्जरसमन्वितम् | सोमधान्येन तद्दद्याच्छर्दिकारोगनाशनम् || तथा || अपामर्गं विडङ्गञ्च सैन्धवं नागकेशरम् | सैन्धवेन समायुक्तं पक्षिरोगो विनश्यति | चर्चिकायान्तु भेकस्य तैलं भेरुण्डकस्य च | निशायोगेन दातव्यं सर्वकुष्ठविनाशनम् || नागेश्वरस्य तैलेन मधुवृक्षस्य चूर्णितम् | दग्धं कृत्वा ददेल्लेपं नश्येद्देवि ! विचर्चिका || षड्विंशति पटले || दानवस्य च पुष्पाणि धृतसिक्तानि भक्षयेत् रक्तस्रावं ऋतुस्नानं जलन्धारञ्च नश्यति || उत्तराशामुखो भूत्वा कन्यासूत्रेण वेष्टयेत् | विष्णुक्रान्तामपामार्गं तथा जीरमरीचकम् | एककेन पिबेत् पीत्वा सुखं सूयेत गर्भिनी | माहीषनवनीतेन तथा कविकलाक्षतम् | विलिप्य ताभ्यां देवेशि ! लिङ्गं स्थलं भवेदनु | रक्तभेरण्डमूलञ्च तथा | चलदलपद्मकम् | मरीचञ्च प्रियङ्गुञ्च पिष्ट्वा लिङ्गं विवर्धयेत् || गुवाकपुष्पमेकन्तु गोक्षीरेण समं पिबेत् || स्वात्यां वा जन्मदिवसे अपुष्पा पिष्पिता भवेत् || हस्तिशूण्ड्यास्ततो मूलं कलविङ्कस्य नासिकाम् | घृतेन भर्जितं भक्षेदिन्द्रियः प्रबलो भवेत् || प्. १०९३) नागार्जुनकृतकक्षपुटे द्वितीयपटले || भूदारवटमूलञ्च जलेन सह घर्षयेत् | विभूत्या संयुतं देवि ! तिलकं लोकवश्यकृत् || १ || पुष्ये पुनर्नवामूलं रुदन्तीं मूलिकां तथा | यवमूलं तथा बध्वा कण्ठे सप्ताभिमन्त्रितम् | पूज्यो भवति सर्वत्र मन्त्रमत्रैव कथ्यते || ऐं पुरं क्षोभय भगवति गम्भीरे ल्कौ स्वाहा | अमुं मन्त्रमयुतद्वयं जपेत् ततः सिद्धिः || १ || उग्रातपत्रमञ्जिष्ठा कुङ्कुमं तगरं समम् | स्नाने पाने तथा स्पर्शे दत्तं वश्यं भवत्यलम् || २ || सिंहीमूलं हरेत् पुष्ये कट्यां बद्ध्वा जगत्प्रियः || ३ || निशि कृष्णचतुर्दश्यां महानीलीं श्मशानतः | उद्धृत्य नरतैलेन चाञ्जनेनैव वश्यकृत् || ४ || तन्मूलं बन्धयेद्धस्ते सर्वलोकप्रियो भवेत् || ५ || चन्द्रं पुष्ये समुद्धृत्य ब्रह्मदण्डीय मूलकम् | भोजने सर्वसत्वानां वशीकरणमुत्तमम् || उलूकहृदयं तुल्यं कुमार्या रोचनं सुधीः | अञ्जने रोचने वश्यमानयेद्भुवनत्रयम् || ६ || ओं नमो यक्षिणि अमुकं वशमानय स्वाहा ओं | अस्य मन्त्रस्य पूर्वमेवायुतं जप्त्वा तत उग्रातपत्रादि सर्वप्रयोगाः | शतवारमभिमन्त्रिता सिद्धा भवति चोषधिः | सर्वेषामेव मन्त्राणां मन्त्रध्यानं पृथक् पृथक् | तत्तत्स्थाने यथासङ्ख्यमनुक्ते त्वयुतं जपेत् | मृगशीर्षे तु सङ्ग्राह्यं सुरक्तकरवीरकम् | नवाङ्गुलं कीलकं तत् सप्तवाराभिमन्त्रितम् | यस्य नाम्ना खनेद्भूमौ स वश्यो भवति ध्रुवम् | ओं हु/ हु/ स्वाहा | शतमष्टोत्तरं जप्त्वा पूर्वमेवारभेन्नरः || ७ || तृतीय पटले || कुङ्कुमं चन्दनञ्चैव रोचनं सशिमिश्रितं | गवां क्षीरेण तिलकं राजवश्यकरं परम् | ओं ह्रीं सः अमुकं वशं कुरु कुरु स्वाहा | पूर्वमेव सहस्रं जप्त्वा ततोऽनेन मन्त्रेण पूर्ववत् तिलकं कुर्यात् | ओं ह्रीं रक्तचामुण्डै कुरु कुरु अमुकं वशमानय स्वाहा | इति चामुण्डामन्त्रैः सर्वसिद्धो भवति || मञ्जिष्ठा प्. १०९४) कुङ्कुमञ्चैव बाला मोदा कुमारिका | चिताभस्म स्वरक्तञ्च नियमैरेव भावयेत् | पुष्येण गुटिकां कृत्वा भक्ष्ये पाने च दापयेत् | पृष्टो वा राजवश्यः स्यात् चण्डमन्त्रप्रभावतः || ८ || अथ विवादजयः || गोजिह्वा शिखिमूला वा मुखे शिरसि संस्थिता | कुरुते सववादेषु जयं पुष्ये समुद्धृता | मार्गशीर्षे तु पूर्णायां शिखिमूलं समुद्धरेत् | वाहौ शिरे शिखे धार्यं विवादे विजयो भवेत् | बन्धनान्मुच्यते जन्तुः शिखामन्त्रान्न संशयः || २ || मेघनादस्य मूलञ्च चक्रस्यान्तरवेष्टितम् | परदारी भवेन्मूकोऽथवा याति दिगन्तरम् | निशि कृष्णचतुर्दश्यां महानीलीं श्मशानतः | आदाय बन्धयेद्धस्ते विवादे विजयो भवेत् | श्वेतगुञ्जान्वितं मूलं मुखस्थं दुष्टतुण्डजित् | उक्त योगानां चण्डमन्त्रेण सिद्धिः || मन्त्रस्तु ओं सुदर्शनाय हुं फट् स्वाहा | पूर्वमेवायुतं जप्त्वा चण्डमन्त्रस्य सिद्धये | ततो ह्यौषधियोगश्च सप्ताभिमन्त्रितो भवेत् || ४ || शुक्लपक्षयुते पुष्ये गुञ्जामूलं समुद्धरेत् | बद्धं शिरसि तत्सर्वं चौरवाधाहरं परम् || योगसारे प्रथमपरिच्छेदे || देवीवाक्यम् || व्याधिनाशमहं वक्ष्ये पलमात्रं घृतं पिबेत् | पठित्वानेन मनुना यः पिबेत् साधकोत्तमः | सर्वव्याधिविनिर्मुक्तो भवत्येव न संशयः | मन्त्रं तस्य प्रवक्ष्यामि शृणु मद्भैरवोत्तम ! | तारं माया भृगुः शम्भुः पुनर्भृगुरुदाहृतः || सृष्टियुक्तो गुरुश्चैव तथा चन्द्रः शिवः स्मृतः | एतन्मन्त्रं समाख्यातं घृतशुद्धिरितीरितम् || १ || तृष्णानाशं प्रवक्ष्यामि रक्तचन्दनतोलकम् | घर्षयित्वा वामहस्ते गृहीत्वा साधकोत्तमः | तोलकं जलसंमिश्र्य मनुनाष्टोत्तरं शतम् | तत्तदुपरि संजप्य यः पिबेत् साधकोत्तमः | सप्ताहाज्जायते तस्य तृष्णानाशस्तु भैरव ! | प्. १०९५) सर्वेषां भक्षणं प्रोक्तं सप्ताहञ्च कुलेश्वर ! | सर्वमष्टोत्तरशतं पिबेज्जप्त्वा च साधकः | शब्दबीजद्वयं भद्रे ! नाशयद्वितयं वदेत् | तृष्णेति पदमुच्चार्य ततः स्वाहा मनुर्मतः | अनेन मनुना देव ! तृष्णानाशोऽभिजायते || २ || आहारनाशनार्थाय कृष्णचित्रां समाहरेत् | तोलार्द्धं वा तदर्द्धं वा तदर्द्धं वा सुरेश्वर ! | आनीय मनुनानेन वटिकां कार्येद्बुधः | घृतेनालोड्य देवेश ! मनुनानेन भक्षयेत् || कामबीजं समुच्चार्य क्षुन्नाशिनि पदं ततः | निवारयपदं चोक्त्वा स्वाहेति च मनुर्मतः || ३ || अथवान्यप्रकारेण क्षुन्निवृत्तिर्विधीयते | हविष्याशौ भवेदादौ पश्चाज्जपति मातृकाम् | पश्चाद्घृतं प्रयोक्तव्यं मनुनानेन शङ्कर ! | हसौर्वा येन मनुना भक्षयेत् साधकोत्तमः || ४ || अथवा सर्पिषा देव जिह्वामालोड्य यत्नतः | यावदोष्ठं परिव्याप्तं जिह्वया कुलभैरवः ! | तावत्प्रमार्जयेज्जिह्वां यावदोष्ठसमां नयेत् | अनेनैव प्रकारेण क्षुन्निवृत्तिर्भविष्यति || ५ || अथवान्यप्रकारेण क्षुन्निवृत्तिर्विधीयते | प्रत्यहं विजयाधूमं ब्रह्मरन्ध्रेण मन्त्रवित् | पानं करोति देवेश ! क्षुन्नाशो जायते ध्रुवम् | ब्रह्ममन्त्रमहं वक्ष्ये येन क्षुन्नाशनं भवेत् | सम्बर्तकचन्द्रवह्निभौतिकी बिन्दुसंयुतः | एवं वीजत्रयं देव ! समुच्चार्य कुलेश्वर ! | अनेन मनुना देव ! विजयाधूमशोधनम् | शोधयित्वा पिबेद्धूमं न दोषो जायते हर ! || ६ || अथ मूत्रप्रनाशार्थं वक्ष्यामि मन्त्रमुत्तमम् | अश्वगन्धां समानीय अस्त्रमन्त्रेण मन्त्रयेत् | तोलकं सर्पिषा देव ! मिश्रयित्वा पिबेत् सुधीः | लिङ्गमूले कामबीजं जप्त्वा च स्तम्भयेद्धिया | द्वात्रिंशत्तोलकं दुग्धं मरीचं तोलकद्वयम् | सम्मिश्र प्रपचेद्यत्नाद्यावत् शुष्कं समानयेत् | ततो वै वाग्भवं जप्त्वा भक्षयेत् साधकोत्तमः अनेनैव प्. १०९६) विधानेन मूत्रनाशोऽभिजायते || ७ || पुरीषनाशनार्थाय विडङ्गं तोलकद्वयम् | पिप्पलीतोलकं ग्राह्यं शुण्ठीञ्च तोलकत्रयाम् | तेजपत्रस्य क्षारेण मिश्रयित्वा जपेन्मनुम् | शतमष्टोत्तरं जप्त्वा मिश्रयेद्बहु यत्नतः | मन्त्रं तस्य प्रवक्ष्यामि शृणुष्वाननभैरव ! | श्रीर्माया वाग्भवञ्चैव शक्तिवीजत्रयं तथा | शिववायुजलं पृथ्वी वह्निजाया ततः परम् | मन्त्रयित्वा पिबेद्द्रव्यं पुरीषं नाशयेद् ध्रुवम् || ८ || शुक्रस्तम्भं प्रवक्ष्यामि शृणु मद्भैरवोत्तम ! | पिष्ट्वा चैरण्डकं मूलं नाभिमूले विलेपयेत् | रोहितमत्स्यपित्तेन तन्मूलं लेपयेच्छिव ! | शब्दवीजैर्मन्त्रयित्वा स्तम्भयेत् शुक्रशोणितम् | शब्दबीजं समुद्धृत्य मर्दयेदस्त्रमुच्चरन् | स्तम्भयेन्नियतं शुक्रं तथोक्तं कुलसुन्दर ! | मन्त्रेणानेन शुक्रस्य स्तम्भनं कारयेद्बुधः || ९ || शुक्रस्तम्भनकं प्रोक्तमालस्यनाशनं शृणु हुङ्कारध्वनिमाहूय करतालद्वयं द्वयम् | कृत्वा वेतालमूलञ्च पिष्ट्वा यो भक्षयेत् सुधीः || फट्कारैर्मन्त्रयित्वा च तालमूलं पिबेत् सुधीः | ततो मधु पिबेद्धीमानालस्यनाशनं भवेत् || १० || निद्रानाशं प्रवक्ष्यामि शृणुष्वानन्दभैरव ! | अलक्तकं तोलकार्द्धं तोलार्द्धं कटुतैलकम् | श्वेतधूपं मिश्रयित्वा मनुना मन्त्रयेत् सुधीः | मनुं तस्य प्रवक्ष्यामि येन निद्राक्षयो भवेत् | निद्रा यमसमादेव ! निद्रा व्याधिकरी मता | निद्रायां सर्वदोषः स्यान्निद्रया ज्ञाननाशनम् | निद्रया लीयते सर्वं निद्रया नरकं व्रजेत् | तस्माद्यत्नेन कर्त्तव्यं निद्रानाशन्तु भैरव ! | सम्बर्तं वह्निसंयुक्तं चन्द्रखण्डसमन्वितम् | क्रमात्त्रयं समुद्धृत्य वह्निजायां परे वदेत् | शतमष्टोत्तरं जप्त्वा मर्दयेद्बहुयत्नतः | प्रत्यहं चक्षुषोर्दद्यान्निद्रानाश इतीरितः || ततो जपेद्वाग्भवन्तु चक्षुषोर्मध्यभागयोः | ततो ध्यायेत् कुलगुरुं कुलदेवीं प्रयत्नतः | प्. १०९७) प्रार्थयेद्बहुयत्नेन निद्राया नाशनं द्रुतम् | ओं निद्रेदेवि ! महामाये ! जगन्निर्वाणकारिणि ! मां जहि त्वं जगद्धात्रि ! मां जहि परमेश्वरि ! | प्रणवं पूर्वमुच्चार्य निद्रापतिपदं ततः | निद्रापतिपदं ब्रूयात् ततो ब्रूयात् सनातनी | वह्निजायां ततो ब्रूयात् निद्राक्षयमनुर्मतः | एतन्मन्त्रजपादेव निद्रानाशो भवेद् ध्रुवम् | शतमष्टोत्तरं वापि सहस्रं वा कुलेश्वर ! | जप्त्वा निद्रा क्षयं याति क्रिमन्यत् कथयामि ते | अत्र स्थितवृ?त्यध्याहाराज्जप्तेत्यनेनैककर्त्तृकता || ११ || अथान्यत् सम्प्रवक्ष्यामि चेन्द्रियाणाञ्च निग्रहम् | योनितन्त्रोक्तमार्गेण कुलाकारं करोति हि || कान्तां मनोरमां देव ! आनीय बहुयत्नतः | जयेत्तेन मार्गेण कामयेद्बहुयत्नतः || एवं सत्कारयोगेन शुक्रस्तम्भो भवेन्नृणाम् || यस्य यद्देवताभावो यद्रूपा देवता स्मृता | तत्तद्रूपजगत्सर्वं || ध्यात्वा च मदिरां पिबेत् || ततः प्राणायामयोगे वायुञ्चापि वशं नयेत् | ततो घृतं समालोड्य नालमूलं तथा शिव ! | पिष्ट्वा पूर्वोक्तमनुना जप्त्वा च साधकः पिबेत् | सर्वव्याधिविनिर्मुक्तो नरो भवति तत्क्षणात् || गुरुपादरजो ध्यात्वा मधुमांससमन्वितम् | सुरायुक्तं महादेव ! मर्दयेद्बहुयत्नतः | ततः पूर्वोक्तमन्त्रेण सम्मन्त्र्याष्टदिनं पिबेत् | एवं संस्कारयोगेन तृष्णानाशो भवेद् ध्रुवम् || ३ || कुलेश्वरीं ततो ध्यात्वा कृष्णचित्रां ततः पिबेत् | ततः पिबेन्मद्यमांसं घृतं वा कालभैरव ! | एवं संस्कारयोगेन क्षुन्नाशो जायते ध्रुवम् || वाक्चिन्तामणिनिर्मितातिवितता सर्वैर्गुणैरन्विता | साक्षात्कल्पलताश्रितार्थसहिता विश्वोपकारे हिता || ध्यात्वा विज्ञसभाजितातिफलिता श्रीप्राणतोषिण्यसौ || द्रष्टव्या भवता सता मतिमता शुभ्रातिशुभ्रा लता || इति श्रीप्राणतोषिणी समाप्ता ########### END OF FILE #######